भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.10

6.10.1

नारद उवाच-
अत्रोत्तरे मया गत्वा कथितं सिंधुसूनवे ।
त्वां हंतु सर्ववीरेश प्रतिज्ञा शंभुना कृता ।
श्रुत्वेत्थं मद्वचो राजंस्ततः पप्रच्छ सोऽसुरः

6.10.2

जालंधर उवाच-।
किमस्ति शूलिनो गेहे रत्नजातं महामुने ।
तन्ममाचक्ष्व सकलं नास्ति युद्धं निरामिषम्

6.10.3

नारद उवाच-।
भूतिर्गात्रे वृषो जीर्णः फणिनोंऽगे गले विषम् ।
भिक्षापात्रं करे पुत्रौ गजानन षडाननौ

6.10.4

इत्यादि विभवस्तस्य यदन्यत्तन्निबोध मे ।
तनया गिरिराजस्य विशाला ह्युन्नतस्तनी

6.10.5

दग्धस्मरोऽपि भगवान्यस्यारूपेण मोहितः ।
महेशो यद्विनोदाय कुरुते नित्य कौतुकम्

6.10.6

नृत्यन्गायंश्च ताञ्छंभुः स्वयं भवति हासकः ।
सा पार्वतीति विख्याता सौंदर्यावधि दैवतम्

6.10.7

वृंदा वरांगना राजन्निमाश्चाप्सरसः शुभाः ।
न चाप्नुवंति पार्वत्याः षोडशीमपि तां कलाम्

6.10.8

इत्युक्त्वाहं महीपाल जालंधरममर्षणम् ।
पश्यतां सर्वदैत्यानामंतर्धानं गतः क्षणात्

6.10.9

अथ स प्रेषयद्दूतं सिंधुजः सिंहिकासुतम् ।
क्षणेनासाद्य कैलासं देवावासमपश्यत

6.10.10

अत्रांतरे हरिर्भीममापृच्छ्य तु तदा हरम् ।
जगामालक्षितस्तूर्णं क्षीराब्धिं भेदशंकया

6.10.11

ददर्श राहुर्भवनं शंकरस्यातिदीप्तिमत् ।
आत्मानमात्मना वीक्ष्य किमित्याह सुविस्मितः

6.10.12

प्रवेष्टुकामो बलिभिर्द्वारि द्वास्थैर्निरोधितः ।
यत्नवान्स निषिद्धोऽपि तदा ते प्रोद्यतायुधाः

6.10.13

तान्निवार्य गणान्नंदी व्याजहार विधुंतुदम् ।
कस्त्वं कस्मादिहायातः किं कार्यं तव बर्बर ।
ब्रूहि कार्यं गणा यावत्त्वां न हन्युर्भयावहाः

6.10.14

राहुरुवाच-।
दूतो जालंधरस्याहं त्वं मां शर्वांतिके नय ।
न वाच्यमंतरे द्वास्थ महाराजप्रयोजनम्

6.10.15

नंदी दूतोक्तमाकर्ण्य नीललोहितमाययौ ।
दंडवत्प्रणिपत्याग्रे स्थित्वा शंकरमब्रवीत्

6.10.16

सैंहिकेयो महाराज द्वारे तिष्ठति कार्यतः ।
स प्रयात्वथवायातु भवानाज्ञप्तुमर्हति

6.10.17

नंदिनोक्तमथाकर्ण्य त्वरन्निव महेश्वरः ।
सुप्तामंतःपुराद्देवीं प्रस्थाप्य च सखीवृताम्

6.10.18

पश्चाद्वास्थं जगादाथ नंदिन्दूतं प्रवेशय ।
ततो हस्ते प्रगृह्यामुं दूतं नंदी महाबलः

6.10.19

आनयामास देवानां मध्ये शंभुमदर्शयत् ।
तं ददर्श तदा राहुर्जटिलं नीलमात्मनि

6.10.20

पंचवक्त्रं दशभुजं नागयज्ञोपवीतिनम् ।
देवीविरहितं मूर्ध्नि चंद्रलेखाविभूषितम्

6.10.21

उच्छ्वासोच्छ्वासनिर्मुंचत्पृदाकुगणसेवितम् ।
सर्वदेवगणोपेतं सेवितं गणकोटिभिः

6.10.22

प्राप्तं ज्ञात्वा ततो दूतं शंभुरालोक्य चाग्रतः ।
प्राह ब्रूहि तदा राहुर्वक्तुं समुपचक्रमे

6.10.23

राहुरुवाच-।
देव जालंधरेणाहं प्रेषितस्तव सन्निधौ ।
तस्य शिववचः श्रुत्वा मन्मुखेन द्रुतं कुरु

6.10.24

गिरिशत्वं तपोनिष्ठो निर्गुणो धर्मवर्जितः ।
तव नास्ति पिता माता वसु गोत्रादि वर्जितः

6.10.25

जालंधरो महाबाहुर्भुंक्तेऽसौ भुवनत्रयम् ।
तस्यैव वश्यस्त्वमपि ततश्चोक्तं समाचर

6.10.26

पुराणपुरुषः कामी वृषारूढः कथं भवान् ।
एवं वदति संप्राप्तौ सुतौ स्कंदविनायकौ

6.10.27

तस्मिन्काले देवदेवो यतवागंगमर्दनम् ।
चकार च करैर्व्यस्तैर्वासुकिर्भूतलेऽपतत्

6.10.28

हेरंबवाहनस्याखोः पुच्छं ग्रस्तमथाहिना ।
स्वपत्रं ग्रस्तमालोक्य मुंचमुंचेत्युवाच ह

6.10.29

अत्रांतरे स्कंदवाहं क्षुब्धं वीक्ष्य महास्वरम् ।
तद्भयाद्वासुकिर्ग्रस्तमाखुपुच्छमथोद्गिरत्

6.10.30

अथारुह्य हरस्यांगं गलमावेष्ट्य संस्थितः ।
तस्य निश्वासपवनैरथ जातो हुताशनः

6.10.31

तस्योष्मणा चंद्र लेखा जटाजूटाटवी स्थिता ।
सार्द्रतां तु तदा सायात्प्लावितं तद्वपुर्यथा

6.10.32

तस्याह्यमृतधाराभिर्ब्रह्ममस्तकमालिका ।
हरमौलिकपालानामभूत्संजीविता तदा

6.10.33

पपाठ पूर्वमभ्यस्तं सर्वयोगश्रुतिक्रमम् ।
श्रुत्वा परस्पराधीतं विवदंति शिरांस्यथ

6.10.34

अहमादिरहं पूर्वमहमेव परात्परः ।
अहं स्रष्टा अहं पातेत्युत्सुकानि परस्परम्

6.10.35

शोचंत्येतानि नो दत्तं नो भुक्तं न हुतं मया ।
लोभग्रस्तेन मनसा नो वित्तं ब्रह्मणेऽपि तम्

6.10.36

अथेश्वरजटाजूटादाविरासीद्गणो महान् ।
त्र्याननस्त्रिचरणस्त्रिपुच्छः सप्तहस्तवान्

6.10.38

स च कीर्तिमुखो नाम पिंगलो जटिलो महान् ।
तं दृष्ट्वा सा कपालाली भयात्तस्थौ मृतेव सा ३७*।
पुरतः प्राह सगणस्ततः कीर्तिमुखः प्रभुम् ।
प्रणिपत्य शिवं देवमत्यर्थं क्षुधितः प्रभो

6.10.39

तदोक्तः शंकरेणाहो भक्षय त्वं रणे हतान् ।
क्षणं विचार्य स गणः क्वाप्यदृष्ट्वा रणं तदा

6.10.40

ब्रह्माणं भक्षितुं प्राप्तः शंकरेण निवारितः ।
ततः कीर्तिमुखेनाथ स्वांगं सर्वं च भक्षितम्

6.10.41

बुभुक्षितेन चात्यंतं निषिद्धेन च सर्वतः ।
तत्साहसं तदा दृष्ट्वा भक्तिं कीर्त्तिमुखस्य च

6.10.42

तमुवाचेश्वरः प्रीतः प्रासादे तिष्ठ मे सदा ।
त्वच्चित्तरहितो यश्च भविष्यति ममालये

6.10.43

स पतिष्यति शीघ्रं हीत्युक्तः सोंऽतर्हितोऽभवत् ।
शंभोर्मूध्नि तदा देवा ववृषुः पुष्पवृष्टिभिः

6.10.44

एवमत्यद्भुतं दृष्ट्वा सभायां तु त्रिशूलिनः ।
स्वर्भानुरपि देवेशं पुनः प्रोवाच विस्मितः

6.10.45

स्पृशंति त्वां कथं भावं स्वाधीनं योगिनं बलात् ।
इंद्रियैः पूज्यसे त्वं हि प्राप्योऽयं विषयैः कथम्

6.10.46

ब्राह्मादिलोकपालानां पूजां गृह्णासि सर्वतः ।
न त्वं पश्यसि कं देवं त्वं पूजयसि कंचन

6.10.47

ईश्वरोऽसि कथं लोके भिक्षाभोजी प्रतिष्ठितः ।
संगोपयसि योगीन्द्र गौरीं रम्यां प्रयच्छ मे

6.10.48

स्कंदलंबोदराभ्यां त्वं पुत्राभ्यां सहितोऽधुना ।
भिक्षापात्रं गृहीत्वा तु भ्रम नित्यं गृहेगृहे

6.10.49

एवं बहुविधं तत्र राहुराहेश्वरं प्रति ।
भगवानपि तच्छ्रुत्वा नोत्तरं किंचिदब्रवीत्

6.10.6.10.50

अथेशं मौनिनं त्यक्त्वा राहुर्नंदिनमब्रवीत् ।
त्व मंत्री ह्यसि सेनानीर्विकटानन बिंबधृक्

6.10.51

एवमाचरित भ्रष्टं त्वं शिक्षयितुमर्हसि ।
नोचेद्रोषेणेंद्र इव पतिष्यति रणे हतः

6.10.52

इत्याकर्ण्य वचस्तस्य नंदी विज्ञाप्य चेश्वरम् ।
भ्रूसंज्ञयैव स तदा मतमाज्ञाय शूलिनः

6.10.53

संपूज्य प्रेषयामास राहुं नंदी गणाग्रणीः ।
अथ जालंधरं गत्वा कथयामास विस्तरात् ।
स्वर्भानुस्तस्य वृत्तांतं गौरीरूपं मनोहरम्

6.10.10

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखण्डे युधिष्ठरनारद-
सम्वादे जालंधरोपाख्याने कैलासाद्राहुप्रत्यागमनं नाम दशमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc