पादार्थधर्मसंग्रह · अध्याय 6
शब्दः.{5.तत्र.इत्यधिकम्}.प्रत्यक्षत्वे.सत्यकारणगुणपूर्वकत्वाद्.अयावद्.द्रव्यभावित्वाद्.आश्रयाद्.अन्यत्रोपलब्धेश्.च.न.स्पर्शवद्.विशेषगुणः.।.बाह्येन्द्रियप्रत्यक्षत्वाद्.आत्मान्तरग्राह्यत्वाद्.आत्मन्य्.असमवायाद्.अहङ्कारेण.विभक्तग्रहणाच्.च.नात्मगुणः.।
श्रोत्रग्राह्यत्वाद्.वैशेषिकगुणभावाच्.च.न.दिक्कालमनसाम्.।.परिशेषाद्.{6;4.पारिशेष्यात्}.गुणो.भूत्वा.आकाशस्याधिगमे.लिङ्गम्.।.शब्दलिङ्गाविशेषाद्.{1.शब्दलिङ्गाविस्षत्वा}.एकत्वम्.सिद्धम्.।
तद्.अनुविधानाद्.एकपृथक्त्वम्.{5.विधानात्.पृथक्त्वम्;.2.विधानाद्.एव.पृथक्त्वम्}.।.विभववचनात्.परममहत्परिमाणम्.{1.महत्परिमाणम्}.।.शब्दकारणत्ववचनात्.{5.शब्दकारणवचनात्}.सम्योगविभागाव्.इति.।
अतो.गुणवत्त्वाद्.{6.गुणवचनवत्वा}.अनाश्रितत्वाच्.च.द्रव्यम्.।.समानासमानजातोयकारणाभावाच्.च.नित्यम्.।.सर्वप्राणिनाम्.च.शब्दोपलब्धौ.निमित्तम्.{5.शब्दोपलम्भेकनिमित्तम्;.1.शब्दोपलब्धिनिमित्तम्}.श्रोत्रभावेन.।
श्रोत्रम्.पुनः.श्रवणविवरसंज्ञको.नभोदेशः.{6.नभह्प्रदेशः}.शब्दनिमित्तोपभोगप्रापकधर्माधर्मोपनिबद्धस्.तस्य.च.नित्यत्वे.सत्य्.उपनिबन्धकवैकल्याद्.बाधिर्यम्.इति.॥
सर्वकार्याणाम्.{5;6.सर्वकार्याणाम्.उत्पत्ति}.चोत्पत्तिस्थितिविनाशहेतुस्.तद्व्यपदेशात्.।.क्षणलवनिमेषकाष्ठाकलामुहूर्तयामाहोरात्रार्धमासमासर्त्वयनसंवत्सरयुगकलपमन्वन्तरप्रलयमहाप्रलयव्यवहारहेतुः.{5.हेतुश्.च}.।
तस्य.गुणाः.संख्यापरिमाणपृथक्त्वसम्योगविभागाः.।.काललिङ्गाविशेषाद्.एकत्वम्.सिद्धम्.।.तद्.अनुविधानात्.पृथक्त्वम्.।.कारणे.काल.इतिवचनात्.परममहत्परिमाणम्.।.कारणपरत्वादिवचनात्.{5.कारणमहत्त्वा}.सम्योगः.।
तद्विनाशकत्वाद्.विभाग.इति.।.तस्याकाशवद्.द्रव्यत्वनित्यत्वे.सिद्धे.{नोत्.सेएन्.इन्.1}.काललिङ्गाविशेषाद्.अंजसैकत्वे[म्.ऽ]पि.सर्वकार्याणाम्.{5.पूर्वभूतकार्याणाम्}.आरम्भक्रियाभिनिर्वृत्तिस्थितिनिरोधोपपाधिभेदान्.मणिवत्.पाचकवद्.वा.नानात्वोपचार.इति.॥
अन्यनिमित्तासम्भवात्.।.
तस्यास्.तु.गुणाः.संख्यायपरिमाणपृथक्त्वसम्योगविभागाः.कालवद्.एते.सिद्धाः.।.दिग्.लिङ्गाविशेषाद्.अंजसैकत्वे.ऽपि.दिशः.परममहर्षिभिः.{6.परमर्षिभिः.}.श्रुतिस्मृतिलोकसंव्यवहारार्थम्.{5.लोकव्यवहारार्थम्}.मेरुम्.प्रदक्षिणम्.आवर्तमानस्य.भगवतः.सवितुर्.ये.सम्योगविशेषाः.लोकपालपरिगृहीतदिक्प्रदेशानाम्.{5.सम्योगास्.तेषाम्.लोकपाल-}.अन्वर्थाः.प्राच्यादिभेदेन.दशविधाः.संज्ञाः.कृताः.अतो.{5.ततो}.भक्त्या.दश.दिशः.सिद्धाः.।
तासाम्.एव.देवतापरिग्रहात्.{6.परिगृहीतत्वात्;.5.परिग्रहवशात्}.पुनर्.दश.संज्ञा.भवन्ति.।.{6.तद्यथा}.माहेन्द्री.वैश्वानरी.याम्या.{5.यामो}.नैरृती.वारुणी.वायव्या.कौवेरी.{5.वायवो.चान्द्रमसी}.ऐशानी.ब्राह्मी.नागी.चेति.।
न.शरीरेन्द्रियमनसाम्.अज्ञत्वात्.{5.अज्ञानत्वात्;.1.न.शरीरेन्द्रियमनसाम्.चैतन्यम्.अज्ञत्वात्}.।.न.शरीरस्य.चैतन्यम्.घटादिवद्.भूतकार्यत्वात्.मृते.चासम्भवात्.।.नेन्द्रियाणाम्.करणत्वात्.उपहतेषु.विषयासान्निध्ये.चानुस्मृतिदर्शनात्.{1.चात्र.स्मृति}.।
नापि.मनसः.करणान्तरानपेक्षित्वे.युगपदालोचनस्मृतिप्रसङ्गात्.{5.युगपदालोचनानुस्मृति}.स्वयम्.करणभावाच्.च.।.परिशेषाद्.{5;6.पारिशेष्याद्}.आत्मकार्यत्वात्.{6.आत्मकार्यम्.ज्ञानम्}.तेनात्मा.समधिगम्यते.शरीरसमवायिनीभ्याम्.च.हिताहितप्राप्तिपरिहारयोग्याभ्याम्.प्रवृत्तिनिवृत्तिभ्याम्.{1.प्रवृत्तिनिवृत्तिभ्याम्.नोत्.सेएन्}.रथकर्मणा.सारथिवत्.प्रयत्नवान्.विग्रहस्याधिष्ठातानुमीयते.प्राणादिभिश्.चेति.।
कथम्.शरीरपरिगृहीते.{5.विगृहीते}.वायौ.विकृतकर्मदर्शनाद्.भस्त्राध्मापयितेव.निमेषोन्मेषकर्मणा.नियतेन.दारुयन्त्रप्रयोक्तेव.देहस्य.वृद्धिक्षतभग्नसंरोहणादिनिमित्तत्वात्.{6.संरौहणाभ्याम्}.
गृहपतिर्.इव.अभिमतविषयग्राहककरणसम्बन्धनिमित्तेन.मनह्कर्मणा.गृहकोणेषु.पेलकप्रेरक.इव.{5.गृह?कोणव्यवस्थितपेलक.इव.प्रेरक.इव}.दारकः.नयनविषयालोचनानन्तरम्.रसानुस्मृतिक्रमेण.रसनविक्रियादर्शनाद्.अनेकगवाक्षान्तर्गतप्रेक्षकवद्.{5.प्रेरक}.उभयदर्शी.कश्चिद्.एको.विज्ञायते.।
सुखदुह्खेच्छाद्वेषप्रयत्नैश्.च.गुणैर्.गुण्यनुमीयते.ते.च.न.शरीरेन्द्रियगुणाः.{5.विशेषगुणाः}.कस्माद्.अहङ्कारेणैकवाक्यताभावात्.प्रदेशवृत्तित्वाद्.अयावद्द्रव्यभावित्वाद्.बाह्येन्द्रियाप्रत्यक्षत्वाच्.{5.ग्राह्यत्वा}.च.तथाहंशब्देनापि.पृथ्श्श्दिव्यादिशब्दव्यतिरेकाद्.इति.।
तस्य.गुणाः.बुद्धिसुखदुह्खेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारसंख्यापरिमाणपृथक्त्वसम्योगविभागाः.।.आत्मलिङ्गाधिकारे.बुद्ध्यादयः.प्रयत्नान्ताः.सिद्धाः.{6.प्रयत्नान्ताश्.च.प्रसिद्धाः}.।
धर्माधर्माव्.आत्मान्तरगुणानाम्.अकारणत्ववचनात्.संस्कारः.स्मृत्युत्पत्तौ.कारणवचनात्.।.व्यवस्थावचनात्.{5.वचनाभिसम्बन्धात्}.संख्या.पृथक्त्वम्.अप्य्.अत.एव.{1.मत.एव}.तथा.चात्मेतिवचनात्.परममहत्.परिमाणम्.।
.सन्निकर्षजत्वात्.सुखादीनाम्.सम्योगः.।.तद्विनाशकत्वाद्.विभाग.इति.॥
तस्य.गुणाः.संख्यापरिमाणपृथक्त्वसम्योगविभागपरत्वापरत्वसंस्काराः.।.प्रयत्नज्ञानायौगपद्यवचनात्.प्रतिशरीरम्.एकत्वम्.सिद्धम्.।.पृथक्त्वम्.अप्य्.अत.एव.।.तदभाववचनाद्.अणुपरिमाणम्.।
अपसर्पणोपसर्पणवचनात्.सम्योगविभागौ.।.मूर्तत्वात्.परत्वापरत्वे.संस्कारश्.च.।.अस्पर्शवत्त्वाद्.द्रव्यानारम्भकत्वम्.।.क्रियावत्त्वान्.मूर्तत्वम्.।.साधारणविग्रहवत्त्वप्रसङ्गाद्.अज्ञत्वम्.।
करणभावात्.परार्थम्.।.गुणवत्त्वाद्.द्रव्यम्.।.प्रयत्नादृष्टपरिग्रहवशाद्.आशुसञ्चारि.चेति.॥
इति.प्रशस्तपादभाष्ये.द्रव्यपदार्थः.॥
मूल पाठ: Pādārthadharmasaṃgraha commentary on Kaṇāda's Vaiśeṣikasūtra · Edition: The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6] · Data entry Muneo Tokunaga Muroya · GRETIL (Göttingen) · CC BY-NC-SA 4.0