पादार्थधर्मसंग्रह · श्लोक 9.5-309
ततः.शरीराद्.वहिर्.अपगतम्.ताभ्याम्.एव.धर्माधर्माभ्याम्.समुत्पनेनातिवाहिकशरीरेण.सम्बन्ध्यते.तत्सङ्क्रान्तम्.च.स्वर्गम्.नरकम्.वागत्वा.आशयानुरूपेण.शरीरेण.सम्बध्यते.तत्सम्योगार्थम्.कर्मोपसर्पणम्.इति.।
योगिनाम्.च.बहिर्.उद्रेचितस्य.मनसो.ऽभिप्रेतदेशगमनम्.प्रत्यागमनम्.च.।
तथा.सर्गकाले.प्रत्यग्रेण.शरीरेण.सम्बन्धार्थम्.कर्मादृष्टकारितम्.।
एवम्.अन्यद्.अपि.महाभूतेषु.यत्.प्रत्यक्षानुमानाभ्याम्.अनुपलभ्यमानकारणम्.उपकारापकारसमर्थम्.च.भवति.तद्.अप्य्.अदृष्टकारितम्.।
यथा.सर्गादाव्.अणुकर्म.अग्निवाय्वोर्.ऊर्ध्वतिर्यग्.गमने.महाभूतानाम्.प्रक्षेभणम्.।
अभिषिक्तानाम्.मणीनाम्.तस्करम्.प्रति.गमनम्.।
अयसो.ऽयस्कान्ताभिसर्पणम्.चेति.॥
मूल पाठ: Pādārthadharmasaṃgraha commentary on Kaṇāda's Vaiśeṣikasūtra · Edition: The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6] · Data entry Muneo Tokunaga Muroya · GRETIL (Göttingen) · CC BY-NC-SA 4.0