पद्म पुराण · अध्याय 1.68
व्यास उवाच-
बलं च निहतं दृष्ट्वा नमुचिं च स्वकाग्रजम्।
मुचिस्तत्राब्रवीद्वाक्यं ज्येष्ठो मे सूदितस्त्वया
परोक्षेणाधुना त्वां च शरैर्नेष्यामि भास्करिम्।
तमब्रवीन्महातेजाः शक्रः सर्वसुरार्चितः
भ्रातुस्ते धर्मपंथानमिदानीं लप्स्यसे ध्रुवम्।
वह्नेरुष्णमविज्ञाय प्रमोहाच्छलभा यथा
सहसा प्रविशंत्यग्निं तथा मां योद्धुमिच्छसि।
एवं ब्रुवाणमिन्द्रं च जघान विशिखैस्त्रिभिः
स चिच्छेद त्रिभिर्बाणैः शक्रः परपुरंजयः।
ततो जघान दशभिरिंद्रमैरावणं त्रिभिः
सप्तभिर्मातलिं छित्वा नादैरुच्चैर्ननाद ह।
शक्रं प्रति पुनर्दैत्यो भ्रामयामास संभ्रमात्
आयसीं तां गदां कोपान्महाबलपराक्रमः।
ततस्तु लाघवाच्छक्रो जघान कुलिशेन हि
भिदुरस्यावपातेन गतासुर्निपपात ह।
दनुजस्य प्रपातेन संचचाल वसुंधरा
देवाः प्रचक्रुर्नृत्यानि दानवा विप्रदुद्रुवुः
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे मुचिवधोनामाष्टषष्टितमोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0