भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.117

6.117.1

सूत उवाच।
इति सर्वं समाकर्ण्य सत्राजितसुता तदा ।
हरेर्वाक्यं महाभागा सत्या वचनमब्रवीत्

6.117.2

सत्योवाच।
कार्तिकस्य च माहात्म्यं न श्रुतं विस्तरात्प्रभो ।
सर्वेषामेव मासानां कार्तिकः प्रवरः कथम्

6.117.3

श्रीकृष्ण उवाच।
साधु पृष्टं त्वया सत्ये कार्तिकव्रतमादरात् ।
शौनकाय पुरा प्रोक्तं सूतेन सुमहात्मना

6.117.4

सूत उवाच।
श्रूयतां तत्प्रवक्ष्यामि एतत्प्रश्नोत्तरं शुभम् ।
ईश्वरेण पुरा प्रोक्तं पृच्छते षण्मुखाय वै

6.117.5

कार्तिकेय उवाच।
बहूनि पद्मनाभस्य रहस्यानि श्रुतानि च ।
यथा हि प्रोच्यमानानि वैष्णवेन त्वया प्रभो

6.117.6

संसारसागरे प्राप्ता दुःखोरुलहरीवृते ।
तेषामुत्तारणार्थाय कथयस्व प्रयत्नतः

6.117.7

कार्तिकस्य विधिश्चैव स्नानस्य वदतां वर ।
येन दुःखांबुधिं तात संतरिष्यंति मानवाः

6.117.8

फलं वैष्णवधर्मस्य कथयस्व सुविस्तरम् ।
येन धर्मप्रभावेन पदं गच्छति वैष्णवम्

6.117.9

दीपदानस्य माहात्म्यं मुनिपुष्पस्य सुव्रत ।
गोपीचंदनमाहात्म्यं तुलस्यास्तु तथा विभो

6.117.10

मालतीपुष्पमाहात्म्यं वारिजानां तथा वद ।
धात्रीफलानां माहात्म्यं तथा दमनकस्य च

6.117.11

केतकीपुष्पमाहात्म्यं नैवेद्यस्य परंतप ।
तीर्थोदकस्य माहात्म्यं माघस्नानफलं विभो

6.117.12

फलं ब्रूहि सुरश्रेष्ठ ब्रह्मपत्रेषु भोजनात् ।
नीराजनफलं स्थाणो परदीपप्रवेधनात्

6.117.13

पुष्करक्षेत्रमाहात्म्यं शूकरस्य तथा विभो ।
शालग्रामस्य माहात्म्यं स्वस्तिकस्य विधानकम्

6.117.14

दानानां च फलं ब्रूहि परान्नस्य च वर्जनात् ।
मासोपवासस्य फलं खट्वाया मोक्षणाद्विभो

6.117.15

दीपावल्याश्च माहात्म्यं प्रबोधिन्याश्च सुव्रत ।
पंचभीष्मस्यमाहात्म्यं कथयस्व सुविस्तरात्

6.117.16

ईश्वर उवाच।
साधु पृष्टं त्वया वत्स लोकोद्धरणहेतवे ।
कथयामि न संदेहस्त्वत्समो नास्ति वैष्णवः

6.117.17

सत्पुत्रेण त्वया वत्स तारितोऽहं न संशयः ।
निश्चला केशवे भक्तिस्त्वयि तिष्ठति सर्वदा

6.117.18

नरेभ्यो वैष्णवं धर्मं यो ददाति द्विजोत्तमः ।
ससागरमही दाने तत्पुण्यं लभते हि सः

6.117.19

कार्तिकस्य च मासस्य कोट्यंशेनापि नार्हति ।
एकतः सर्वतीर्थानि सर्वदानानि चैकतः

6.117.20

एकतो गोप्रदानानि सर्वे यज्ञाः सदक्षिणाः ।
एकतः पुष्करे वासं कुरुक्षेत्रे हिमालये

6.117.21

एकतो मथुरातीर्थे वाराणस्यां च शूकरे ।
एकतः कार्तिको वत्स सर्वदा केशवप्रियः

6.117.22

सूत उवाच।
इत्युक्त्वा मुनिशार्दूल पुनर्वाक्यं जगौ हरः ।
कार्तिकस्नानमाहात्म्यं कथयिष्ये सुविस्तरात्

6.117.23

ईश्वर उवाच।
ब्राह्मं कृतयुगं प्रोक्तं त्रेता तु क्षत्रियं स्वयम् ।
द्वापरं वैश्यमित्याहुः शूद्रं कलियुगं स्मृतम्

6.117.24

कलौ वत्स मनुष्याणां शैथिल्यं स्नानकर्मणि ।
तथापि कथयिष्यामि स्नानं कार्तिकमाघयोः

6.117.25

यस्य हस्तौ च पादौ न वाङ्मनश्च सुसंयतम् ।
विद्या तपश्च कीर्तिश्च स तीर्थफलभाङ्नरः

6.117.26

अश्रद्दधानः पापात्मा नास्तिकश्छिन्नमानसः ।
हेतुवादी च पंचैते न तीर्थफलभागिनः

6.117.27

प्रातरुत्थाय यो विप्रस्तीर्थस्नायी सदा भवेत् ।
सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति

6.117.28

स्नानं चतुर्विधं प्रोक्तं स्नानविद्भिः षडानन ।
वायव्यं वारुणं दिव्यं ब्राह्मं चेति तथा स्मृतम्

6.117.29

वायव्यं गोरजः स्नानं वारुणं सागरादिषु ।
ब्राह्म्य ब्राह्मणमंत्रोक्तं दिव्यं मेघांबु भास्करम्

6.117.30

स्नानानां चैव सर्वेषां विशिष्टं तत्र वारुणम् ।
ब्राह्मणः क्षत्रियो वैश्यो मंत्रवत्स्नानमाचरेत्

6.117.31

तूष्णीमेव हि शूद्रस्य स्त्रीणां चैव षडानन ।
बाला च तरुणी वृद्धा नरनारीनपुंसकाः

6.117.32

पापैः सर्वैः प्रमुच्यंते स्नानात्कार्तिकमाघयोः ।
स्नाता वै कार्तिके लोकाः प्राप्नुवंतीप्सितं फलम्

6.117.117

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीशिवषडाननसंवादे सप्तदशाधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc