भाषा

ENहिગુ
ग्रंथ पाठ

पाडताडितक · भाग 120

उदीच्य श्यामिलक: पाडताडितक
[प्.65] 0 श्रीमहाकविश्यामिलकविरचितं पादताडितकम्.
(नान्द्यन्ते, ततः प्रविशति सूत्रधारः)
(सूत्र#)
ल् (अ) देहत्यागेन शम्भोर् नयनहुतवहे मानितो येन कोपः
(ब्) सेन्द्रा यस्यानुशिष्टिं स्रजम् इव विबुधा धारयन्त्य् उत्तमाङ्गैः
(च्) पायात् कामः स युष्मान् प्रविततवनितालोचनापाङ्गशार्ङ्गो
(द्) बाणा यस्येन्द्रियार्था मुनिजनमनसां सादका भेदकाश् च
अपि च
2 (अ) सभ्रूक्षेपं सहासं स्तननिहितकराम् ईक्षमाणेन देवीं
(ब्) संत्रासाक्षिप्तवाग्भिः सह गणपतिभिर् नन्दिना वन्दितेन
(च्) पायाद् वः पुष्पकेतुर् वृषपतिककुदापाश्रयन्यस्तदोष्णा
(द्) यस्य क्रुद्धेन बाह्यं करणम् अपहृतं शम्भुना न प्रभावः
एवम् आर्यमिश्रान् शिरसा प्रणिपत्य विज्ञापयामि यद् वयम् आर्यश्यामिलकस्य कृतिं पादताडितकं नाम भाणं प्रयोक्तुं
[प्.66] व्यवसिताः तत् तस्य कवेर् मतिपरिश्रमम् अवधानदानेनानुग्रहीतुम् इच्छामः कुतः
3 (अ) इदम् इह पदं मा भूद् एवं भवत्व् इदम् अन्यथा
(ब्) कृतम् इदम् अयं ग्रन्थेनार्थो महान् उपपादितः
(च्) इति मनसि यः काव्यारम्भे कवेर् भवति श्रमः
(द्) सनयनजलो रोमोद्भेदः सतां तम् अपोहति
कुतः
4 (अ) निर्गम्यतां बकबिडालसमप्रचारैर्
(ब्) आर्यैश् च राजसचिवैः शमवृत्तिभिश् च
(च्) तिष्ठन्तु डिण्डिकविनर्मकलाविदग्धा
(द्) निर्मक्षिकं मधु पिपासति धूर्तगोष्ठी
कुतः
5 (अ) न प्राप्नुवन्ति यतयो रुदितेन मोक्षं
(ब्) स्वर्गायतिं न परिहासकथा रुणद्धि
(च्) तस्मात् प्रतीतमनसा हसितव्यम् एव
(द्) वृत्तिं बुधेन खलु कौरुकुचीं विहाय
को नु खलु मयि विज्ञापनाव्यग्रे शब्द इव श्रूयते (कर्णं दत्त्वा) हन्त विज्ञातम् एष हि स विटमण्डपं प्रविश्य धूर्तचाक्रिकः खलतिश्यामिलको घण्टाम् आहत्य घोषयति य एषः
[प्.67] 6 (अ) व्यतिकरसुखभेदः कामिनीकामुकानां
(ब्) दिवससमयदूतो दुन्दुभीनां पुरोधाः
(च्) कलम् उषसि खरत्वाद् यस्य कण्ठीरवाणां
(द्) बलवद् अभिनदन्तो गर्दभा नानुयान्ति
किं च तावद् अनेन घुष्यते (कर्णं दत्त्वा) (नैपथ्ये)
7 (अ) जयति मदनस्य केतुः
कान्तं प्रत्य् उद्यतो विलासिन्याः
(ब्) शिरसा प्रार्थयितव्यः
सालक्तकनूपुरः पादः
(निष्क्रान्तः)

(स्थापना)
(ततः प्रविशति विटः)
वि -- मा तावद् भोः -- किम् अत्र घोषयितव्यम् यद् एवम्
8 (अ) प्रणयकलहोद्यतेन
स्रस्तांशुकदर्शितोरुमूलेन
(ब्) जितम् एव मदकलाया
नूपुरमुखरेण पादेन
अये केनैतद् धसितम् (विलोक्य) दद्रुणमाधवो ऽप्य् अत्रैव अंघो दद्रुणमाधव किम् अत्र हास्यस्थानम् किं ब्रवीषि - प्रत्यक्षं हि मे तद् यद् अतीते ऽहनि तत्रभवत्या सुराष्ट्राणां वारमुख्यया समदनया मदनसेनिकया तत्रभवांस् तौण्डिकोकिर् विष्णुनागश् चरणकमलेन शिरस्य् अनुगृहीत इति सुष्ठु खल्व् इदम् उच्यते - एति जीवन्तम् आनन्दो नरं वर्षशताद्
[प्.68] अपीति विष्णुनागो ऽपि नामैवं सर्वकामिजनसाधारणं चरणताडनसंज्ञकं शिरस्य् अभिषेकं प्राप्तवान् किं ब्रवीषिकुतो ऽस्य तानि भागधेयानि यः स ईदृशानां प्रणयकलहोत्सवानां पात्रं भविष्यति स हि तस्या वेशदेवतायास् तं संमानविशेषम् अवमानं मन्यमानः क्रोधपरिव्यक्तनयनरागः प्रस्फुरितभ्रुकुटीवक्रं ललाटं कृत्वा शिरो विनिर्धूय दशनैर् ओष्ठम् अभिदश्य पाणिना पाणिम् अभिहत्य दीर्घं निःश्वस्योक्तवान् हा धिक् पुंश्चलि, अनात्मज्ञे, यया त्वया ममास्मिन्
9 (अ) प्रयतकरया मात्रा यत्नात् प्रबद्धशिखण्डके
(ब्) चरणविनते पित्राघ्राते शिशुर् गुणवान् इति
(च्) सकुसुमलवैः शान्त्यम्भोभिर् द्विजातिभिर् उक्षिते
(द्) शिरसि चरणो न्यस्तो गर्वान् न गौरवम् ईक्षितम्
एवं चानेनोक्ता विरज्यमानसंध्यारागेव रजनि वर्णान्तरम् उपगता अतिप्रभातचन्द्रनिष्प्रभं वदनम् उद्वहन्ती 10 (अ) व्यपगतमदरागा भ्रश्यमानोपचारा
(ब्) किम् इदम् इति विषादात् स्विन्नसर्वाङ्गयष्टिः
(च्) भयविगलितशोभा वान्तपुष्पेण मूर्ध्ना
(द्) न पुनर् इति वदन्ती पादयोस् तस्य लग्ना
प्रणिपातावनता चानेन निर्धूयोक्ता चर्षणि, मा स्प्राक्षीः, कर्दनेन न मां ढौकितुम् अर्हसीति कष्टं भोः, कोकिला खलु कौशिकम् अनुवर्तते मदनसेनिकापि तं पुरुषवेतालं
[प्.69] कदर्यम् अपवीर्यम् अनुवर्तत इति भवति मे विस्मयः भवति च पुनर् महामात्रपुत्रो राज्ञः शासनाधिकृत इति दानकामाव् उपेक्षते शब्दकामाः खल्व् एता भवन्ति कामे हि प्रयोजनम् अनेकविधम् इत्य् उपदिश्यते किं ब्रवीषि - लब्धं खलु शब्दकामया शब्दप्रधानार्जनाच् छब्दस्य व्यसनम् इति सा हि तपस्विनी
11 (अ) तिर्यक्त्रपावनतपक्ष्मपुटप्रवान्तैर्
(ब्) धौताधरस्तनमुखी नयनाम्बुपातैः
(च्) स्वाङ्गेष्व् अलीयत नवैः सहसा स्तनद्भिर्
(द्) उद्वेजिता जलधरैर् इव राजहंसी इति
न च भोः चित्रम् इदं श्रोतव्यं श्रुतम् न च खल्व् अस्माभिर् विदितार्थैर् अप्य् अतीतं पृष्टम् ततस् ततः किं ब्रवीषि-- ततः स मया निर्भर्त्स्योक्तः: अये वैयाकरणखसूचिन्, सुमनसो मुसलेन मा क्षौत्सीर् वल्लकीम् उल्मुकेन मा वादीर्, वाक्क्षुरेण किसलयक्लीबां मा च्छेत्सीर् मत्तकाशिनीम् इति एवम् उक्तो माम् अनादृत्य विटमहत्तरभट्टिजीमूतगृहं गतः ततः सा
[प्.70] तपस्विनी करकिसलयपर्यस्तकपोलम् आननं कृत्वा प्ररुदिता तत उत्थाप्य मयोक्ता: सुन्दरि, न वानरो वेष्टनम् अर्हति, गर्दभो वा वरप्रवहणं वोढुम् अलम् अलं रुदितेन हास्यः खल्व् एष तपस्वी नैवं महान्तं शिरःसत्कारम् अर्हति
12 (अ) किं कामी न कचग्रहैर् यम् अबलाः क्लिश्यन्ति मत्ता बलाद्
(ब्) यं बध्नन्ति न मेखलाभिर् अथवा न घ्नन्ति कर्णोत्पलैः
(च्) पक्षे तस्य तु मन्मथः सुकृतिनस् तस्योत्सवो यौवनं
(द्) दासेनेव रहस्य् अपेतविनयाः क्रीडन्ति येनाङ्गनाः
एवं चोक्ता स्मितपुरःसरम् अपाङ्गेन मे वचः प्रतिगृह्य सशिरःपादम् अवकुण्ठ्य वाससा शयनतलम् अलंकृतवती अहम् अपि कामिप्रत्यवरस्य दुश्चरितम् अनुचिन्तयन् प्रभातम् - इति रज्ञः प्रभातनान्दीस्वनैर् उत्थापितः कृतकर्तव्यस् तद् एव दुःस्वप्नदर्शनम् इवापनेतुं ब्राह्मणपीठिकां गतः तस्यां च ब्राह्मणपीठिकायां पूर्वगतं कीर्णकेशं विष्णुना-
[प्.71] गम् एवार्तरूपम् आत्मकर्माचक्षमाणम् असाव् अहं भोः एवंकर्मा तं मा वृषल्याः पादावधूतशिरस्कं त्रातुम् अर्हन्ति त्रैविद्यवृद्धा इत्य् उक्तवन्तम् अपश्यम् एवं चोक्ता ब्राह्मणाश् चलकपोलसूचितहासम् अन्योन्यम् अवलोक्य मुहूर्तम् इव ध्यात्वोक्तवन्तः भोः साधो, अवलोकितान्य् अस्माभिर् मनुयमवसिष्ठगौतमभरद्वाजशङ्खलिखितापस्तम्बहारीतप्रचेतो देवलवृद्धगार्ग्यप्रभृतीनां महर्षीणां धर्मशास्त्राणि नास्यैवंविधस्य महतः पातकस्य प्रायश्चित्तम् अवगच्छाम इति एवं चोक्तो विषण्णतरवक्त्र उच्छ्रित्य हस्ताव् उपाक्रोशत् भो भोः, चतुर्थो वर्ण इति न माम् अर्हथ भूमिदेवाः परित्यक्तुम् कुतः
13 (अ) आर्यो ऽस्मि शुद्धचरितो ऽस्मि कुलोद्गतो ऽस्मि
(ब्) शब्दे च हेतुसमये च कृतश्रमो ऽस्मि
(च्) राज्ञो ऽस्मि शासनकरो न पृथग्जनो ऽस्मि
(द्) त्रायध्वम् आर्तम् अगतिं शरणागतो ऽस्मि
एवं चोक्तायां तस्यां परिषदि
[प्.72] 14 (अ) कैश्चिद् गौर् अयम् इत्य् अरत्निचलनैर् अन्योन्यम् आघट्टितं
(ब्) स्याद् उन्मत्त इति स्थितं स्मितमुखैः कैश्चिच् चिरं वीक्षितम्
(च्) कैश्चित् कामपिशाच इत्य् अपि तृणं दत्त्वान्तरे धिक्कृतः
(द्) कैश्चिद् दुष्कृतकारिणीति च पुनः सैवाङ्गना शोचिता

एवमवस्थायां च संसदि तस्यां प्रतिपत्तिमूढेषु ब्राह्मणेषु प्रायश्चित्तविप्रलम्भविह्वले क्रोशति विष्णुनागे तेषाम् एकतम आचार्यपुत्रः स्वयं चाचार्यो दण्डनीत्यान्वीक्षिक्योर् अन्यासु च विद्यास्व् अभिविनीतः कलास्व् अपि च सर्वासु परं कौशलम् अनुप्राप्तो वाग्मी चान्तेवासिगणपरिवृतः परिहासप्रकृतिः शाण्डिल्यो भवस्वामी नाम ब्राह्मणः सव्येतरं हस्तम् उद्यम्य स्मितोदग्रया वाचा परिषदम् आमन्त्र्योक्तवान् अये भो विष्णुनाग, न भेतव्यम् अलम् अलं विषादेन अस्तीदं धर्मवचनं यथा देशजातिकुलतीर्थसमयधर्माश् चाम्नायैर् अविरुद्धाः प्रमाणम् इति अतो विटजातिं संनिपात्य विटमुख्येभ्यः प्रायश्चित्तं मृग्यताम् ते हि त्वाम् अस्मात् किल्बिषान् मोचयिष्यन्ति इत्य् उक्ते साधुवादानुयात्रम् ऊर्ध्वाङ्गुलिप्रनृत्तम् अवर्तत
[प्.73] तस्यां परिषदि तच् छ्रुत्वा विष्णुनागो ऽप्य् अनुगृहीत इति प्रस्थितः त्वं चापि विटसंनिपातकर्मणि नियुक्त इति बाढम्. किं ब्रवीषि - के पुनर् इह भवतो विटाः संमता इति ननु भवान् एव तावद् अग्रे विटः किं ब्रवीषि - कथम् अहम् अपि नाम विटशब्देनानुगृहीत इति कः संशयः? श्रूयताम्
15 (अ) दिवसम् अखिलं कृत्वा वादं सह व्यवहारिभिर्
(ब्) दिवसविगमे भुक्त्वा भोज्यं सुहृद्भवने क्वचित्
(च्) निसि च रमसे वेशस्त्रीभिः क्षिपस्य् अपि चायुधं
(द्) जलम् अपि च ते नास्त्य् आवासे तथापि च कत्थसे
तत् कथं त्वम् अविटः किं ब्रवीषि - यद्य् एवम् अनुगृहीतः संनिपातयिष्यसि विटान् विटलक्षणं तावच् छ्रोतुम् इच्छाम इति प्रथमः कल्पः श्रूयताम्
16 (अ) स्वैः प्राणैर् अपि विद्विषः प्रणयिणाम् आपत्सु यो रक्षिता
(ब्) यस्यार्तौ भवति स्व एव शरणं खड्गद्वितीयो भुजः
(च्) संघर्षान् मदनातुरो मृगयते यं वारमुख्याजनः
(द्) स ज्ञेयो विट इत्य् अपावृतधनो यो नित्यम् एवार्थिषु
अपि च
17 (अ) चरणकमलयुग्मैर् अर्चितं सुन्दरीणां
[प्.74] (ब्) समकुटम् इव तुष्ट्या यो बिभर्त्य् उत्तमाङ्गम्
(च्) स विट इति विटज्ञैः कीर्त्यते यस्य चार्थान्
(द्) सलिलम् इव तृषार्ताः पाणियुग्मैर् हरन्ति
किं ब्रवीषि - उक्तं विटलक्षणं, विटान् इदानीम् उपदेष्टुम् अर्हसीति श्रूयतां: तत्रभवान् कामचारो भाणुर्, लोमशो गुप्तो ऽमात्यो विष्णुदासः, शैब्य आर्यरक्षितो, दाशेरको रुद्रवर्मावन्तिकः स्कन्दस्वामी, हरिश्चन्द्रो भिषग्, आभीरकः कुमारो मयूरदत्तो, मार्दङ्गिकः स्थाणुर् गान्धर्वसेनक, उपायनिरन्तकथः, पार्वतीयः प्रथमो ऽपरान्ताधिपतिर् इन्द्रवर्मानन्दपुरकः कुमारो मखवर्मा, सौराष्ट्रिको जयनन्दको, मौद्गल्यो दयितविष्णुर् इत्य् एवमादयो यथासंभवं संनिपात्याः किं
[प्.75] ब्रवीषि - सर्वं तावत् तिष्ठतु दयितविष्णुर् अपि भवतो विटः संमत इति कः संदेहः किं ब्रवीषि - एष यो ऽयं राज्ञो बलेष्वधिकृतः पारशवः कविर् इति बाढम् एवम् एवैतत् किं ब्रवीषि - मा तावद् भोः
18 (अ) यः संकुचत्य् उपहितप्रणयो ऽपि राज्ञो
(ब्) यो मङ्गलैः स्वपिति च प्रतिबुध्यते च
(च्) देवार्चनाद् अपि च गुल्गुलुगन्धवासा
(द्) यो ऽसौ किणत्रयकठोरललाटजानुः
अपि च
19 (अ) देवकुलाद् राजकुलं राजकुलाद् याति देवकुलम् एव
(ब्) इति यस्य यान्ति दिवसाः कुलद्वये संप्रसक्तस्य
कथम् असाव् अपि विट इति आ एवम् एतत् अस्तीदम् अस्य विटभावप्रत्यनीकभूतं पुराणघृतगन्ध इव किं तु
20 (अ) पूर्वावन्तिषु यस्य वेशकलहे हस्ताग्रशाखा हृता
[प्.76] (ब्) सक्थ्नोः संयति यस्य पद्मनगरे द्विड्भिर् निखाताव् इषू
(च्) बाहू यस्य विभिद्य भूर् अधिगता यन्त्रेषुणा वैदिशे
(द्) यो वाजीकरणार्थम् उज्झति वसून्य् अद्यापि वैद्यादिषु
21 (अ) यस्माद् ददाति स वसूनि विलासिनीभ्यः
(ब्) क्षीणेन्द्रियो ऽपि रमते रतिसंकथाभिः
(च्) तस्माल् लिखामि धुरि तं विटपुंगवानां
(द्) रागो हि रञ्जयति वित्तवतां न शक्तिः कथम् असाव् अविटः
किं ब्रवीषि - एवं चेद् अग्रणीर् विटानाम् इति तस्माद् एवायं धुरि लिखितः गच्छतु भवान् स्वस्ति भवते साधयामस् तावत् (परिक्रम्य) एषो ऽस्मि नगररथ्याम् अवतीर्णः अहो नु खलु जम्बूद्वीपतिलकभूतस्य सर्वरत्नाविष्कृतविभूतेः सार्वभौमनरेन्द्राधिष्ठितस्य सार्वभौमनगरस्य परा स्रिः इह हि
22 (अ) संगीतैर् वनिताविभूषणरवैः क्रीडाशकुन्तस्वनैः
(ब्) स्वाध्यायध्वनिभिर् धनुःस्वनयुतैः सूनासिशब्दैर् अपि
(च्) पात्रीणां गृहसारसप्रतिरुतैः कक्ष्यान्तरेषु स्वनैः
[प्.77] (द्) संजल्पान् इव कुर्वते व्यतिकरात् प्रासादमालाः सिताः
अपि च

23 (अ) गिरिभ्यो ऽरण्येभ्यः सलिलनिधिकच्छाद् अपि मरोर्
(ब्) नरेन्द्रैर् आयातैर् दिशि दिसि निविष्टैस् च शतसः
(च्) विचित्राम् एकस्थाम् अनवगतपूर्वाम् अविकलाम्
(द्) इह स्रष्टुः सृष्टेर् बहुविषयतां पस्यति जनः
24 (अ) शकयवनतुखारपारसीकैर्
(ब्) मगधकिरातकलिङ्गवङ्गकाशैः
(च्) नगरम् अतिमुदायुतं समन्तान्
(द्) महिषकचोलकपाण्ड्यकेरलैश् च
(विलोक्य) अये को नु खल्व् एषो ऽवमुक्तकञ्चुकया धवलशिबिकयेभ्यविधवालीलां विडम्बयन्न् इत एवाभिवर्तते (विमृश्य) भवतु विज्ञातम् एष हि स वेत्रदण्डकुण्डिकाभाण्डसूचितो वृषलचौक्षो ऽमात्यो विष्णुदासः अनेन ह्य् एवं महत्य् अपि प्राड्विवाककर्मणि नियुक्तेन ध्यानाभ्यासपरवत्तयोपेक्षाविहारिणेव भिक्षुणा नात्यर्थं राजकार्याणि क्रियन्ते तथा हि
[प्.78] 25 (अ) करविचलितजानुः कैश्चिद् अर्धासनस्थैः
(ब्) समवनतशिरोभिः कैश्चिद् आकृष्टपादः
(च्) अधिकरणगतो ऽपि क्रोशतां कार्यकाणां
(द्) विपणिवृष इवैष ध्याति निद्रां च याति तत् कामं विटजनप्रत्यनीकभूतम् अस्य दर्शनम् तथापि धर्मम् उपदिशन्न् अभिगम्य एव का गतिर्? उपसर्पाम्य् एनम् एष खलु दूराद् एव माम् अवलोक्य शिबिकाम् अवतार्यावतरति अये भोः, मर्षयतु भवान् नार्हस्य् अस्मान् उपचारयन्त्रणया विजनिकर्तुम् किं ब्रवीषि - कश् च भवन्तम् उपचरति आचारो ऽयम् अस्माभिर् अनुवर्त्यत इति मा तावद् भोः - एवम् उपचरता युक्तं नाम भवता तत्रभवतीम् अनङ्गसेनाम् अनङ्गसेनाम् इव प्रणयाभिमुखीं तथा विमुखयितुम् किं ब्रवीषि - किं मया न तस्याः प्रणयानुरूपः संपरिग्रहः कृतः पश्यतु भवान् सा हि मया
26 (अ) स्वस्तीत्य् उक्त्वा वन्दनायां कृतायाम्
(ब्) आसीनायां वाचितं योगशास्त्रम्
(च्) नेत्रे चास्या वायुनेवेर्यमाणे
[प्.79] (द्) संप्रेक्ष्योक्ता पुत्रि सर्पिः पिबेति
तत् कथं न संप्रतिगृहीता मयेति अहो कामिन्या ललितसंपरिग्रहः कृतः एष मां प्रहस्य चौक्षोपायनेन बीजपूरकेण प्रसादयति अये भो, युष्मदन्तेवासिन एव वयम् ईदृशेषु प्रयोजनेषु नोत्कोटनाभिर् वञ्चयितुं सक्याः सर्वथा \दोत्स् - ईदृस एवास्तु भवान् साधयामस् तावत् (परिक्रम्य) एष भो अनेकदेसस्थलजजलजसारफल्गुपण्यक्रयवि क्र यो पस्थितस्त्रि पुरुषसं बाधान्तरा पणां सार्वभौमस्य विपणिम् अनुप्राप्तः अहो बतास्याः
27 (अ) सकुनीनाम् इवावासे प्रचारेषु गवाम् इव
(ब्) जनानां व्यवहारेषु संनिपातो महाध्वनिः
तथा हि
28 (अ) स्वरः सानुस्वारः परिपतति कर्मारविपणौ
(ब्) भ्रमारूढं कांस्यं कुररविरुतानीव कुरुते
(च्) धृतं शङ्खे शस्त्रं रसति तुरगस्वासपिशुनं
(द्) समन्ताच् चाप्नोति क्रयम् अपि जनो विक्रयम् अपि
अपि चेदानीम्
29 (अ) सुमनस इमा विक्रीयन्ते हसन्त्य इव स्रिया
[प्.80] (ब्) चरति चषकः पानागारेष्व् अतः परिपीयते
(च्) करधृततृणैर् मांसक्रायैर् अपाङ्गनिरीक्षिता
(द्) नगरविहगाः सूनाम् एते पतन्त्य् असिमालिनीम्
अपि च
30 (अ) अंसेनांसम् अभिघ्नतां विवदतां तत् तच् च संक्रीणतां
(ब्) सस्यानाम् इव पङ्क्तयः प्रचलिता न्ट्णाम् अमी राशयः
(च्) द्यूताद् आहृतमाषकाश् च कितवा वेशाय गच्छन्त्य् अमी
(द्) संप्राप्ताः परिचारकैः सकुसुमैः सापूपमांसासवैः
तद् यावद् अहम् अपीदानीं महाजनसंमर्ददुर्गमं विपणिमार्गम् उत्सृज्येमां पुष्पवीथिकाम् अन्तरेण पानागाराण्य् अपसव्यम् उपावर्तमानः पूर्णभद्रशृङ्गाटकम् अवतीर्य मकररथ्यया वेशमार्गम् अवगाहिष्ये तत् कामम् असंगृहीतमाषकस्य वेशप्रवेशो निरायुधस्य संग्रामावतरणम् इत्य् उभयम् अपार्थकं केवलम् अयशसे चानर्थाय च किं तु सुहृन्निदेशो ऽयम् अस्माभिर् अवश्यं निर्वर्तयितव्यः विशेषेण हि भूयाद् वेशे विटसंनिपातः (परिक्रम्य) अये को नु खल्व् एष रोहितकीयैर् मार्दङ्गिकैः कंसपात्रवेणुमिश्रैर् योधेयक-
[प्.81] वर्णैर् उपगीयमान एकश्रवणावलम्बितकुरण्टकशेखरो विरलम् अपसव्यम् आकुलदशम् उत्तरीयम् अपवर्तिकया संक्षिपन् मुहुर् मुहुः प्रकटैकस्फिक् सव्येन पाणिना मद्यभाजनम् उत्क्षिप्य नृत्यन्न् आपानमण्डपं हासयति (निर्वर्ण्य) आः ज्ञातम् एष हि स बाल्हिकपुत्रः सर्वधूर्तपरिहासैकभाजनभूतो वेशकुक्कुटो बाष्पो धान्त्रः भोः यत् सत्यं न कदाचिद् अप्य् एनम् अमत्तम् अपीतं वा पश्यामि समं चायम् अमृक्षितहस्तो माषकार्धेनापि तत् कुतो ऽस्यैतद् उपपद्यते (वितर्क्य) हन्त विज्ञातम्. एष हि पुरोभागी लज्जावियुक्तः सर्वंकषः सार्वजनीनत्वात्
31 (अ) आबद्धमण्डलानां
(ब्) पिबताम् उपदंशमुष्टिम् आदाय
(च्) प्रविसति बाष्पो मध्यं

[प्.82] ( द्) नटनटिचेटाश्वबन्धानाम्
अहो नु खल्व् अस्य पानोपार्जने विज्ञानम् तद् अलम् अनेनाभिभाषितेन इतो वयम् (परिक्रम्य) इदम् अपरं जङ्गमं जीर्णोद्यानं विटजनस्य एषा हि पुराणपुंश्चली धरणिगुप्ता नाम कामदेवायतनाद् देवताया उपयाचितं निर्वर्त्य स्फुटितकाशवल्लरीश्वेतम् आगलितम् अंसदेशाद् उपरि केशहस्तं विन्यस्यन्ती सद्योधौतनिवसना विगलितम् उत्तरीयम् एकांसे प्रतिसमादधाना बलिविक्षेपोपनिपतितैर् बलिभृतैः परिवृतं मयूरं नृत्यन्तम् अपाङ्गेनावलोकयन्ती मकरयष्टिं प्रदक्षिणीकरोति भोः यत् सत्यम् अद्याप्य् अस्याश् चिरातिक्रान्तं यौवनविभ्रमं विलासशेषं कथयति तथा हि
32 (अ) श्वेताभिर् नखराजिभिः परिवृतौ व्यावृत्तमूलौ स्तनौ
(ब्) सृक्वण्योः शिथिलश् च मध्यगडुलो निष्पीतपूर्वो ऽधरः
[प्.83] (च्) सभ्रूक्षेपम् उदाहृतं परिचयाद् अद्यापि युक्तोत्तरं
(द्) रूपं हि प्रहृतं प्रसह्य जरया नास्या विलासा हृताः
तन् न शक्यम् एनाम् अनभिभाष्यातिक्रमितुम् एषा ह्य् अस्माकं प्रियवयस्यं मार्दङ्गिकं स्थाणुमित्रं मित्रं व्यपदिशन्ती क्रौञ्चरसायनोपयोगम् आत्मनः प्रकाशयति तत् कथम् एनाम् उपसर्पामि (विचिन्त्य) आज्ञातम् अस्या हि \दोत्स् --इतस् तृतीये ऽहनि तपस्वी स्थाणुमित्रश् चुम्बनातिप्रसङ्गात् तथा बीभत्सम् अनुभूतवान् अहो धिग् अकरुणो रागः
33 (अ) चुम्बनरक्तः सो ऽस्या
दशनं च्युतमूलम् आत्मनो वदने
(ब्) जिह्वामूलस्पृष्टं
खाड् इति कृत्वा निरष्ठीवत्
[प्.84] तत् कमं वेशम् अवतितीर्षुस् तीर्थम् इदम् अतिक्रामन् वञ्चितः स्याम् तथापि त्व् आविष्कृतम् अस्याः स्थाणुमित्रवदने दन्तनिपतनम् तन् नाभिगमनेन व्रीडां पुनरुक्तीकरोमि सर्वथा नमो ऽस्यै साधयाम्य् अहम् (परिक्रम्य) एसो ऽस्मि वेशम् अवतीर्णः अहो नु खलु वेशस्य परा श्रीः इह हि - एतानि पृथक्पृथङ्निविष्टानि रुचिरवप्रनेमिसालहर्म्यशिखरकपोतपालीसिंहकर्णगोपानसीवलभीपुटाट्टालकावलोकनप्रतोलीविटङ्कप्रासादसंबाधान्य् असंबाधकक्ष्याविभागानि भागे निमितानि सुनिर्मितरुचिरखातपूरितसिक्तसुषिरफूत्कृतोत्कोटितलिप्तलिखितसूक्ष्मस्थूलविविक्तरू पशतनि बद्धानि बद्धसंधिद्वारगवाक्षवितर्दिसंजवनवीथीनिर्व्यूहकान्य्
[प्.85] एकद्वित्रिपादपालंकृतमध्यकोद्देशान्य् उद्देश्यवृक्षकहरितकफलमाल्यषण्डमण्डितानि पुण्डरीकशबलितविमलवापीतोयानि तोयान्तरविहितदारुपर्वतभूमिलतागृहचित्रशालालंकृतानि परार्ध्यमुक्ताप्रवालकिङ्किणीजालाविष्कृतपरिष्कराण्य् उच्छ्रितसौभाग्यवैजयन्तीपताकान्य् उत्पतन्तीव गगनतलम् अवनितलाद् भवनवरावतंसकानि वारमुख्यानाम् यत्रैते
34 (अ) आसीनैर् अवलीढचक्रवलयैर् मीलद्भिर् आवन्तिकैर्
(ब्) धार्यारूढकिरातसंगतधुरास् तिष्ठन्ति कर्णीरथाः
(च्) एते च द्विगुणीकृतोत्तरकुथा निद्रालसाधोरणाः
(द्) काम्बोजाश् च करेणवश् च कथयन्त्य् अन्तर्गतान् स्वामिनः
अपि चास्मिन् वेशे
35 (अ) नयनसलिलैर् यैर् एवैको व्रजन्न् अभिवाह्यते
(ब्) प्रततविसृतैस् तैर् एवान्यो गृहान् अतिनीयते
(च्) अकृशविभवेष्व् आसाम् आस्था तथापि कृतव्ययाः
( द्) समनुपतिता निर्भर्त्स्यन्ते बलात् किल मातृभिः
(परिक्रम्य)
[प्.86] 36-39 इयम् अनुनयति प्रियं क्रुद्धम् एषा प्रियेणानुनीता प्रसीदत्य्
असौ सप्ततन्त्रीर् नखैर् घट्टयन्ती कलं काकलीपञ्चमप्रायम् उत्कण्ठिता वल्गुगीतापदेशेन विक्रोशति
इयम् उपहितदर्पणा कामिना मण्ड्यते कामिनी कामिनो मौलिम्
एषा निबध्नात्य् असौ शारिकां स्पष्टम् आलापयत्य् एष मत्तो
मयूरो ऽनया चूतपुष्पेण संतर्जितो नृत्यति
कथम् इयम् अतिकन्दुकक्रीडया मध्यम् आयासयत्य् अल्पम् एषा
प्रियेणोपविष्टा सहाक्षैः परिक्रीडति प्रौढया चानयैतत् स्वयं लिख्यते चित्रम् आख्यायिकासौ पुनर् वाच्यते
अलम् अलम् अतिसंभ्रमेणास्यतां वासु भद्रे चिराद् दृश्यसे
किं ब्रवीष्य् अद्य तं प्रष्टुम् अर्हस्य् अहं येन मुग्धा तथा
वञ्चितेति प्रसाद्यासि नः स्वस्ति ते सर्वथा साधयामो वयम्
[प्.87] (परिक्रम्य) इदम् अपरं सुहृत्पत्तनम् उपस्थितम् एष हि स बाल्हिकः काङ्कायनो भिषग् ऐशानचन्द्रिः हरिश्चन्द्रश् चन्द्र इव कुमुदवापीं वेशवीथीम् अवभासयन्न् इत एवाभिवर्तते तत् किम् अस्येह प्रयोजनम् (विचिन्त्य) आ ज्ञातम् एष हि तस्याः पूर्वप्रणयिन्या यशोमत्या भगिनीं प्रियङ्गुयष्टिकां कामयते अस्मान् अपि रहस्येनातिसंधत्ते तन् न शक्यम् एनम् अप्रतिपद्य गन्तुम् यावद् उपसर्पामि (उपगम्य) अंघो वेशबिसवनैकचक्रवाक, कुतो भवान् किं ब्रवीषि - एष हि तस्याः प्रियसख्यास् ते कनीयसीं प्रियङ्गुयष्टिकाम् औषधेन संभाव्यागच्छामीति न खलु तस्याः सुरतसुभिक्षाया आमयावसन्नो मदनाग्निस् तस्य दीपनीयकम् उद्दिष्टवान् असि किं ब्रवीषि - मुक्तः परिहासः. कष्टा खलु तस्याः शिरोवेदनेति वयस्य यत् सत् यम् किं ब्रवीषि - कः संदेहः? कृच्छ्रसाध्येति एवम् एतत् शिरोवेदना नाम गणिकाजनस्य लक्ष्यव्याधियौतकम् पश्यतु भवान्
40 (अ) ललाटे विन्यस्य क्षतजसदृशं चन्दनरसं
(ब्) मृणालैः क्रीडन्ती कुवलयपलाशैः सकमलैः
[प्.88] (च्) सलीलं भ्रूक्षेपैर् अनुगतसुखप्राश्निककथा
( द्) विरक्ता रक्ता वा शिरसि रुजम् आख्याति गणिका
किं ब्रवीषि - सदापि नाम त्वं कर्कशपरिहासः एष खलु ताम् औषधं प्रापाय्यागच्छामीति युक्तम् एतत् असंशयं हि
41 (अ) धून्वन्त्याः करपल्लवं वलयिनं घ्नन्त्याः पदा कुट्टिमं

(ब्) बिभ्रन्त्याश् च्युतम् अंशुकं सरशनं नाभेर् अधः पाणिना
(च्) तस्या दीर्घतरीकृताक्षम् अपिबः केशग्रहैर् आननं
(द्) सा वा त्वद्दशनच्छदौषधमलं बाला त्वया पायिता
किं ब्रवीषि - वयस्य एव तथा विधास्यतीति चोर यदि न पुनर् अस्मान् रहस्येनावक्षेप्स्यसि किं त्व् अद्य सर्वविटैः सर्वविटमहत्तरस्य भट्टिजीमूतस्य गृहे केनचित् प्रयोजनेन संनिपतितव्यम् तद् वयस्यो ऽप्य् अहीनकालम् आगच्छेत् किं ब्रवीषि - विदितम् एवैतद् विटजनस्य यथा विष्णुनागप्रायश्चित्तदानायापराह्णे समागन्तव्यम् इति तद् गच्छतु भवान् अहम् अप्य् आगच्छामीति तथा नाम स्वस्ति भवते साधयामस् तावत् (परिक्रम्य) कथम् इदं सर्वविटैर् विदितम् तेन ह्य् अल्पपरिश्रमो ऽस्मि संजातः केवलं वेश्यासुहृत्समागमैः
[प्.89] कालो ऽनुपालयितव्यः अये कस्य खल्व् अयम् अहूणो हूणमण्डनमण्डित आर्यघोटकः पाटलिपुत्रिकायाः पुष्पदास्या भवनद्वारम् आविष्करोति (निर्वर्ण्य) आ ज्ञातम्. एभिर् इहाबद्धश्वेतकाष्ठकऋनिकाप्रहसितकपोलदेशैर् बद् धकरैर् असज्जम् अप्य् असकृत् सज्जम् इति साञ्जलिप्रतिवादिभिर् लाटडिण्डिभिः सूचितः सेनापतेः सेनकस्यापत्यरत्नं भट्टिमखवर्मा भविष्यति तन् न शक्यम् एनम् अनभिभाषातिक्रमितुम् अतिक्रामन् हि स्नेहमाध्यस्थं दर्शयेयम् यावद् एनम् उपसर्पामि (उपेत्य) भोः कः सुहृद्गृहे (कर्णं दत्त्वा) एष खलु भट्टिमखवर्मा माम् आह्वयति किं ब्रवीषि - वयस्य किम् अद्याप्य् अपूर्वप्रतिहारोपस्थानेन चिरोत्सन्नो राजभावो ऽस्मास्व् आधीयते स्थीयतां मुहूर्तम् आगच्छामीति सखे स्थितो ऽस्मि (विलोक्य) इत इतो भवान् एष खलु पुलिनावतीर्णवृषभपदोद्धरणखेलैश् चरणविन्यासैर् भवनकक्ष्याम् अलंकुर्वन्न् इत एवाभिवर्तते भट्टिः अहो नु खल्व् अस्य विलासेष्व् अभ्यासः वेशो विलास इत्य् उपपन्नम् एतद् अपि च
42 (अ) विलोलभुजगामिना रुचिरपीवरांसोरसा
(ब्) विलासचतुरभ्रुवा मुहुर् अपाङ्गविप्रेक्षिणा
(च्) अनेन हि नरेन्द्रसद्म विशता पदैर् मन्थरैर्
[प्.90] (द्) अवीणम् अमृदङ्गम् एकनटनाटकं नाट्यते यावद् एनम् आलपामि भट्टिमखवर्मन्, किम् अयम् अतिदिवाविहारेण सुहृज्जन उत्कण्ठ्यते साधु मुहूर्तम् अपि तावद् युष्मद्दर्शनेनानुगृह्येत एष खलु विहसन्न् आकुलापसव्यपरिधानं श्वासविषमिताक्षरं स्वागतम् इत्य् अञ्जलिनाभ्युपैति भो यदैतावद् अनेनाद्यैव पुष्पदासी पुष्पवतीति मह्यम् आख्याता, तथापि कथम् उपभुक्तैव (विचिन्त्य) लाटडिण्डिनो नामैते नातिभिन्नाः पिशाचेभ्यः कुतः सर्वो हि लाटः
43 (अ) नग्नः स्नाति महाजने ऽम्भसि सदा नेनेक्ति वासः स्वयं
(ब्) केशान् आकुलयत्य् अधौतचरणः शय्यां समाक्रामति
(च्) यत् तद् भक्षयति व्रजन्न् अपि पथा धत्ते पटं पाटितं
(द्) छिद्रे चापि सकृत् प्रहृत्य सहसा लाटश् चिरं कत्थते
सर्वथा कृतम् अनेन स्वदेशौपयिकम् मा तावद् भोः
44 (अ) अविचिन्त्य फलं वल्ल्यास्
त्वया पुष्पवधः कृतः
किं ब्रवीषि - कथम् इति
(ब्) इदं हि रजसा ध्वस्तम्
उत्तरीयं विलोक्यताम्
किं ब्रवीषि - शय्यान्तावलम्बितं ताम्बूलावसिक्तम् एतद्
[प्.91] अवगच्छामीति मा तावत् इदं क्षुद्रमुक्ताफलावकीर्णम् इव ललाटं स्वेदबिन्दुभिः किम् इति वक्ष्यति एष पार्श्वम् अवधायोच्चैः प्रहसितः हण्डे जघन्यकामुक कथम् अनया छलितः किं ब्रवीषि - कश् छलितो नाम, नन्व् अनुगृहीतो ऽस्मि श्रूयताम् सा हि
45 (अ) विपुलतरललाटा संयताग्रालकत्वाद्
(ब्) रचितजघनभारा वाससार्धोरुकेण
(च्) विवृततनुर् अपोढप्रागलंकारभारा
(द्) कथय कथम् अगम्या पुष्पिता स्त्रीलता स्यात्
अपि च श्रोतुम् अर्हति भवान्
46 (अ) पार्श्वावर्तितलोचना नखपदान्य् आलोकयन्ती मया
(ब्) दृष्टा चेषद् अवाङ्मुखी स्वभवनप्रत्यातपे ऽवस्थिता
(च्) संगृह्याथ करद्वयेन कठिनाव् उत्कम्पमानौ स्तनौ
(द्) प्राविश्यान्तरगारम् अर्गलवता द्वारं करेणावृणोत्
ततो ऽहम् अनुद्रुतं प्रविश्य
47 (अ) कचनिग्रहदीर्घलोचनां
(ब्) रभसावर्तितवल्गितस्तनीम्
(च्) किम् असीति नहीति वादिनीं
( द्) समचुम्बं सहसा विलासिनीम् इति
भोः, चित्रः खलु प्रस्तावः पृच्छामस् तावद् एनाम्
[प्.92] ततस् ततः किं ब्रवीषि - अथ सखे
48 (अ) समुपस्थितस्य जघनं
रशनात्यागाद् विविक्ततरबिम्बम्
(ब्) पाणिभ्यां व्रीडितया

निमीलिते मे ऽनया नयने इति
धिक् त्वाम् अस्तु अविकत्थन, उद्वेजनीयो ह्य् असि निन्द्यश् चार्यजनस्य संवृत्तः किं ब्रवीषि - एवम् अप्य् अनुगृहीतो ऽस्मि न त्वया महाभारते श्रुतपूर्वम्
49 (अ) यस्यामित्रा न बहवो
यस्मान् नोद्विजते जनः
(ब्) यं समेत्य न निन्दन्ति
स पार्थ पुरुषाधमः इति
भो, एतत् खलु डिण्डित्वं नाम तथापि - साधु भोः, प्रीतो ऽस्मि भवतो ऽनेन डिण्डित्वेन सर्वथा विटेष्व् आधिराज्यम् अर्हसि अयम् इदानीम् आशीर्वादः किं ब्रवीषि - अवहितोऽस्मीति श्रूयताम्
50 (अ) प्रभातम् अवगम्य पृष्ठम् उपगूह्य सुप्तस्य ते
(ब्) प्रगल्भम् अधिरुह्य पार्श्वम् अपवाससैकोरुणा
(च्) तथैव हि कचग्रहेण परिवर्त्य वक्त्राम्बुजं
(द्) पिबत्व् अथ च पाययत्व् अधरम् आत्मनस् त्वां प्रिया
[प्.93] एष खल्व् अनुगृहीतो ऽस्मीत्य् उक्त्वा पलायते नमो ऽस्तु भगवते साधयामस् तावत् (परिक्रम्य) अये का नु खल्व् एषा स्वभवनावलोकनम् अप्सरा विमानम् इवालंकरोति एषा हि सा काशीनां वारमुख्या पराक्रमिका नाम सुखमतिः पिञ्छोलया क्रीडन्ती रूपलावण्यविभ्रमैर् लोचनम् अनुगृह्णाति आश्चर्यम्
51 (अ) विरचितकुचभारा हेमवैकक्ष्यकेण
(ब्) स्फुटविवृतनितम्बा वाससार्धोरुकेण
(च्) विचरति चलयन्ती कामिनां चित्तम् एषा
(द्) किसलयम् इव लोला चञ्चलं वेशवल्ल्याः
अपि च
52 (अ) गण्डान्तागलितैककुण्डलमणिच्छायानुलिप्ताननाम्
(ब्) अन्वभ्यस्ततया हिकारपिशुनैः श्वासैर् अवाक्तालुभिः
(च्) पिञ्छोलाम् अधरे निवेश्य मधुराम् आवादयन्तीम् इमां
(द्) मण्डूकस्वनशङ्कितो गृहशिखी पर्येति वक्राननः
किं नु खल्व् अस्या उदवसिताद् इन्द्रस्वामिनो रहस्यसचिवो हिरण्यगर्भको निष्पत्येत एवाभिवर्तते किम् अत्राश्चर्यम् इन्द्रस्वामी हिरण्यगर्भको वेश इति संहितम् इदं तप्तं तप्तेनेति एष माम् अञ्जलिनोपसर्पति हण्डे हिरण्यगर्भक, किम् इदं वेशदेवायतनम् अपरान्तपिशाचैर् विध्वंसयितुम् इष्यते
[प्.94] किं ब्रवीषि - एष खलु स्वामिनो ऽस्मि विदेशरागेणैवं धुरि नियुक्तः एषा हि पूर्वं पञ्चसुवर्णशतानि गणयति अधुना सहस्रेणाप्य् उपनिमन्त्रितापि मात्रापि विनियुज्यमाना नैव शक्यते तीर्थम् अवतारयितुम् तद् अर्हसि त्वम् अपि तावद् एनां गमयितुम् इति अत्यार्जवः खल्व् असि न हि शतसहस्रेणापि प्राणा लभ्यन्ते किं ब्रवीषि - किं चास्याः प्राणसंदेहे कारणम् अस्मासु पश्यसीति आविष्कृतं हि तत्रभवत्या भर्तृस्वामिनश् चामरग्राहिण्या कुटङ्गदास्या स्वामिनः संसर्गात् तथाभूतं व्यसनम् अनुभूतम् किं ब्रवीषि - आलभस्व तावद् इदं मे शरीरम् सत् यम् एवेदम् इति असत्येन न स्वामिनम् एवं ब्रूयात् किं ब्रवीषि - चिराभ्यस्तम् एवेदम् अस्मत्स्वामिपादानाम् इति अत एव न शक्यम् अन्यथा कारयितुम् न चैतद् एवम्. पश्यतु भवान्
53 (अ) काव्ये गान्धर्वे नृत्तशास्त्रे विधिज्ञं
(ब्) दक्षं दातारं दक्षिणं दाक्षिणात्यम्
(च्) वेश्या का नेच्छेत् स्वामिनं कोङ्कणानां
(द्) स्याच् चेद् अस्य स्त्रीष्व् आर्जवात् संनिपातः
अपि च
[प्.95] 54 (अ) संचारयन् कलभकं गजनर्तकं वा
(ब्) वेश्याङ्गणेषु भगदत्त इवेन्द्रदत्तः
(च्) उद्वीक्ष्यते स्तननिविष्टकराम्बुजाभिर्
( द्) व्याघ्रो मृगीभिर् इव वारविलासिनीभिः
अपि चैषा भर्तुर् नो ऽधिराजस्य स्यालं पारशवं कौशिकं सिंहवर्माणं मित्रम् अपदिशन्ती सर्वान् कामिनः प्रत्याख्यानेन व्रीडयति किं ब्रवीषि - किं च तस्यैषातिकामितयावमन्यत इति युष्मद्देशौपयिकम् एव किल सततम् अतिसेवनम् किं ब्रवीषि - देशौपयिकम् अदेशौपयिकम् इति नावगच्छामि विस्पष्टम् अभिधीयताम् इति एवम् अनुगृहीतः कथं न कथयिष्यामि श्रूयताम्
55 (अ) श्रवणनिकटजैर् नखावपातैर्
(ब्) वनगजदम्य इवाङ्कितः प्रतोदैः
(च्) विवृतजघनभूषणां विवस्त्रां
(द्) वृष इव वत्सतरीम् इहोपयाति
किं ब्रवीषि - तेन ह्य् अनेनैवोपायनेनैनम् उपस्थास्यामीति
यद्य् एवम् इन्द्रस्वामी विज्ञाप्यः
56 (अ) दशनमण्डलचित्रककुन्दरां

(ब्) दयितमाल्यनिवासितमेखलाम्
[प्.96] (च्) त्वदपरं प्रति सा जघनस्थलीं
( द्) न विवृणोति वृतापि शतंशतैः
स्वस्ति भवते साधयामस् तावत् (परिक्रम्य) अये को नु खल्व् एष शौर्पकारिकाया रामदास्या भवनान् निष्पत्य डिण्डिगणपरिवृतो वेशम् आविष्करोति (विलोक्य) एतज् जङ्गमं विटतीर्थम् उदीच्यानां बाल्हिकानां कारूशमलदानां चेश्वरो महाप्रतीहारो भद्रायुध एषः
57 (अ) विरचितकुन्तलमौलिः
श्र वणार्पितकाष्ठ वि पुलसितकलशः
(ब्) जनम् आलपञ् जकारैर्
उन्नाटयतीव लाटानाम्
का च तावद् अस्य लाटेषु साधुदृष्टिर् एतावत् सर्वो हि लाटः
58 (अ) संवेष्ट्य द्वाव् उत्तरीयेण बाहू
(ब्) रज्ज्वा मध्यं वाससा संनिबध्य
( च्) प्रत्युद्गच्छन् संमुखीनं शकारैः
(द्) पादापातैर् अंसकुब्जः प्रयाति
अपि च
[प्.97] 59 (अ) उरसि कृतकपोतकः कराभ्यां
(ब्) वदति जजेति यकारहीनम् उच्चैः
(च्) समयुगलनिबद्धमध्यदेशो
(द्) व्रजति च पङ्कम् इव स्पृशन् कराग्रैः
सर्वथा नास्त्य् अपिशाचम् ऐश्वर्यम् अथवास्यैवैकस्य देशान्तरविहारो युक्तः कुतः
60 (अ) येनापरान्तशकमालवभूपतीनां
(ब्) कृत्वा शिरःसु चरणौ चरता यथेष्टम्
(च्) काले ऽभ्युपेत्य जननीं जननीं च गङ्गाम्
(द्) आविष्कृता मगधराजकुलस्य लक्ष्मीः
अपि च
61 (अ) वेलानिलैर् मृदुभिर् आकुलितालकान्ता
(ब्) गायन्ति यस्य चरितान्य् अपरान्तकान्ताः
(च्) उत्कण्ठिताः समवलम्ब्य लतास् तरूणां
(द्) हिन्तालमालिषु तटेषु महार्णवस्य
किं तद् गीतम्
62 (अ) उ हि माणुसो त्ति भड्डा-
उहेण णवि कोवि लिच्छै आउहे
(ब्) ण सोण्णारि तस्स कम्मसिद्धिं
विडा हि खलु भुञ्जन्ति सोकरसिद्धिं
[प्.98] (परिक्रम्य) एष खलु प्रद्युम्नदेवायतनस्य वैजयन्तीम् अभिलिखति एतड् डिण्डित्वं नाम भोः डिण्डिनो हि नामैते नातिविप्रकृष्टा वानरेभ्यः भोः किं च तावद् अस्य डिण्डिकेषु प्रियत्वम् डिण्डिनो हि नाम
63 (अ) आलेख्यम् आत्मलिपिभिर् गमयन्ति नाशं
(ब्) सौधेषु कूर्चकमषीमलम् अर्पयन्ति
(च्) आदाय तीक्ष्णतरधारम् अयोविकारं
( द्) प्रासादभूमिषु घुणक्रियया चरन्ति
किं च तावद् अयं लिखति (विलोक्य) निरपेक्ष इति
स्थाने खल्व् अस्येदं नाम सुष्ठु खल्व् इदम् उच्यते - अर्थं नाम शीलस्योपहरतीति तथा ह्य् एष धान्त्रस् तां नः प्रियसखीम् अनपेक्षया वेशतापसीव्रतेन कर्शयति सा हि तपस्विनी

64 (अ) नेत्राम्बु पक्ष्मभिर् अरालघनासिताग्रैर्
(ब्) नेत्राम्बुधौतवलयेन करेण वक्त्रम्
(च्) शोकं गुरुं च हृदयेन समं बिभर्ति
(द्) त्रीणि त्रिधा त्रिवलिजिह्मितरोमराजिः
तद् उपालप्स्ये तावद् एन् अम् भो भगवन् निरपेक्ष, करुणात्मकस्य भवतो मैत्रीम् आदाय वर्तमानस्य त्वयि मुदितायां योषिति युक्तम् उपेक्षाविहारित्वम् किं ब्रवीषि - गृहीतो वञ्चितकस्यार्थः स्पृष्टो ऽस्म्य् उपासकत्वेन ईदृशः संसारधर्म
[प्.99] इत्य् उक्तं तथागतेनेति मा तावद् भोः तस्याम् एव भगवतस् तथागतस्य वचनं प्रमाणं नान्यत्र किं ब्रवीषि - कुत्र वा कदा वा मम तथागतस्य वचनम् अप्रमाणम् इति इयं प्रतिज्ञा किं ब्रवीषि - कुतः संदेह इति भद्रमुख श्रूयताम्
65 (अ) श्रमनिःसृतजिह्वम् उन्मुखं
(ब्) हृदि निःसङ्गनिखातसायकम्
(च्) समवेक्ष्य मृगंतथागतं
(द्) स्मरसि त्वं न मृगं तथागतम्
एष प्रहसितः किं ब्रवीषि - न खलु तथागतशासनं शङ्कितव्यम् अन्यद् धि शास्त्रम्, अन्या पुरुषप्रकृतिर्, न वयं वीतरागा इति यद्य् एवम् अर्हति भवांस् तत्रभवतीं राधिकां तथाभूतां शोकसागराद् उद्धर्तुम् किं ब्रवीषि - यद् आज्ञापयति वयस्यो ऽयम् अञ्जलिः साधु मुच्येयम् इति सर्वथा दुर्लभस् ते मोक्षः, किं त्व् इयम् आशीः प्रतिगृह्यताम्
66 (अ) विप्रोष्यागत उत्सुकाम् अवनताम् उत्सङ्गम् आरोपय
(ब्) स्कन्धे वक्त्रम् उपोपधाय रुदतीं भूयः समाश्वासय
(च्) आबद्धां महिषीविषाणविषमाम् उन्मुच्य वेणीं ततो
( द्) लम्बं लोचनतोयशौण्डम् अलकं छिन्धि प्रियायाः स्वयम्
एष प्रहस्य गतः इतो वयम् (परिक्रम्य) अये को नु खल्व् एष इत एवाभिवर्तते
[प्.100] 67 (अ) दुश्चीवरावयवसंवृतगुह्यदेशो
(ब्) बस्ताननः कपिलरोमशपीवरांसः
(च्) आयाति मूलकम् अदन् कपिपिङ्गलाक्षो
( द्) दाशेरको यदि न नूनम् अयं पिशाचः
भवतु, दृष्टम् एष खलु भ्रातुर् अथवा वयस्यस्य तत्रभवतो दाशेरकाधिपतेर् अपत्यरत्नस्य गुप्तकुलस्यावासे दृष्टपूर्वः तत् किम् अस्येह प्रयोजनम् एष मां कृताञ्जलिर् उपसर्पति किं ब्रवीषि - गुप्तकुलेण पेक्खसि ओवारिद व्(प्)अणप्(व्)अञ्चदिच्चु गणिका (कावि?) किदेप्सयदि तह्णा, णं पोरवीथीए अषेषाअयितं पुंणि (पुण्णि) कावि गणिका ण दीषै तहम्मि तष्ष अदीये (आदीये), तेणय्युं समं खेलन्तो णिय्युदिष्षये, अम्बा हि मे षाविता तुय्यं अत्थकेण दाणि गणिका कामुप्पूलिद अष्षेण कुलोन्थिं थेणे(अ)व कामा ण यष्षे (अंषे), जै गच्छामि
[प्.101] विषिक्ख(ह्?)ए दण्डितुं होमि दिषुवशोविषु एक एवं ति. अहो देशवेषभाषादाक्षिण्यसम्पदुपेतो गुप्तकुलस्य युवराजस्य मदनदूतः. वेश एव वर्तमानो वेशम् आपणाभिधानेन पृच्छति तन् न शक्यम् ईदृशं रत्नम् अवबोध्य विनाशयितुम् ईदृश एवास्तु एवं तावद् एनं वक्ष्ये भद्र, राजवीथ्यां लावणिकापणेषु मृग्यतां गणिका एष प्रहर्षात् प्रणिपत्य गतः इतो वयम् (परिक्रम्य) क्व नु खल्व् इदानीं दाशेरकदर्शनावधूतं चक्षुः प्रक्षालयेयम् (विलोक्य) भवतु, दृष्टम् एतद् धि तद् अस्माकं पूर्वप्रणयिन्याः शूरसेनसुन्दर्या निवेशनम् कथम् अपावृतपक्षद्वारम् एव यावद् एतत् प्रविशामि (प्रविष्टकेन) क्व नु खल्व् इमं पादप्रचारश्रमम् अपनयेयम् भवतु, दृष्टम् इयं खलु प्रियङ्गुवीथिका प्रियेवोत्सङ्गेन शिलातलेन माम् उपनिमन्त्रयते यावद् अत्रोपविशामि (विलोक्य) किम् इहाभिलिखितम् (वाचयति)
68 (अ) सखि प्रथमसंगमे न कलहास्पदं विद्यते
(ब्) न चास्य विमनस्कताम् अशृणवं न वाकल्यताम्
(च्) युवानम् अभिसृत्य तं चिरमनोरथप्रार्थितं
( द्) किम् अस्य् अमृदिता ङ्गरागरचना तथैवागता इति
(विचिन्त्य) कस्याश्चित् खल्व् इयं केनापि प्रत्याख्यातप्रणयाया दौर्भाग्यघोषणा घुष्यते तत् कं नु खलु पृच्छेयम्
[प्.102] (कर्णं दत्त्वा) अये इयं चरणाभरणशब्दसूचिता शूरसेनसुन्दरीत एवाभिवर्तते यैषा
69 (अ) आलम्ब्यैकेन कान्तं किसलयमृदुना पाणिना छत्त्रदण्डं
(ब्) संगृह्यैकेन नीवीं चलमणिरशनां भ्रश्यमानांशुकान्ता
(च्) आयात्य् अभ्युत्स्मयन्तीज्वलिततरवपुर् भूषणानां प्रभाभिः
(द्) सज्योतिष्का सचन्द्रा सविहगविरुता शर्वरीदेवतेव
भो यत् सत्यम् अभ्युत्थापयतीव माम् अप्य् अस्यास् तेजस्विता एषा मां कपोतकेनोपसर्पति अलम् अस्मान् उपचारेण प्रत्यादेष्टुम् किम् आह भवती - चिराद् अपि तावत् स्वामिनाम् उपगतानाम् उपचारेण तावद् अयं जन आत्मानम् अनुगृह्णीयाद् इति अलम् अलम् अत्युपालम्भेन इदम् उचितम् उत्सङ्गासनम् अनुगृह्यताम् एषा मे शिरसा प्रतिगृहीतम् इत्य् उक्त्वा शिलातलार्धं श्रोणीबिम्बेनाक्षिपन्तीवोपविशति अये न खल्व् अत्रोपवेष्टव्यम् किम् आह भवती - किमर्थम् इति नन्व् इदं कस्यापि चरितं केनापि प्रत्याख्यातप्रणयायाः श्लोकसंज्ञकम् अयशो ऽस्माभिर् दृष्टम् कथं हस्ताभ्यां प्रमार्ष्टि चोरि न शक्यम् इदं प्रमार्ष्टुम् इदं हि मे हृदि लिखितम् एषा किं वारयति किम् आह भवती - जानीत एवास्मत्स्वामी यथास्मत्सख्याः कुसुमावतिकायाः प्रियवयस्यं चित्राचार्यं शिवस्वामिनं प्रति
[प्.103] महान् मदनोन्माद इति सुष्ठु जानीमः किं च तत्रभवत्या कुसुमावतिकया तत्रभवान् अभिगमनेनानुगृहीतः किम् आह भवती - मदनविक्लवस्य स्त्रीहृदयस्यायं स्वभावः कृतम् अनया स्त्रीचापल्यम् इति चित्रः खलु प्रस्तावः पृच्छामस् तावद् एनाम् भवति, विस्रम्भः पृच्छति न पररहस्यकुतूहलता तत् कथम् अनयोश् चिराभिलषितसमागमोत्सवो निर्वृत्तो ऽभूत् किम् आह भवती - श्रूयताम् इति अवहितो ऽस्मि किम् आह भवती - तस्यां किल वारुणीमदलक्ष्येण तत्रभवतानुगृहीतायां तत्रभवतो वयस्यस्य
70 (अ) गतः पूर्वो यामः श्रुतिविरसया मल्लकथया
(ब्) द्वितीयो विक्षिप्तः पललगुडबाह्यव्यतिकरैः
(च्) तृतीयो गात्राणाम् उपचयकथाभिर् विगलितस्
(द्) ततस् तन् निर्वृत्तं कथयितुम् अलं त्वय्य् अपि यदि इति
सुन्दरि, कुतस् त्वयैतद् उपलब्धम् किम् आह भवती - तस्यैव सख्युर् उदवसिताद् आगतात् प्रतिहारपद्मपालाद् उपलब्धवृत्तान्तया मयैष श्लोकः सुखप्राश्निकहस्तेनानुप्रेषितः ततः सा तेनैव परिचारकेण सह माम् उपस्थिता लज्जाविलक्षम् उपहसन्तीव
[प्.104] माम् उक्तवती न च रहस्यानाख्यानेन भवतीम् अवक्षेप्तुम् अर्हामि श्रूयताम् इदम् अपूर्वम् इति ततो ऽनया यथावृत्तं सर्वं मह्यम् आख्यातम् तेन हि त्वम् अप्य् अनेन श्रोत्रामृतेन संविभक्तुम् अर्हसीति एषा सतलघातं प्रहस्य कथयति सुन्दरि, किं ब्रवीषि - श्रूयताम् इदानीं यन् मम प्रियसख्या कथितम् सा हि माम् उक्तवती: प्रियसखि, स हि मया

71 (अ) आलिङ्गितो ऽपि बहुधा परिचुम्बितो ऽपि
(ब्) श्रोण्यर्पितो ऽपि करजैर् उपचोदितो ऽपि
(च्) खिन्नास्मि दार्व् इव यदा न स माम् उपैति
(द्) शय्याङ्गम् एकम् उपगूह्य ततो ऽस्मि सुप्ता इति
ततो मयोक्ता: कृच्छ्रं बतानुभूतवत्य् असि किम् एतन् नावगच्छामीति ततो निःश्वस्य माम् उक्तवती
72 (अ) यदा सर्वोपायैश् चटुभिर् उपयातो ऽपि स मया
(ब्) न यत्नं कुर्वाणो मयि मनसिजेच्छाम् अलभत
(च्) ततस् तस्मिन् सर्वप्रतिहतविधानास्मि सहसा
(द्) स्वदौर्भाग्यं मत्वा स्तनतटविकम्पं प्ररुदिता
ततः स मां रुदतीम् उत्सङ्गम् आरोप्य मुहुर् मुहुर् व्यर्थैश् चुम्बनपरिष्वङ्गैर् आश्वासयन् नाम दृढम् आत्मानम् आयासितवान् उक्तं च मया किं ते पाणिभ्यां स्पृष्टयेति ततो
[प्.105] व्रीडार्जितसाध्वसस्वेदवेपथुः शुष्यतेव मुखेन नातिप्रगल्भाक्षरम् उक्तवान्
73 (अ) न निन्दितुम् अनिन्दिते सुभगतां निजाम् अर्हसि
(ब्) च्युतं हि मम चक्षुर् एतद् अभितो निधिं पश्यतः
(च्) वधाय किल मेदसो यद् अपिबं पुरा गुल्गुलुं
(द्) तद् एतद् उपहन्ति मे व्यतिकरामृतं त्वद्गतम् इति
ततो मया चिन्तितम्
74 (अ) मेदःक्षयाय पीतो
यदि गुल्गुलुर् इन्द्रियक्षयं कुरुते
(ब्) धूपार्थो ऽपि न कार्यो
गुल्गुलुना कामयानेन इति
एवम् आवयोश् चिरप्रार्थितम् अपार्थकं समागमनं प्राप्तकालम् इच्छतोः
75 (अ) रजनीव्यपयानसूचको
(ब्) नृपतेर् दुन्दुभिपारिपार्श्विकः
(च्) अपठत् स्तुतिमङ्गलान्य् अलं
(द्) सखि घण्टाम् अभिहत्य घाण्टिकः
ततस् तेनैव दक्षिणेनेव सुहृदा तस्मात् संकटात् परिमोचिता कामिना सव्रीडं मुहूर्तम् अनुगम्य प्रेषिता स्वगृहम् आगता
[प्.106] च त्वया च सुखप्राश्निकाभिधानेनोपहसितास्मि तद् एतत् ते
सर्वम् अशेषतः कथितम् अहम् इदानीं मिथ्याप्रजागरं
दिवास्वप्नेनापनेष्यामीत्य् उक्त्वा मयानुज्ञाता गता तदनन्तरागतेन स्वामिनाप्य् एतच् छ्रुतम् इति तेन ह्य् अनेनैव परिहासप्लवेन तत्रभवतः शिवदत्तस्य पुत्रं शिवस्वामिनं पुरुषदम्भगम्भीरकीर्तिसागरम् अवगाहिष्ये पश्यतु भवती
76 (अ) यो गुल्गुलुं पिबति मेदसि संप्रवृद्धे
(ब्) तस्य क्षयं व्रजति चण्ड्य् अचिरेण मेदः
(च्) स्त्रीणां भवत्य् अथ स यौवनशालिनीनाम्
(द्) आलेख्ययक्ष इव दर्शनमात्ररम्यः
एषा प्रहस्योत्थिता यास्यामीति भवत्व् अलम् अञ्जलिना इतो वयम् (परिक्रम्य) किं नु खल्व् इमान्य् उद्दण्डपुण्डरीकवनषण्डशोभानुकारीण्य् उद्ग्रीववदनपुण्डरीकाणि विस्मयवितताक्षिमालाशबलान्य् उरसि निहितकरपल्लवान्य् अन्योन्यसंज्ञापरिवर्तकानि निवृत्तकन्दुकपिञ्छोलाकृतकपुत्रकदुहितृकाक्रीडनकानि वेशरथ्यायां प्रतिभवनच्छायासु वेशकन्यकावृन्दकान्य् अवलोकयन्ति अये किं नु खल्व् इदम्
[प्.107] 77 (अ) अरञ्जरम् इदं लुठत्य् अथ दृतिः समाकृष्यते
(ब्) कबन्धम् इदम् उत्थितं व्रजति किं कुसूलद्वयम्
(च्) भवेत् किम् इदम् अद्भुतं भवतु सांप्रतं लक्षितं
(द्) तद् एतद् उपगुप्तसंज्ञम् उदरं समुत्सर्पति
भोः सुष्ठु खल्व् इदम् उच्यते धूर्तपरिषत्सु
78 (अ) करभोगैर् गुप्तगलो

हरिकृष्णः कृष्ण एव वनमहिषः
(ब्) गोमहिषो हरिभूतिर्
दृतिर् उपगुप्तो ऽनिलाध्मातः इति
कथं च तावद् इमं सा तपस्विनी गङ्गायमुनयोश् चामरग्राहिणी पुस्तकवाचिका मदयन्ती प्रियवयस्यं नस् तत्रभवन्तं त्रैविद्यवृद्धं पुस्तकवाचकम् उत्सृज्योपगुप्तम् अनुरक्ता तथा चास्य कोमलाभ्यां भुजाभ्यां परिष्वज्यते अथवा न तस्याः परिष्वङ्गेन प्रयोजनं सा हि तपस्विनी निवृत्तकामतन्त्रा रजो ऽपरोधात् केवलं कुटुम्बतन्त्रार्थं शब्दकामम् अनुवर्तते गम्यश् चायम् अस्याः अपुमाञ् शब्दकाम इति
[प्.108] दात्तकीयाः (विलोक्य) किं च तावद् अयम् आविग्न इव आ ज्ञातम् तस्या एव मात्रा पणार्थम् अधिकरणायाकृष्यत इति वेशे मयोपलब्धम् ततः श्वश्र्वा सह कृतविवादेनानेन भवितव्यम् महद् इदं परिहासवस्तु न शक्यम् अस्यातिक्रमणाद् आत्मानं वञ्चयितुम् यावद् एन् अम् उपसर्पामि (उपेत्य) हण्डे वेशवीथीयक्ष, कुतो भवान् एष पादचारखेदात् काकोच्छ्वासश्रमविषमिताक्षरम् अयम् अञ्जलिर् इत्य् उक्त्वा स्थितः स्वस्ति भवते किं ब्रवीषि - एष खलु तया वृद्धपुंश्चल्या सह विवादार्थं गत्वा कुमारामात्याधिकरणाद् आगच्छामीति कथं भवन्तं जयेन वर्धयामः उताहोस्विद् दण्डसाहाय्येन संभावयामः किम् आह भवान् - कुतो जयदण्डाभ्यां सह संयोगः केवलं क्लेशो ऽनुभूयत इति कस्मात् किं ब्रवीषि -
79 (अ) प्रध्याति विष्णुदासो
भ्रात्रा किल तर्जितो ऽस्मि कोङ्केन
(ब्) द्राक् तेनाभिहतो ऽहं
क्रोशति विष्णुः स्वपिति चात्र
अपि च
80 (अ) मृगयन्ते तदधिकृता
मृगयन्ते पुस्तपालकायस्थाः
(ब्) काष्ठकमहत्तरैर् अपि
[प्.109] विधृतो ऽस्मि चिरं मृगयमानैः
अपि च ततो मयावधृतम्
81 (अ) गणिकायाः कायस्थान्
कायस्थेभ्यश् च विमृशतो गणिकाः
(ब्) गणिकायै दातव्यं
रतिर् अपि तावद् भवत्य् अस्याम् इति
दिष्ट्या कायस्थवागुरातीतं भवन्तम् अक्षतं पश्यामि सर्वथा प्रतिबुद्धो ऽसि इदानीम् इयम् आशीः
82 (अ) कलमधुररक्तकण्ठी
शयने मदिरालसा समदना च
(ब्) वक्त्रापरवक्त्राभ्याम्
उपतिष्ठतु वारमुख्या त्वाम्
एष सतलघातं प्रहस्य प्रस्थितः इतो वयम् (परिक्रम्य) अये अयम् अपरः
83 (अ) स्रस्तेष्व् अङ्गेष्व् आढकांल् लाटभक्त्या
(ब्) दत्त्वा चित्रान् को ऽयम् आयाति मत्तः
(च्) विभ्रान्ताक्षो गण्डविछिन्नहासो
(द्) वेशस्वर्गं किंकृते ऽयं प्रविष्टः
भवतु विज्ञातम्
84 (अ) शर्करपालस्य गृहे
जातः कीरेण चर्मकारेण
(ब्) एष खलु कोङ्कचेट्यां
[प्.110] पिशाचिकायां तृणपिशाचः
अपि च
85 (अ) शर्करपालं पितरं
व्यपदिशति भ्रातरं च निरपेक्षम्
(ब्) प्रायेण दौष्कुलेयाः
सहैव दम्भेन जायन्ते
(परिक्रम्य) भोः किं नु खलु पृच्छेयम् किम् अस्य वेशप्रवेशे प्रयोजनम् इति अये अयं जरद्विटो भट्टिरविदत्त इत एवाभिवर्तते यावद् एनं पृच्छामि अंघो भट्टिरविदत्त, कच्चिज् जानीते भवान् अस्य पुरुषवेतालस्य वेशप्रवेशप्रयोजनम् किं ब्रवीषि - भवान् एव जानीत इति तद् गच्छतु भवान् (परिक्रम्य) क्व नु खल्व् इदं पुरुषकान्तारावगाहनश्रान्तं मनो विनोदयेयम् भवतु, दृष्टम्

86 (अ) इदम् अपरं प्रियसुहृदः
सुहृद्भयाद् अर्पितार्गलं भवनम्
(ब्) वेश्यासुरतविमर्देष्व्
अकृतविरामस्य रामस्य
[प्.111] तत् कथं प्रविशामि (कर्णं दत्त्वा)
87 (अ) यथा काञ्चीशब्दश् चरति विकलो नूपुररवैर्
यथा मुष्ट्याघातः पतति वलयोद्घातपिशुनः
(ब्) यथा निःशूत्कारं श्वसितम् अपि चान्तर्गृहगतं
ध्रुवं रामा रामं युवतिविपरीतं रमयति
तद् अलम् इह प्रविष्टकेन कः सुरतरथाक्षभङ्गं करिष्यति इतो वयम् (परिक्रम्य) अये अयम् अपरः कः
88 (अ) दग्धः शाल्मलिवृक्षः
कतिपयविटपाग्रशेषतनुशाखः
(ब्) कृष्णः कृशो विटबको
वेशनलिन्या मरुपिशाचः
भवतु विज्ञातम् एष हि सौपरस् तौण्डिकोकिः सूर्यनागः ततः किम् इहास्य प्रयोजनम् कथम् एष मां दृष्ट्वैवोत्तरीयावकुण्ठनेन मुखम् अपवार्य कामदेवायतनम् अपसव्यं कृत्वा प्रस्थितः भो यदा तावद् अद्य तृतीये ऽहनि बहिःशिविके कुटङ्कागारनिकेतनाभिः पताकावेश्याभिः संप्रयुक्तो म्लेच्छाश्वबन्धकैर् व्यवहारार्थं श्रावणिकैर् अधिकरणम्
[प्.112] उपनीयमानः स्कन्दकीर्तिना बलदर्शकेन स्वामिनो मे विष्णोः स्यालीपतिर् इति कृत्वा कृच्छ्रात् प्रमोचित इति वयस्यविष्णुना मे कथितम् तत् किम् अयम् इदानीम् अस्माद् वेशसंसर्गाद् व्रीडित इवात्मानं परिहरति (विचिन्त्य) पार्थिवकुमारसंनिकर्ष एनम् अनया प्रवृत्त्या व्रीडयति आश्चर्यम् गुणवान् खलु गुणवतां संनिकर्षः यद् अयम् अपि नामैवं गुणाभिमुखः तन् न शक्यम् एनम् अप्रत्यभिज्ञानेन सकामं कर्तुम् यावद् अहम् अप्य् आयतनं प्रदक्षिणीकुर्वन् नाम संमुखीनम् एनं परिहासावस्कन्देन हन्मि (परिक्रम्य) एष मां प्रतिमुखम् एवावलोक्य प्रहसितः हण्डे सूर्यनाग, किम् अयं वेशनवावतारो ऽन्धकारनृत्तम् इव सुहृदवक्षेपेण विफलीक्रियते किं ब्रवीषि - क इव ममेहार्थः अहं हि कारायाम् अवरुद्धस्य मातुलस्य मौद्गल्यस्य पारशवस्य
[प्.113] हरिदत्तस्य पूर्वप्रणयिनीम् अकल्यरूपाम् अद्य वार्त्तां प्रष्टुं तेनैव प्रहितो ऽस्मि त्वं तु मां कथम् अप्य् अवगच्छसीति आश्चर्यम् इदं हि भवतः सुहृद्व्यापारेषु स्थैर्यं तस्याश् च वारमुख्यायाः पूर्वप्रणयिष्व् आपद्गतेष्व् अपि प्रतिपत्तिश् च अतश् चैनाम्
89 (अ) वर्णानुरूपोज्ज्वलचारुवेषां
(ब्) लक्ष्मीम् इवालेख्यपटे निविष्टाम्
(च्) सापह्नवां कामिषु कामवन्तो
(द्) ऽरूपां विरूपाम् अपि कामयन्ते
अपि च - अतिदुष्करकारिणीं चैनाम् अवगच्छामि कुतः असंशयं हि सा
90 (अ) कारानिरोधाद् अविकारगौरं
(ब्) देवार्चनाजातकिणं ललाटे
(च्) आस्यं बृहच्छ्मश्रुविताननद्धं
(द्) कालास्थिनिर्भुग्नम् इवावलेढि
किम् आह भवान् - अत एवास्याम् अस्माकम् आदर इति भवत्व् एवम् सुहृदनुरक्तं भवन्तं ख्यापयामो वयम् एष
[प्.114] खलु प्रसीदतु स्वामीति पादमूलयोर् उपगृह्णाति किं ब्रवीषि - नार्हति स्वामी ममैवं वेशप्रवेशं क्वचिद् अपि प्रकाशीकर्तुम् इति भो वयस्य, कश् चन्द्रोदयं प्रकाशयति ननु यदैव भवांस् तत्रभवत्या रूपदास्याः परिचारिकां कुब्जां प्रति बद्धमदनानुरागस् तदैवैतस्मिन् प्रदेश उदकतैलबिन्दुवृत्त्या विकसितं यशो मा तावद् भोः
91 (अ) परिष्वक्ता वक्षः क्षिपति गडुना या ऽतिबृहता
(ब्) त्रिके भुग्ना नेष्टे जघनम् उपधातुं समदना
(च्) सरूपा टिट्टिभ्या भवति शयिता या च शयने
(द्) कथं तां त्वं कुब्जाम् अवनतमुखाब्जां रमयसि
किं ब्रवीषि - शान्तं पापं शान्तं पापं प्रतिहतम् अनिष्टं स्वागतम् अन्वाख्यानाय पश्यतु भवान्
92 (अ) सविभ्रान्तैर् यातैः करभललितं या प्रकुरुते
(ब्) मुहुर् विक्षिप्ताभ्यां जलम् इव भुजाभ्यां तरति या
(च्) मुखस्योत्तानत्वाद् गगन इव तारा गणयति
[प्.115] (द्) स्पृशेत् कस् तां प्राज्ञः कृमिजनितरोगाम् इव लताम् इति
अहो धिक् कष्टम् एवं धर्मज्ञस्य भवतो न युक्तम् उपयुक्तस्त्रीनिन्दां कर्तुम् अपि च
93 (अ) यद्य् अपि वयस्य कुब्जा
नाडीनलिकाकृशा च गडुला च

(ब्) असताम् इव संप्रीतिर्
मुखरमणीया भवति यावत्
न चेयं ताभ्यो ऽरण्यवासिनीभ्यः पताकावेश्याभ्यः पापीयसी किं ब्रवीषि - काभ्य इति कथं न जानीषे
94 (अ) यास् त्वं मत्ताः काकिणीमात्रपण्या
(ब्) नीचैर् गम्याः सोपचारैर् नियम्याः
(च्) लोकैश् छन्नं कामम् इच्छन् प्रकामं
(द्) कामोद्रेकात् कामिनीर् यास्य् अरण्ये
किं ब्रवीषि - कुतस् त्वयैतद् उपलब्धम् इति सहस्रचक्षुषो हि वयम् ईदृशेषु प्रयोजनेषु अपि च पदात् पदम् आरोक्ष्यति भवान्
95 (अ) त्यक्त्वा रूपाजीवां
यस् त्वं कुब्जां वयस्य कामयसे
(ब्) कुब्जाम् अपि हि त्यक्त्वा
[प्.116] गन्तासि स्वामिनीम् अस्याः एष प्रहस्य प्रस्थितः इतो वयं साधयामः (परिक्रम्य) अये अयम् अपरः कः सिंहलिकाया मयूरसेनाया गृहान् निष्पत्य स्कन्धविन्यस्तनिवसनो विमलकुटिलासिपाणिभिर् दाक्षिणात्यैः परिवृतो भद्राङ्कं विरलम् उत्तरीयम् आकर्षन्न् आन्ध्रकं कार्ष्णायसं निवसितः कुङ्कुमानुरक्तच्छविस् ताम्बूलसमादानव्यग्रपाणिर् इत एवाभिवर्तते भवतु, दृष्टम् एष हि विदर्भवासी तलवरो हरिशूद्रः भो यदा तावद् अयं तां कावेरिकाम् अनुरक्त इति ममैव समक्षं सपादपरिग्रहम् अनुनयन्न् अप्य् उक्तस् तया
96 (अ) ताम् एहि किं तव मया
ज्योत्स्ना यदि क इव दीपशिखयार्थः
(ब्) विरम सह संग्रहीतुं
बिल्वद्वयम् एकहस्तेन इति
तत् कथम् अनेनेयम् अनुनीता भविष्यति किम् अयम् अनुरक्ताम् अपि त्यक्त्वा ऽन्यां प्रकाशं कामयत इति वेशप्रत्यक्षम् आत्मनो दौर्भाग्यम् अयशस्यम् इति स्वयम् एव प्रसन्ना
[प्.117] आहोस्वित् काम्यमानं कामयन्ते स्त्रिय इति स्त्रीस्वभावाद् अस्याः संघर्ष उत्पन्नः उताहो परिव्ययार्थकर्शितया मत्रैवानुनियुक्त भविष्यति सर्वथ प्रक्ष्यमस् तावद् एनम् (उपसृतकेनाञ्जलिं कृत्व)
97 (अ) तां सुन्दरीं दरीम् इव
सिंहस्य मनुष्यसिंह सिंहलिकम्
(ब्) युक्तं भवतो मोक्तुं
द्रमिळीस् उरताभिलषेण
किं ब्रवीषि - अनुनीता मया मयूरसेन एष तस्या एव गृहाद् आगच्छामीति कथय कथय कथम् अवशीर्णप्रायः संधिर् अनुष्ठितः किं ब्रवीषि - अद्य तृतीये ऽहन्य् अहम् अपि वेश्याध्यक्षप्रतिहारद्रौणिलकगृहे प्रेक्षायाम् उपनिमन्त्रितस् तत्र च मयूरसेनाया लास्यवारो बुद्धिपूर्वक इत्य् अवगच्छामि ततः प्रसारितेष्व् आतोद्येषु देवतामङ्गलं पूर्वम् उपोह्य प्रस्तुते गीतके प्रनृत्तायां नर्तक्यां प्रथमवस्तुन्य् एव
[प्.118] मयूरसेनायाः खलु नृत्ते प्रयोगदोषा गृहीता इति मा तावद् भोः- मयूरसेनायाः खलु नृत्ते प्रयोगदोषा गृह्यन्ते कस्यायम् अतटप्रपातः किं ब्रवीषि - भगवत्या वारुण्या इति युक्तं नित्यसंनिहिता भगवती सुरादेवी प्रतिहारगृहे अथ कम् अन्तरीकृत्यायं सुराविभ्रमः किं ब्रवीषि - वयस्यम् एव ते लासकम् उपचन्द्रकम् इति उपपन्नम् आयतनं हि स ईदृशानाम् अपि तु स विषयस् तस्यैषः ततस् ततः किं ब्रवीषि - तत उपचन्द्रपक्षे सर्वसामाजिकजनः. मयापि मयूरसेनायाः पक्षः परिगृहीत इति साधु वयस्य, देशकालौपयिकम् अनुष्ठितम् ततस् ततः किं ब्रवीषि - ततो न तेषां बुद्धिं परिभवामि अपरिभूता मे सदस्या आगमप्रधानतया मम प्राश्निकानुमते प्रतिष्ठितः पक्ष इति
[प्.119] साधु वयस्य (एम्: वयस्या एद्.) अनन्यसाधारणेन पण्येन क्रीता तत्रभवती ततस् ततः किं ब्रवीषि - ततः सर्वगणिकाजनप्रत्यक्षं दत्ते पारितोषिके मयूरसेनायाः स्मितपुरःसरेणापाङ्गपातिना कटाक्षेण प्रसादित इवास्मि कावेरिकायास् तु पुनर् असूयापिशुनम् उत्थाय गच्छन्त्या आकारेण बहूपालब्ध इवास्मि तयोश् च कोपप्रसादयोः प्रत्यक्षतयोभयतटभ्रष्ट इव संदेहस्रोतसा ह्रियमाणस् तस्मात् संकटात् कथंचिद् गृहान् आगतः उपविष्टश् च कानयोः किं प्रतिपत्स्यत इति वितर्कडोलां वाहयामि ततः सहसैव मे प्रियया समेत्य नेत्रे निमीलिते ततो विहस्य मयोक्ता
98 (अ) नेत्रनिमीलननिपुणे
किं ते हसितेन चोरि गूढेन
(ब्) सूचयति त्वा[ं] पाण्योर्
अनन्यसाधारणः स्पर्शः
एवम् उक्तयानया सुरभितनिःश्वाससूचितमदस्खलिताक्षरम् अभिहितो ऽहम् आचक्ष्व मा काहम् इति ततो मयोक्ता
99 (अ) रोमाञ्चकर्कशाभ्यां
[प्.120] प्रत्युक्तासि ननु मे कपोलाभ्याम्
(ब्) यद् वदसि पुनर् मुग्धे
स्वयम् एवाचक्ष्व साहम् इति
तत उन्मील्य माम् उक्तवती अनेनैव रोमाञ्चसंज्ञकेन कैतवेनायं जन आकृष्यत इत्य् उक्त्वा मा कपोले चुम्बित्वा प्रस्थिता ततो मयोक्ता
100 (अ) चुम्बितेनेदम् आदाय
हृदयं क्व गमिष्यसि
(ब्) चोरि पादाव् इमौ मूर्ध्ना
धृतौ मे स्थीयतां ननु
एवं चोक्ता शयनम् उपगम्योपविष्टा ततो मयास्याः स्वयं पादौ प्रक्षालितौ अनया चास्म्य् उक्तः: गृहीतं पाद्यम् एहीदानीं कितवः खल्व् असीति ततो विकोशमुकुलजालकेनेव मालतीलता विकसितेनैकहस्ता वलम्बितसरशननिवसना पर्यङ्कावेष्टनद्विगुणमध्यबाहुमृणालिकात्रिकपरिवर्तनसाचीकृतदर्शनीयतरा तदानीं वेष्टमानमध्यविषमवलिप्रनष्टनाभिमण्डलविषमीकृतरोमराजिर्

[प्.121] एकस्तनावगलितहारापाश्रितेतरस्तनकलशपार्श्वा ऽवगलितकपोलपर्यस्तकुण्डलमकराधिष्ठितविशेषककान्ततरेणांसपरावर्तशोभिनावस्थानेन लज्जाद्वितीया रतिर् इव रूपिणी समुत्थितैकभ्रूलतिकेन कुवलयशबलं जलम् इवाकिरन्ती दृष्टिविक्षेपेण मम् उक्तवती : यत् ते रोचत इति ततो ऽहम् आसन्नम् आलेख्यवर्णकपात्रं गवाक्षाद् आक्षिप्य चरणनलिनरागायोपस्थितः अथ वयस्य, अलक्तकविन्यासविन्यस्तचक्षुर् उत्क्षिप्तपार्ष्णिगुल्फनूपुराधिष्ठितजङ्घाकाण्डायास् तस्या असंभुक्तत्वाद् अनूरुग्राहिणो मर्मरस्योपसंहारभङ्गाभोगानुकारिणः कौशेयस्यासंयतत्वाद् गजकलभदशनच्छदान्तरम् इव कदलीगर्भम् इव चान्तरूरुम् ईक्षे ईक्षमाणं चापोह्याविनीतचक्षुर् असीत्य् उक्त्वा पादम् आक्षिप्योरसि मा
[प्.122] ताडितवति ततो रोमाञ्चकवचकर्कशत्वचा मयोक्ता: सुन्दरि, नार्हसि माम् असमाप्तरागम् अवक्षेप्तुम् इति ततस् तयाहम् उक्तः, साधु खलु निमीलिताक्षः समापयैनम् इति ततस् तस्या लाक्षारसं निमीलिताक्षो ऽर्पयामि चरणाभ्यां सकचग्रहम् अधरोष्ठे गृहीतो ऽस्मि ततस् तथैव विवृतरोमाञ्चं मा समभिवीक्ष्याशोकसमदोहलो ऽसि नमो ऽस्तु ते शाठ्यायेति मां परिष्वज्य शयनम् उपगता ततः परं देवानांप्रिय एवज्ञास्यतीति यद्य् एवम् अर्हतिभवान् अपि तौण्डिकोकिविष्णुनागप्रायश्चित्तार्थं संनिपतितान् विटान् उपस्थातुम् किं ब्रवीषि - शान्तम् एतत् पुनर् अपि, यदि शिरो मे तस्याश् चरणकमलताडनेनानुगृह्येत तद् एव मे प्रायश्चित्तम् इति यद्य् एवं यमुनाह्रदनिलयो यदुपतिचरणाङ्कितललाटो नागः कालिय इव वैनतेयस्यावध्य इदानीं सर्वविटानाम् असि एष विहस्यायम् अञ्जलिर् इति प्रस्थितः यावद् अहम् अपि विटसमाजं गच्छामि अहो नु खलु सुहृत्कथाव्यग्रैर् अस्माभिर् अतीतम् अप्य् अहो न विज्ञातं संप्रति हि
101 (अ) सोत्कण्ठैर् इव गच्छतीति कमलैर् मीलद्भिर् आलोकितः
(ब्) प्रच्छायैर् अधिरुह्य वेश्मशिखराण्य् उत्सार्यमाणातपः
[प्.123] (च्) तैः स्पृष्ट्वा चिरम् उन्मुखीषु किरणैर् उद्यानशाखास्व् असौ
(द्) यात्य् अस्तं वलभीकपोतनयनैर् आक्षिप्तरागो रविः
अपि चेदानीम्
102 (अ) प्राकाराग्रे गवाक्षैः पतति खगरुतैः सूच्यमानो बिडालः
(ब्) प्रासादेभ्यो निवृत्तो व्रजति समुचितां वासयष्टिं मयूरः
(च्) सांध्यं पुष्पोपहारं परिहरति मृगः स्थण्डिले स्वप्तुकामस्
(द्) तोयाद् उत्तीर्य चासौ भवनकमलिनीवेदिकां याति हंसः
(परिक्रम्य)
103 (अ) एते प्रयान्ति घनतां वलभीषु धूपा
(ब्) वैडूर्यरेणव इवोत्पतिता गवाक्षैः
(च्) रथ्यासु चैतम् अवगाढम् उदग्रम् एत्य
(द्) स्नानोदकौघम् अनु षट्चरणा भ्रमन्ति
अहो नु खल्व् इदानीम् अस्य संमृष्टसिक्तावकीर्णकुसुमप्रद्वाराजिरस्य प्रादोषिकोपचारव्यग्रपरिचारकजनस्य देशवयोविभवानुरूपालंकारव्यापृतवारमुख्याजनस्य प्रचरितमदनदूतीसंचाररमणीयस्य प्रवृत्तमत्तविटविदग्धपरिहासरसान्तरस्य स्नातानुलिप्तपीतप्रतीततरुणजनावकीर्णचतुष्पथशृङ्गाटकस्य वेशमहापथस्य परा स्रीः इह हि
104 (अ) एषा रौत्य् उपवेशिता गजवधूर् आरुह्यमाणा शनैर्
[प्.124] (ब्) एतत् कम्बलवाह्यकं प्रमदया द्वाःस्थं समारुह्यते
(च्) शिञ्जन्नूपुरमेखलाम् उपवहन् वेश्यां चलत्कुण्डलां
(द्) श्रोणीभारम् अपारयन्न् इव हयो गच्छत्य् असौ धौरितम्
अपि चास्मिन्न् इमाः
105 (अ) प्रदीपकरवल्लरीजटिलचारुवातायना
(ब्) मयूरगलमेचकैर् अनुसृतास् तमोभिः क्वचित्
(च्) विभान्ति गृहभित्तयो नवसुधावदातान्तरास्
( द्) तमालहरितालपङ्ककृतपत्त्रलेखा इव
(परिक्रम्य) सर्वथा रमणीयस् तावद् अयम् उद्भिद्यमानचन्द्रसनाथ उत्सवः प्रदोषसंज्ञको जीवलोकस्य संप्रति ह्य् एष भगवांश् चक्षुषां साधारणं रसायनं हसितम् इव कुमुदवापीनाम् उदयति शीतरश्मिः य एषः
106 (अ) किं नीलोत्पलपत्त्रचक्रविवरैर् अभ्येषि मा चुम्बितुं
(ब्) न त्वां पश्यति रोहिणी कथय मे संत्यज्यतां वेपथुः
(च्) मत्तानां मधुभाजनेष्व् इतिकथाः श्रोतुं सहासा इव
(द्) स्त्रीणां कुण्डलकोटिभिन्नकिरणश् चन्द्रः समुत्तिष्ठति
(परिक्रम्य)
107 (अ) गायत्य् एषा वल्गु कान्तद्वितीया
(ब्) सुप्रक्वाणा स्पृश्यते ऽसौ विपञ्ची
(च्) बद्ध्वा गोष्ठीं पीयते पानम् एतद्
(द्) धर्म्याग्रेषु प्राप्तचन्द्रोदयेषु
अपि चेदानीम् एष भगवान्
108 (अ) विरचयति मयूखैर् दीर्घिकाम्भःसु सेतुं
[प्.125] (ब्) विसृजति कदलीषु स्वाः प्रभादण्डराजीः
(च्) पुनर् अपि च सुधाभिर् वर्णयन् सौधमालाः

(द्) क्षरति किसलयेभ्यो मौक्तिकानीव चन्द्रः
(परिक्रम्य) अहो नु खलु क्षीरोदेनेवोद्वेलप्रवृत्तविकीर्यमाणवीचिराशिना ज्योत्स्नासंज्ञकेन पयसा प्रसर्पतानुगृहीत इव जीवलोकः संप्रति हि
109 (अ) एते व्रजन्ति तुरगैश् च करेणुभिश् च
(ब्) कर्णीरथैर् अपि च कम्बलवाह्यकैश् च
(च्) आलिङ्गिता युवतिभिर् मृदिता युवानो
(द्) गन्धर्वसिद्धमिथुनानि विहायसीव
(परिक्रम्य)
110 (अ) असाव् अन्वारूढो मदललितचेष्टः प्रमदया
(ब्) परिष्वक्तः पृष्ठे निबिडतरनिक्षिप्तकुचया
(च्) परावृत्तश् चुम्बन् व्रजति दयितां यस्य तुरगो
(द्) गृहान् एषो ऽभ्यासाद् अनुपतति नोत्क्रामति पथः
कश् च तावद् अयम् अस्मिंश् चन्द्रातपे ऽप्य् अन्धकार इव वर्तमानो वेशरथ्यायां गर्भगृहभोगेन तिष्ठन् नैर्लज्यम् आविष्करोति आः ज्ञातम् एष सौराष्ट्रिकः शककुमारो जयनन्दक इमां घटदासीं बर्बरिकाम् अनुरक्तः किं च तावद् अनेनैतस्मात्
[प्.126] सर्ववेश्यापत्तनाद् वेशवद् वेशबर्बर्या गुणवत्त्वम् अवलोकितम् किं च तावत्
111 (अ) अधिदेवतेव तमसः कृष्णा शुक्ला द्विजेषु चाक्ष्णोश् च
(ब्) असकलशशाङ्कलेखेव शर्वरी बर्बरी भाति
अथवा सौराष्ट्रिका वानरा बर्बरा इत्य् एको रासिः किम् अत्राश्चर्यम् तथा हि
112 (अ) गवलप्रतिमायाम् अपि
बर्बर्यां सक्तचक्षुषो ह्य् अस्य
(ब्) अलससकषायदृष्टेर्
ज्योत्स्नापीयं तमिस्रेव
तद् अलम्, अयम् अस्य पन्थाः इतो वयम् (परिक्रम्य) इयम् अपरा का
113 (अ) कर्णद्वयावनतकाञ्चनतालपत्त्रा
(ब्) वेण्यन्तलम्बिमणिमौक्तिकहेमगुच्छा
(च्) कूर्पासकोत्कवचितस्तनबाहुमूला
(द्) लाटी नितम्बपरिवृत्तदशान्तनीवी
[प्.127] (विचार्य) भवतु विज्ञातम् एषा हि सा राका राज्ञः स्यालम् आभीरकं मयूरकुमारं मयूरम् इव नृत्यन्तम् आलिङ्गन्ती चन्द्रशालाग्रे वेशवीथ्याम् आत्मनः सौभाग्यं प्रकाशयति अयम् अपि चार्जवेनानया तपस्वी क्रीत इव
114 (अ) अपि च मयूरकुमारं
गौरी कृष्णम् अतिदुर्बलं स्थूला
(ब्) स्वम् इव प्रच्छायाग्रकम्
उरसि विलग्नं वहत्य् एषा
(परिक्रम्य) इयम् अपरा का (विचार्य) इयं हि सा
तत्रभवतः सुगृहीतनाम्नः शार्दूलवर्मणः पुत्रस्य नः प्रियवयस्यस्य वराहदासस्य प्रियतमा यवनी कर्पूरतुरिष्ठा नाम प्रतिचन्द्राभिमुखं मधुनः कांस्यम् अङ्गुलित्रयेण धारयन्ती कपोलतलस्खलितबिम्बम् अवलम्ब्य कुण्डलं किरणैः प्रेङ्खोलितम् अंसदेशे शशिनम् इवोद्वहन्ती यैषा
115 (अ) चकोरचिकुरेक्षणा मधुनि वीक्षमाणा मुखं
विकीर्य यवनी नखैर् अलकवल्लरीम् आयताम्
(ब्) मधूककुसुमावदातसुकुमारयोर् गण्डयोः
प्रमार्ष्टि मदरागम् उत्थितम् अलक्तकाशङ्कया
अपि च यवनी गणिका वानरी नर्तकी मालवः कामुको गर्दभो गायक इति गुणतः साधारणम् अवगच्छामि सर्वथा सदृशयोगेषु निपुणः खलु प्रजापतिः तथा हि
[प्.128] 116 (अ) खदिरतरुम् आत्मगुप्ता
पटोलवल्ली समाश्रिता निम्बम्
(ब्) श्लिष्टो बत संयोगो

यदि यवनी मालवे सक्ता
तत् कामम् इयम् अपि मे सखी, न त्व् एनाम् अभिभाषिष्ये को हि नाम तानि वानरीनिष्कूजितोपमानि सीत्कारभूयिष्ठान्य् अप्रत्यभिज्ञेयव्यञ्जनानि किंचित्कारणान्तराणि प्रदेशिनीलालनमात्रसूचितानि स्वयं वेशयवनीकथितानि श्रोष्यति तद् अलम् अनया (परिक्रम्य) अयम् अपरः कः
117 (अ) प्रतिमुखपवनैर् वेगाद्
उत्क्षि प्ताग्रालकोत्तरी यान् ताम्
(ब्) कान्तां हरति करेण्वा
वासवदत्ताम् इवोदयनः
(विचार्य) आ विदितम् एष स इभ्यपुत्रो विटप्रवाल इति डिण्डिभिर् अभ्यस्तनामा सुरतरणपटकट्यम्बराणाम् अधिपतिस् तां वेशसुन्दरीम् अस्मद्बालिकां मदनपरवशः पितुर् मातुश् च शासनम् उपेक्ष्यानुरक्त एव कामम् अतिडिण्डी खल्व् अयम् श्वशुरशब्दावकुण्ठनास् तु वयम् तद् अलम् अनेनाभिभाषितेन
[प्.129] अयम् अस्याञ्जलिर्. इतस् तावद् वयम् (परिक्रम्य) यावद् अहम् अपि विटसमाजं गच्छामि एषो ऽस्मि भोः सुवृथातिवाहिते वेशमहापथे विटमहत्तरस्य भट्टिजीमूतस्य समन्तात् संनिपातितविटजनवाहनसहस्रसंबाधप्रद्वाराङ्गणम् उत्क्षिप्तरजतकलशपाद्यपरिचारकोपस्थिततोरणं भवनम् अनुप्राप्तः सुष्ठु खल्व् इदम् उच्यते - महान्तः खलु महताम् आरम्भा इति सांप्रतं ह्य् एतद् दशार्धवर्णं पुष्पम् उत्कीर्यते मुक्तम् आसज्यते ग्रथितम् संचार्यन्ते धूपाः प्रज्वाल्यन्ते दीपा उच्यते स्वागतं मुच्यते यानं दृश्यते विभ्रम उपगीयते गीतम् उपवाद्यते वाद्यं दीयते हस्तः कथ्यते श्लक्ष्णम् आलिङ्ग्यते स्निग्धम् अवलम्ब्यते सप्रणयम् अवनम्यते सविनयं स्पृश्यते पृष्ठम् आनतस्य गम्यते सभ्रूक्षेपम् आघ्रायते शिरः स्थीयते सविभ्रमम् उपविश्यते सलीलं विश्राण्यते चन्दनम् आलिप्यते वर्णकं विन्यस्यते विलेपनम् उत्कीर्यते चूर्णः परिहास्यते विटैः प्रतिगृह्यते विलासिनीभिर् इति किं बहुना
118 (अ) पुष्पेष्व् एते जानुदघ्नेषु लग्नाः
(ब्) कृच्छ्रात् पादा वामनैर् उद्ध्रियन्ते
[प्.130] (च्) विभ्रान्ताक्ष्यः केतकीनां पलाशान्
(द्) सीत्कुर्वाणाः पादलग्नान् हरन्ति
अपि चैते विटमुख्याः
119 (अ) श्रीमन्तः सखिभिर् अलंकृतासनार्धाः
(ब्) कुर्वन्तश् चतुरम् अमर्मवेधि नर्म
(च्) वेश्याभिः समुपगताः समं समन्ताद्
(द्) उक्षाणो व्रज इव भान्ति सोपसर्याः
अपि चैषाम् एतत् सदः
120 (अ) नभ इवशतचन्द्रं योषितां वक्त्रचन्द्रैः
(ब्) कृतशबलदिगन्तं संपतद्भिः कटाक्षैः
(च्) सपरिग्रहम् इव यूनां बाहुभिः संप्रहारैर्
(द्) निचितम् इव शिलाभिश् चन्दनार्द्रैर् उरोभिः
अपि चास्मिन्
121 (अ) एते विभान्ति गणिकाजनकल्पवृक्षास्
(ब्) तादात्विकाश् च खलु मूलहराश् च वीराः
(च्) बाल्ये ऽपि काष्ठकलहान् कथयन्ति येषां
( द्) वृद्धाः सुयोधनवृकोदरयोर् इवोच्चैः
तद् एतावद् अहम् अपि सुहृन्निदेशवेष्टने शिरसि भगवते चित्तेश्वरायाञ्जलिं कृत्वा सुहृन्निदेशाद् इमम् अधिकारं पुरस्कृत्य प्रायश्चित्तार्थं तत्रभवतस् तौण्डिकोकेर् विष्णुनागस्य घोषणापूर्वकं विटान् विज्ञापयामि (परिक्रम्य) भो भोः
[प्.131] सकलक्षितितलसमागताः प्रियकलहाः कलहानां च निवेदितारो धूर्तमिश्राः शृण्वन्तु शृण्वन्तु भवन्तः
122 (अ) कामस् तपस्विषु जयत्य् अधिकारकामो
(ब्) विश्वस्य चित्तविभुर् इन्द्रियवाज्यधीशः
(च्) भूतानि बिभ्रति महान्त्य् अपि यस्य शिष्टिं
( द्) व्यावृत्तमौलिमणिरश्मिभिर् उत्तमाङ्गैः
(परिक्रम्य)
123 (अ) अथ जयति मदो विलासिनीनां
(ब्) स्फुटहसितप्रविकीर्णकर्णपूरः
(च्) स्खलितगतिर् अधीरदृष्टिपातस्
(द्) तदनु च यौवनविभ्रमा जयन्ति
तद् एवं वारमुख्याजनचरणरजःपवित्रीकृतेन शिरसा धूर्तमिश्रान् प्रणिपत्य विज्ञापयामि किं चैतद् विज्ञाप्यम् इति श्रूयताम्
124 (अ) नागवद् विष्णुनागो ऽसाव्

उरसा वेष्टते क्षितौ
(ब्) प्रायश्चित्तार्थम् उद्विग्नं
तम् एनं त्रातुम् अर्हथ
किं मां पृच्छन्ति भवन्तः- को ऽस्यापनय इति श्रूयताम्
125 (अ) उत्क्षिप्तालकम् ईक्षणान्तगलितं कोपाञ्चितान्तभ्रुवा
(ब्) दष्टार्धोष्ठम् अधीरदन्तकिरणं प्रोत्कम्पयन्त्या मुखम्
(च्) शिञ्जन्नूपुरया विकृष्य विगलद्रक्तांशुकं पाणिना
(द्) मूर्धन्य् अस्य सनूपुरः समदया पादो ऽर्पितः कान्तया
किं किं वदन्ति भवन्तः - कस्याः पुनर् इदम् अविज्ञातपुरुषान्तरायाः
[प्.132] प्रमादसंज्ञकम् अयशो विस्तीर्यत इति ननु तत्रभवत्याः सौराष्ट्रिकाया मदनसेनिकायाः एते विटा दिष्ट्या नेह कश्चिद् इति संभ्रान्ता इव य एते
126 (अ) निर्धूतहस्ता विनिगूढहासा
(ब्) धिग्वादिनो धीरमुखानि बद्ध्वा
(च्) ध्यायन्ति संप्रेक्ष्य परस्परस्य
(द्) जातानुकम्पा इव नाम धूर्ताः
एतेषां तावद् आसीनानां नियुक्तो विटमहत्तरो भट्टिजीमूतः
कृपया नाम परं वैक्लव्यम् उपगतः य एषः
127 (अ) कष्टं कष्टम् इति श्वासान्
मुञ्चन् क्लान्त इव द्विपः
(ब्) जीमूत इव जीमूतो
नेत्राभ्यां वारि वर्षति
एष माम् आह्वयति अयम् आगतो ऽस्मि किम् आज्ञापयति भट्टिः - स्रुतपूर्वं मया भूयो ऽपि वदसि. एवं प्रायस्चित्तार्थं ब्राह्मणोपगमनम् तस्माद् एवाहम् उपविष्टस्, तत् समयपूर्वकम् उपगृह्यन्तां तत्रभवन्तो विटा इति यद् आज्ञापयति भट्टिः भो भोः शृण्वन्तु शृण्वन्तु भवन्तः
128 (अ) द्यूतेषु मा स्म विजयिष्ट पणं कदाचिन्
(ब्) मातुः शृणोतु पितरं विनयेन यातु
[प्.133] (च्) क्षीरं शृतं पिबतु मोदकम् अत् तु मोहाद्
(द्) व्यूढापतिर् भवतु यो ऽत्र वदेद् अयुक्तम्
अपि च
129 (अ) परिचरतु गुरून् अपैतु गोष्ठ्या
(ब्) भवतु च वृद्धसमो युवा विनीतः
(च्) पलितम् अभिसमीक्ष्य यातु शान्तिं
( द्) य इदम् अयुक्तम् उदाहरेन् निषण्णः
(विवृत्यावलोक्य) एष धारयकिर् अनन्तकथः सहसोत्थाय माम् आह्वयति किं ब्रवीषि - तस्या एवेदम् अविज्ञातप्रणयायाः पातकं नात्रभवतः श्रोतुम् अर्हति भवान्
130 (अ) अशोकं स्पर्शेन द्रुमम् असमये पुष्पयति यः
(ब्) स्वयं यस्मिन् कामो विततशरचापो निवसति
(च्) स पादो विन्यस्तः पशुशिरसि मोहाद् इव यया
(द्) ननु प्रायश्चित्तं चरतु सुचिरं सैव चपला इति
सम्यग् आह भवान् तथा हि
131 (अ) उपवीणित एष गर्दभः
(ब्) समुपश्लोकित एष वानरः
(च्) पयसि शृत एष माहिषे
(द्) सहकारस्य रसो निपातितः

अपि त्व् आर्तानुपातानि प्रायस्चित्तानि आर्तश् चायम् उपागतस्, तद् अनुग्रहीतुम् अर्हन्तिभवन्तः तत् क्व नु खल्व् एषां गोग्लनप्ता
[प्.134] य एष मदरभसचलितमौलिम् एकहस्तेन प्रतिसमाबध्य क्षुद्रमुक्तावकीर्णम् इव स्वेदबिन्दुभिर् ललाटदेशं प्रदेशिन्या परिमृज्य श्रूयताम् अस्य प्रायश्चित्तम् इति माम् आह्वयति यावद् उपसर्पामि एते विटाः कश् च तावद् अयं विटभावदूषिताकारः प्रथमतरो विटो विटपरिषद्य् उत्थाय प्रायश्चित्तम् उपदिशतीति कुपिताः हण्डे मल्लस्वामिन्, श्रुतम् एवम् आहुर् अत्रभवन्तः किं ब्रवीषि - मा तावन्, ननूच्यन्ताम् अत्रभवन्तः
132 (अ) ताते पञ्चत्वं पञ्चरात्रे प्रयाते
(ब्) मित्रेष्व् आर्तेषु व्याकुले बन्धुवर्गे
(च्) एकं क्रोशन्तं बालम् आधाय पुत्रं
(द्) दास्या सार्धं पीतवान् अस्मि मद्यम्
कथम् अहम् अविट इति एवं चेत् त्वाम् अनुजानन्ति विटमुख्यो ऽसीति आस्यताम् किं ब्रवीषि - दीयताम् अस्मै प्रायस्चित्तम् इति बाढं भूयः श्रावयामि तत् किं नु खल्व् एष मां शैब्यः कविर् आर्यरक्षितो वायुवैषम्यनिपीडिताक्षरो माम् आह्वयन्
[प्.135] न खलु न खल्व् इदं प्रायश्चित्तम् इति प्रतिषेधयति अतिविटश् चैष धान्त्रः कुतः
133 (अ) विक्रीणाति हि काव्यं
श्रोत्रियभवनेषु मद्यचषकेण
(ब्) यः शिबिकुले प्रसूतो
भर्तृस्थाने जरां यातः अपि च
134 (अ) विक्रीणन्ति हि कवयो
यद्य् एवं काव्यम् अद्य चषकेण
(ब्) काशिषु च कोसलेषु च
भर्गेषु निषादनगरेषु यावद् एनम् उपसर्पामि सखे, अयम् अस्मि किं ब्रवीषि -
135 (अ) धृतो गण्डाभोगे कमल इव बद्धो मधुकरो
(ब्) विलासिन्या मुक्तो बकुलतरुम् आपुष्पयति यः
(च्) विलासो नेत्राणां तरुणसहकारप्रियसखः
(द्) स गण्डूषः सीधोः कथम् इव शिरः प्राप्स्यति पशोः इति
अयम् अपरो भवकीर्तिर् बद्धकरः प्रायश्चित्तार्थं माम् आह्वयति अतिविटश् चैष माणवकः कुतः
136 (अ) मुण्डां वृद्धां जीर्णकाषायवस्त्रां
(ब्) भिक्षाहेतोर् निर्विशङ्कं प्रविष्टाम्
(च्) भूमाव् आर्तां पातयित्वा स्फुरन्तीं
(द्) यो ऽयं कामी कामकारं करोति
[प्.136] यावद् एनम् उपसर्पामि किं ब्रवीषि - इदम् अस्याः प्रायश्चित्तम्
ल्37 (अ) बध्यतां मेखलादाम्ना
समाकृष्य कचग्रहैः
(ब्) अथ तस्याः प्रसुप्तायाः
पादौ संवाहयत्व् अयम् इति
भो एतद् अपि प्रतिहतम् एष इभ्यपुत्रश् चेटपुत्रैर् अभ्यस्तनामा गान्धर्वसेनको हस्तम् उद्यम्य माम् आह्वयति यस्यैष हस्तः
ल्38 (अ) वाद्येषु त्रिविधेष्व् अनेककरणैः संचारिताग्राङ्गुलिस्
(ब्) ताम्राम्भोरुहपत्त्रवृष्टिर् इव यस् तन्त्रीषु पर्यस्यते
(च्) कोलम्बानुगतेन येन दधता श्रोणीतटे वल्लकीम्
(द्) इभ्यान्तःपुरसुन्दरीकररुहक्षेपाः समास्वादिताः
यावद् एनम् उपसर्पामि (उपेत्य) किं ब्रावीषि -
139 (अ) जघनरथनितम्बवैजयन्ती
(ब्) सुरतरणव्यतिषङ्गयोगवीणा
(च्) क्व च मणिरशना वराङ्गनानां
(द्) क्व च चरणाव् अशुभस्य गर्दभस्य इति

(परिवर्तकेन) अयम् इदानीं दाक्षिणात्यः कविर् आर्यकः प्रायश्चित्तम् उपदिशति किं ब्रवीषि -
140 (अ) विभ्रमाचेष्टितेनैव
दृष्टिक्षेपेण भूयसा
(ब्) शिरः कर्णोत्पलेनास्य
[प्.137] (द्) ताड्यतां मत्तया तया इति
एतद् अपि प्रतिहतम् अनेन गान्धारकेण हस्तिमूर्खेण किम् इदम् उच्यते भवता -
ल्41 (अ) नखविलिखितं कर्णे नार्या निवेशितबन्धनं
(ब्) खचितशबलं दृष्टिक्षेपैर् अपाङ्गविलम्बिभिः
(च्) यदि नरपशोर् अस्येदं भोः शिरस्य् अभिपात्यते
(द्) सुरभिरजसा प्रायश्चित्तं किम् अस्य भविष्यति इति
बाढम् एवम् एतद् इति प्रतिपन्ना विटमुख्याः (परिवर्तकेन) इमाव् अपरौ माम् आह्वयतः
142 (अ) गुप्तमहेश्वरदत्तौ
सुहृदाव् एकासनस्थिताव् एतौ
(ब्) उपगतकाव्यप्रतिभौ
वररुचिकाव्यानुसारेण
यावद् उपसर्पामि (उपसृत्य) हण्डे गुप्तरोमश, किम् आह भवान् -
143 (अ) पादप्रक्षालनेनास्याः
शिरः प्रक्षाल्यताम् इति
कथम् एतद् अपि प्रतिषिद्धं त्रैविद्यवृद्धैर् अतिसुहृद्भिर् अनुगृहीतनाम्ना महेश्वरदत्तेन
(ब्) पादप्रक्षालनं तस्याः
पातुम् अप्य् एष नार्हति इति
[प्.138] अयम् अपरो ऽस्मत्सुहृत् सौवीरको वृद्धविटः स्वच्छन्दस्मितोदग्रया वाचा मन्त्रयते किम् आह भवान् -
144 (अ) निर्भूषणावयवचारुतराङ्गयष्टिं
(ब्) स्नानार्द्रमुक्तजघनस्थितकेशहस्ताम्
(च्) ताम् आनयाम्य् अहम् अयं तु दधातु तस्याः
(द्) नेत्रप्रभाशबलमण्डलम् आत्मदर्शम् इति
इदम् अपि प्रतिषिद्धम् अनेन कविना दाशेरकेण रुद्रवर्मणा किं ब्रवीषि -
ल्45 (अ) विद्वान् अयं महति कोकिकुले प्रसूतो
(ब्) मन्त्राधिकारसचिवो नृपसत्तमस्य
(च्) वेश्याङ्गनाचरणपातरजोऽवधूतान्
(द्) केशान् न धारयितुम् अर्हति मुण्ड्यतां स इति
एष खल्व् अनुगृहीतो ऽस्मीत्य् उक्त्वा विष्णुनागो विज्ञापयति किं किल सदानन्दम् इदं दासीपदन्यासधर्षितं शिरो विच्छिन्नम् इच्छामि प्राग् एव तु शिरोरुहाणीति कथम् एतद् अप्य् अस्य प्रतिहतम् अनेन विटमहत्तरेण भट्टिजीमूतेन किम् आह भवान् -
146 (अ) स्खलितवलयशब्दैर् अञ्चितभ्रूलतानां
(ब्) खचितनखमयूखैर् अङ्गुलीयप्रभाभिः
(च्) किसलयसुकुमारैः पाणिभिः सुन्दरीणां
(द्) सुचिरम् अनभिमृष्टान् धारयत्व् एष केशान्
अपि चेदम् अस्य प्रायश्चित्तं श्रूयताम्
147 (अ) तस्या मदालसविघूर्णितलोचनायाः
(ब्) श्रोण्यर्पितैककरसंहतमेखलायाः
[प्.139] (च्) सालक्तकेन चरणेन सनूपुरेण

( द्) पश्यत्व् अयं शिरसि माम् अनुगृह्यमाणम् इति
एते विटाः साधुवादानुयात्रा एतद् एव प्रायश्चित्तम् इति वादिनः संभावयन्ति विटमहत्तरं भट्टिजीमूतम् एष सर्वथानुगृहीतो ऽस्मीत्य् उक्त्वा प्रस्थितस् तौण्डिकोकिर् विष्णुनागः एष माम् आह्वयति विटमहत्तरो भट्टिजीमूतः अयम् अस्मि किम् आह भवान् - अनुष्ठितम् इदम् किं ते भूयः प्रियम् उपहरामीति भोः श्रूयताम्
148 (अ) कुट्टिन्यश् चतुरकथा भवन्त्व् अरोगा
(ब्) धूर्तानाम् अधिकशताः पणा भवन्तु
(च्) भूयासुः प्रियविटसंगमाः पुरे ऽस्मिन्
(द्) वारस्त्रीप्रणयमहोत्सवाः प्रदोषाः
(निष्क्रान्तो विटः) इति कवेर् उदीच्यस्य विश्वेश्वरदत्तपुत्र-
स्यार्यश्यामिलकस्य कृतिः पादताडितकं नाम भाणः समाप्तः ॥

मूल पाठ: Pāḍatāḍitaka · Edition: G.H. Schokker 1966 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc