पादार्थधर्मसंग्रह · अध्याय 8.12.1
स.च.द्विविधः.अन्तर्.बहिश्.च.।.अन्तस्.तावत्.आदेशिकस्य.सम्यङ्मिथ्या..चोद्दिश्य.पुनर्.आदिशतस्.त्रिषु.कालेषु.संशयो.भवति.किन्.नु.सम्यङ्मिथ्या.वेति.।
बहिर्.द्विविधः.प्रत्यक्षविषये.चाप्रत्यक्षविषये.च.।
प्रत्यक्षाविषये.ऽपि.स्थाणुपुरुषयोर्.ऊर्ध्वतामात्रसादूश्यदर्शनात्.वक्रादिविशेषानुपलब्धितः.स्थाणुत्वादिसामान्यविशेषानभिव्यक्ताव्.उभयविशेषानुस्मरणाद्.उभयत्राकृष्यमाणस्यात्मनः.प्रत्ययो.दोलायते.किम्.नु.खल्व्.अयम्.स्थाणुः.स्यात्.पुरुषो.वेति.॥
प्रत्यक्षविषये.तावत्.प्रसिद्धानेकविशेषयोः.पित्तकफानिलोपहतेन्द्रियस्यायथार्थालोचनात्.असन्निहितविषयज्ञानजसंस्कारापेक्षाद्.आत्ममनसोः.सम्योगाद्.अधर्माच्.चातस्मिंस्.तद्.इति.प्रत्ययो.विपर्ययः.।
यथा.गव्येवाश्व.इति.।.असत्य्.अपि.प्रत्यक्षे.प्रत्यक्षाभिमानो.भवति.यथा.व्यपगतघनपटलमचलजलनिधिसदूशम्बरम्.अंजनचूर्णपुंजश्याअम्.शार्वरम्.तम.इति.।
अनुमानविषये.ऽपि.बाष्पादिभिर्.धूमाभिमतैर्.वह्यनुमाणम्.गवयविषाणदर्शनाच्.च.गौर्.इति.।
त्रयीदर्शनविपरीतेषु.शाक्यादिदर्शनेष्व्.इदम्.श्रेय.इति.मिथ्याप्रत्ययः.विपर्ययः.शरीरेन्द्रियमनस्.स्वात्माभिमानः.कृतकेषु.नित्यत्वदर्शनम्.कारणवैकल्ये.कार्योत्पत्तिज्ञानम्.हितम्.उपदिशत्स्व्.अहितम्.इतिज्ञानम्.अहितम्.उपदिशत्सु.हितम्.इतिज्ञानम्.॥
यथा.वाहीकस्य.पनसादिष्व्.अनध्यवसायो.भवति.।.तत्र.सत्ताद्रव्यत्वपृथ्वीत्ववृक्षत्वरूपवत्त्वादिशाखाद्यपेक्षो.ऽध्यवसायो.भवति.।
पनसत्वम्.अपि.पनसेष्व्.अनुवृत्तम्.आंरादिभ्यो.व्यावृत्तम्.प्रत्यक्षम्.एव.केवलम्.तूपदेशाभावाद्.विशेषसंज्ञाप्रतिपत्तिर्.न.भवति.।
अनुमानविषये.ऽपि.नारिकेलद्वीपवासिनः.सास्नामात्रदर्शनात्.कोनु.खल्व्.अयम्.प्राणी.स्याद्.इत्य्.अनध्यवसायो.भवति.॥
यदा.बुद्धिपूर्वाद्.आत्मनः.शरीरव्यापाराद्.अहनि.खिन्नानाम्.प्राणिनाम्.निशि.विश्रमार्थम्.आहारपरिणामार्थम्.वादृष्टकारितप्रयत्नापेक्षाद्.आत्मान्तह्करणसम्बन्धान्.मनसि.क्रियाप्रबन्धाद्.अन्तर्हृदये.निरिन्द्रिये.आत्मप्रदेशे.निश्चलम्.मनस्.तिष्ठति.तदा.प्रलीनमनस्क.इत्य्.आख्यायते
प्रलीने.च.तस्मिन्न्.उपरतेन्द्रियग्रामो.भवति.तस्यामवस्थायाम्.प्रबन्धेन.प्राणापानसन्तानप्रवृत्ताव्.आत्ममनह्सम्योगविशेषात्.स्वापाख्यात्.संस्काराच्.चेन्द्रियद्वारेणैवासत्सु.विषयेषु.प्रत्यक्षाकारम्.स्वप्नज्ञानम्.उत्पद्यते.।
तत्र.संस्कारपाटवात्.तावत्.कामी.क्रुधो.वा.यदा.यमर्थम्.आदूतश्.चिन्तयन्.स्वपिति.तदा.सैव.चिन्तासन्ततिः.प्रत्यक्षाकारा.संजायते.।
धातुदोषाद्.वातप्रकृतिस्.तद्दूषितो.वा.आकाशगमनादीन्.पश्यति.।.पित्तप्रकृतिः.पित्तदूषितो.वाग्निप्रवेशकनकपर्वतादीन्.पश्यति.।
श्लेष्मप्रकृतिः.श्लेष्मदूषितो.वा.सरित्समुद्रप्रतरणहिमपर्वतादीन्.पश्यति.।.
यत्.स्वयम्.अनुभूतेष्व्.अननुभूतेषु.वा.प्रसिद्धार्थेष्व्.अप्रसिद्धार्थेषु.वा.यच्.छुभावेदकम्.गजारोहणच्छत्त्रलाभादि.तत्.सर्वम्.सांस्काराधर्माभ्याम्.भवति.विपरीतम्.च.तैलाभ्यंजनखरोष्टारोहणादि.तत्.सर्वम्.अधर्मसंस्काराभ्याम्.भवति.।
अत्यन्ताप्रसिद्धार्थेष्व्.अदृष्टाद्.एवेति.।
स्वप्नान्तिकम्.यद्य्.अप्य्.उपरतेन्द्रियग्रामस्य.भवति.तथाप्य्.अतीतस्य.ज्ञानप्रबन्धस्य.प्रत्यवेक्षणात्.स्मृतिर्.एवेति.भवत्य्.एषा.चतुरिविधा.ऽविद्येति.॥
मूल पाठ: Pādārthadharmasaṃgraha commentary on Kaṇāda's Vaiśeṣikasūtra · Edition: The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6] · Data entry Muneo Tokunaga Muroya · GRETIL (Göttingen) · CC BY-NC-SA 4.0