भाषा

ENहिગુ
ग्रंथ पाठ

निष्पण्णयोगावलि · भाग 11

ओं नमः श्रीवज्रसत्त्वाय ॥
ज्योतिभिर् विजितं यद् अस्य जगतीं जिष्ण्व् अन्तरत्वतमो (?)
यच् चाद्वैतदशार्णसत्य् अपि परीणामो गुणौघः श्रियाम् ।
यत् कारुण्यतरामृतार्द्रहृदयैर् उह्यन्ति तं वज्रिणस्
तैर् एतच् चरिताद्भुतानि निजधीधामानि धावन्तु वः ॥
वज्रावलीमण्डितमण्डलेषु द्राग् वज्रभृच् चारुचरित्रम् उच्चैः ।
तदञ्चितैस् तद्वचनिर्मितौघैर् अमोघम् अग्र्यां श्रियम् आदधातु ॥
इह हि मृदुमध्यक्रमाभ्यां सुभावितसमाधेर् अधिमात्रप्रज्ञस्य भगवता ।
सर्वाकारवरोपेतः स्फुरत् संहारकारकः ।
झतिति ज्ञाननिष्पन्नो योगो निष्पन्न उच्यते ॥
स हि त्वां सर्वसत्त्वांश् च वज्रधरत्वं प्रापयितुम् अभ्युत्साहवान् स्कन्धधात्वायतनादिकं प्रतिबिम्बमयं शून्यतैकरसं निश्चिन्वन् । प्रभास्वरं प्रविश्य झतिति सपरिकरकूटागरोदरमण्डलमाण्डलेयपरिकरितः कुलेशभूषितो ( अम् 225 ) हृद्बीजयुक्तः शून्यताकरुणैकरसमहासुखमयः श्रीवज्रसत्त्वमञ्जुवज्रादिरूपो ऽपरिमिततथागतदेवीबोधिसत्त्वक्रोधादीन् स्फारयेत् । धर्मदेशनादिभिर् यथाभव्यं परहितानि कुर्वाणः परपुण्यावधिं स्थापयन् संहरंश् चाचिन्त्य मूर्तिर् उदेति ॥
तत्रायं परिकरादिः । आरसातलम् अभिमतप्रसरा घनैकसारा ज्वलन्ती वज्रमयी भूमिः कल्पान्तज्वलनवनमयूखज्वालावलीसीमाबन्धा । आरसातलम् उपर्य् अत्युच्चैर् घननिबुडज्वलद्वज्रप्राकारोर्ध्वे निःसंध्येकखण्डीभूतम् उपरि वज्रशरजालाधो वज्रवितानमण्डितं ज्वलद्वज्रपञ्जरं तदभ्यन्तरस्थितविश्वाब्जसूर्यस्थपीतदक्षिणावर्तभ्रमद्दशारचक्रं च 61 ॥
तत्र पूर्वस्याम् आरायां यमान्तकः कृष्णः सितरक्तमुखः कृष्णवज्रमुद्गरखड्गमणिकमलधारी । दक्षिणस्यां प्रज्ञान्तकः सितः कृष्णरक्तमुखो वज्राङ्कितसितदण्डासिमणिपद्मधारी । पश्चिमायां पद्मान्तको रक्तो नीलसितास्यो रक्तपद्मासिमणिचक्रधारि । उत्तरस्यां विघ्नान्तकः कृष्णः सितरक्तमुखः करालवज्रासिमणिपद्मधारी । आग्नेय्यां टक्किराजो नीलः सितरक्तास्यो ऽङ्कुशखड्गमणिसरोजधारी । नैरृत्यां नीलदण्डः कृष्णः सितरक्तास्यो नीलदण्डखड्गमण्यब्जधारी । वायव्यां महाबलः कृष्णः सितरक्तमुखस् त्रिशूलासिमणिकमलधारी । ऐशान्याम् अचलो नीलः सितरक्तास्यः खड्गवज्रमणिपद्मधारी । ऊर्ध्वम् उष्णीषचक्रवर्ती पीतो नीलरक्तास्यः पीतचक्रखड्गमणिपद्मधारी । अधः सुम्भराजो नीलः सितरक्तास्यो वज्रखड्गमणिकमलभृत् ॥
तत्रोष्णीषटक्क्यचलसुम्भा रत्नमुकुटिनो विचित्ररत्नाभरणा ललिता ईषद्दर्शितदंष्ट्रा विगतश्मश्रवः । तदन्ये विकृतरूपाः सभ्रूभङ्गाः पिङ्गोर्ध्वकेशभ्रूश्मश्रवो व्यावृत्तदंष्ट्राकरालवक्त्रा ललज्जिह्वा अट्टाट्टहासिनः क्रूराष्टनागभूषना वामनाः पीनास् तुन्दिलाः । दशाप्य् एते सहासनैर् निश्चलाः प्रत्यालीढेनाराग्रेष्व् ईषदलग्नविश्वाब्जसूर्यस्थाः सूर्यप्रभाः सरोषणा ज्वलन्तो नदन्तो ऽतिभीमाः प्रलयानलप्रतिममयूखमुखैर् अपरिमितात्मकमूर्तिनिर्माणैश् च निरवधिधातुत्रयेषु विघ्नौघम् अखिलम् असकृन्निर्मूलयन्तः । षड्भुजाः प्रधानभुजाभ्यां स्वाभप्रज्ञालिङ्गितास् त्रिमुखाः । मुखं तु मूलं शरिरवर्णं सव्यवामं च यथोक्तवर्णं प्रतिमुखं रक्तवर्तुलनेत्रत्रयम् ॥
चक्रं चातिभ्रमणान् निश्चलोपमं निरन्तरं स्फुरद् अनेकज्वालाकलापं तस्य नाभ्यन्तरे ऽधःसूकोपरि विशालत्रिकोणधवलधर्मोदयान्तरधःकोणोदरगतविश्वदलकमलोपरि विश्वकुलिशसहिता तद्वज्रस्य दिगारा यथायोगं वैरोचनादिसमवर्णा वेदी च । तस्यां पञ्चवर्णरत्नपरिनिष्पन्नं भास्वन्मुनीन्द्रमण्डलचित्रांशुव्याप्तसर्वदिक्चक्रं कूटागारम् । तस्य मध्ये भगवान् वज्रसत्त्वो मञ्जुवज्ररूपः कुङ्कुमारुणः कृष्णसितसव्येतरवदनः प्रधानभुजाभ्यां स्वाभप्रज्ञालिङ्गितो ऽसिशरेन्दीवरचापधरो रत्नमुकुटी विचित्ररत्नाद्याभरणो ऽनन्ताभः । तस्य पूर्वस्यां दिशि वैरोचनः सितः कृष्णरक्तसव्येतरमुखः सिताष्टारचक्रासिमणिकमलधरः । दक्षिणस्यां रत्नेशः पीतो नवांशमरकतरत्नासिचक्रपद्मधरः । पश्चिमायाम् अमिताभो रक्तो रक्तपद्मासिमणिचक्रधरः । उत्तरस्याम् अमोघसिद्धिर् हरितः खड्गचक्रमणिकमलधरः1 । त्रयो ऽमी कृष्णसितसव्येतरवक्त्राः सर्वे तथागता रत्नमुकुटिनो विचित्ररत्नाभरणाः । आग्नेय्यां लोचना वैरोचनसमा । नैरृत्यां ( अम् 229 ) मामकी अक्षोभ्यसमा रक्तोत्पलासिमणिपद्मधरा सर्वसाधनेषु तथा पाठात् । वायव्यां पाण्डरा अमिताभसमा । ऐशान्यां तारा रत्नेशसमा पीतोत्पलासिमणिपद्मधरा ।
अतो गर्भपुटाद् बहिर् आग्नेयकोणे रूपवज्रा वैरोचनसदृशी रत्नदर्पणासिमण्यब्जधरा । नैरृत्ये शब्दवज्रा अक्षोभ्यसमा नीलवीणाकृपाणमण्यब्जधरा । वायव्ये गन्धवज्रा रत्नेशसमा पीतगन्धशङ्खासिचक्राब्जधरा । ऐशाने रसवज्रा अमिताभसदृशी रक्तरसपात्रासिमणिचक्रधरा । प्राग्द्वारोत्तरपार्श्वे स्पर्शवज्रा अमोघसिद्धिसमा विश्ववर्णवस्त्रासिमण्यब्जधरा । प्राग्द्वारदक्षिणपार्श्वे धर्मधातुवज्रा वज्रसत्त्वसमा धवलधर्मोदयासिमण्यब्जधरा ॥
एता मञ्जुवज्रादिदेवतास् त्रिवदनाः षड्भुजाः । आद्यचिह्नद्वयं सव्याभ्याम् अपरद्वयं वामाभ्यां दधानाः । सर्वत्र मूलमुखं शरिरवर्णम् एव । पूर्वादिद्वारेषु यमान्तकप्रज्ञान्तकपद्मान्तकामृतकुण्डलयः ॥
अत्र मञ्जुवज्रवैरोचनदशदेव्यश् चन्द्रेषु वज्रपर्यङ्किणो ऽन्ये सूर्येषु चन्द्रसूर्यतलेषु विश्वपद्मानि । तथागताः प्रधानभुजाभ्यां स्वाभप्रज्ञालिङ्गिता देव्यस् तु स्वाभम् उपायम् ॥
कुलाधिपतिस् तु शिरसि मञ्जुवज्रादितथागतमामकीशब्दवज्रारक्षाचक्रगताष्टक्रोधानाम् अक्षोभ्यः । लोचनारूपवज्रायमान्तकानां वैरोचनः । गन्धवज्राया रत्नेशः । पाण्डरारसवज्रापद्मान्तकानाम् अमिताभः । तारास्पर्शवज्रयोर् अमोघसिद्धिः । धर्मधातुवज्राया वज्रधरः । अक्षोभ्य इत्य् अन्ये ॥
वज्रसत्त्वो ऽत्रेषद्रक्तानुविद्धसितवर्णो नीलरक्तसव्येतरवक्त्रः प्रधानभुजाभ्यां स्वाभप्रज्ञालिङ्गितो नीलवज्रासिमणिकमलधारी विश्वपद्मचन्द्रासनश् चन्द्रप्रभो वज्रपर्यङ्की रत्नमुकुटी रत्नाभरणो ऽक्षोभ्यमुद्रितः ॥
इह मञ्जुवज्रस्य स्तनान्तरे समयसत्त्वसदृशं ज्ञानसत्त्वं तद्धृच्चन्द्रे खड्गमुष्टिचन्द्रस्थं मंबीजम् । शाश्वतरत्नेशामिताभामोघसिद्ध्यक्षोभ्यानां हृदि चिह्ने यथायोगं चन्द्रे सूर्ये वा वुं आं ज्रीं खं हूं । लोचनादिदेवीनां इओं मां पां तां जः हूं वं होः खं रं । क्रोधानां हूं । सर्वदेवतानां हृदयमन्त्रा वज्रावल्यां उक्ताः ॥

इह निष्पन्नयोगिनश् चक्षुराद्यधिष्ठानं ज्ञानसत्त्वप्रवेशादिकं च नोक्तम् ॥ तदन्तरेणाप्य् अपरिमिताचिन्त्यचक्षुरभिज्ञादिगुणग्रामरमणीयमूर्तेर् अभीष्टदेवतायाः सकृद् एव सुपरिशुद्धसर्वाकारपरिनिष्पत्तेर् मुहुर् मुहुर् अधिमोक्षदार्ढ्यात् । हृन्मन्त्रादिकथनं तु कलशाधिवासनादिषु प्रयोगार्थम् ॥ यदा तु मध्ये ऽन्यस् तथागतो भवति नायकस् तदा मध्यस्थितस् तस्य स्थाने तिष्ठेत् । अमिताभः शुभ्रो ऽपि भवति शुक्ला धर्माः प्रकृत्येति वागीशस्यात्र शुक्लतेत्य् उक्तेः ॥ इह वक्ष्यमानेषु च मन्दलेषु यस्या माण्डलेयदेवताया मुख्यतो यत्स्थानम् उच्यते तस्मिन् सैव प्रधानतया मण्डलेशभिमुखी । तदालिङ्गिता तु तदभिमुख्य् एव परस्थानगमनात् ॥
अत्र कूटागारस्य वज्रभूम्यादिपरितो वज्रपञ्जरं रक्षाचक्रं धर्मोदया चेति त्रयः परिकराः । तत्र वज्रपञ्जरं वक्ष्यमानानाम् अपि सर्वेषां कूटागाराणां रक्षाचक्रं ( अम् 232 ) धर्मोदया च केषांचिद् एवेति वक्ष्यामः । लेख्यकूटागाराणां तु धर्मधातुस्वरूपधर्मोदयाया धर्मधात्वन्तर्गतस्य वा सूचकं लिखनम् उक्तं वज्रावल्याम् ॥ यथा बाह्यं तथाध्यात्मम् इत्य् उत्पन्नक्रममण्डलप्रतिपादनाकृतेन लोकधातोश् चक्रवाडसूचकं वज्रावलीलिखनं च नियमेनैव । नैवं रक्षाचक्रम् अतो न लिख्यते । विघ्ननिवारणं त्व् अन्यथा क्रियते । अपि च शून्यतैव भगवती निखिलविघ्नौघं समूलम् उन्मूलयितुं प्रभवतीति तदधिमोक्षदृढत्वम् एवादरोत्पादनाय रक्षाचक्रलिखनं न वर्णितं लेख्यमण्डलेषु । भाव्यमण्डलेषु तु क्वचिद् एव तद्भावनोक्ता न सर्वेषु । विघ्नघातानन्तरं शून्यताप्रवेशाद् भाव्यमण्डले ऽपि रक्षाचक्रं नास्त्य् अतो न लिख्यते चैतत् । एवं तर्हि वज्रप्राकारम् अपि चक्रवाडसूचकं न लिखितव्यम् । अथ कूटागारोत्पत्तौ ( अम् 233 ) तद् उत्पद्यते । नहि भगवता वज्रप्राकारस्य द्वितीयवारोत्पत्तिः क्वचिद् उक्ता ॥
किं वा द्विर् उत्पत्त्या । सकृद् उत्पन्नम् एव हि वज्रभूबन्धप्राकारादिकं समस्तसमारोपशून्यतास्वभावं मायामयम् अवतिष्ठत एव । विद्यमानत्वे ऽपि रक्षाचक्रस्य मण्डलेष्व् अलिखनोपत्तिर् उक्तैव । कैश्चित् तु क्वचिद् रक्षाचक्रम् अपि लिखितुं संमन्यते ॥
इति मञ्जुवज्रमण्डलम् ॥ ॥

मूल पाठ: Niṣpaṇṇayogāvali · Edition: R.O. Meisezahl: "Akṣobhya-Mañjuvajra, Ikonographie und Ikonologie des Ekonaviṃśadātmakamañjuvajramaṇḍala", Oriens 25-26 (1976), pp. 190-274. = Am · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc