भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.13

6.13.1

नारद उवाच-
ततो जालंधरः श्रुत्वा दैत्यकोलाहलं रणे ।
आजगाम रथारूढो यत्र देवः सदाशिवः

6.13.2

सारथिं खड्गरोमाणं कोपात्सत्वरमब्रवीत् ।
संप्रेषय रथं शीघ्रं सहस्रहययोजितम्

6.13.3

हन्मि तं तापसं शौर्याज्जटाभस्मास्थिभूषितम् ।
वृषारूढस्य का शक्तिः पंगोर्युद्धे मया सह

6.13.4

नारद उवाच-
इत्युक्त्वा खड्गरोमाणमाभाष्य च तथोद्धतः ।
गृहीत्वा कार्मुकं घोरं रथेनाधावत द्रुतम्

6.13.5

तं रुरोध तदायांतं वीरभद्रः शितैः शरैः ।
निरुच्छ्वासीकृतेनापि स कायेन शरैर्वृतः

6.13.6

देवैर्यद्यपि तुल्योऽभूद्भूतेशस्य परिग्रहः ।
तथापि किं कपालानि तुलां यांति कलानिधेः

6.13.7

विव्याध मणिभद्रोऽपि शरैः सागरनंदनम् ।
पाशेन मणिभद्रं तु हत्वोवाचेश्वरं वचः

6.13.8

एहि योद्धुं महादेव शस्त्राभ्यासोऽस्ति ते यदि ।
त्वं मां प्रहर न त्वाहमादौ हन्मि जटाधरम्

6.13.9

इति ब्रुवंतं तं गर्वाद्वीरभद्रोऽथ सायकैः ।
पूरयामास संक्रुद्धो यथा पद्मं रविः करैः

6.13.10

मणिभद्रोऽथ गदया सैन्यं तस्य समाहनत् ।
रथोपरि रथं वीर तुरगं तुरगोपरि

6.13.11

गजोपरि गजं हत्वा पातयामास भूतले ।
रक्तपंकारुणा भूमिः संजाता दुर्गमा क्षणात्

6.13.12

शैलाच्च गणमुख्याश्च दानवाञ्जघ्नुराहवे ।
पतंति दानवाः शूरा गतप्राणा महीतले

6.13.13

रुंडदोर्दंडमुंडैश्च करिपृष्ठकरोरुभिः ।
पतंति दानवाः शूरा पूरिता वसुधा नृप

6.13.14

नारद उवाच-
एवंविधं रणे दृष्ट्वा हरमत्यंतदुर्जयम् ।
भुवने च तथान्यानि दृष्टवाँल्लक्षणानि सः

6.13.15

तेजोऽन्यदेवनक्षत्र शशांक सकलादिषु ।
उद्धाटितजगत्कोशमन्यदेवरवेर्महः

6.13.16

भग्नः पुनश्चिंतितवांस्ततो जालंधरो नृप ।
न दृष्टा सा मया गौरी यां मामाहाति नारदः

6.13.17

सांप्रतं शाश्वते स्थाने कथं द्रक्ष्याम्युमां स्थिताम् ।
तां हि द्रष्टुं व्रजाम्यादौ पश्चाद्योत्स्यामि शंभुना

6.13.18

चिंतयित्वेति मनसा दैत्यं प्राहार्णवात्मजः ।
शुंभं चंडजये वीर मम तुल्यपराक्रम

6.13.19

धृत्वा मत्सदृशं रूपं संग्रामं कर्तुमर्हसि ।
तव युद्धस्य भारोऽयं शिबिरस्य बलस्य च

6.13.20

अहं यास्यामि तां द्रष्टुं गौरीं मच्चित्तहारिणीम् ।
इत्युक्त्वाथ ददौ तस्मै स्वांगादुत्तार्य मंडनम्

6.13.21

वर्मशस्त्रादिकं दत्वा रथं सारथिसंयुतम् ।
दुर्वारणेन सहितः सैन्यं मुक्त्वोदधेः सुतः

6.13.22

अलक्षितस्ततो गत्वा गुहां गुप्तां तु पार्थिव ।
मानसोत्तरशैलस्य हररूपं दधार सः

6.13.23

धृत्वा दुर्वारणे रूपं नंदिनः सदृशं तथा ।
अथारुरुहतुः शैलं छद्मशंकरनंदिनौ

6.13.24

यत्रास्ति शिखरे गौरी सखिभिः सहिता नृप ।
तमायांतं शरैर्भिन्नं स्कंधमालम्ब्य नंदिनः

6.13.25

रक्ताक्तमंबरं दृष्ट्वा भवानी विस्मिताभवत् ।
सख्यस्तस्या जयाद्यास्ताः जग्मुस्तं संभ्रमान्विताः

6.13.26

शंकरस्यांतिकं गत्वा पप्रच्छुस्तं सुदुःखिताः ।
किं जातं तव देवेश केन त्वं संगरे जितः

6.13.27

सशल्यस्त्वं कथं नाथ संसारीव प्ररोदिषि ।
इत्युक्तः प्रददौ ताभ्यो भूषणानि पृथक्पृथक्

6.13.28

उत्तार्य शनकैरंगात् वासुकिप्रभृतीनि च ।
गणेशस्कंदशिरसीच्छिन्ने कुक्षौ विलोक्य च

6.13.29

हा स्कंद हा गणेशेति हा रुद्रेत्यंबिकारुदत् ।
तस्याः सख्यस्ततः सर्वा रुरुदुः शोककर्शिताः

6.13.30

अत्राब्रवीज्जयां नंदी त्वमेनं परिपालय ।
मणिभद्रो वीरभद्रः पुष्पदंतश्च वीर्यवान्

6.13.31

दंभनो धूमतिमिरः कूष्मांडाद्या रणे हताः ।
चंडी भृंगी किरीटिश्च महाकालश्च शृंखली

6.13.32

चंडीशो गुप्तनेत्रश्च कालाद्याश्च हता रणे ।
विनायकस्य स्कंदस्य शिरसी भ्रमता मया

6.13.33

दृष्टे महारणे देवि इत्युक्त्वाथ पुरोक्षिपत् ।
तच्छ्रुत्वा नंदिनो वाक्यं शिरसी गृह्य पुत्रयोः

6.13.34

पार्वती विललापोच्चैः पुत्रपुत्रेति जल्पती ।
तारकारे कथं युद्धे हतस्त्वं सिंधुसूनुना

6.13.35

त्वं हि त्रिवासरो देवैः सेनापत्योऽभिषेचितः ।
तदा त्वया कथं वीर तारकाख्यो निपातितः

6.13.36

नीलकंठेन किं त्यक्तो यतस्त्वं पतितो भुवि ।
स्नुषामुखं न दृष्टं च मया पुत्रावभाग्यया

6.13.37

न भोगा वत्स ते भुक्ता संसारस्यापि येभवन् ।
तात हेरंब विघ्नेश लंबोदर गजानन

6.13.38

रणांगणे केन पुत्र सिद्धैः पूज्यो निपातितः ।
वाहनोऽसौ कुतो वत्स मूषकः केन हिंसितः

6.13.39

एवं विलपती गौरी शिवं प्राह सुदुःखितम् ।
साक्षाद्रुद्रोऽसि देवेश हरस्त्वं मा भयं कुरु

6.13.40

वृषभः क्व गतो देव हतो जालंधरेण वै ।
शरजर्जरदेहस्य किं करोमि प्रियं तव

6.13.41

ततः श्रुत्वा वचो देव्या निश्वस्योवाच शंकरः ।
दीर्घं विनिहतौ पुत्रौ वृथा शोचसि किं प्रिये

6.13.42

अधुना तेंगसंगेन देवि मां त्रातुमर्हसि ।
शंकरस्य वचः श्रुत्वाऽसमयोचितमातुरम् ।
प्रत्युवाचांबिका देवं बभाषे नोचितं वचः

6.13.43

महाविषादे पतिते भये च कृते समाधौ वमने महाज्वरे ।
श्राद्धे प्रयाणे गुरुवृद्धसन्निधौ रतिं बुधाः शंकर वर्जयंति

6.13.44

कथं मां दुःखदुःखार्तां पुत्रशोकेन पीडिताम् ।
म्लानां बाष्पपरिम्लानां संप्रार्थयसि चातुराम्

6.13.45

भवान्या इति वाक्यानि श्रुत्वा मायामहेश्वरः ।
उवाच स्वार्थमुद्दिश्य गौर्यारूपेण मोहितः

6.13.46

पुरुषस्यार्तियुक्तस्य न यच्छंति रतिं स्त्रियः ।
तथैव रौरवे घोरे पतिष्यंति न संशयः

6.13.47

गणशून्यः पुत्रशून्यो धीशून्योऽहं वरानने ।
सांप्रतं गृह्य शून्योऽहं सर्वशून्योऽस्मि भामिनि

6.13.48

सुजीवितं विहीनोऽहं त्वां प्रष्टुमिह चागतः ।
स्वं गृहं तु प्रविश्याशु त्यजामि प्रकृतिं स्वकाम्

6.13.49

उत्तिष्ठ नंदिन्संयावस्तीर्थे भव पुरःसरः ।
त्वं याहि स्वेच्छया कांते प्रकृतिं स्वां परित्यज

6.13.6.13.50

इति मायामहेशस्य वचः श्रुत्वांबिका ततः ।
दीर्घं दध्यो महाश्वासं शोकेन च जडीकृता

6.13.51

तस्यैवं परमे क्षोभे किंचिन्नोवाच सा क्षणम् ।
यया संमोहितं सर्वं जगत्स्थावरजंगमम् ।
सैव संमोहिता तेन न जाने दुःखमात्मनः

6.13.13

इति श्रीपाद्मे महापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखण्डे युधिष्ठिरनारदसम्वादे जालंधरमायामहेशागमनंनाम त्रयोदशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc