भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 3.14

3.14.1

नारद उवाच-
नर्मदा तु नदीश्रेष्ठा पुण्या पुण्यतमा त्रिषु ।
मुनिभिस्तु महाभागैर्विभक्ता धर्मकांक्षिभिः

3.14.2

यज्ञोपवीतमात्राणि प्रविभक्तानि पांडव ।
तेषु स्नात्वा तु राजेंद्र सर्वपापैः प्रमुच्यते

3.14.3

जलेश्वरं च यत्तीर्थं त्रिषु लोकेषु विश्रुतम् ।
तस्योत्पत्तिं कथयतः शृणु पांडवनंदन

3.14.4

पुरा मुनिगणाः सर्वे सेन्द्राश्चैव मरुद्गणाः ।
स्तुवंति ते महात्मानं देवदेवं महेश्वरम्

3.14.5

स्तुवमानास्तु संप्राप्ता यत्र देवो महेश्वरः ।
विज्ञापयंति देवेशं सेंद्राश्चैव मरुद्गणाः ।
भयोद्विग्नान्विरूपाक्ष परित्रायस्व नः प्रभो

3.14.6

ईश्वर उवाच-।
स्वागतं तु मुनिश्रेष्ठाः किमर्थमिह चागताः ।
किं दुःखं कोऽनुसंतापः कुतो वा भयमागतम्

3.14.7

कथयध्वं महाभागा एतदिच्छामि वेदितुम् ।
एवमुक्तास्तु रुद्रेणाकथयन्नमितव्रताः

3.14.8

ऋषय ऊचुः-।
अपि घोरो महावीर्यो दानवो बलदर्पितः ।
बाणो नामेति विख्यातो यस्य वै त्रिपुरं पुरम्

3.14.9

गगने तु वसद्दिव्यं भ्रमते तस्य तेजसा ।
तस्माद्भीता विरूपाक्ष त्वामेव शरणं गताः

3.14.10

त्रायस्व महतो दुःखाद्देवत्वं हि परा गतिः ।
एवं प्रसादं देवेश सर्वेषां कर्तुमर्हसि

3.14.11

येन देवाः सुप्रसन्नाः सुखमेधंति शंकर ।
परां निर्वृतिमायांति तत्प्रभो कर्तुमर्हसि

3.14.12

देव उवाच-।
एतत्सर्वं करिष्यामि मा विषादं करिष्यथ ।
अचिरेणैव कालेन कुर्यां युष्मत्सुखावहम्

3.14.13

आश्वासयित्वा तान्सर्वान्नर्मदातटमास्थितः ।
चिंतयामास सर्वेशस्तद्वधं प्रति पांडव

3.14.14

कथं केन प्रकारेण हंतव्यस्त्रिपुरो मया ।
एवं संचिंत्य भगवान्नारदं स्मरते तदा ।
स्मरणादेव संप्राप्तो नारदः समुपस्थितः

3.14.15

नारद उवाच-।
आज्ञापय महादेव किमर्थं संस्मृतो ह्यहम् ।
किं कार्यं तु मया देव कर्तव्यं कथयस्व मे

3.14.16

ईश्वर उवाच-।
गच्छ नारद तत्रैव यत्र तत्त्रिपुरं पुरम् ।
बाणस्य दानवेन्द्रस्य शीघ्रं गच्छाथ तत्कुरु

3.14.17

भर्तारो देवताभाश्च स्त्रियश्चाप्सरसोपमाः ।
तासां वै तेजसा विप्र भ्रमते त्रिपुरं दिवि

3.14.18

तत्र गत्वा तु विप्रेंद्र मंत्रमन्यं प्रचोदय ।
देवस्य वचनं श्रुत्वा मुनिस्त्वरितविक्रमः

3.14.19

स्त्रीणां हृदयनाशाय प्रविष्टस्तं पुरं प्रति ।
शोभते तत्पुरं दिव्यं नानारत्नोपशोभितम्

3.14.20

शतयोजनविस्तीर्णं ततो द्विगुणमायतम् ।
ततः पश्यति तत्रैव बाणं तु बलदर्पितम्

3.14.21

मालाकुंडलकेयूरैर्मुकुटेन विराजितम् ।
हाररत्नैश्च संछन्नं चंद्रकांतिविभूषितम्

3.14.22

ललनास्तस्य रत्नाढ्याः नराः कनकमंडिताः ।
उत्थितो नारदं दृष्ट्वा दानवेंद्रो महाबलः

3.14.23

बाण उवाच-।
स देवर्षिः स्वयं प्राप्तो मद्गृहं प्रति संप्रति ।
अर्घं पाद्यं यथान्यायं क्रियतां द्विजसत्तम

3.14.24

चिरात्समागतो विप्र स्थीयतामिदमासनम् ।
एवं संभावयित्वा तु नारदं समुपस्थितम्

3.14.25

तस्य भार्या महादेवी अनौपम्या तु नामतः

3.14.26

अनौपम्योवाच-।
भगवन्मानुषे लोके देवास्तुष्यंति केन वै ।
व्रतेन नियमेनापि दानेन तपसाथवा

3.14.27

नारद उवाच-।
तिलधेनुं च यो दद्याद्ब्राह्मणे वेदपारगे ।
ससागरा नवद्वीपा दत्ता भवति मेदिनी

3.14.28

सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामिकैः ।
मोदते चाक्षयं कालं सुचिरं कृतशासनः

3.14.29

आम्रातककपित्थानि कदलीवनमेव च ।
कदंब चंपकाशोका अनेक विविधद्रुमाः

3.14.30

अष्टमी च चतुर्थी च द्वादशी च तथा उभे ।
संक्रांतिर्विषुवं चैव दिनच्छिद्रमुखं तथा

3.14.31

पुण्यान्येतानि सर्वाणि उपवासंति याः स्त्रियः ।
तासां तु धर्म्मयुक्तानां स्वर्गे वासो न संशयः

3.14.32

कलिकालात्तु निर्मुक्ताः सर्वपापविवर्जिताः ।
उपवासरता नार्यो नोपसर्पंति तापसाः

3.14.33

एवं श्रुत्वा तु सुश्रोणि यथेष्टं कर्तुमर्हसि ।
नारदस्य वचः श्रुत्वा राज्ञी वचनमब्रवीत्

3.14.34

प्रसादं कुरु विप्रेंद्र दानं गृह्ण यथेप्सितम् ।
सुवर्णमणिरत्नानि वस्त्राण्याभरणानि च

3.14.35

तत्ते दास्याम्यहं विप्र यच्चान्यदपि दुर्ल्लभम् ।
प्रतिगृह्ण द्विजश्रेष्ठ प्रीयेतां हरिशंकरौ

3.14.36

नारद उवाच-।
अन्यस्मै दीयतां भद्रे क्षीणवृतिश्च यो द्विजः ।
वयं तु शीलसंपन्ना भक्तिस्तु क्रियते मया

3.14.37

एवं तासां मनो हृत्वा सर्वासामुपदिश्य वा ।
जगाम भरतश्रेष्ठ स्वकीयं स्थानकं पुनः

3.14.38

अत्राकृष्टमनास्तास्तु अन्यत्रगतमानसाः ।
पुरि छिद्रं समुत्पन्नं बाणस्य तु महात्मनः

3.14.14

इति श्रीपाद्मे महापुराणे स्वर्गखंडे चतुर्दशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc