भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.36

2.36.1

सुनीथोवाच-
सत्यमुक्तं त्वया भद्रे एवमेतत्करोम्यहम् ।
अनया विद्यया विप्रं मोहयिष्यामि नान्यथा

2.36.2

साहाय्यं देहि मे पुण्यं येन गच्छामि सांप्रतम् ।
एवमुक्ता तया रंभा तामुवाच मनस्विनीम्

2.36.3

कीदृग्ददामि साहाय्यं तत्त्वं कथय भामिनि ।
दूतत्वं गच्छ मे भद्रे एतं प्रति सुसांप्रतम्

2.36.4

एवमुक्तं तया तां तु रंभां प्रति सुलोचनाम् ।
एवमेव प्रतिज्ञातं रंभया देवयोषिता

2.36.5

करिष्ये तव साहाय्यमादेशो मम दीयताम् ।
सद्भावेन विशालाक्षी रूपयौवनशालिनी

2.36.6

मायया दिव्यरूपा सा संबभूव वरानना ।
रूपेणाप्रतिमालोके मोहयंती जगत्त्रयम्

2.36.7

मेरोश्चैव महापुण्ये शिखरे चारुकंदरे ।
नानाधातुसमाकीर्णे नानारत्नोपशोभिते

2.36.8

देववृक्षैः समाकीर्णे बहुपुष्पोपशोभिते ।
देववृंदसमाकीर्णे गंधर्वाप्सरसेविते

2.36.9

मनोहरे सुरम्ये च शीतच्छायासमाकुले ।
चंदनानामशोकानां तरूणां चारुहासिनी

2.36.10

दोलायां सा समारूढा सर्वशृङ्गारशोभिता ।
कौशेयेन सुनीलेन राजमाना वरानना

2.36.11

बंधूकपुष्पवर्णेन कंचुकेन द्विजोत्तम ।
सर्वांगसुंदरी बाला वीणातालकराविला

2.36.12

गायमाना वरं गीतं सुस्वरं विश्वमोहनम् ।
ताभिः परिवृता बाला सखीभिः सुमनोहरा

2.36.13

अंगस्तु कंदरे पुण्ये एकांते ध्यानमास्थितः ।
कामक्रोधविहीनस्तु ध्यायमानो जनार्दनम्

2.36.14

स श्रुत्वा सुस्वरं गीतं मधुरं सुमनोहरम् ।
तालमानक्रियोपेतं सर्वसत्वविकर्षणम्

2.36.15

ध्यानाच्चचाल तेजस्वी मायागीतेन मोहितः ।
समुत्थायासनात्तूर्णं वीक्षमाणो मुहुर्मुहुः

2.36.16

जगाम तत्र वेगेन मायाचलितमानसः ।
दोलासंस्थां विलोक्यैव वीणादंडकराविलाम्

2.36.17

हसमानां सुगायंतीं पूर्णचंद्रनिभाननाम् ।
मोहितस्तेन गीतेन रूपेणापि महायशाः

2.36.18

तस्या लावण्यभावेन मन्मथस्य शराहतः ।
आकुलव्याकुलज्ञान ऋषिपुत्रो द्विजोत्तमः

2.36.19

प्रलपत्यतिमोहेन जृंभते च पुनः पुनः ।
स्वेदः कंपोथ संतापस्तस्याजायत तत्क्षणात्

2.36.20

मुह्यन्निव महामोहैर्ग्लानश्चलितमानसः ।
वेपमानस्ततस्त्वंगो दूयमानः समागतः

2.36.21

तामालोक्य विशालाक्षीं मृत्युकन्यां यशस्विनीम् ।
अथोवाच महात्मा स सुनीथां चारुहासिनीम्

2.36.22

का त्वं कस्य वरारोहे सखीभिः परिवारिता ।
केन कार्येण संप्राप्ता केन त्वं प्रेषिता वनम्

2.36.23

तवांगं सुंदरं सर्वमत्र भाति महावने ।
समाचक्ष्व ममाद्यैव प्रसादसुमुखी भव

2.36.24

मायामोहेन संमुग्धस्तस्याः कर्म न विंदति ।
मार्गणैर्मन्मथस्यापि परिविद्धो महामुनिः

2.36.25

एवंविधं महद्वाक्यं समाकर्ण्य महामतेः ।
नोवाच किंचित्सा विप्रं समालोक्य सखीमुखम्

2.36.26

रंभां च प्रेरयामास सुनीथा संज्ञया सखीम् ।
समुवाच ततो रंभा सादरं तं द्विजं प्रति

2.36.27

इयं कन्या महाभागा मृत्योश्चापि महात्मनः ।
सुनीथाख्या प्रसिद्धेयं सर्वलक्षणसंपदा

2.36.28

पतिमन्विच्छती बाला धर्मवंतं तपोनिधिम् ।
शांतं दांतं महाप्राज्ञं वेदविद्याविशारदम्

2.36.29

एवंविधं महद्वाक्यं समाकर्ण्य महामुनिः ।
तामुवाच ततस्त्वंगो रंभामप्सरसां वराम्

2.36.30

मया चाराधितो विष्णुः सर्वविश्वमयो हरिः ।
तेन दत्तो वरो मह्यं पुत्राख्यः सर्वसिद्धिदः

2.36.31

तन्निमित्तमहं भद्रे सुतार्थं नित्यमेव च ।
कस्यचित्पुण्यवीर्यस्य कन्यामेकां प्रचिंतये

2.36.32

सदैवाहं न पश्यामि सुभार्यां सत्यमीदृशीम् ।
इयं धर्मस्य वै कन्या धर्माचारा वरानना

2.36.33

मामेवं हि भजत्वेषा यदि कान्तमिहेच्छति ।
यं यमिच्छेदियं बाला तं ददामि न संशयः

2.36.34

अदेयं देयमित्याह अस्याः संगमकारणात् ।
एकमेवं त्वया देयं श्रूयतां द्विजसत्तम

2.36.35

रंभोवाच-
विप्रेंद्र त्वं शृणुष्वेह प्रतिज्ञां वच्मि सांप्रतम् ।
एषा नैव त्वया त्याज्या धर्मपत्नी तवैव हि

2.36.36

अस्या दोषो गुणो नैव ग्राह्य एव त्वया कदा ।
इत्यर्थे प्रत्ययं विप्र प्रत्यक्षं परिदर्शय

2.36.37

स्वहस्तं देहि विप्रेंद्र सत्यप्रत्ययकारकम् ।
एवमस्तु मया दत्तो ह्यस्या हस्तो न संशयः

2.36.38

सूत उवाच-
एवं संबधिकं कृत्वा सत्यप्रत्ययकारकम् ।
गांधर्वेण विवाहेन सुनीथामुपयेमिवान्

2.36.39

तस्मै दत्वा सुनीथां तां रंभा हृष्टेन चेतसा ।
सा तां चामंत्रयित्वा वै गता गेहं स्वकं पुनः

2.36.40

प्रहृष्टचेतसः सख्यः स्वस्थानं परिजग्मिरे ।
गतासु तासु सर्वासु सखीषु द्विजसत्तमः

2.36.41

रेमे त्वंगस्तया सार्धं प्रियया भार्यया सह ।
तस्यामुत्पाद्य तनयं सर्वलक्षणसंयुतम्

2.36.42

चकार नाम तस्यैव वेनाख्यं तनयस्य हि ।
ववृधे स महातेजाः सुनीथातनयस्तदा

2.36.43

वेदशास्त्रमधीत्यैव धनुर्वेदं गुणान्वितम् ।
सर्वासामपि मेधावी विद्यानां पारमेयिवान्

2.36.44

अंगस्य तनयो वेनः शिष्टाचारेण वर्तते ।
स वेनो ब्राह्मणश्रेष्ठः क्षत्त्राचारपरोऽभवत्

2.36.45

दिवि चेंद्रो यथा भाति सर्वतेजःसमन्वितः ।
भात्येवं तु महाप्राज्ञः स्वबलेन पराक्रमैः

2.36.46

चाक्षुषस्यांतरे प्राप्ते वैवस्वतसमागते ।
प्रजापालं विना लोके प्रजाः सीदंति सर्वदा

2.36.47

ऋषयो धर्मतत्त्वज्ञाः प्रजाहेतोस्तपोधनाः ।
व्यचिंतयन्महीपालं धर्मज्ञं सत्यपंडितम्

2.36.48

तं वेनमेव ददृशुः संपन्नं लक्षणैर्युतम् ।
प्राजापत्ये पदे पुण्ये अभ्यषिंचन्द्विजोत्तमाः

2.36.49

अभिषिक्ते महाभागे त्वंगपुत्रे तदा नृपे ।
ते प्रजापतयः सर्वे जग्मुश्चैव तपोवनम्

2.36.50

गतेषु तेषु सर्वेषु वेनो राज्यमकारयत् ।
सूत उवाच-
सा सुनीथा सुतं दृष्ट्वा सर्वराज्यप्रसाधकम्

2.36.51

विशंकते प्रभावेण शापात्तस्य महात्मनः ।
मम पुत्रो महाभागो धर्मत्राता भविष्यति

2.36.52

इत्येवं चिंतयेन्नित्यं पूर्वपापाद्विशंकिता ।
धर्मांगानि सुपुण्यानि सुताग्रे परिदर्शयेत्

2.36.53

सत्यभावादि कान्पुण्यान्गुणान्सा वै प्रकाशयेत् ।
इत्युवाच सुतं सा हि अहं धर्मसुता सुत

2.36.54

पिता ते धर्मतत्त्वज्ञस्तस्माद्धर्मं समाचर ।
इत्येवं बोधयेन्नित्यं पुत्रं वेनं तदा सती

2.36.55

मातापित्रोस्तयोर्वाक्यं प्रजायुक्तं प्रपालयेत् ।
एवं वेनः प्रजापालः संजातःक्षितिमंडले

2.36.56

सुखेन जीवते लोकःप्रजाधर्मेणरंजिताः ।
एवं राज्यप्रभावं तु वेनस्यापि महात्मनः

2.36.57

धर्मभावाः प्रवर्तंते तस्मिञ्छासति पार्थिवे

2.36.36

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने षट्त्रिंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc