भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.73

2.73.1

पिप्पल उवाच-
गते तस्मिन्महाभागे दूत इंद्रस्य वै पुनः ।
किं चकार स धर्मात्मा ययातिर्नहुषात्मजः

2.73.2

सुकर्मोवाच-
तस्मिन्गते देववरस्य दूते स चिंतयामास नरेंद्रसूनुः ।
आहूय दूतान्प्रवरान्स सत्वरं धर्मार्थयुक्तं वच आदिदेश

2.73.3

गच्छंतु दूताः प्रवराः पुरोत्तमे देशेषु द्वीपेष्वखिलेषु लोके ।
कुर्वंतु वाक्यं मम धर्मयुक्तं व्रजंतु लोकाः सुपथा हरेश्च

2.73.4

भावैः सुपुण्यैरमृतोपमानैर्ध्यानैश्च ज्ञानैर्यजनैस्तपोभिः ।
यज्ञैश्च दानैर्मधुसूदनैकमर्चंतु लोका विषयान्विहाय

2.73.5

सर्वत्र पश्यंत्वसुरारिमेकं शुष्केषु चार्द्रेष्वपि स्थावरेषु ।
अभ्रेषु भूमौ सचराचरेषु स्वीयेषु कायेष्वपि जीवरूपम्

2.73.6

देवं तमुद्दिश्य ददंतु दानमातिथ्यभावैः परिपैत्रिकैश्च ।
नारायणं देववरं यजध्वं दोषैर्विमुक्ता अचिराद्भविष्यथ

2.73.7

यो मामकं वाक्यमिहैव मानवो लोभाद्विमोहादपि नैव कारयेत् ।
स शास्यतां यास्यति निर्घृणो ध्रुवं ममापि चौरो हि यथा निकृष्टः

2.73.8

आकर्ण्य वाक्यं नृपतेश्च दूताःसंहृष्टभावाः सकलां च पृथ्वीम् ।
आचख्युरेवं नृपतेः प्रणीतमादेशभावं सकलं प्रजासु

2.73.9

विप्रादिमर्त्या अमृतं सुपुण्यमानीतमेवं भुवि तेन राज्ञा ।
पिबंतु पुण्यं परिवैष्णवाख्यं दोषैर्विहीनं परिणाममिष्टम्

2.73.10

श्रीकेशवं क्लेशहरं वरेण्यमानंदरूपं परमार्थमेवम् ।
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः

2.73.11

सखड्गपाणिं मधुसूदनाख्यं तं श्रीनिवासं सगुणं सुरेशम् ।
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः

2.73.12

श्रीपद्मनाथं कमलेक्षणं च आधाररूपं जगतां महेशम् ।
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः

2.73.13

पापापहं व्याधिविनाशरूपमानंददं दानवदैत्यनाशनम् ।
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः

2.73.14

यज्ञांगरूपं चरथांगपाणिं पुण्याकरं सौख्यमनंतरूपम् ।
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः

2.73.15

विश्वाधिवासं विमलं विरामं रामाभिधानं रमणं मुरारिम् ।
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः

2.73.16

आदित्यरूपं तमसां विनाशं बंधस्यनाशं मतिपंकजानाम् ।
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः

2.73.17

नामामृतं सत्यमिदं सुपुण्यमधीत्य यो मानव विष्णुभक्तः ।
प्रभातकाले नियतो महात्मा स याति मुक्तिं न हि कारणं च

2.73.73

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थवर्णने ययातिचरिते त्रिसप्ततितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc