भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.79

2.79.1

विशालोवाच-
शर्मिष्ठा यस्य वै भार्या देवयानी वरानना ।
सौभाग्यं तत्र वै दृष्टमन्यथा नास्ति भूपते

2.79.2

तत्कथं त्वं महाभाग अस्याः कार्यवशो भवेः ।
सपत्नजेन भावेन भवान्भर्ता प्रतिष्ठितः

2.79.3

ससर्पोसि महाराज भूतले चंदनं यथा ।
सर्पैश्च वेष्टितो राजन्महाचंदन एव हि

2.79.4

तथा त्वं वेष्टितः सर्पैः सपत्नीनामसंज्ञकैः ।
वरमग्निप्रवेशश्च शिखाग्रात्पतनं वरम्

2.79.5

रूपतेजः समायुक्तं सपत्नीसहितं प्रियम् ।
न वरं तादृशं कांतं सपत्नीविषसंयुतम्

2.79.6

तस्मान्न मन्यते कांतं भवंतं गुणसागरम् ।
राजोवाच-
देवयान्या न मे कार्यं शर्मिष्ठया वरानने

2.79.7

इत्यर्थं पश्य मे कोशं सत्वधर्मसमन्वितम् ।
अश्रुबिंदुमत्युवाच-
अहं राज्यस्य भोक्त्री च तव कायस्य भूपते

2.79.8

यद्यद्वदाम्यहं भूप तत्तत्कार्यं त्वया ध्रुवम् ।
इत्यर्थे मम देहि स्वं करं त्वं धर्मवत्सल

2.79.9

बहुधर्मसमोपेतं चारुलक्षणसंयुतम् ।
राजोवाच-
अन्य भार्यां न विंदामि त्वां विना वरवर्णिनि

2.79.10

राज्यं च सकलामुर्वीं मम कायं वरानने ।
सकोशं भुंक्ष्व चार्वंगि एष दत्तः करस्तव

2.79.11

यदेव भाषसे भद्रे तदेवं तु करोम्यहम् ।
अश्रुबिंदुमत्युवाच-
अनेनापि महाभाग तव भार्या भवाम्यहम्

2.79.12

एवमाकर्ण्य राजेंद्रो हर्षव्याकुललोचनः ।
गांधर्वेण विवाहेन ययातिः पृथिवीपतिः

2.79.13

उपयेमे सुतां पुण्यां मन्मथस्य नरोत्तम ।
तया सार्द्धं महात्मा वै रमते नृपनंदनः

2.79.14

सागरस्य च तीरेषु वनेषूपवनेषु च ।
पर्वतेषु च रम्येषु सरित्सु च तया सह

2.79.15

रमते राजराजेंद्रस्तारुण्येन महीपतिः ।
एवं विंशत्सहस्राणि गतानि निरतस्य च

2.79.16

भूपस्य तस्य राजेंद्र ययातेस्तु महात्मनः ।
विष्णुरुवाच-
एवं तया महाराजो ययातिर्मोहितस्तदा

2.79.17

कंदर्पस्य प्रपंचेन इंद्रस्यार्थे महामते ।
सुकर्मोवाच-
एवं पिप्पल राजासौ ययातिः पृथिवीपतिः

2.79.18

तस्या मोहनकामेन रतेन ललितेन च ।
न जानाति दिनं रात्रिं मुग्धः कामस्य कन्यया

2.79.19

एकदा मोहितं भूपं ययातिं कामनंदिनी ।
उवाच प्रणतं नम्रं वशगं चारुलोचना

2.79.20

अश्रुबिंदुमत्युवाच-
संजातं दोहदं कांत तन्मे कुरु मनोरथम् ।
अश्वमेधमखश्रेष्ठं यजस्व पृथिवीपते

2.79.21

राजोवाच-
एवमस्तु महाभागे करोमि तव सुप्रियम् ।
समाहूय सुतश्रेष्ठं राज्यभोगे विनिःस्पृहम्

2.79.22

समाहूतः समायातो भक्त्यानमितकंधरः ।
बद्धांजलिपुटो भूत्वा प्रणाममकरोत्तदा

2.79.23

तस्याः पादौ ननामाथ भक्त्या नमितकंधरः ।
आदेशो दीयतां राजन्येनाहूतः समागतः

2.79.24

किं करोमि महाभाग दासस्ते प्रणतोस्मि च ।
राजोवाच-
अश्वमेधस्य यज्ञस्य संभारं कुरु पुत्रक

2.79.25

समाहूय द्विजान्पुण्यानृत्विजो भूमिपालकान् ।
एवमुक्तो महातेजाः पूरुः परमधार्मिकः

2.79.26

सर्वं चकार संपूर्णं यथोक्तं तु महात्मना ।
तया सार्धं स जग्राह सुदीक्षां कामकन्यया

2.79.27

अश्वमेधयज्ञवाटे दत्वा दानान्यनेकधा ।
ब्राह्मणेभ्यो महाराज भूरिदानमनंतकम्

2.79.28

दीनेषु च विशेषेण ययातिः पृथिवीपतिः ।
यज्ञांते च महाराजस्तामुवाच वराननाम्

2.79.29

अन्यत्ते सुप्रियं बाले किं करोमि वदस्व मे ।
तत्सर्वं देवि कर्तास्मि साध्यासाध्यं वरानने

2.79.30

सुकर्मोवाच-
इत्युक्ता तेन सा राज्ञा भूपालं प्रत्युवाच ह ।
जातो मे दोहदो राजंस्तत्कुरुष्व ममानघ

2.79.31

इंद्रलोकं ब्रह्मलोकं शिवलोकं तथैव च ।
विष्णुलोकं महाराज द्रष्टुमिच्छामि सुप्रियम्

2.79.32

दर्शयस्व महाभाग यदहं सुप्रिया तव ।
एवमुक्तस्तयाराजातामुवाचससुप्रियाम्

2.79.33

साधुसाधुवरारोहेपुण्यमेवप्रभाषसे ।
स्त्रीस्वभावाच्चचापल्यात्कौतुकाच्चवरानने

2.79.34

यत्तवोक्तं महाभागे तदसाध्यं विभाति मे ।
तत्साध्यं पुण्यदानेन यज्ञेन तपसापि च

2.79.35

अन्यथा न भवेत्साध्यं यत्त्वयोक्तं वरानने ।
असाध्यं तु भवत्या वै भाषितं पुण्यमिश्रितम्

2.79.36

मर्त्यलोकाच्छरीरेण अनेनापि च मानवः ।
श्रुतो दृष्टो न मेद्यापि गतः स्वर्गं सुपुण्यकृत्

2.79.37

ततोऽसाध्यं वरारोहे यत्त्वया भाषितं मम ।
अन्यदेव करिष्यामि प्रियं ते तद्वद प्रिये

2.79.38

देव्युवाच-
अन्यैश्च मानुषै राजन्न साध्यं स्यान्न संशयः ।
त्वयि साध्यं महाराज सत्यंसत्यं वदाम्यहम्

2.79.39

तपसा यशसा क्षात्रै र्दानैर्यज्ञैश्च भूपते ।
नास्ति भवादृशश्चान्यो मर्त्यलोके च मानवः

2.79.40

क्षात्रं बलं सुतेजश्च त्वयि सर्वं प्रतिष्ठितम् ।
तस्मादेवं प्रकर्तव्यं मत्प्रियं नहुषात्मज

2.79.79

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे एकोनाशीतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc