भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.95

2.95.1

सुबाहुरुवाच-
स्वर्गस्य मे गुणान्ब्रूहि सांप्रतं द्विजसत्तम ।
एतत्सर्वं द्विजश्रेष्ठ करिष्यामि स्वभाविकम्

2.95.2

जैमिनिरुवाच-
नंदनादीनि रम्याणि दिव्यानि विविधानि च ।
तत्रोद्यानानि पुण्यानि सर्वकामयुतानि च

2.95.3

सर्वकामफलैर्वृक्षैः शोभनानि समंततः ।
विमानानि सुदिव्यानि सेवितान्यप्सरोगणैः

2.95.4

सर्वत्रैव विचित्राणि कामगानि वशानि च ।
तरुणादित्यवर्णानि मुक्ताजालांतराणि च

2.95.5

चंद्रमंडलशुभ्राणि हेमशय्यासनानि च ।
सर्वकामसमृद्धाश्च सर्वदुःखविवर्जिताः

2.95.6

नराः सुकृतिनस्तेषु विचरंति यथा भुवि ।
न तत्र नास्तिका यांति न स्तेना नाजितेंद्रियाः

2.95.7

न नृशंसा न पिशुना न कृतघ्ना न मानिनः ।
सत्यास्तपःस्थिताः शूरा दयावंतः क्षमापराः

2.95.8

यज्वानो दानशीलाश्च तत्र गच्छंति ते नराः ।
न रोगो न जरामृत्युर्न शोको न हिमातपौ

2.95.9

न तत्र क्षुत्पिपासा च कस्य ग्लानिर्न विद्यते ।
एते चान्ये च बहवो गुणाः स्वर्गस्य भूपते

2.95.10

दोषास्तत्रैव ये संति ताञ्छृणुष्व च सांप्रतम् ।
शुभस्य कर्मणः कृत्स्नं फलं तत्रैव भुज्यते

2.95.11

न चात्र क्रियते भूयः सोऽत्र दोषो महान्स्मृतः ।
असंतोषश्च भवति दृष्ट्वा दीप्तां परां श्रियम्

2.95.12

सुखव्याप्तमनस्कानां सहसा पतनं तथा ।
इह यत्क्रियते कर्म फलं तत्रैव भुज्यते

2.95.13

कर्मभूमिरियं राजन्फलभूमिरसौ स्मृता ।
सुबाहुरुवाच-
महांतस्तु इमे दोषास्त्वया स्वर्गस्य कीर्तिताः

2.95.14

निर्दोषाः शाश्वता येन्ये तांस्त्वं लोकान्वद द्विज ।
जैमिनिरुवाच-
आब्रह्मसदनादेव दोषाः संति च वै नृप

2.95.15

अतएव हि नेच्छंति स्वर्गप्राप्तिं मनीषिणः ।
आब्रह्मसदनादूर्ध्वं तद्विष्णोः परमं पदम्

2.95.16

शुभं सनातनं ज्योतिः परंब्रह्मेति तद्विदुः ।
न तत्र मूढा गच्छंति पुरुषा विषयात्मकाः

2.95.17

दंभमोहभयद्रोह क्रोधलोभैरभिद्रुताः ।
निर्ममा निरहंकारा निर्द्वंद्वास्संयतेंद्रियाः

2.95.18

ध्यानयोगरताश्चैव तत्र गच्छंति साधवः ।
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि

2.95.19

एवं स्वर्गगुणं श्रुत्वा सुबाहुः पृथिवीपतिः ।
तमुवाच महात्मानं जैमिनिं वदतांवरम्

2.95.20

सुबाहुरुवाच-
नाहं स्वर्गं गमिष्यामि न चैवेच्छाम्यहं मुने ।
यस्माच्च पतनं प्रोक्तं तत्कर्म न करोम्यहम्

2.95.21

दानमेकं महाभाग नाहं दास्येकदाध्रुवम् ।
दानाच्च फललोभाच्च तस्मात्पतति वै नरः

2.95.22

इत्येवमुक्त्वा धर्मात्मा सुबाहुः पृथिवीपतिः ।
ध्यानयोगेन देवेशं यजिष्ये कमलाप्रियम्

2.95.23

दाहप्रलयसंवर्जं विष्णुलोकं व्रजाम्यहम् ।
जैमिनिरुवाच-
सत्यमुक्तं त्वया भूप सर्वश्रेयः समाकुलम्

2.95.24

राजानो धर्मशीलाश्च महायज्ञैर्यजंति ते ।
सर्वदानानि दीयंते यज्ञेषु नृपनंदन

2.95.25

आदावन्नं तु यज्ञेषु वस्त्रं तांबूलमेव च ।
कांचनं भूमिदानं च गोदानं प्रददंति च

2.95.26

सुयज्ञैर्वैष्णवं लोकं ते प्रयांति नरोत्तमाः ।
दानेन तृप्तिमायांति संतुष्टाः संति भूमिपाः

2.95.27

तपस्विनो महात्मानो नित्यमेवं यजंति ते ।
सुभिक्षां याचयित्वा तु स्वस्थानं तु समागताः

2.95.28

भिक्षार्थं तस्य भागानि प्रकुर्वंति च भूपते ।
ब्राह्मणाय विभागैकं गोग्रासं तु महामते

2.95.29

सुपार्श्ववर्तिनां चैकं प्रयच्छंति तपोधनाः ।
तस्यान्नस्य प्रदानेन फलं भुंजंति मानवाः

2.95.30

क्षुधातृषाविहीनास्ते विष्णुलोकं व्रजंति वै ।
तस्मात्त्वमपि राजेंद्र देहि न्यायार्जितं धनम्

2.95.31

दानाज्ज्ञानं ततः प्राप्य ज्ञानात्सिद्धिं प्रयास्यति ।
य इदं शृणुयान्मर्त्यः पुण्याख्यानमनुत्तमम्

2.95.32

तस्य सर्वार्थसिद्धिः स्यात्पापं सर्वं विलीयते ।
विमुक्तः सर्वपापेभ्यो विष्णुलोकं सगच्छति

2.95.95

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे पंचनवतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc