भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.49

2.49.1

ब्राह्मण्युवाच-
एकदा तु महाभाग गता सा पर्वतोत्तमे ।
रमणीयं वनं दृष्ट्वा कदलीखंडमंडितम्

2.49.2

शालैस्तालैस्तमालैश्च नालिकेरैस्तथोत्कटैः ।
पूगीफलैर्मातुलिगैर्नारंगैश्चारुजंबुकैः

2.49.3

चंपकैः पाटलैः पुण्यैः पुष्पितैः कुटकैर्वटैः ।
अशोकबकुलोपेतं नानावृक्षैरलंकृतम्

2.49.4

पर्वतं पुण्यवंतं तं पुष्पितैश्च नगोत्तमैः ।
सर्वत्र दृश्यते रम्यो नानाधातुसमाकुलः

2.49.5

तडागं सर्वतोभद्रं पुण्यतोयेन पूरितम् ।
कमलैः पुष्पितैश्चान्यैः सुगंधैः कनकोत्पलैः

2.49.6

श्वेतोत्पलैर्विभासंतं रक्तोत्पलसुपुष्पितैः ।
नीलोत्पलैश्च कह्लारैर्हंसैश्च जलकुक्कुटैः

2.49.7

पक्षिभिर्जलजैश्चान्यैर्नानाधातुसमाकुलः ।
तडागं सर्वतः शुभ्रं नानापक्षिगणैर्युतम्

2.49.8

कोकिलानां रुतैः पुण्यैः सुस्वरैः परिशोभितः ।
मधुराणां तथा शब्दैः सर्वत्र मधुरायते

2.49.9

षट्पदानां सुनादेन सर्वत्र परिशोभते ।
एवंविधं गिरिं रम्यं तदेव वनमुत्तमम्

2.49.10

तडागं सर्वतोभद्रं ददृशे नृपनंदिनी ।
वैदर्भी क्रीडमाना सा सखीभिः सहिता तदा

2.49.11

समालोक्य वनं पुण्यं सर्वत्र कुसुमाकुलम् ।
चापल्येन प्रभावेण स्त्रीभावेन च लीलया

2.49.12

पद्मावती सरस्तीरे सखीभिः सहिता तदा ।
जलक्रीडा समालीना हसते गायते पुनः

2.49.13

रममाणा च सा तस्मिंस्तस्मिन्सरसि भामिनी ।
एवं विप्र तदा सा तु सुखेन परिवर्तयेत्

2.49.14

विष्णुरुवाच-
गोभिलो नाम वै दैत्यो भृत्यो वैश्रवणस्य च ।
दिव्येनापि विमानेन सर्वभोगपरिप्लुतः

2.49.15

याति चाकाशमार्गेण गोभिलो दैत्यसत्तमः ।
तेन दृष्टा विशालाक्षी वैदर्भी निर्भया तदा

2.49.16

सर्वयोषिद्वरा सा हि उग्रसेनस्य वै प्रिया ।
रूपेणाप्रतिमा लोके सर्वांगेषु विराजते

2.49.17

रतिर्वै मन्मथस्यापि किं वापीयं हरिप्रिया ।
किं वापि पार्वती देवी शची किं वा भविष्यति

2.49.18

यादृशी दृश्यते चेयं नारीणां प्रवरोत्तमा ।
अन्यापि ईदृशी नास्ति द्वितीया क्षितिमंडले

2.49.19

नक्षत्रेषु यथा चंद्रः संपूर्णो भाति शोभनः ।
गुणरूपकलाभिस्तु तथा भाति वरानना

2.49.20

पुष्करेषु यथा हंसस्तथेयं चारुहासिनी ।
अहो रूपमहोभाव अस्यास्तु परिदृश्यते

2.49.21

का कस्य शोभना बाला चारुवृत्तपयोधरा ।
व्यमृशद्गोभिलो दैत्यः पद्मावतीं वराननाम्

2.49.22

चिंतयित्वा क्षणं विप्र का कस्यापि भविष्यति ।
ज्ञानेन महता ज्ञात्वा वैदर्भीति न संशयः

2.49.23

दयिता उग्रसेनस्य पतिव्रतपरायणा ।
आत्मबलेन तिष्ठंती दुष्प्राप्या पुरुषैरपि

2.49.24

उग्रसेनो महामूर्खः प्रेषिता येन वै वरा ।
पितुर्गेहमियं बाला स तु भाग्येन वर्जितः

2.49.25

अनया विना स जीवेच्च कथं कूटमतिः सदा ।
किं वा नपुंसको राजा एनां यो हि परित्यजेत्

2.49.26

तां दृष्ट्वा स तु कामात्मा संजातस्तत्क्षणादपि ।
इयं पतिव्रता बाला दुष्प्राप्या पुरुषैरपि

2.49.27

कथं भोक्ष्याम्यहं गत्वा कामो मामति पीडयेत् ।
अभुक्त्वैनां यदा यास्ये तत्स्यान्मृत्युर्ममैव हि

2.49.28

अद्यैव हि न संदेहो यतः कामो महाबलः ।
इति चिंतापरो भूत्वा गोभिलो मनसैक्षत

2.49.29

कृत्वा मायामयं रूपमुग्रसेनस्य भूपतेः ।
यादृशस्तूग्रसेनश्च सांगोपांगो महानृपः

2.49.30

गोभिलस्तादृशो भूत्वा गत्या च स्वरभाषया ।
यथावस्त्रो यथावेशो वयसा च तथा पुनः

2.49.31

दिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः ।
सर्वाभरणशोभांगो यादृशो माथुरेश्वरः

2.49.32

भूत्वाथ तादृशो दैत्य उग्रसेनमयस्तदा ।
मायया परया युक्तो रूपलावण्यसंपदा

2.49.33

पर्वताग्रे अशोकस्यच्छायामाश्रित्य संस्थितः ।
शिलातलस्थो दुष्टात्मा वीणादंडेन वीरकः

2.49.34

सुस्वरं गायमानस्तु गीतं विश्वप्रमोहनम् ।
तालमानक्रियोपेतं सप्तस्वरविभूषितम्

2.49.35

गीतं गायति दुष्टात्मा तस्या रूपेण मोहितः ।
पर्वताग्रे स्थितो विप्र हर्षेण महतान्वितः

2.49.36

सखीमध्यगता सा तु पद्मावती वरानना ।
शुश्रुवे सुस्वरं गीतं तालमानलयान्वितम्

2.49.37

कोऽयं गायति धर्मात्मा महत्सौख्यप्रदायकम् ।
गीतं हि सत्क्रियोपेतं सर्वभावसमन्वितम्

2.49.38

सखीभिः सहिता गत्वा औत्सुक्येन नृपात्मजा ।
अशोकच्छायामाश्रित्य विमले सुशिलातले

2.49.39

ददर्श भूपवेषेण गोभिलं दानवाधमम् ।
पुष्पमालांबरधरं दिव्यगंधानुलेपनम्

2.49.40

सर्वाभरणशोभांगं पद्मावती पतिव्रता ।
मथुरेशः समायातः कदा धर्मपरायणः

2.49.41

मम नाथो महात्मा वै राज्यं त्यक्त्वा प्रदूरतः ।
यावद्धि चिंतयेत्सा च तावत्पापेन तेन सा

2.49.42

समाहूता तुरीभूय एहि त्वं हि प्रिये मम ।
चकिताशंकितासाचकथंभर्त्तासमागतः

2.49.43

लज्जिता दुःखिता जाता अधःकृत्वा ततो मुखम् ।
अहं पापा दुराचारा निःशंका परिवर्तिता

2.49.44

कोपमेवं महाभागः करिष्यति न संशयः ।
यावद्धि चिंतयेत्सा च तावत्तेनापि पापिना

2.49.45

समाहूता तुरीभूय एह्येहि त्वं मम प्रिये ।
त्वया विना कृतो देवि प्राणान्धर्तुं वरानने

2.49.46

न हि शक्नोम्यहं कांते जीवितं प्रियमेव च ।
तव स्नेहेन लुब्धोस्मि त्वां त्यक्त्वा नोत्सहे भृशम्

2.49.47

ब्राह्मण्युवाच-
एवमुक्ता गतापश्यत्सुमुखं लज्जयान्विता ।
समालिंग्य ततो दैत्यः सतीं पद्मावतीं तदा

2.49.48

एकांतं तु समानीता सुभुक्ता इच्छया ततः ।
दैत्येन गोभिलेनापि सत्यकेतोः सुता तदा

2.49.49

सुकलोवाच-
मुष्कस्थानेस्य संकेतं नाविंदत वरानना ।
स्ववस्त्रं सा परिगृह्य शंकिता दुःखिता ह्यभूत्

2.49.50

सा सक्रोधा वचः प्राह गोभिलं दानवाधमम् ।
कस्त्वं पापसमाचारो निर्घृणो दानवाकृतिः

2.49.51

शप्तुकामा समुद्युक्ता दुःखेनाकुलितेक्षणा ।
वेपमाना तदा राजन्दुःखभारेण पीडिता

2.49.52

मम कांतच्छलेनैव त्वयागत्य दुरात्मवन् ।
नाशितं धर्ममेवाग्र्यं पातिव्रत्यमनुत्तमम्

2.49.53

सुस्वरं रुदितं कृत्वा मम जन्म त्वया हृतम् ।
पश्य मे बलमत्रैव शापं दास्ये सुदारुणम्

2.49.54

एवं संभाषमाणा तं शप्तुकामा तु गोभिलम्

2.49.49

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे।
एकोनपंचाशत्तमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc