भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.3

2.3.1

सूत उवाच-
प्रस्थितस्तेन मार्गेण प्रविष्टो गगनांतरे ।
स दृष्टो देवदेवेन सहस्राक्षेण धीमता

2.3.2

उद्यमं तस्य वै ज्ञात्वा चक्रे विघ्नं सुराधिराट् ।
मेनिकांतामुवाचेदं गच्छ त्वं मम शासनात्

2.3.3

समाचरस्वास्य शीघ्रं गत्वा विघ्नं सुमध्यमे ।
अस्यैव विप्रवर्यस्य पुत्रस्य शिवशर्मणः

2.3.4

तथा कुरुष्व भद्रं ते यथा नायाति मे गृहम् ।
एवमाकर्ण्य तद्वाक्यं मेनिका प्रस्थिता त्वरात्

2.3.5

सूत उवाच-
रूपौदार्यगुणोपेता सर्वालंकारभूषिता ।
नंदनस्य वनस्यांते दोलायां समुपस्थिता

2.3.6

सुस्वरेण प्रगायंती गीतं वीणास्वरोपमम् ।
तेन दृष्टा विशालाक्षी चतुरा चारुलोचना

2.3.7

व्यवसायं ततो ज्ञात्वा तस्या विघ्नमनुत्तमम् ।
इंद्रेण प्रेषिता चैषा न च भद्रकरा भवेत्

2.3.8

एवं ज्ञात्वा जगामाथ सत्वरेण द्विजोत्तमः ।
तया दृष्टस्तथा पृष्टः क्व यास्यसि महामते

2.3.9

विष्णुशर्मा तदोवाच मेनिकां कामचारिणीम् ।
इंद्रलोकं प्रयास्यामि पितुरर्थे त्वरान्वितः

2.3.10

मेनिका विष्णुशर्माणं प्रत्युवाच प्रियं पुनः ।
कामबाणैः प्रभिन्नाहं त्वामद्य शरणं गता

2.3.11

रक्षस्व द्विजशार्दूल यदि धर्ममिहेच्छसि ।
यावद्धि त्वं मया दृष्टः कामाकुलितचेतसा

2.3.12

कामानलेन संदग्धा तावदेव न संशयः ।
संभ्रांता कामसंतप्ता प्रसादसुमुखो भव

2.3.13

विष्णुशर्मोवाच-
चरित्रं देवदेवस्य विदितं मे वरानने ।
भवत्याश्चप्रजानामिनाहंचैतादृशःशुभे

2.3.14

भवत्यास्तेजसा रूपैरन्ये मुह्यंति शोभने ।
विश्वामित्रादयो देवि पुत्रोहं शिवशर्मणः

2.3.15

योगसिद्धिं गतस्यापि तपः सिद्धस्य चाबले ।
कामादयो महादोषा आदावेव विनिर्जिताः

2.3.16

अन्यं भज विशालाक्षि इंद्रलोकं व्रजाम्यहम् ।
एवमुक्त्वा जगामाथ त्वरितो द्विजसत्तमः

2.3.17

निष्फला मेनका जाता पृष्टा देवेन वज्रिणा ।
विभीषां दर्शयामास नानारूपां पुनः पुनः

2.3.18

यथानलेन संदग्धास्तृणानां संचया द्विजाः ।
भस्मीभूता भवंत्येव तथा तास्ता विभीषिकाः

2.3.19

विप्रस्य तेजसा तस्य पितृभक्तस्य सत्तमाः ।
प्रलयं गतास्तु घोरास्ता दारुणा भीषिका द्विजाः

2.3.20

स विघ्नान्दर्शयामास सहस्राक्षः पुनः पुनः ।
तेजसाऽनाशयद्विप्रः स्वकीयेन महायशाः

2.3.21

एवं विघ्नान्बहूंस्तस्य इंद्रस्यापि महात्मनः ।
नाशयामास मेधावी तपसस्तेजसापि वा

2.3.22

नष्टेषु तेषु विघ्नेषु दारुणेषु महत्सु च ।
ज्ञात्वा तस्य कृतान्विघ्नान्दारुणान्भीषणाकृतीन्

2.3.23

अथ क्रुद्धो महातेजा विष्णुशर्मा द्विजोत्तमः ।
इंद्रं प्रति महाभागो रागरक्तांतलोचनः

2.3.24

इंद्र लोकादहं चेंद्रं पातयिष्यामि नान्यथा ।
निजधर्मे रतस्याद्य यो विघ्नं तु समाचरेत्

2.3.25

तस्य दंडं प्रदास्यामि यो वै हन्यात्स हन्यते ।
एवमन्यं करिष्यामि देवानां पालकं पुनः

2.3.26

एवं समुद्यतो विप्र इंद्रनाशाय सत्तमः ।
तावदेव समायातो देवेंद्रः पाकशासनः

2.3.27

भो भो विप्र महाप्राज्ञ तपसा नियमेन च ।
दमेन सत्यशौचाभ्यां त्वत्समो नास्ति चापरः

2.3.28

अनया पितृभक्त्या ते जितोहं दैवतैः सह ।
ममापराधं त्वं सर्वं क्षंतुमर्हसि सत्तम

2.3.29

वरं वरय भद्रं ते दुर्लभं च ददाम्यहम् ।
विष्णुशर्मा तदोवाच देवराजं तथागतम्

2.3.30

विप्रतेजो महेंद्रेद्रं असह्यं देवदैवतैः ।
पितृभक्तस्य देवेश दुःसहं सर्वथा विभो

2.3.31

तेजोभंगो न कर्त्तव्यो ब्राह्मणानां महात्मनाम् ।
पुत्रपौत्रैः समस्तैस्तु ब्रह्मविष्णुहरान्पुनः

2.3.32

नाशयंते न संदेहो यदि रुष्टा द्विजोत्तमाः ।
नागच्छेद्यद्भवानद्य तदा राज्यमनुत्तमम्

2.3.33

आत्मतपः प्रभावेण अन्यस्मै त्वं महात्मने ।
दातुकामस्तु संजातो रोषपूर्णेन चक्षुषा

2.3.34

भवानद्य समायातो वरं दातुमिहेच्छसि ।
अमृतं देहि देवेंद्र पितृभक्तिं तथाचलाम्

2.3.35

एवंविधं वरं देहि यदि तुष्टोसि शत्रुहन् ।
एवं ददामि पुण्यं ते वरं चामृतसंयुतम्

2.3.36

एवमाभाष्य तं विप्रममृतं दत्तवान्स्वयम् ।
सकुंभं दत्तवांस्तस्मै प्रीयमाणेन चात्मना

2.3.37

अचला ते भवेद्विप्र भक्तिः पितरि सर्वदा ।
एवमाभाष्य तं विप्रं विसृज्य च सहस्रदृक्

2.3.38

प्रसन्नोभूच्च तद्दृष्ट्वा विप्रतेजः सुदुःसहम् ।
विष्णुशर्मा ततो गत्वा पितरं वाक्यमब्रवीत्

2.3.39

तात इंद्रात्समानीतममृतं व्याधिनाशनम् ।
अनेनापि महाभाग नीरुजो भव सर्वदा

2.3.40

अमृतेन त्वमद्यैव परां तृप्तिमवाप्नुहि ।
एतद्वाक्यं महच्छ्रुत्वा शिवशर्मा सुतस्य हि

2.3.41

सुतान्सर्वान्समाहूय प्रीयमाणेन चेतसा ।
पितृभक्ताः सुता यूयं मद्वाक्यपरिपालकाः

2.3.42

वरं वृणुध्वं सुप्रीताः पुत्रका दुर्लभं भुवि ।
एवमाभाषितं तस्य शुश्रुवुः सर्वसंमताः

2.3.43

ते सर्वे तु समालोच्य पितरं प्रत्यथाब्रुवन् ।
अस्माकं जीवताम्माता गता या यममंदिरम्

2.3.44

नीरुजा भवनाद्देवी प्रसादात्तव सुव्रता ।
भवान्पिता इयं माता जन्मजन्मांतरे पितः

2.3.45

वयं सुता भवेमेति सर्वे पुण्यकृतस्तथा ।
शिवशर्मोवाच-
अद्यैवापि मृता माता भवतां पुत्रवत्सला

2.3.46

जीवमाना सुहृष्टा सा एष्यते नात्र संशयः ।
एवमुक्ते शुभे वाक्ये ऋषिणा शिवशर्मणा

2.3.47

तेषां माता समायाता प्रहृष्टा वाक्यमब्रवीत् ।
एतदर्थं समुत्पन्नं सुवीर्यं तनयं सुतम्

2.3.48

नराः सत्पुत्रमिच्छंति कुलवंशप्रभावकम् ।
स्त्रियो लोके महाभागाः सुपुण्याः पुण्यवत्सलाः

2.3.49

सुतमिच्छंति सर्वत्र पुण्यांगं पुण्यसाधकम् ।
कुक्षिं यस्या गतो गर्भः सुपुण्यः परिवर्त्तते

2.3.50

पुण्यान्पुत्रान्प्रसूयेत सा नारी पुण्यभागिनी ।
कुलाचारं कुलाधारं पितृमातृप्रतारकम्

2.3.51

विना पुण्यैः कथं नारी संप्राप्नोति सुतोत्तमम् ।
न जाने कीदृशैः पुण्यैरेष भर्ता सुपुण्यभाक्

2.3.52

संजातो धर्मवीर्योपि धर्मात्मा धर्मवत्सलः ।
यस्य वीर्यान्मया प्राप्ता यूयं पुत्रास्ततोधिकाः

2.3.53

एवं पुण्यप्रभावोयं भवंतः पुण्यवत्सलाः ।
मम पुत्रास्तु संजाताः पितृभक्तिपरायणाः

2.3.54

अहो लोकेषु पुण्यैश्च सुपुत्रः परिलभ्यते ।
एकैकशोधिकाः पंच मया प्राप्ता महाशयाः

2.3.55

यज्वानः पुण्यशीलाश्च तपस्तेजः पराक्रमाः ।
एवं संवर्धितास्ते तु तया मात्रा पुनः पुनः

2.3.56

हर्षेण महताविष्टाः प्रणेमुर्मातरं सुताः ।
पुत्रा ऊचुः-
सुपुण्यैः प्राप्यते माता सन्माता सुपिता किल

2.3.57

भवती पुण्यकृन्माता नो भाग्यैस्तु प्रवर्तिता ।
यस्या गर्भोदरं प्राप्य सुपुण्यैश्च प्रवर्द्धिताः

2.3.58

जन्मजन्मनि त्वं माता पिता चैव भविष्यथः ।
पितोवाच-
शृणुध्वं मामकाः पुत्राः सुवरं पुण्यदायकम्

2.3.59

मयि तुष्टे सुता भोगा ननु भुंजंतु चाक्षयान् ।
पुत्रा ऊचुः-
यदि तात प्रसन्नोसि वरं दातुमिहेच्छसि

2.3.60

अस्मान्प्रेषय गोलोकं वैष्णवं दाहवर्जितम् ।
पितोवाच-
गच्छध्वं वैष्णवं लोकं यूयं विगतकल्मषाः

2.3.61

मत्प्रसादात्तपोभिश्च पितृभक्त्यानया स्वया ।
एवमुक्ते तु तेनापि सुवाक्ये ऋषिणा ततः

2.3.62

शंखचक्रगदापाणिर्गरुडारूढ आगतः ।
सपुत्रं शिवशर्माणमित्युवाच पुनः पुनः

2.3.63

सपुत्रेण त्वयाद्यैव जितो भक्त्यास्मि वै द्विज ।
पुत्रैः सार्द्धं समागच्छ चतुर्भिः पुण्यकारिभिः

2.3.64

अनया भार्यया सार्द्धं पुण्यया पतिकाम्यया ।
शिवशर्मोवाच-
अमी गच्छंतु पुत्रा मे वैष्णवं लोकमुत्तमम्

2.3.65

कंचित्कालं तु नेष्यामि भूमौ वै भार्यया सह ।
अनेनापि सुपुत्रेण अंत्येन सोमशर्मणा

2.3.66

एवमुक्ते शुभे वाक्ये ऋषिणा सत्यभाषिणा ।
तानुवाचाथ देवेशः सुपुत्राञ्छिवशर्मणः

2.3.67

गच्छंतु मोक्षदं लोकं दाहप्रलयवर्जितम् ।
एवमुक्ते ततो विप्राश्चत्वारः सत्यचेतसः

2.3.68

विष्णुरूपधराः सर्वे बभूवुस्तत्क्षणादपि ।
इंद्रनीलसमावर्णैः शंखचक्रगदाधराः

2.3.69

सर्वाभरणसौभाग्या विष्णुरूपा महौजसः ।
हारकंकणशोभाढ्या रत्नमालाभिशोभिताः

2.3.70

सूर्यतेजःप्रतीकाशास्तेजोज्वालाभिरावृताः ।
प्रविष्टा वैष्णवं कायं पश्यतः शिवशर्मणः

2.3.71

दीपं दीपा यथा यांति तद्वल्लीना महामते ।
गतास्ते वैष्णवं धाम पितृभक्त्या द्विजोत्तमाः

2.3.72

प्रभावं तु प्रवक्ष्यामि सुसत्यं सोमशर्मणः

2.3.3

इति श्रीपद्मपुराणे भूमिखंडे शिवशर्मोपाख्याने तृतीयोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc