पद्म पुराण · अध्याय 6.163
महादेव उवाच।
तीर्थानां प्रवरं तीर्थं महापातकनाशनम् ।
गोतीर्थमिति विख्यातं काश्यपह्रदसमीपतः
यानि कानि च पापानि ब्रह्महत्या समानि च ।
गोतीर्थे तु ततः स्नात्वा नश्यंते नात्र संशयः
गावः कृष्णां तनुं प्राप्य पूर्वपातकयोगतः ।
यत्र तीर्थे ततः स्नात्वा शुक्लत्वं पुनरागताः
तत्र तीर्थे नरः स्नात्त्वा दत्वा गोभ्यो गवाह्निकम् ।
गोमातॄणां प्रसादेन मातॄणामनृणी भवेत्
गोतीर्थे तु नरो गत्वा स्नात्वा गां तु पयस्विनीम् ।
ददाति विप्रमुख्येभ्यः स याति ब्रह्मणः पदम्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तर।
खंडे साभ्रमतीमाहात्म्ये गोतीर्थंनाम त्रिषष्ट्यधिकशततमोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0