पादार्थधर्मसंग्रह · श्लोक 9.3-292
एतत्.पञ्चविधम्.अपि.कर्म.शरीरावयवेषु.तत्.सम्बद्धेषु.च.सत्.प्रत्ययम्.असत्.प्रत्ययम्.च.यद्.अन्यत्.तद्.अप्रत्ययम्.एव.तेष्व्.अन्येषु.च.तद्.गमनम्.इति.।
कर्मणाम्.जातिपञ्चकत्वम्.अयुक्तंगमनाविशेषात्.।
सर्वम्.हि.क्षणिकम्.कर्म.गमनमात्रम्.उत्पन्नम्.स्वाश्रयस्योर्ध्वम्.अधिस्.तिर्यग्.वाप्य्.अणुमात्रैः.प्रदेशैः.सम्योगविभागात्न्.करोति.सर्वत्र.गमनप्रत्ययो.ऽवुसिष्टस्.तस्माद्.गमनम्.एव.सर्वम्.इति.।
न.वर्गशः.प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात्.इहोत्क्षेपणम्.परत्रापक्षेपणम्.इत्य्.एवम्.आदि.सर्वत्र.वर्गशः.प्रत्ययानुवृत्तिव्यावृत्ती.दृष्टे.तद्.धेतुः.सामान्यविशेषभेदो.ऽवगम्यते.।
तेषाम्.उदाद्युपसर्गविशेषात्.प्रतिनियतदिग्विशिष्टकार्यारम्भत्वाद्.उपलक्षणभेदो.ऽपि.सिद्धः.।
एवम्.अपि.पञ्चैवेत्य्.अवधारणानुपपत्तिः.।
निष्क्रामणप्रवेशनादिष्व्.अपि.वर्गशः.प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात्.।
यद्य्.उत्क्षेपणादिषु.सर्वत्र.वर्गशः.प्रत्ययानुवृत्तिव्यावृत्तिदर्शनाज्.जातिभेद.इष्यते.एवम्.च.निष्क्रमणप्रवेशनादिष्व्.अपि.।
कार्यभेदात्.तेषु.प्रत्ययानुवृत्तिव्यावृत्ती.इति.चेत्.न.उत्क्षेपणादिष्व्.अपि.कार्यभेदाद्.एव.प्रत्ययानुवृत्तिव्यावृत्तिप्रसङ्गः.।
अथ.समाने.वर्गशः.प्रत्ययानुवृत्तिव्यावृत्तिसद्भावे.उत्क्षेपणादीनाम्.एव.जातिभेदो.न.निष्क्रमणादीनाम्.इत्य्.अत्र.विशेषहेतुर्.अस्तीति.न.जातिसङ्करप्रसङ्गात्.।
निष्क्रमणादीनाम्.जातिभेदात्.प्रत्ययानुवृत्तिव्यावृत्तौ.जातिसङ्करः.प्रसज्यते.।
कथम्.द्वयोर्.द्रष्ट्रोर्.एकस्माद्.अपवरकादपवरकान्तरम्.गच्छतो.युगपन्.निष्क्रमणप्रवेशनप्रत्ययौ.दृष्टौ.तथा.द्वारप्रदेशे.प्रविशति.निष्क्रामतीति.च.।
यदा.तु.प्रतिसीराद्यपनीतम्.भवति.तदा.न.प्रवेशनप्रत्ययो.नापि.निष्क्रमणप्रत्ययः.किन्.तु.गमनप्रत्यय.एव.भवति.।
तथा.नालिकायाम्.वंशपत्त्रादौ.पतति.बहूनाम्.द्रष्ट्qणाम्.युगपद्भ्रमणपतनप्रवेशनप्रत्यया.दृष्टा.इति.जातिसङ्करप्रसङ्गः.।
न.चैवम्.उत्क्षेपणादिषु.प्रत्ययसङ्करो.दृष्टः.तस्माद्.उत्क्षेपणादीनाम्.एव.जातिभेदात्.प्रत्ययानुवृत्तिव्यावृत्ती.निष्क्रमणादीनाम्.तु.कार्यभेदाद्.इति.।
कथम्.युगपत्.प्रययभेद.इति.चेत्.।
अथ.मतम्.यथा.जातिसङ्करो.नासित्.एवम्.अनेककर्मसमावेशो.ऽपि.नास्तीत्य्.एकस्मिन्.कर्मणि.युगपद्.द्रष्ट्qणाम्.भ्रमणपतनप्रवेशनप्रत्ययाः.कथम्.भवन्तीति.।
अत्र.ब्रूमः.न.अवयवावयविनोर्.दिग्विशिष्टसम्योगविभागानाम्.भेदात्.।
मूल पाठ: Pādārthadharmasaṃgraha commentary on Kaṇāda's Vaiśeṣikasūtra · Edition: The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6] · Data entry Muneo Tokunaga Muroya · GRETIL (Göttingen) · CC BY-NC-SA 4.0