पद्म पुराण · अध्याय 2.15
सोमशर्मोवाच-
पापिनां मरणं भद्रे कीदृशैर्लक्षणैर्युतम् ।
तन्मे त्वं विस्तराद्ब्रूहि यदि जानासि भामिनि
सुमनोवाच-
श्रूयतामभिधास्यामि तस्मात्सिद्धाच्छ्रुतं मया ।
पापिनां मरणे कांत यादृशं लिंगमेव च
महापातकिनां चैव स्थानं चेष्टां वदाम्यहम् ।
विण्मूत्रामेध्यसंयुक्तां भूमिं पापसमन्विताम्
सतां प्राप्य सुदुष्टात्मा प्राणान्दुःखेन मुंचति ।
चांडालभूमिं संप्राप्य मरणं याति दुःस्थितः
गर्दभाचरितां भूमिं वेश्यागेहं समाश्रितः ।
कल्पपालगृहं गत्वा निधनायोपगच्छति
अस्थिचर्मनखैः पूर्णमाश्रितं पापकिल्बिषैः ।
तां प्राप्य च स दुष्टात्मा मृत्युं याति सुनिश्चितम्
अन्यां पापसमाचारां प्राप्य मृत्युं स गच्छति ।
अथ चेष्टां प्रवक्ष्यामि दूतानां तु तमिच्छताम्
भैरवान्दारुणान्घोरानतिकृष्णान्महोदरान् ।
पिंगाक्षान्पीतनीलांश्च अतिश्वेतान्महोदरान्
अत्युच्चान्विकरालांश्च शुष्कमांसवसोपमान् ।
रौद्रदंष्ट्रान्करालांश्च सिंहास्यान्सर्पहस्तकान्
सतान्दृष्ट्वा प्रकंपेत खिद्यते च मुहुर्मुहुः ।
शिवासंनादवद्घोरान्महारावान्महामते
मुंचंति दूतकाः सर्वे कर्णमूले तु तस्य हि ।
गले पाशैः प्रबद्ध्वा ते कटिं बद्ध्वा तथोदरे
समाधृष्य निपात्यंते हाहेति वदते मुहुः ।
म्रियमाणस्य या चेष्टा तामेवं प्रवदाम्यहम्
परद्रव्यापहरणं परभार्याविडंबनम् ।
ऋणं परस्य सर्वस्वं गृहीतं यत्तु पापिभिः
पुनर्नैव प्रदत्तं हि लोभास्वादविमोहतः ।
अन्यदेवं महापापं कुप्रतिग्रहमेव च
कंठमायांति ते सर्वे म्रियमाणस्य तस्य च ।
यानिकानि च पापानि पूर्वमेव कृतानि च
आयांति कंठमूलं ते महापापस्य नान्यथा ।
दुःखमुत्पादयंत्येते कफबंधेन दारुणम्
पीडाभिर्दारुणाभिस्तु कंठो घुरघुरायते ।
रोदते कंपतेऽत्यर्थं मातरं पितरं पुनः
स्मरते भ्रातरं तत्र भार्यां पुत्रान्पुनःपुनः ।
पुनर्विस्मरणं याति महापापेन मोहितः
तस्य प्राणान गच्छंति बहुपीडासमाकुलाः ।
पतते कंपते चैव मूर्च्छते च पुनःपुनः
एवं पीडासमायुक्तो दुःखं भुंक्तेति मोहितः ।
तस्य प्राणाः सुदुःखेन महाकष्टैः प्रचालिताः
अपानमार्गमाश्रित्य शृणु कांत प्रयांति ते ।
एवं प्राणी महामुग्धो लोभमोहसमन्वितः
नीयते यमदूतैस्तु तस्य दुःखं वदाम्यहम्
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे ऐंद्रे सुमनोपाख्याने पापमरणविवक्षानामपंचदशोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0