भाषा

ENहिગુ
ग्रंथ पाठ

पादार्थधर्मसंग्रह · अध्याय 8.12.2

8.12.2.1-186-

अक्षाणीन्द्रियाणि.घ्राणरसनचक्षुस्त्वक्छ्रोत्रमनांसि.षट्.।.तद्.धि.द्रव्यादिषु.पदार्थेषूत्पद्यते.।

8.12.2.1-186-

द्रव्ये.तावद्.द्विविधे.महत्य्.अनेकद्रव्यवत्त्वोद्भूतरूपप्रकाशचतुष्टयसन्निकर्षाद्.धर्मादिसामग्र्ये.च.स्वरूपालोचनमात्रम्.।

8.12.2.1-186-

सामान्यविशेषद्रव्यगुणकर्मविशेषणापेक्षाद्.आत्ममनः.सन्निकर्षात्.प्रत्यक्षम्.उत्पद्यते.सद्.द्रव्यम्.पृथिवी.विषाणी.शुक्लो.गौर्.गच्छतीति.।

8.12.2.1-186-

रूपरसगन्धस्पर्शेष्व्.अनेकद्रव्यसमवायात्.स्वगतविशेषात्.स्वाश्रयसन्निकर्षान्.नियतेन्द्रियनिमित्तम्.उत्पद्यते.।.तेनैवोपलब्धिः.।

8.12.2.1-187-

बुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नानाम्.द्वयोर्.आत्ममनसोः.सम्योगाद्.उपलब्धिः.।.भावद्रव्यत्वगुणत्वकर्मत्वादीनाम्.उपलभ्याधारसमवेतानाम्.आश्रयग्राहकैर्.इन्द्रियैर्.ग्रहणम्.इत्य्.एतद्.अस्मदादीनाम्.प्रत्यक्षम्.।

8.12.2.1-187-

अस्मद्विशिष्टानाम्.तु.योगिनाम्.युक्तानाम्.योगजधर्मानुगृहीतेन.मनसा.स्वात्मान्तराकाशदिक्कालपरमणुवायुमनसस्सु.तत्समवेतगुणकर्मसामान्यविशेषेषु.समवाये.चावितथम्.स्वरूपदर्शनम्.उत्पद्यते.।

8.12.2.1-187-

वियुक्तानाम्.पुनश्.चतुष्टयसन्निकर्षाद्.योगजधर्मानुग्रहसामर्थयात्.सूक्ष्मव्यवहितविप्रकृष्टेषु.प्रत्यक्षम्.उत्पद्यते.।

8.12.2.1-187-

तत्र.सामान्यविशेषेषु.स्वरूपालोचनमात्रम्.प्रत्यक्षम्.प्रमाणम्.प्रमेया.द्रव्यादयः.पदार्थाः.प्रमानात्मा.प्रमितिर्.द्रव्यादिविषयम्.ज्ञानम्.।

8.12.2.1-187-

सामान्यविशेषज्ञानोत्पत्ताव्.अविभक्तम्.आलोचनमात्रम्.प्रत्यक्षम्.प्रमाणम्.अस्मिन्.नान्यत्प्रमाणान्तरम्.अस्ति.अफलरूपत्वात्.।

8.12.2.1-187-

अथवा.सर्वेषु.पदार्थेषु.चतुष्टयसन्निकर्षाद्.अवितथम्.अव्यपदेश्यम्.यज्ज्ञानम्.उत्पद्यते.तत्प्रत्यक्षम्.प्रमाणम्.प्रमेया.द्रव्यादयः.पदार्थाः.प्रमातात्मा.प्रमितिर्.गुणदोषमाध्यस्थ्यदर्शनम्.इति.॥

8.12.2.2-200-

यदनुमेयेन.सम्बद्धम्.प्रसिद्धम्.च.तदन्विते.।

8.12.2.2-200-

तदभावे.च.नास्त्य्.एव.तल्लिङ्गम्.अनुमापकम्.॥

8.12.2.2-200-

विपरीतम्.अतो.यत्.स्याद्.एकेन.द्वितयेन.वा.।

8.12.2.2-200-

विरुद्धासिद्धसन्दिग्धम्.अलिङ्गम्.काश्यपो.ऽब्रवीत्.॥

8.12.2.2-205-

एवम्.सर्वत्र.देशकालाविनाभूतम्.इतरस्य.लिङ्गम्.।.शास्त्रे.कार्यादिग्रहणम्.निदर्शनार्थम्.कृतम्.नावधारणार्थम्.कस्माद्यूतिर्.एकदर्शनात्.।

8.12.2.2-205-

तद्यथा.अध्वर्युर्.ओंश्रावयन्.व्यवहितस्य.होतुर्.लिङ्गम्.चन्द्रोदयः.समुद्रवृद्धेः.कुमुदविकाशस्य.च.शरदि.जलप्रसादो.ऽगस्त्योदयस्येति.।

8.12.2.2-205-

एवमादि.तत्.सर्वम्.अस्येदम्.इति.सम्बन्धमात्रवचनात्.सिद्धम्.।.तत्.तु.द्विविधम्.।.दृष्टम्.सामान्यतो.दृष्टम्.च.।

8.12.2.2-205-

तत्र.दृष्टम्.प्रसिद्धसाध्ययोर्.अत्यन्तजात्यभेदे.ऽनुमानम्.।.यथा.गव्य्.एव.सास्नामात्रम्.उपलभ्य.देशान्तरे.ऽपि.सास्नामात्रदर्शनाद्.गवि.प्रतिपत्तिः.।

8.12.2.2-206-

यथा.कर्षकवणिग्राजपुरुषाणाम्.च.प्रवृत्तेः.फलवत्त्वम्.उपलभ्य.वर्णाश्रमिणाम्.अपि.दृष्टम्.प्रयोजनम्.अनुद्दिश्य.प्रवर्तमानानाम्.फलानुमानम्.इति.।

8.12.2.2-206-

तत्र.लिङ्गदर्शनम्.प्रमाणम्.प्रमितिर्.अग्निज्ञानम्.।.अथवाग्निज्ञानम्.एव.प्रमाणम्.प्रमितिर्.अग्नौ.गुणदोषमाध्यस्थ्यदर्शनम्.इत्य्.एतत्.स्वनिश्चितार्थम्.अनुमानम्.।

8.12.2.4-258-

तत्.तु.प्रस्तारेण.देवर्षीणाम्.कदाचिद्.एव.लौकिकानाम्.यथा.कन्यका.ब्रवीति.श्वो.मे.भाता.ऽऽगन्ति.हृदयम्.मे.कथयतीति.॥

8.12.2.5-259-

अथ.लिङ्गानपेक्षम्.ध्रमादिषु.दर्शनम्.इष्टम्.तद्.अपि.प्रत्यक्षार्षयोर्.अन्यतरस्मिन्न्.अतर्भूतम्.इत्य्.एवम्.बुद्धिर्.इति.॥

मूल पाठ: Pādārthadharmasaṃgraha commentary on Kaṇāda's Vaiśeṣikasūtra · Edition: The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6] · Data entry Muneo Tokunaga Muroya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc