भाषा

ENहिગુ
ग्रंथ पाठ

पादार्थधर्मसंग्रह · अध्याय 8

8.5-106-

तस्मिन्.विनष्टे.स्वतन्त्रेषु.परमाणुष्व्.अग्निसम्योगाद्.औष्ण्यापेक्षाच्.छ्यामादीनाम्.विनाशः.पुनर्.अन्यस्माद्.अग्निसम्योगाद्.औष्ण्यापेक्षात्.पाकजा.जायन्ते.।

8.5-107-

तदनन्तरम्.भोगिनाम्.अदृष्तापेक्षाद्.आत्माणुसम्योगाद्.उत्पन्नपाकजेष्व्.अणुषु.कर्मोत्पत्तौ.तेषाम्.परस्परसम्योगाद्.द्व्यणुकादिक्रमेण.कार्यद्रव्यम्.उत्पद्यते.।.तत्र.च.कारणगुणप्रक्रमेण.रूपाद्युत्पत्तिः.।

8.5-107-

न.च.कार्यद्रव्य.एव.रूपाद्युत्पत्तिर्.विनाशो.वा.सम्भवति.सर्वावयवेष्व्.अन्तर्.बहिश्.च.वर्तमानस्याग्निना.व्याप्त्यभावाद्.अणुप्रवेशाद्.अपि.च.व्याप्तिर्.न.सम्भवति.कार्यद्रव्यविनाशाद्.इति.॥

8.6-111-

तस्याः.खल्व्.एकत्वेभ्यो.ऽनेकविषयबुद्धिसहितेभ्यो.निष्पत्तिर्.अपेक्षाबुद्धिविनाशाद्.विनाश.इति.।.कथम्.।

8.6-111-

यदा.बोद्धुश्.चक्षुषा.समानासमानजातीययोर्.द्रव्ययोः.सन्निकर्षे.सति.तत्सम्युक्तसमवेतसमवेतैकत्वसामान्यज्ञानोत्पत्ताव्.एकत्वसामान्यतस्.सम्बन्धज्ञानेभ्य.एकगुणयोर्.अनेकविषयिण्य्.एका.बुद्धिर्.उत्पद्यते.तदा.ताम्.अप्क्ष्यैकत्वाभ्याम्.स्वाश्रययोर्.द्वित्वम्.आरम्भ्यते.ततः.पुनस्.तस्मिन्.द्वित्वसामान्यज्ञानम्.उत्पद्यते.तस्माद्.द्वित्वसामान्यज्ञानाद्.अपेक्षाबुद्धेर्.विनश्यत्ता.द्वित्वसामान्यतत्सम्बन्धतज्ज्ञानेभ्यो.द्वित्वगुणबुद्धेर्.उत्पद्यमानतेत्य्.एकः.कालः.।

8.6-111-

तत.इदानीम्.अपेक्षाबुद्धिविनाशाद्.द्वित्वगुणस्य.विनश्यत्ता.द्वित्वगुणज्ञानम्.द्वित्वसामान्यज्ञानस्य.विनाशकारणम्.द्वित्वगुणतज्ज्ञानसम्बन्धेभ्यो.द्वे.द्रव्ये.इति.द्रव्यबुद्धेर्.उत्पद्यमानतेत्य्.एकः.कालः.।

8.6-111-

तदनन्तरम्.द्वे.द्रव्ये.इति.द्रव्यज्ञानस्योत्पादः.द्वित्वस्य.विनाशः.द्वित्वगुणबुद्धेर्.विनश्यत्.ता.द्रव्यज्ञानात्.संस्कारस्योत्पद्यमानतेत्य्.एकः.कालः.तदनन्तरम्.द्रव्यज्ञानाद्.द्वित्वगुणबुद्धेर्.विनाशो.द्रव्यबुद्धेर्.अपि.संस्कारात्.।

8.6-112-

एतेन.त्रित्वाद्युत्पत्तिर्.अपि.व्याख्याता.।.एकत्वेभ्यो.ऽनेकविषयबुद्धिसहितेभ्यो.निष्पत्तिर्.अपेक्षाबुद्धिविनाशाच्.च.विनाश.इति.।.क्वचिच्.चाश्रयविनाशाद्.इति.।.कथम्.।

8.6-112-

यदैकत्वाधारावयवे.कर्मोत्पद्यते.तदैवैकत्वसामान्यज्ञानम्.उत्पद्यते.कर्मणा.चावयवान्तराद्.विभागः.क्रियते.अपेक्षाबुद्धेश्.चोत्पत्तिः.।

8.6-112-

ततो.यस्मिन्न्.एव.काले.विभागात्.सम्योगविनाशस्.तस्मिन्न्.एव.काले.द्वित्वम्.उत्पद्यते.सम्योगविनाशाद्.द्रव्यविनाशः.सामान्यबुद्धेश्.चोत्पत्तिः.।

8.6-112-

ततो.यस्मिन्न्.एव.काले.सामान्यज्ञानाद्.अपेक्षाबुद्धेर्.विनाशः.तस्मिन्न्.एव.काले.आश्रयविनाशाद्.द्वित्वविनाश.इति.शोभनम्.एतद्विधानम्.बध्यघातकपक्षे.सहानवस्थानलक्षणे.तु.विरोधे.द्रव्यज्ञानानुत्पत्तिप्रसङ्गः.।.कथम्.।

8.6-112-

गुणबुद्धिसमकालम्.अपेक्षाबुद्धिविनाशाद्.द्वित्वविनाशे.तदपेक्षस्य.द्वे.द्रव्ये.इति.द्रव्यज्ञानस्यानुत्पत्तिप्रसङ्ग.इति.।.लैङ्गिकवज्.ज्ञानमात्राद्.इति.चेतस्यान्.मतम्.यथा.ऽभूतम्.भूतस्येत्य्.अत्र.लिङ्गाभावे.ऽपि.ज्ञानमात्राद्.अनुमानम्.तथा.गुणविनाशे.ऽपि.गुणबुद्धिमात्राद्.द्रव्यप्रत्ययः.स्याद्.इति.।

8.6-112-

न.।.विशेष्यज्ञानत्वात्.।.नहि.विशेष्यज्ञानम्.सारूप्याद्.विशेषणसम्बन्धम्.अन्तरेण.भवितुम्.अर्हति.।.तथा.चाह.सूत्रकारः.समवायिनः.श्वैत्याच्.छ्वैत्यबुद्धेः.श्वेते.बुद्धिस्.ते.कार्यकारणभूते.इति.।

8.6-113-

बध्यघातकपक्षे.ऽपि.समानो.दोष.इति.चेत्.स्यान्.मतम्.।.ननु.बध्यघातकपक्षे.ऽपि.तर्हि.द्रव्यज्ञानानुत्पत्ति.प्रसङ्गः.।.कथम्.।.द्वित्वसामान्यबुद्धिसमकालम्.संस्काराद्.अपेक्षाबुद्धिविनाशाद्.इति.।.न.।

8.6-113-

समूहज्ञानस्य.संस्कारहेतुत्वात्.समूहज्ञान्म्.एव.संस्कारकारणम्.नालोचनज्ञानम्.इत्य्.अदोषः.।.ज्ञानयौगपद्यप्रसङ्ग.इति.चेत्.स्यान्.मतम्.ननु.ज्ञानानाम्.बध्यघातकविरोधे.ज्ञानयौगपद्यप्रसङ्ग.इति.।.न.।

8.6-113-

अविनश्यतोर्.अवस्थानप्रतिषेधात्.।

8.6-113-

ज्ञानायौगप्द्यवचनेन.ज्ञानयोर्.युगपद्.उत्पत्तिर्.अविनश्यतोश्.च.युगपदवस्थानम्.प्रतिषिध्यते.नहि.बध्यघातकविरोधे.ज्ञानयोर्.युगपदुत्पत्तिर्.विनश्यतोश्.च.युगपदवस्थानम्.अस्तीति.॥

8.7-130-

तथा.चाण्व्.अपि.द्विविधम्.नित्यम्.अनित्यम्.च.।.नित्यम्.परमाणुमनस्सु.तत्.पारिमाण्डलुयम्.।.अनित्यम्.द्व्यणुक.एव.।.कुवलयामलकबिल्वादिषु.महत्स्व्.अपि.तत्प्रकर्षभावाभावम्.अपेक्ष्य.भाक्तो.ऽणुत्वव्यवहारः.।

8.7-131-

अनित्यम्.चतुर्विधम्.अपि.संख्यापरिमाणप्रचययोनि.।.तत्रेश्वरबुद्धिम्.अपेक्ष्योत्पन्ना.परमाणुद्व्यणुकेषु.बहुत्वसंख्या.तैर्.आरब्धे.कार्यद्रव्ये.त्र्यणुकादिलक्षणे.रूपाद्युत्पत्तिसमकालम्.महत्त्वम्.दीर्घत्वम्.च.करोति.।

8.7-131-

द्विबहुभिर्.महद्भिश्.चारब्धे.कार्यद्रव्ये.कारणमहत्त्वान्य्.एव.महत्त्वम्.आरभन्ते.न.बहुत्वम्.।.समानसंख्यैश्.चारब्धे.ऽतिशयदर्शनात्.।

8.7-131-

प्रचय.तूलपिण्डयोर्.वर्तमानः.पिण्डारम्भकावयवप्रशिथिलसम्योगान्.अपेक्षमाण.इतरेतरपिण्डावयवसम्योगापेक्षो.वा.द्वितूलके.महत्त्वम्.आरभते.न.बहुत्वमहत्त्वानि.।

8.7-131-

समानसंख्यापलपरिमाणैर्.आरब्धे.ऽतिशयदर्शनात्.।.द्वित्वसंख्या.चाण्वोर्.वर्तमाना.द्व्यणुके.ऽणुत्वम्.आरभते.।.महत्त्ववत्.त्र्यणुकादौ.कारणबहुत्वमहत्त्वसमानजातीयप्रचयेभ्यो.दीर्घत्वस्योपत्तिः.।

8.7-131-

अणुत्ववद्.द्व्यणुके.द्वित्वसंख्यातो.ह्रस्वत्वस्योत्पत्तिः.।.अथ.त्र्यणुकादिषु.वर्तमानयोर्.महत्त्वदीर्घत्वयोः.पर्स्परतः.को.विशेषः.द्व्यणुकेषु.चाणुत्वह्रस्वत्वयोर्.इति.।

8.7-131-

तत्रास्ति.महत्त्वदीर्घत्वयोः.परस्परतो.विशेषह्,.महत्सु.दीर्घम्.आनीयताम्.दीर्घेषु.च.महद्.आनीयताम्.इति.विशिष्टव्यवहारदर्शनाद्.इति.।

8.9-139-

अथ.कथंलक्षणः.कतिविधश्.चेति.।.अप्राप्तयोः.प्राप्तिः.सम्योगः.स.च.त्रिविधः.अन्यतरकर्मजः.उभयकर्मजः.सम्योगजश्.च.।.तत्रान्यतरकर्मजः.क्रियावता.निष्क्रियस्य.।

8.9-139-

यथा.स्थाणोः.श्येनेन्न.विभूनाम्.च.मूर्त्तैः.।.उभयकर्मजो.विरुद्धदिक्क्रिययोः.सन्निपातः.।.यथा.मल्लयोर्.मेषायोर्.वा.।.

8.9-139-

सम्योगजस्.तूत्पन्नमात्रस्य.चिरोत्पन्नस्य.वा.निष्क्रियस्य.कारणसम्योगिभिर्.अकारणैः.कारणाकारणसम्योगपूर्वकः.कार्याकार्यगतः.सम्योगः.।

8.9-140-

एकस्माच्.च.द्वयोर्.उत्पत्तिः.।.कथम्.।.यदा.पार्थिवाप्ययोर्.अण्वोः.सम्योगे.सत्य्.अन्येन.पार्थिवेन.पार्थिवस्यान्येनाप्येन.चाप्यस्य.युगपत्सम्योगौ.भवतस्.तदा.ताभ्याम्.सम्योगाभ्याम्.पार्ह्तिवाप्ये.द्व्यणुके.युगपद्.आरभ्येते.।

8.9-140-

ततो.यस्मिन्.काले.द्व्यणुकयोः.कारणगुणपूर्वक्रमेण.रूपाद्युत्पत्तिः.तस्मिन्न्.एव.काले.इतरेतरकारणाकारणगतात्.सम्योगाद्.इतरेतरकायाकार्यगतौ.सम्योगौ.युगपद्.उत्पद्येते.।.किम्.कारणम्.।

8.9-140-

कारणसायोगिना.ह्य्.अकारणेन.कार्यम्.अवश्यम्.सम्युज्यते.इति.न्यायः.अतः.पार्थिवम्.द्व्यणुकम्.कारणसम्योगिनाप्येनाणुना.सम्बद्ध्यते.आप्यम्.अपि.द्व्यणुकम्.कारण्सम्योगिना.पार्थिवेनेति.।

8.9-140-

अथ.द्व्यणुकयोर्.इतरेतरकारणाकारणसम्बद्धयोः.कथम्.परस्परतः.सम्बन्ध.इति.।.तयोर्.अपि.सम्योगजाभ्याम्.सम्योगाभ्याम्.सम्बन्ध.इति.।.नास्त्यजः.सम्योगो.नित्यपरिमण्डलवत्.पृथगनभिधानात्.।

8.9-140-

यथा.चतुर्विधम्.परिमाणम्.उत्पाद्यम्.उक्त्वाह.नित्यम्.परिमण्डलम्.इत्य्.एवम्.अन्यतरकर्मजादिसम्योगम्.उत्पाद्यम्.उक्त्वा.पृथङ्नित्यम्.ब्रूयान्.न.त्व्.एवम्.अब्रवीत्.तस्मान्.नास्त्यजः.सम्योगः.।

8.9-141-

सा.पुनर्.द्वयोर्.अन्यतरस्य.वा.पृथग्गतिमत्त्वम्.पृथगाश्रयाश्रयित्वम्.चेति.।.विनाशस्.तु.सर्वस्य.सम्योगस्यैकार्थसमवेताद्.विभागात्.क्वचिद्.एस्रयविनाशाद्.अपि.।.कथम्.।

8.9-141-

यदा.तन्त्वोः.सम्योगे.सत्यन्यतरतन्त्वारम्भके.अंशौ.कर्मोत्पद्यते.तेन.कर्मणा.अंश्वन्ततराद्.विभागः.क्रियते.विभागाच्.च.तन्त्वारम्भकसम्योगविनाशः.सम्योगविनाशात्.तन्तुविनाशस्.तद्विनाशे.तदाश्रितस्य.तन्त्वन्तरसम्योगस्य.विनाश.इति.॥

8.10-151-

तत्रान्यतरकर्मजोभयकर्मजौ.सम्योगवत्.।.विभागजस्.तु.द्विविधः.कारणविभागात्.कारणाकारणविभागाच्.च.।.तत्र.कारणविभागात्.तावत्.कार्याविष्टे.कारणे.कर्मोत्पन्नम्.यदा.तस्यावयवान्तराद्.विभागम्.करोति.न.तदाकाशादिदेशात्.यदा.त्व्.आकाशादिदेशाद्.विभागम्.करोति.न.तदावयवान्तराद्.इति.स्थितिः.।

8.10-151-

अतो.ऽवयवकर्मावयवान्तराद्.एव.विभागम्.आरभते.ततो.विभागाच्.च.द्रव्यारम्भकसम्योगविनाशः.तस्मिन्.विनष्टे.कारणाभावात्.कार्याभाव.इत्य्.अवयविविनाशः.तदा.कारणयोर्.वर्तमानो.विभागः.कार्यविनाशविशिष्टम्.कालम्.स्वतन्त्रम्.वावयवम्.अपेक्ष्य.सक्रियस्यैवावयवस्य.कार्यसम्युक्ताद्.आकाशादिदेशाद्.विभागम्.आरभते.न.निष्क्रियस्य.कारणाभावाद्.उत्तरसम्योगानुत्पत्ताव्.अनुपभोग्यत्वप्रसङ्गः.न.तु.तदवयवकर्माकाशादिदेशाद्.विभागम्.करोति.तदारम्भकालातीतत्वात्.प्रदेशान्तरसम्योगम्.तु.करोत्य्.एव.अकृतसम्योगस्य.कर्मणः.कालात्ययाभावाद्.इति.।

8.10-151-

कारणाकारणविभागाद्.अपि.कथम्.।

8.10-152-

यदि.कारणविभागानन्तरम्.कार्यविभागोत्पत्तिः.कारणसम्योगानन्तरम्.कार्यसम्योगोत्पत्तिः.नन्व्.एवम्.अवयवावयविनोर्.युतसिद्धिदोषप्रसङ्गः.इति.।.न.।

8.10-152-

युतसिद्ध्यपरिज्ञानात्.।.सा.पुनर्.द्वयोर्.अन्यतरस्य.वा.पृथग्गतिमत्त्वम्.इयन्तु.नित्यानाम्.अनित्यानाम्.तु.युतेष्व्.आश्रयेषु.समवायो.युतसिद्धिर्.इति.।

8.10-152-

त्वगिन्द्रियशरीरयोः.पृथग्गतिमत्त्वम्.नास्ति.युतेष्व्.आश्रयेषु.समवायोस्तीति.परस्परेण.सम्योगः.सिद्धः.।.अण्वाकाशयोस्.त्व्.आश्रयान्तराभावेप्य्.अन्यतरस्य.पृथग्गतिमत्त्वात्.सम्योगविभागौ.सिद्धौ.।

8.10-152-

तन्तुपटयोर्.अनित्ययोर्.आश्रयान्तराभावात्.परस्परतः.सम्योगविभागाभाव.इति.।.दिगादीनाम्.तु.पृथग्गतिमत्त्वाभावाद्.इति.परस्परेण.सम्योगविभागाभाव.इति.।

8.10-152-

विनाशस्.तु.सर्वस्य.विभागस्य.क्षणिकत्वाद्.उत्तरसम्योगावधिसद्भावाद्.क्षणिक.इति.।

8.10-152-

न.तु.सम्योगविद्ययोर्.एव.विभागस्.तयोर्.एव.सम्योगाद्.विनाशो.भवति.कस्मात्.सम्युक्तप्रत्ययवद्विभक्तप्रत्ययानुवृत्त्यभावात्.तस्माद्.उत्तरसम्योगावधिसद्भावात्.क्षणिक.इति.।

8.10-153-

यदा.द्वितन्तुककारणावयवे.अंशौ.कर्मोत्पन्नम्.अंश्वन्तराद्.विभागाम्.आरभते.तदैव.तन्त्वन्तरे.ऽपि.कर्मोत्पद्यते.विभागाच्.च.तन्त्वारम्भकसम्योगविनाशः.तन्तुकर्मणा.तन्त्वन्तराद्.विभागः.क्रियते.इत्य्.एकः.कालः.।

8.10-153-

ततो.यस्मिन्न्.एव.काले.विभागात्.तन्तुसम्योगविनाशः.तस्मिन्न्.एव.काले.सम्योगविनाशात्.तन्तुविनाशस्.तस्मिन्.विनष्टे.तदाश्रितस्य.तन्त्वन्तरविभागस्य.विनाश.इति.।.एवम्.तर्ह्य्.उत्तरविभागानुत्पत्तिप्रसङ्गः.।

8.10-153-

कारणविभागाभावात्.।.ततः.प्रदेशान्तरसम्योगवति.सम्योगाभाव.इत्य्.अतो.विरोधिगुणासम्भवात्.कर्मणश्.चिरकालावस्थायित्वम्.नित्यद्रव्यसमवेतस्य.च.नित्यत्वम्.इति.दोषः.।.कथम्.।

8.10-153-

यदाप्यद्व्यणुकारम्भकपरमाणौ.कर्मोत्पन्नम्.अण्वन्तराद्.विभागम्.करोति.तदैवाण्वन्तरे.ऽपि.कर्म.ततो.यस्मिन्न्.एव.काले.विभागाद्.द्रव्यारम्भकसम्योगविनाशः.तदैवाण्वन्तरकर्मणा.द्व्यणुकाण्वोर्.विभागः.क्रियते.ततो.यस्मिन्न्.एव.काले.विभागात्.द्व्युअणुकाणुसम्योगस्य.विनाशः.तस्मिन्न्.एव.काले.सम्योगविनाशात्.द्व्यणुकस्य.विनाशः

8.10-154-

तस्मिन्.विनष्टे.तदाश्रितस्य.द्व्यणुकाणुविभागस्य.विनाशः.ततश्.च.विरोधिगुणासम्भवान्.नित्यद्रव्यसमवेतकर्मणो.नित्यत्वम्.इति.।

8.10-154-

तन्त्वंश्वन्तरविभागाद्.विभाग.इत्य्.अदोषः.।.आश्रयविनाशात्.तन्त्वोर्.एव.विभागो.विनष्टो.न.तन्त्वंश्वन्तरविभाग.इति.एतस्माद्.उत्तरो.विभागो.जायते.अङ्गुल्याकाशविभागाच्.छरीराकाशविभागवत्.तस्मिन्न्.एव.काले.कर्म.सम्योगम्.कृत्वा.विनश्यतीत्य्.अदोषः.।

8.10-154-

अथवा.अंश्वन्तरविभागोत्पत्तिसमकालम्.तस्मिन्न्.एव.तन्तौ.कर्मोत्पद्यते.ततोंश्वन्तरविभागात्.तन्त्वारम्भकसम्योगविनाशः.तन्तुकर्मणा.च.तन्त्वन्तराद्.विभागः.क्रियते.इत्य्.एकः.कालः.।

8.10-154-

ततः.सम्योगविनाशात्.तन्तुविनाशः.तद्विनाशाच्.च.तदाश्रितयोर्.विभागकर्मणोर्.युगपद्विनाशः.।.तन्तुवीरणयोर्.वा.सम्योगे.सति.द्रव्यानुत्पत्तौ.पूर्वोक्तेन.विधानेनाश्रयविनाशसम्योगाभ्याम्.तन्तुवीरणविभागविनाश.इति.॥

8.11-164-

कालकृतम्.च.वयोभेदप्रत्यायकम्.।.तत्र.दिक्कृतस्योत्पत्तिर्.अभिधीयते.।.कथम्.।.एकस्याम्.दिश्य्.अवस्थितयोः.पिण्डयोः.सम्युक्तसम्योगबह्वल्पभावे.सत्य्.एकस्य.द्रष्टुः.सन्निकृष्टम्.अवधिम्.कृत्वा.एतस्माद्.विप्रकृष्टो.ऽयम्.इति.परत्वाधारे.ऽसन्निकृष्टा.बुद्धिर्.उत्पद्यते.।

8.11-164-

ततस्.ताम्.अपेक्ष्य.परेण.दिक्प्रदेशेन.सम्योगात्.परत्वस्योत्पत्तिः.।.तथा.विप्रकृष्टम्.चावधिम्.कृत्वा.एतस्मात्.सन्निकृष्टोयम्.इत्य्.अपरत्वाधारे.इतरस्मिन्.सन्निकृष्टा.बुद्धिर्.उत्पद्यते.।

8.11-164-

ततस्.ताम्.अपेक्ष्यापरेण.दिक्प्रदेशेन.सम्योगाद्.अपरत्वस्योत्पत्तिः.।.कालकृतयोर्.अपि.कथम्.।

8.11-164-

वर्तमानकालयोर्.अनियतदिग्देशसम्युक्तयोर्.युवस्थविरयो.रूढश्मश्रुकार्कश्यबलिपलितादिसान्निध्ये.सत्य्.एकस्य.द्रष्टुर्.युवानम्.अवधिम्.कृत्वा.स्थिविरे.विप्रकृष्टा.बुद्धिर्.उत्पद्यते.।

8.11-164-

ततस्.ताम्.अपेक्ष्य.परेण.कालप्रदेशेन.सम्योगात्.परत्वस्योत्पत्तिः.।.स्थविरम्.चावधिम्.कृत्वा.यूनि.सन्निकृष्टा.बुद्धिर्.उत्पद्यते.।.ततस्.ताम्.अपेक्ष्यापरेण.कालप्रदेशेन.सम्योगाद्.अपरत्वस्योत्पत्तिर्.इति.।

8.11-164-

विनाशस्.त्व्.अपेक्षाबुद्धिसम्योगद्रव्यविनाशात्.।.अपेक्षाबुद्धिविनाशात्.तावद्.उत्पन्ने.परत्वे.यस्मिन्.काले.सामान्यबुद्धिर्.उत्पन्ना.भवति.ततो.ऽपेक्षाबुद्धेर्.विनश्यत्ता.सामान्यज्ञानतत्सम्बन्धेभ्यः.परत्वगुणबुद्धेर्.उत्पद्यमानतेत्य्.एकः.कालः.।

8.11-165-

सम्योगविनाशाद्.अपि.कथम्.।.अपेक्षाबुद्धिसमकालम्.एव.परत्वाधारे.कर्मोत्पद्यते.तेन.कर्मणा.दिक्पिण्डविभागः.क्रियते.अपेक्षाबुद्धितः.परत्वस्योत्पत्तिर्.इत्य्.एकः.कालः.।

8.11-165-

ततः.सामान्यबुद्धिएर्.उत्पत्तिः.दिक्पिण्डसम्योगस्य.च.विनाशः.ततो.यस्मिन्.काले.गुणबुद्धिर्.उत्पद्यते.तस्मिन्न्.एव.काले.दिक्पिण्डसम्योगविनाशाद्.गुणस्य.विनाशः.।.द्रव्यविनाशाद्.अपि.कथम्.।

8.11-165-

परत्वाधारावयवे.कर्मोत्पन्नम्.यस्मिन्न्.एव.काले.ऽवयवान्तराद्.विभागम्.करोति.तस्मिन्न्.एव.काले.ऽपेक्षाबुद्धिर्.उत्पद्यते.ततो.विभागाद्.यस्मिन्न्.एव.काले.सम्योगविनाशः.तस्मिन्न्.एव.काले.परत्वम्.उत्पद्यते.ततः.सम्योगविनाशाद्.द्रव्यविनाशः.तद्विनाशाच्.च.तदाश्रितस्य.गुणस्य.विनाशः.।

8.11-165-

द्रव्यापेक्षाबुद्धोर्.युगपद्विनाशाद्.अपि.कथम्.।.यदा.परत्वाधारावयवे.कर्मोत्पद्यते.तदैवापेक्षाबुद्धिर्.उत्पद्यते.कर्मणा.चावयवान्तराद्.विभागः.क्रियते.परत्वस्योत्पत्तिर्.इत्य्.एकः.कालः.।

8.11-166-

ततो.द्रव्यापेक्षाबुद्धोर्.विनाशात्.परत्वस्य.विनाशः.।.द्रव्यसम्योगविनाशाद्.अपि.कथम्.।

8.11-166-

यदा.परत्वाधारावयवे.कर्मोत्पन्नम्.अवयवान्तराद्.विभागम्.करोति.तस्मिन्न्.एव.काले.पिण्डकर्मापेक्षाबुद्धोर्.युगपद्.उत्पत्तिः.ततो.यस्मिन्न्.एव.काले.परत्वस्योत्पत्तिस्.तस्मिन्न्.एव.काले.विभागाद्.द्रव्यारम्भकसम्योगविनाशः.पिण्डकर्मणा.दिक्पिण्डस्य.च.विभागः.क्रियते.इत्य्.एकः.कालः.।

8.11-166-

ततो.यस्मिन्न्.एव.काले.सामान्यबुद्धिर्.उत्पद्यते.तस्मिन्न्.एव.काले.द्रव्यारम्भकसम्योगविनाशात्.पिण्डविनाशः.पिण्डविनाशाच्.च.पिण्डसम्योगविनाशः.ततो.गुणबुद्धिसमकालम्.पिण्डदिक्पिण्डसम्योगविनाशात्.परत्वस्य.विनाशः.।

8.11-166-

सम्योगापेक्षाबुद्धोर्.युगपद्विनाशाद्.अपि.कथम्.।.यदा.परत्वम्.उत्पद्यते.तदा.परत्वाधारे.कर्म.ततो.यस्मिन्न्.एव.काले.परत्वसामान्यबुद्धिर्.उत्पद्यते.तस्मिन्न्.एव.काले.पिण्डकर्मणा.दिक्पिण्डविभागः.क्रियते.ततः.सामान्यबुद्धितो.ऽपेक्षाबुद्धिविनाशो.विभागाच्.च.दिक्पिण्डसम्योगविनाश.इत्य्.एकः.कालः.।

8.11-166-

ततः.सम्योगापेक्षाबुद्धिविनाशात्.परत्वस्य.विनाशः.।

8.11-167-

ततः.सम्योगविनाशात्.पिण्डविनाशः.विभागाच्.च.दिक्पिण्डसम्योगविनाशः.सामान्यज्ञानाद्.अपेक्षाबुद्धेर्.विनाश.इत्य्.एतत्.सर्वम्.युगपत्.त्रयाणाम्.समवाय्यसमवायिनिमित्तकारणानाम्.विनाशात्.परत्वस्य.विनाश.इति.॥

8.13-259-

अतीतेषु.विषयेषु.स्मृतिजम्.।.अनागतेषु.सङ्कल्पजम्.।.यत्.तु.विदुषाम्.असतु.विषयानुस्मरणेछासङ्कल्पेष्व्.आविर्भवति.तद्.विद्याशमसन्तोषधर्मविशेषनिमित्तम्.इति.॥

8.14-260-

विषाद्यनभिप्रेतविषयसान्निध्ये.सत्यनिष्टोपलब्धीन्द्रियार्थसन्निकर्षाद्.अधर्माद्यपेक्षाद्.आत्ममनसोः.सम्योगाद्.यद्.अमर्षोपघातदैन्यनिमित्तम्.उत्पद्यते.तद्.दुह्खम्.।

8.14-260-

अतीतेषु.सर्पव्याघ्राचौरादिषु.स्मृतिजम्.।.अनागतेषु.सङ्कल्पजम्.इति.॥

8.15-261-

प्रयत्नस्मृतिधमाधर्महेतुः.।.कामो.ऽभिलाषः.रागः.सङ्कल्पः.कारुण्यम्.वैराग्यम्.उपधा.भाव.इत्य्.एवम्.आदय.इच्छाभेदाः.।.मैथुनेच्छा.कामः.।

8.15-261-

अभ्यवहारेच्छाभिलाषः.।.पुनः.पुनर्.विषयानुरंजनेच्छा.रागः.।.अनासन्नक्रियेच्छा.सङ्कल्पः.।.स्वार्थम्.अनपेक्ष्य.परदुह्खप्रहाणेच्छा.कारुण्यम्.।

8.15-261-

दोषदर्शनाद्.विषयत्यागेच्छा.वैराग्यम्.।.परवञ्वनेच्छा.उपधा.।.अन्तर्निगूढेच्छा.भावः.।.चिकीर्षाजिहीर्षेत्य्.आदिक्रियाभेदाद्.इच्छाभेदा.भवन्ति.॥

8.16-262-

प्रयत्नस्मृतिधर्माधर्महेतुः.।.क्रोधो.द्रोहः.मन्युर्.अक्षम्.आमर्ष.इति.द्वेषभेदाः.॥

8.17-263-

अस्य.जीवनपूर्वकस्यात्ममनसोः.सम्योगाद्.धर्माधर्मापेक्षाद्.उत्पत्तिः.।.इतरस्.तु.हिताहितप्राप्तिपर्हिहारसमर्थस्य.व्यापारस्य.हेतुः.शरीरविधारकश्.च.।

8.17-263-

स.चातम्मनसोः.सम्योगाद्.इच्छापेक्षाद्.द्वेषापेक्षाद्.वोत्पद्यते.॥

8.19-264-

सांसिद्धिकस्य.गुरुत्ववन्.नित्यानित्यत्वनिष्पत्तयः.।.सङ्घातदर्शनात्.सांसिद्धिकम्.अयुक्तम्.इति.चेन्.न.।.

8.19-264-

दिव्येन.तेजसा.सम्युक्तानाम्.आप्यानाम्.परमाणूनाम्.परस्परम्.सम्योगो.द्रव्यारम्भकः.सङ्घाताख्यः.तेन.परमाणुद्रवत्वप्रतिबन्धात्.कार्ये.हिमकरकादौ.द्रवत्वानुपत्तिः.।

8.19-265-

कथम्.सर्पिर्.जतुमधूच्छिष्टादीनाम्.कारणेषु.परमाणुष्व्.अग्निसम्योगाद्.वेगापेक्षात्.कर्मोत्पत्तौ.तज्जेभ्यो.विभागेभ्यो.द्रव्यारम्भकसम्योगविनाशात्.कार्यद्रव्यनिवृत्ताव्.अग्निसम्योगादौष्ण्यापेक्षात्.स्वतन्त्रेषु.परमाणुषु.द्रवत्वम्.उत्पद्यते.ततस्.तेषु.भोगिनाम्.अदृष्टापेक्षाद्.आत्माणुसम्योगात्.कर्मोत्पत्तौ.तज्जेभ्यः.सम्योगेभ्यो.द्यूणुकादिप्रक्रमेण.कार्यद्रव्यम्.उत्पद्यते.तस्मिंश्.च.रूपाद्युत्पत्तिसमकालम्.कारणगुणप्रक्रमेण.द्रवत्वम्.उत्पद्यत.इति.॥

मूल पाठ: Pādārthadharmasaṃgraha commentary on Kaṇāda's Vaiśeṣikasūtra · Edition: The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6] · Data entry Muneo Tokunaga Muroya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc