भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.34

2.34.1

सूत उवाच-
यथा शप्ता वने पूर्वं सुशंखेन महात्मना ।
तासु सर्वं समाख्यातं सखीष्वेव विचेष्टितम्

2.34.2

आत्मनश्च महाभागा दुःखेनातिप्रपीडिता ।
सुनीथोवाच-
अन्यच्चैव प्रवक्ष्यामि सख्यः शृण्वंतु सांप्रतम्

2.34.3

मदीयरूपसंपत्ति वयः सगुणसंपदः ।
विलोक्य तातश्चिंतात्मा संजातो मम कारणात्

2.34.4

देवेभ्यो दातुकामोऽसौ मुनिभ्यस्तु महायशाः ।
मां च हस्ते विगृह्यैव सर्वान्वाक्यमुदाहरत्

2.34.5

गुणयुक्ता सुता बाला ममेयं चारुलोचना ।
दातुकामोस्मि भद्रं वो गुणिने सुमहात्मने

2.34.6

मृत्योर्वाक्यं ततो देवा ऋषयः शुश्रुवुस्तदा ।
तमूचुर्भाषमाणं ते देवा इंद्र पुरोगमाः

2.34.7

तव कन्या गुणाढ्येयं शीलानां परमो निधिः ।
दोषेणैकेन संदुष्टा ऋषिशापेन तेन वै

2.34.8

अस्यामुत्पत्स्यते पुत्रो यस्य वीर्यात्पुमान्किल ।
भविता स महापापी पुण्यवंशविनाशकः

2.34.9

गंगातोयेन संपूर्णः कुंभ एव प्रदृश्यते ।
सुरायाबिन्दुनालिप्तो मद्यकुम्भः प्रजायते

2.34.10

पापस्य पापसंसर्गात्कुलं पापि प्रजायते ।
आरनालस्य वै बिंदुः क्षीरमध्ये प्रयाति चेत्

2.34.11

पश्चान्नाशयते क्षीरमात्मरूपं प्रकाशयेत् ।
तद्वद्विनाशयेद्वंशं पापः पुत्रो न संशयः

2.34.12

अनेनापि हि दोषेण तवेयं पापभागिनी ।
अन्यस्मै दीयतां गच्छ देवैरुक्तः पिता मम

2.34.13

देवैश्चापि सगंधर्वैरृषिभिश्च महात्मभिः ।
तैश्चापि संपरित्यक्तः पिता मे दुःखपीडितः

2.34.14

ममान्ये चापि स्वीकारं न कुर्वंति हि सज्जनाः ।
एवं पापमयं कर्म मया चैव पुरा कृतम्

2.34.15

संतप्ता दुःखशोकेन वनमेव समाश्रिता ।
तप एव चरिष्यामि करिष्ये कायशोषणम्

2.34.16

भवतीभिः सुपृष्टाहं कार्यकारणमेव हि ।
मम चिंतानुगं कर्म मया तद्वः प्रकाशितम्

2.34.17

एवमुक्त्वा सुनीथा सा मृत्योः कन्या यशस्विनी ।
विरराम च दुःखार्ता किंचिन्नोवाच वै पुनः

2.34.18

सख्य ऊचुः-
दुःखमेव महाभागे त्यज कायविनाशनम् ।
नास्ति कस्य कुले दोषो देवैः पापं समाश्रितम्

2.34.19

जिह्ममुक्तं पुरा तेन ब्रह्मणा हरसंनिधौ ।
देवैश्चापि स हि त्यक्तो ब्रह्माऽपूज्यतमोऽभवत्

2.34.20

ब्रह्महत्या प्रयुक्तोऽसौ देवराजोपि पश्य भोः ।
देवैः सार्धं महाभागस्त्रैलोक्यं परिभुंजति

2.34.21

गौतमस्य प्रियां भार्यामहल्यां गतवान्पुरा ।
परदाराभिगामी स देवत्वे परिवर्त्तते

2.34.22

ब्रह्महत्योपमं कर्म दारुणं कृतवान्हरः ।
ब्रह्मणस्तु कपालेन चाद्यापि परिवर्तते

2.34.23

देवानमंतितं देवमृषयो वेदपारगाः ।
आदित्यः कुष्ठसंयुक्तस्त्रैलोक्यं च प्रकाशयेत्

2.34.24

लोकानमंतितं देवं देवाद्याः सचराचराः ।
कृष्णो भुंक्ते महाशापं भार्गवेण कृतं पुरा

2.34.25

गुरुभार्यांगतश्चंद्रः क्षयी तेन प्रजायते ।
भविष्यति महातेजा राजराजः प्रतापवान्

2.34.26

पांडुपुत्रो महाप्राज्ञो धर्मात्मा स युधिष्ठिरः ।
गुरोश्चैव वधार्थाय अनृतं स वदिष्यति

2.34.27

एतेष्वेव महत्पापं वर्तते च महत्सु च ।
वैगुण्यं कस्य वै नास्ति कस्य नास्ति च लांछनम्

2.34.28

भवती स्वल्पदोषेण विलिप्तासि वरानने ।
उपकारं करिष्यामस्तवैव वरवर्णिनि

2.34.29

तवांगे ये गुणाः संति सत्यस्त्रीणां यथा शुभे ।
अन्यत्रापि न पश्यामस्तान्गुणांश्चारुलोचने

2.34.30

रूपमेव गुणः स्त्रीणां प्रथमं भूषणं शुभे ।
शीलमेव द्वितीयं च तृतीयं सत्यमेव च

2.34.31

आर्जवत्वं चतुर्थं च पंचमं धर्ममेव हि ।
मधुरत्वं ततः प्रोक्तं षष्ठमेव वरानने

2.34.32

शुद्धत्वं सप्तमं बाले अंतर्बाह्येषु योषितम् ।
अष्टमं हि पितुर्भावः शुश्रूषा नवमं किल

2.34.33

सहिष्णुर्दशमं प्रोक्तं रतिश्चैकादशं तथा ।
पातिव्रत्यं ततः प्रोक्तं द्वादशं वरवर्णिनि

2.34.34

तैस्त्वं संभूषिता बाले मा बिभेषि वरानने ।
येनोपायेन ते भर्ता भविष्यति सुधर्मधृक्

2.34.35

तमुपायं प्रपश्यामस्तवार्थं वयमेव हि ।
तामूचुस्ता वराः सख्यो मा त्वं वै साहसं कुरु

2.34.36

सूत उवाच-
एवमुक्ता सुनीथा सा पुनरूचे सखीस्तु ताः ।
कथयध्वं ममोपायं येन भर्ता भविष्यति

2.34.37

तामूचुस्ता वरा नार्यो रंभाद्याश्चारुलोचनाः ।
रूपमाधुर्यसंयुक्ता भवती भूतिवर्द्धनी

2.34.38

ब्रह्मशापेन संभीता वयमत्र समागताः ।
तां प्रोचुश्च विशालाक्षीं मृत्योः कन्यां सुलोचनाम्

2.34.39

विद्यामेकां प्रदास्यामः पुरुषाणां प्रमोहिनीम् ।
सर्वमायाविदां भद्रे सर्वभद्रप्रदायिनीम्

2.34.40

विद्याबलं ततो दद्युस्तस्यैताः सुखदायकम् ।
यं यं मोहयितुं भद्रे इच्छस्येवं सुरादिकम्

2.34.41

तं तं सद्यो मोहय वा इत्युक्ता सा तथाऽकरोत् ।
विद्यायां हि सुसिद्धायां सा सुनीथा सुनंदिता

2.34.42

भ्रमत्येवं सखीभिस्तु पुरुषान्सा विपश्यति ।
अटमानागता पुण्यं नंदनं वनमुत्तमम्

2.34.43

गंगातीरे ततो दृष्ट्वा ब्राह्मणं रूपसंयुतम् ।
सर्वलक्षणसंपन्नं सूर्यतेजः समप्रभम्

2.34.44

रूपेणाप्रतिमं लोके द्वितीयमिव मन्मथम् ।
देवरूपं महाभागं भाग्यवंतं सुभाग्यदम्

2.34.45

अनौपम्यं महात्मानं विष्णुतेजः समप्रभम् ।
वैष्णवं सर्वपापघ्नं विष्णुतुल्यपराक्रमम्

2.34.46

कामक्रोधविहीनं तमत्रिवंशविभूषणम्

2.34.47

दृष्ट्वा सुरूपं तपसां स्वरूपं दिव्यप्रभावं परितप्यमानम् ।
पप्रच्छ रंभां सुसखीं सरागा कोयं दिविष्ठः प्रवरो महात्मा

2.34.34

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने चतुस्त्रिंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc