भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.152

6.152.1

महादेव उवाच।
तीर्थानां प्रवरं तीर्थं साभ्रमत्यास्तटे स्थितम् ।
बालाप इति विख्यातं भुक्तिमुक्तिप्रदायकम्

6.152.2

तपस्विधारितं तीर्थं विबुधानां समाश्रयम् ।
तत्र कन्या तपस्तेपे परमं सुदृढव्रता

6.152.3

कन्या कण्वमुनेः साध्वी रूपेणाप्रतिमा भुवि ।
बाला बालावती नाम कुमारी ब्रह्मचारिणी

6.152.4

व्रतं चचार सावित्र्या नियमैर्बहुभिर्युता ।
भर्ता मे भास्करो भूयादिति निश्चित्य भामिनि

6.152.5

समास्तस्य समाक्रांता दश साभ्रमतीतटे ।
चरंत्या नियमांस्तांस्तान्भक्त्या परमदुश्चरान्

6.152.6

तस्यास्तु तेन व्रतेन तपसा व्रतचर्यया ।
भक्त्या च भगवान्प्रीतः परया भक्तिसंपदा

6.152.7

आजगामाश्रमपदं देवदेवो दिवाकरः ।
आस्थाय रूपं विप्रर्षेः प्रविष्टस्तु महामनाः

6.152.8

सा तं दृष्ट्वोग्रतपसा वरिष्ठं ब्रह्मवित्तमम् ।
वानप्रस्थविधानेन पूजयामास तं द्विजम्

6.152.9

उवाच रविभक्ता सा कल्याणी तं तपोधनम् ।
भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो

6.152.10

सर्वं तुभ्यं यथाशक्ति दास्यामि स्वतनुं विना ।
सूर्यभक्तास्मि ते पाणिं दास्यामि न कथंचन

6.152.11

व्रतैश्च नियमैश्चापि तपोभिश्च तपोधन ।
सूर्यस्तोषयितव्यो मे देवस्त्रिभुवनेश्वरः

6.152.12

इत्युक्तवत्यां तस्यां तु स्मयन्निव निरीक्ष्य ताम् ।
उवाच नियमस्थां तां सांत्वयन्निव भास्करः

6.152.13

उग्रं चरसि कल्याणि तपः परमदुष्करम् ।
यदर्थं च समारंभस्तव बाले तथैव तत्

6.152.14

तपसा लभ्यते सर्वं सर्वं तपसि तिष्ठति ।
देवत्वं प्राप्यते भद्रे तपसा मोक्ष एव च

6.152.15

इमानि पंच सुभगे बदराणि प्रतीच्छ मे ।
दत्त्वा स बदराण्यस्यै पचेत्युक्त्वा रविर्ययौ

6.152.16

अपृष्ट्वा तां तु कल्याणीं ब्रह्मरूपी विहाय ताम् ।
स्थितोऽसौ नातिदूरेण इंद्रग्रामे महायशाः

6.152.17

स्थित्वा जिज्ञासया भावं तस्याश्च ब्राह्मणो रविः ।
बदराणामुपवनं कारयामास भास्करः

6.152.18

ततः सा प्रयता बाला प्रांजलिर्विगतश्रमा ।
पाकाय बदराणां सा पावकं समधिश्रयत्

6.152.19

अपचत्परमा देवि बदराणि महाप्रभा ।
तस्याः पचंत्याः सुमहान्कालोऽगाच्च सुरेश्वरि

6.152.20

भस्मपुंजो महान्जातो दिनं च क्षयमन्वगात् ।
हुताशनेन दग्धस्तु महान्वै काष्ठसंचयः

6.152.21

पादौ प्रक्षाल्य सा पश्चात्पावके चारुदर्शने ।
ददाह बदरार्थं च ब्राह्मणप्रियकाम्यया

6.152.22

दग्ध्वा दग्ध्वा पुनः पादौ उपर्या धार्यतेऽनघे ।
अथास्याः कर्म तद्दृष्ट्वा प्रीतो देवो दिवाकरः

6.152.23

ततः संदर्शयामास कन्यायै रूपमात्मनः ।
उवाच परमप्रीतस्तां कन्यां सुदृढव्रताम्

6.152.24

सूर्य उवाच।
प्रीतोऽस्मि बाले भक्त्या ते तपसा व्रतचर्यया ।
यस्मादभिमतः कामो बाले संपद्यतां तव

6.152.25

अस्मिंस्तीर्थे तपोयुक्ता मद्गृहे त्वं निवत्स्यसि ।
इदं च तीर्थप्रवरं तव नाम्ना च लक्षितम्

6.152.26

बालाप इति विख्यातं साभ्रमत्यास्तटे स्थितम् ।
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिस्तु स्तुतं पुरा

6.152.27

बालातीर्थे नरः स्नात्वा त्रिरात्रमुषितः शुचिः ।
रक्तादित्यमुखं दृष्ट्वा सूर्यस्योदयनं प्रति

6.152.28

सूर्यलोकमवाप्नोति नात्र कार्या विचारणा ।
सूर्यवारेऽथ संक्रांतौ सप्तम्यां तु विशेषतः

6.152.29

विषुवत्ययने चापि चंद्रसूर्यग्रहेऽपि च ।
स्नात्वा संतर्पयेद्देवान्पितॄनथ पितामहान्

6.152.30

गुडधेनुं ततो दद्याद्ब्राह्मणेभ्यो गुडोदनम् ।
करवीरैर्जपापुष्पै रक्तादित्यप्रपूजनम्

6.152.31

ये कुर्वंति नरास्ते वै सूर्यलोके वसंति वै ।
रक्तां धेनुं नरो दद्यादेकं चैव धुरंधरम्

6.152.32

स यज्ञफलमाप्नोति न नरो निरयं व्रजेत्।
व्याधितो मुच्यते रोगात्बद्धो मुच्येत बंधनात् ।
तीर्थेऽस्मिन्पिंडदानेन तृप्तिं यांति पितामहाः

6.152.33

महादेव उवाच।
तथान्यदपि माहात्म्यं तीर्थस्यास्य तपोधने ।
श्रूयतां यत्पुरावृत्तं व्यासेन कथितं महत्

6.152.34

पुरात्र महिषो वृद्धो जरया जर्जरीकृतः ।
अशक्तो भारमुद्वोढुं सार्थवाहस्तमत्यजत्

6.152.35

स निदाघे जलं पातुं जगाम च महानदीम् ।
दैवात्पंके निमग्नोऽसौ ततो मृत्युवशं गतः

6.152.36

प्लवितास्थिर्जले पुण्ये तीर्थस्यास्य प्रभावतः ।
कान्यकुब्जेश्वरसुतो राजा जातिस्मरोऽभवत्

6.152.37

संस्मृत्य च स्ववृत्तांतं प्रभावं तीर्थजं महत् ।
आगत्य तज्जले स्नात्वा ददौ दानान्यनेकशः

6.152.38

स तत्र स्थापयामास देवदेवं महेश्वरम् ।
अत्र तीर्थे नरः स्नात्वा संपूज्य महिषेश्वरम्

6.152.39

रक्तादित्यमुखं दृष्ट्वा सर्वपापैः प्रमुच्यते ।
साभ्रमत्युदकं यत्र पूर्वतः पश्चिमं व्रजेत्

6.152.40

प्रयागादपि तत्पुण्यं सर्वकामप्रदं महत् ।
दत्तं द्विजेंद्रेषु हुतं यदग्नौ श्राद्धं कृतं जाप्यमिहाक्षयं स्यात्

6.152.41

गोभूतिलाः कांचनवस्त्रधान्यं शय्यासनं वाहनछत्रदानम् ।
यं यं वांछयते कामं तं तं प्राप्नोति मानवः

6.152.42

श्रीमहेशप्रसादाच्च तीर्थस्यास्य प्रभावतः ।
बालापेंद्रं इदं तीर्थं पुण्यपापहरं सदा

6.152.43

यं दृष्ट्वा मुनयः सर्वे वीतरागाः सदैव तु ।
यत्र माहिषनामेति श्वेताख्यं पुण्यदं महत्

6.152.44

यत्र स्नात्वा तु देवेशि पुनर्जन्म न विद्यते ।
गोदावर्यां कृते स्नाने यत्फलं लभते नरः

6.152.45

तत्फलं लभते देवि अत्र तीर्थे न संशयः

6.152.152

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे बालापेंद्रं तीर्थंनामद्विपंचाशदधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc