भाषा

ENहिગુ
ग्रंथ पाठ

निदानसंयुक्त · भाग 115

सूत्र 1: वृक्ष इ (बौम्)
निद्स 1.1 श्रावस्त्यां निदा नम् ।
निद्स 1.2 तत्र भगवान् भिक्षून् आमन्त्रयति ।
निद्स 1.3 उपादानीयेषु धर्मेष्व् आस्वादानुदर्शिनो विहरतस् तृष्णा प्रवर्धते । तृष्णाप्रत्ययम् उपादानम् । उपादानप्रत्ययो भवः । भ वप्रत्य या ज् आतिः । जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो समुदयो भव ति ।
निद्स 1.4 तद्यथा वृक्षस्य नवस्य दह् अरस्य पुरुष उत्पद्येत अर्थकामो हितकामो योगक्षेमकामो यस् तं वृक्षं + + + + + + + + + + + + + + + + + + + + क् आ लेन कालम् उत्कीलयेत् क् आ लेन कालं श् ईतोष्ण + + + + + + + + + + कालेन कालम् उदकं दद्यात् । स वृक्षस् तन्निदानं वृद्धिं विरूढिम् विपुलताम् आपद्येत ।
निद्स 1.5 एवम् एव उपा दानीयेषु धर्मेष्व् आस्वादानुदर्शिनो विह् अरतस् तृष्णा प्रवर्धते पूर्ववद् यावत् समुदयो भवति ।
निद्स 1.6 उपादानीयेषु धर्मेष्व् अनित्यानुदर्शिनो विभवानुदर्शिनो विरागानुदर्शि नो निरोधानुदर्शिनः प्रतिनिःसर्गानु दर्शिनस् तृष्णा निरुध्यते । तृष्णानि रोधाद् उपादाननि रोधः। उपादाननिरोधाद् भवनिरोधाह् । भवनिरोधाज् जातिनिरोधः । जातिनिरोधाज् जरामरणनिरोधः । शोकपरिदेवदुःखदौर्मनस् योपायासा निरुध्यन् ते । एवम् अस्य केवलस्य महतो दुःखस्कन्ध स्य निरोधो भवति ।
निद्स 1.7 तद्यथा तस्यैव वृक्षस्य् अ नवस्य दहरस्य .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. पुरुष उत्पद्येत अनर्थकामो ऽहितकामो ऽयो गक्षेमकामो यस् तं वृक्षं मूलाच् छित्वा अग्र .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. वातातपाभ्यां परिशो षयेत् । वातातपाभ्यां परिशोषयित्वा अग्निना दहेत् । अ ग्निना दग्ध्वा .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. ः ।
निद्स 1.8 किं मन्यध्वे भिक्ष वो ननु स वृक्षस् त् अन् निदानम् उ च्छिन्नमू लस् तालमस्तकवद् अनाभवगतिक आयत्याम् अनुत्पादध र्मा ।
निद्स 1.9 एवं भद् अन्त ।
निद्स 1.10 एवम् एव उपादानीयेषु धर्मे ष्व् अनित्यानुदर्शिनो वि भवानुदर्शिनो विरागानुदर्शिनो निरोधानुदर् शिनः प्रतिनिःसर्गानुदर्शि नस् तृष्णा निरु ध्यते । तृष्णानिरोधाद् उपादाननिरोधः । उपादाननिरोधाद् भवनिरोधः । भवनिरोधाज् जातिनिरोधः । जातिनिरोधाज् जरामरणनिरोधः । शोकपरि देवदुःखौर्म नस्योपायासा निरुध्यन्ते । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निओधो भवति ।
निद्स 1.11 अथ ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन् । अभिनन्द्यानुमोद्य भगवतो ऽन्तिकात् प्रक्रान्ताः ॥
सूत्र 2: वृक्ष इइ (बौम्)
निद्स 2.1 श्रावस्त्यां निदानम् ।
निद्स 2.2 तत्र भगवान् भिक्षून् आमन्त्रयति ।
निद्स 2.3 उपादा नीयेषु भिक्षवो ध र्मेष्व् आस्वानुदर्षिनो विह रत् ओ हारकं विज्ञानं भवत् इ नामरूपे । नाम रूपप्रत्ययं षडायतम् । षडायतनप्रत्ययः स्पर्शः । स्पर्शप्रत्यया वेदना । वे दनाप्रत्ययातृष्णा । तृ ष्णाप्रत्ययम् उपा दानम् । उपा दानप्रत्ययो भवः । भवप्रत्यया जातिः । जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौ र्मनस्योपायासाः संभवन्ति । एवम् अस्य् अ केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति ।
निद्स 2.4 तद्यथा महावृक्षस्य मुलावतः स्कन्धवतः सारवत ः शाखापत्त्रफलोपेतस्य यानि चाधोगता नि मूलानि तान्य् तान्य् ऊर्ध्वम् ओजम् अभिहरन्ति । एवं हि स महावृक्षस् तदाहारस् तदुपादानो दीर्घ म् अध् व् आनं तिष्ठति ।
निद्स 2.5 एवम् एव उपादा न् ईय् ए षु धर्मेष्व् आस्वादानुदर्शिनो विहरतो हारकं विज्ञानं भवति नामरूपे । पूर्ववद् यायद् एवम् अ स्य् अ क् ए व् अलस्य महतो दुःखस्कन्धस्य समुदयो भवति ।
निद्स 2.6 उपा दानीयेषु धर्मेष्व् अनित्यानुदर्शिनो विभवानुदर्शिनो विरागानुदर्शिनो नि रोधानुदर्शिनः प्रतिनिःसर्गर्शिन् ओ न हारकं विज्ञानं भवति न् आमरुपे । तस्य निरोधात् षडायतननिरोधः । षडा यतननिरोधात् स्पर्शनिरोदः । स्पर्शनिरोधाद् वेदनानिरोधः । वे दन् आनिर् ओधात् तृष्णानिरोधः । तृष्णानि रोधाद् उपादाननिरोधः । उपादान निरोधाद् भवनि रोधः । भवनिरोधाज् जातिनिरोधः । जातिनिरोधाज् जरामरणनिरोधः । शोकपरि देव् अदुःख दौर्मनस्योपायासा निरु ध्यन्ते । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति ।
निद्स 2.7 तद्यथा तस्यैव महावृ क्षस्य मूलवतः स्कन्धवतः सारवतः शाखाप् अत्त्रफलोपेतस्य पुरुष उत्पद्येत .............
निद्स 2.8 किं मन्यध्वे भिक्षवो ननु स महावृक्षस् तन्निदानम् उच्छिन्नमूलस् तालमस्तकवद् अनाभवगतिक आयत्याम् अ नुत्पादधर्मा ।
निद्स 2.9 एवं भ् अदन्त ।
निद्स 2.10 एवं एव उ पादानीयेषु धर्मेष्व् अनित्यानुदर्शिन् ओ वि भवानुदर्शिनो विरागानुदर्शिनो निरोधानुदर्शिनः प्रतिनिःसर्गानु दर्शिनो न हारकं विज्ञानं भवति नामरूपे । तस्य निरोधात् षडायतननिरोधाः । पूर्ववद् यावन् निरोधो भवति ।
निद्स 2.11 अथ ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन् । अभिनन्द्यानुमोद्य भगवतो ऽन्तिकात् प्रक्रान्ताः ॥
सूत्र 3 उन्द् 4: दीप इ उन्द् इइ (लम्पे)
निद्स 3.1 पूर्वं मे भिक्षवो ऽनुत्तरां सम्यक्संबोधिम् अनभिसंबुद्धस्यैका किनो रहसिगतस्यैवं चेतसि चेतःप र् इवि तर्क उदपादि ।
निद्स 3.2 कृच्छ्रं बतायं लोक आपन्नो यद् उत जायते ऽपि जीर्यते ऽपि म्रियते ऽपि च्यवते ऽप्य् उपपद्यते ऽपि । अथ च पुन् अर् इमे स त् व् आ जरामरणस्योत्तरे निःसरणं य थाभूतं न प्रजानन्ति ।
निद्स 3.3 तस्य ममैतद् अभवत् । कस्मिन् नु सति जरामरणं भवति । किंप्रत्ययञ् च पुनर् जरामरणम् । तस्य मम यो निशो म नसि कुर्वत ए व ं य थाभूतस्याभिसमय उदपादि । जात्यां सत्यां जरामरणं भवति । जातिप्रत्ययञ् च पुनर् जरामरणम् ।
निद्स 3.4 तस्य ममैतद् अभवत् । कस्मिन् नु सति जा तिर् भ् अवति । किंप्रत्यया च पुनर् जातिः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । भवे सति जातिर् भवति । भवप्रत्यया च पुनर् जातिः ।
निद्स 3.5 तस्य ममैतद् अभवत् । कस्मिन् नु सति भवो भवति । किंप्रत्ययश् च पुनर् भवः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । उपादाने सति भवो भवति । उपादानप्रत्ययश् च पुनर् भवः ।
निद्स 3.6 तस्य ममैतद् अभवत् । कस्मिन् नु सत्य् उपादानं भवति । किंप्रत्ययञ् च पुनर् उपादानम् । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । उपादानीयेषु धर्मेष्व् आस्वादानुदर्शिनो विहरतस् तृष्णा प्रवर्धते । तृस्णाप्रत्ययम् उपादानम् । उपादानप्रत्ययो भवः । भवप्रत्यया जातिः । जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति ।

निद्स 3.7 किं मन्यध्वे भिक्षवः । ....
निद्स 3.8 एवं भदन्त ।
निद्स 3.9 एवम् एव उपादानीयेषु धर्मेष्व् आस्वादानुदर्शिनो विहरतस् तृषा प्रवर्धते तृष्णाप्रत्ययम् उपादानम् । उपादानप्रत्ययो भवः । भवप्रत्यया जातिः । जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति ।
निद्स 3.10 तस्य ममैतद् अभवत् । कस्मिन् न्व् असति जरामरणं न भवति । कस्य निरोधाज् जरामरणनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । जात्याम् असत्यां जरामरणं न भवति । जातिनिरोधाज् जरामरणनिरोध ।
निद्स 3.11 तस्य ममैतद् अभवत् । कस्मिन् न्व् असति जातिर् न भवति । कस्य निरोधाज् जातिनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उद्पादि भवे ऽसति जातिर् न भवति । भवनिरोधाज् जातिनिरोधः ।
निद्स 3.12 तस्य ममैतद् अभवत् । कस्मिन् न्व् असति भवो न भवति । कस्य निरोधाद् भवनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । उपादाने ऽसति भवो न भवति । उपादाननिरोधाद् भवनिरोधः ।
निद्स 3.13 तस्य ममैतद् अभवत् । कस्मिन् न्व् असत्य् उपादानं न भवति । कस्य निरोधाद् उपादाननिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । उपादानीयेषु धर्मेष्व् अनित्यानुदर्शिनो विभवानुदर्शिनो विरागानुदर्शिनो निरोधानुदर्शिनः प्रतिनिःसर्गानुदर्शिनस् तृष्णा निरुध्यते । तृष्णानिरोधाद् उपादाननिरोधः । उपादाननिरोधाद् भवनिरोधः । भवनिरोधाज् जातिनिरोधः । जातिनिरोधाज् जरामरणनिरोधः । शोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति ।
निद्स 3.14 किं मन्यध्वे भिक्षवः । ...
निद्स 3.15 एवं भदनत ।

निद्स 3.16 एवम् एव उपादानीयेषु धर्मेष्व् अनित्यानुदर्शिनो विभवानुदर्शिनो विरागानुदर्शिनो निरोधानुदर्शिनः प्रतिनिःसर्गानुदर्शिनस् तृष्णा निरुध्यते । तृष्णानिरोधाद् उपादाननिरोधः । पूर्ववद् यावन् निरोधो भवति ।
निद्स 3.17 अथ ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन् । अभिनन्द्यानुमोद्य भगवतो ऽन्तिकात् प्रक्रान्ताः ॥
सूत्र 4
निद्स 4.1 पूर्वं मे भिक्षवो ऽनुत्तरां सम्यक्संबोधिम् अनभिसंबुद्धस्यैकाकिनो रहसिगतस्यैवं चेतसि चेतःपरिवितर्क उदपादि ।
निद्स 4.2 कृच्छ्रं बतायं लोक आपन्नो यद् उत जायते ऽपि जीर्यते ऽपि म्रियते ऽपि च्यवते ऽप्य् उपपद्यते ऽपि । अथ च पुनर् इमे सत्वा जरामरणस्योत्तरे निःसरणं यथाभूतं न प्रजानन्ति ।
निद्स 4.3 तस्य ममैतद् अभवत् । कस्मिन् नु सति जरामरणं भवति । किंप्रत्ययञ् च पुनर् जरामरणम् । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । जात्यां सत्यां जरामरणं भवति । जातिप्रत्ययञ् च पुनर् जरामरणम् ।
निद्स 4.4 तस्य ममैतद् अभवत् । कस्मिन् नु सति जातिर् भवति । किंप्रत्यया च पुनर् जातिः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । भवे सति जातिर् भवति । भवप्रत्यया च पुनर् जातिः ।
निद्स 4.5 तस्य ममैतद् अभवत् । कस्मिन् नु सति भवो भवति । किंप्रत्ययश् च पुनर् भवः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । उपादाने सति भवो भवति । उपादानप्रत्ययश् च पुनर् भवः ।
निद्स 4.6 तस्य ममैतद् अभवत् । कस्मिन् नु सत्य् उपादानं भवति । किंप्रत्ययञ् च पुनर् उपादानम् । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । उपादानीयेषु धर्मेष्व् आस्वादानुदर्शिनो विहरतस् तृष्णा प्रवर्धते । तृस्णाप्रत्ययम् उपादानम् । उपादानप्रत्ययो भवः । भवप्रत्यया जातिः । जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति ।
निद्स 4.7 किं मन्यध्वे भिक्षवः । ....
निद्स 4.8 एवं भदन्त ।
निद्स 4.9 एवम् एव उपादानीयेषु धर्मेष्व् आस्वादानुदर्शिनो विहरतस् तृषा प्रवर्धते तृष्णाप्रत्ययम् उपादानम् । उपादानप्रत्ययो भवः । भवप्रत्यया जातिः । जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति ।
निद्स 4.10 तस्य ममैतद् अभवत् । कस्मिन् न्व् असति जरामरणं न भवति । कस्य निरोधाज् जरामरणनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । जात्याम् असत्यां जरामरणं न भवति । जातिनिरोधाज् जरामरणनिरोध ।
निद्स 4.11 तस्य ममैतद् अभवत् । कस्मिन् न्व् असति जातिर् न भवति । कस्य निरोधाज् जातिनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उद्पादि भवे ऽसति जातिर् न भवति । भवनिरोधाज् जातिनिरोधः ।
निद्स 4.12 तस्य ममैतद् अभवत् । कस्मिन् न्व् असति भवो न भवति । कस्य निरोधाद् भवनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । उपादाने ऽसति भवो न भवति । उपादाननिरोधाद् भवनिरोधः ।
निद्स 4.13 तस्य ममैतद् अभवत् । कस्मिन् न्व् असत्य् उपादानं न भवति । कस्य निरोधाद् उपादाननिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । उपादानीयेषु धर्मेष्व् अनित्यानुदर्शिनो विभवानुदर्शिनो विरागानुदर्शिनो निरोधानुदर्शिनः प्रतिनिःसर्गानुदर्शिनस् तृष्णा निरुध्यते । तृष्णानिरोधाद् उपादाननिरोधः । उपादाननिरोधाद् भवनिरोधः । भवनिरोधाज् जातिनिरोधः । जातिनिरोधाज् जरामरणनिरोधः । शोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति ।
निद्स 4.14 किं मन्यध्वे भिक्षवः । ...
निद्स 4.15 एवं भदनत ।
निद्स 4.16 एवम् एव उपादानीयेषु धर्मेष्व् अनित्यानुदर्शिनो विभवानुदर्शिनो विरागानुदर्शिनो निरोधानुदर्शिनः प्रतिनिःसर्गानुदर्शिनस् तृष्णा निरुध्यते । तृष्णानिरोधाद् उपादाननिरोधः । पूर्ववद् यावन् निरोधो भवति ।
निद्स 4.17 अथ ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन् । अभिनन्द्यानुमोद्य भगवतो ऽन्तिकात् प्रक्रान्ताः ॥
सूत्र 5: नगरसूत्र
निद्स 5.1 सिद्धम् ।
एवं मया श्रुतम् एक स्मिन् समये भगवाञ् श्रा वस्त्यां विहरति स्म जेत् अवने ऽनाथपिण्डदस्यारामे । तत्र भगवान् भिक्षून् आमन्त्रयति ।
निद्स 5.2 पूर्वं मे भिक्षवो ऽनुत्तरां सम्यक्संबोधिम् अनभिसंबुद्धस्यैकाकिनो रहसिगतस्य प्रतिसंल् ई नस्यैवं चेतसि चेतःपरिवितर्क उदपादि ।
निद्स 5.3 कृच्छ्रं बतायं लोक आपन्नो यदुत जायतेऽपि जीर्य ते ऽपि म्रियते ऽपि च्य वते ऽप्य् उ पपद्यत् ए ऽपि । अथ च पुनर् इमे सत्त्वा जरामरणस्यो त्तरे निःसरणं यथाभूतं न प्रजानन् ति ।
निद्स 5.4 त स्य ममै तद् अभ वत् । क स्मिन् नु सति जरामर णं भ वति । किंप्रत्ययञ् च पुनर् जरामरणम् ।
तस्य मम योनिशो म नस् इक् उ र्व त एवं यथाभूतस्याभिसमय उ दपादि । जात्यां सत्यां जरामरणं भवति । जातिप्रत्यय ञ् च पुनर् जारम रणम् ।
निद्स 5.5 तस्य ममैत द् अ भ वत् । कस्मिन् नु सति जातिर् भ वति । किंप्रत्यया च पुनर् जातिः । तस्य म म योनिशो मनसि कुर्वत एवं यथाभूतस्याभिस मय उदपादि । भवे सति जातिर् भवति । भवप्रत्यया च पुनर् जातिः ।
निद्स 5.6 तस्य ममैतद् अभवत् । कस्मिन् नु सति भवो भवति । किंप्रत्ययश् च पुनर् भवः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । उपादाने सति भवो भवति । उपादानप्रत्ययश् च पुनर् भवः ।
निद्स 5.7 तस्य ममैतद् अभवत् । कस्मिन् नु सत्य् उपादानं भवति । किंप्रत् ययञ् च पुनर् उपादानम् । तस्य मम योनिशो मन सि कुर्वत ए वं यथाभूतस्याभिसमय उदपादि । त् ऋ ष्णायां सत् या म् उपादानं भवति । तृष्णाप्रत्ययञ् च पुनर् उपादानम् ।
निद्स 5.8 तस्य ममैतद् अभवत् । कस्मिन् नु सति तृष्णा भवति । किंप्रत्यया च पुनस् तृष्णा । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभि समय उदपादि । वेदनायां सत्यां तृष्णा भवति । वेदनाप्रत्यया च पुनस् तृष्णा ।
निद्स 5.9 त स्य मम् ऐ तद् अभवत् । कस्मिन् नु सति वेदना भवति । किंप्रत्यया च पुनर् वेदना । तस्य मम यो निशो म नसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । स्पर्शे सति वेद ना भ वति । स्पर्शप्रत्यया च पुनर् वेदना ।

निद्स 5.10 तस्य ममैतद् अ भवत् । कस्मिन् नु सति स्पर्शो भवति । किंप्रत्यय श् च पुनः स्पर्शः । तस्य मम योनिशो म नसि कुर्वत एवं यथाभूत स्य् आ भ् इ समय उदपादि । षडायतने सति स्पर्शो भवति । षडायतनप्रत्ययश् च पु नः स्पर्शः ।
निद्स 5.11 तस्य ममैतद् अ भवत् । कस्मिन् नु सति षडाय तनं भवति । किंप्रत्ययञ् च प् उ नः षडायतनम् । त स्य मम योनिशो मनसि कुर्वत एवं यथ् आ भूतस्याभिसमय उदपादि । नामरूपे सति षडायतनं भवति । नामरूपप्रत्ययञ् च पुनः षडायतनम् ।
निद्स 5.12. तस्य ममैतद् अभवत् । कस्मिन् नु सत् इ नाम रूपं भवति । किंप्रत्यञ् च पुनर् नामरूपम् । तस्य मम योनिशो मनसि कुर्व त एवं यथाभूतस्याभिसमय उद पादि । विज्ञाने सति ना मरूपं भवति । विज्ञानप्र त्ययञ् च पुनर् नामरूपम् ।
निद्स 5.13 तस्य ममैतद् अभवत् । कस्मिन् नु सति विज्ञानं भव त् इ । किंप्रत्ययञ् च पुनर् विज्ञ् आनम् । तस्य मम योनिशो मन सि कुर्वत एवं यथा भूतस्याभिसमय उदपादि । संस्कारेषु सत्सु विज्ञानं भवति । संस्कारप्रत्ययञ् च पुनर् विज्ञानम् ।
निद्स 5.14 तस्य ममैतद् अभवत् । कस्मिन् नु सति संस्कारा भवन्ति । किंप्रत्ययाश् च पुनः संस्काराः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । अविद्यायां सत्यां संस्कारा भवन्ति । अविद्याप्रत्ययाश् च पुनः संस्काराः ।
निद्स 5.15 इत्य् अविद्याप्रत्ययाः संस्काराः । संस्कारप्रत्ययं विज्ञानम् । विज्ञानप्रत्ययं नामरूपम् । नामरूपप्रत्ययं षडायतनम् । षडायतनप्रत्ययः स्पर्शः । स्पर्शप्रत्यया वेदना । वेदनाप्रत्यया तृष्णा । तृष्णाप्रत्ययम् उपादानम् । उपादानप्रत्ययो भवः । भवप्रत्यया जतिः । जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति ।
एव म् अस् य केवलस्य मह तो दुः खस्कन्धस्य समुदयो भ वति ।
निद्स 5.16 तस्य ममैत द् अभव त् । कस्मिन् न्व् असति जराम रणं न भवति । कस्य निरोधाज् ज राम रणनिरोधः । तस्य म म योनिशो मनसि कुर्वत ए वं य था भूतस्याभि सन य उदपादि । जात्याम् असत्यां जर् आम रणं न भवति । जा त् इ नि रोधाज् जरामरणनिरोधः ।

निद्स 5.17 त स्य ममैतद् अभ वत् । कस्मिन् न्व् असत् इ जातिर् न भवति । कस्य निरो धाज् जातिनिरोधः । तस् य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिस मय उदपादि । भवे ऽसति जाति र् न भवति । भवनिरोधाज् जातिनिरोधः ।
निद्स 5.18 तस्य ममैतद् अहवत् । कस्मिन् न्व् असति भवो न भवति । कस्य निरोधाद् भवनिरोधः । तस्य मम योनिशो मनसि कुर्व्त एवं यथाभूतस्याभिसमय उदपादि । उपादाने ऽसति भवो न भवति । उपादाननिरोधाद् भवनिरोधः ।
निद्स 5.19 तस्य ममैतद् अभवत् । कस्मिन् न्व् असत्य् उपादानं न भवति । कस्य निरोधाद् उपादाननिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमव उदपादि । तृष्णायाम् असत्याम् उपादानं न भवति । तृष्णानिरोधाद् उपादाननिरोधः ।
निद्स 5.20 तस्य ममैतद् अभवत् । कस्मिन् न्व् असति तृष्णा न भवति । कस्य निरोधात् तृष्णानिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । वेदनायाम् असत्यां तृष्णा न भवति । वेदनानिरोधात् ट्ष्णानिरोधः ।
निद्स 5.21 तस्य ममैतद् अभवत् । कस्मिन् न्व् असति वेदना न भवति । कस्य निरोधाद् वेदनानिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । स्पर्शे ऽसति वेदना न भवति । स्पर्शनिरोधाद् वेदनानिरोधः ।
निद्स 5.22 तस्य ममैतद् अभवत् । कस्मिन् न्व् असति स्पर्शो न भवति । कस्य निरोधात् स्पर्शनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । षडायतने ऽसति स्पर्शो न भवति । षडायतननिरोधात् स्पर्शनिरोधः ।
निद्स 5.23 तस्य ममैतद् अभवत् । कस्मिन् न्व् असति षडायतनं न भवति । कस्य निरोधात् षडायतननिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । नामरूपे ऽसति षडायतनं न भवति । नामरूपनिरोधात् षडायतननिरोधः ।
निद्स 5.24 तस्य ममैतद् अभवत् । कस्मिन् न्व् असति नामरूपं न भवति । कस्य निरोधान् नामारूपनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । विज्ञाने ऽसति नामरूपं न भवति । विज्ञाननिरोधान् नामरूपनिरोधः ।
निद्स 5.25 तस्य ममैतद् अभवत् । कस्मिन् न्व् असति विज्ञानं न भवति । कस्य निरोधाद् विज्ञाननिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । संस्कारेष्व् असत्सु विज्ञानं न भवति । संस्कारनिरोधाद् विज्ञाननिरोधः ।
निद्स 5.26 तस्य ममैतद् अभवत् । कस्मिन् न्व् असति संस्कारा न भवन्ति । कस्य निरोधात् संस्कारनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । अविद्यायाम् असत्यां संस्कारा न भवन्ति । अविद्यानिरोधात् संस्कारनिरोधः ।
निद्स 5.27 इत्य् अविद्यानिरोधात् संस्कारनिरोधः । संस्कारनिरोधाद् विज्ञाननिरोधः । विज्ञाननिरोधान् नामरूपनिरोधः । नामरूपनिरोधात् षडायतननिरोधः । षडायतननिरोधात् स्पर्शनिरोधः । स्पर्शनिरोधाद् वेदनानिरोधः । वेदनानिरोधात् तृष्णानिरोधः । तृष्णानिरोधाद् उपादाननिरोधः । उपादाननिरोधाद् भवनिरोधः । भवनिरोधाज् जातिनिरोधः । जातिनिरोधाज् जरामरणनिरोधः । शोकपरिदेवदुःखदौर्मनसोपायासा निरुध्यन्ते । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति ।
निद्स 5.28 तस्य ममैतद् अभवत् । अधिगतो मे पौराणो मार्गः पौराणं वर्त्म पौराणी पुटा पूर्वकैर् ऋषिभिर् यातानुयाता ।
निद्स 5.29 तद्यथा पुरुषो ऽरण्ये प्रवणे ऽन्वाहिण्डन्न् अधिगच्छेत् पौराणं मार्गं पौराणं वर्त्म पौराणीं पूटां पूर्वकैर् मनुष्यैर् यातानुयाताम् । स तम् अनुगच्छेत् । स तम् अनुगच्छन् स तत्र पश्येत् पौराणं नगरं पौराणीं राजधानी म् आरामसं पन्नां वनसंपन्नां पुष्करिणीसंपन्नां शुभां दापवती ं रमणीया म् ।
निद्स 5.30 तस्यैवं स्यात् । यन्व् अहं गत्वा राज्ञ आरोचयेयम् । अ थ स पुरुषो राज्ञ एवम् आरोचयेत् । यत् खलु देव जानीयाः । इहाहम् अद्राक्षम् अरण्ये प्रवणे ऽन्वाहिण्डन् पौराणं मार्गं पौराणं वर्त्म पौराणीं पुटां प् ऊर्वकैर् मनुष्यैर् यातानुयाताम् । सो ऽहं तम् अनुगतवान् । सो ऽहं तम् अनुगच्छन्न् अद्राक्षं पौराणं नगरं पौरा णीं राजधानीं वनसं पन्नां पुष्करिणीसंपन्नां शुभां दापवतीं रमणीयाम् । तां देवो नगरीं मापयतु ।
निद्स 5.31 अथ स राजा तां नगरीं मापयेत् । सा स्याद् अ परेण समयेन राजधानी ऋद्धा च स्फीता च क्षेमा च सुभिक्षा चाकीर्णबहुजनमनुष्या च ।
निद्स 5.32 एव म् एव अधिगतो मे पौराणो मार्गः पौराणं वर्त्म पौराणी पुटा पूर्वकैर् ऋषिभिर् यातानुयाता ।
निद्स 5.33 क तमश् च स पौराणो मार्गः पौराणं वर्त्म पौराणी पुटा पूर्वकैर् ऋषिभिर् यातानुया ता ।
निद्स 5.34 यद् उतार्याष्टा ङ्गो मार्गस् त द्यथा सम्यग्दृष्टिः सम्यक्संकैपः स म् य ग्वा क् सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः स म्यक्स्मृतिः सम्य क्समाधिः ।
निद्स 5.35 अ सौ भिक्सवः पौराणो मार्गः पौराणं वर्त्म पौराणी पुटा पूर्वकैर् ऋषिभिर् यातानुया ता ।
निद्स 5.36 तम् अहम् अ नुग तवान् । तम् अनुगच्छञ् जराम रणं अ द्राक्षम् । जरामरणसमुदयं जरामर णनिरोधं जरामरणनिरोधगामिनीं प्रतिपदम् अद्राक्षम् ।
निद्स 5.37 ए वं जातिभवोपादा नतृष्णावेदनास्पर्शषडायतननामरूपविज्ञानं संस्कारान् अद्राक्षम् । संस्क् आ रसमुदयं संस्कारनिरोधं संस्कारनिरोधगामिनीं प्रतिपदम् अद्राक्षम् ।
निद्स 5.38 सो ऽहम् इमान् धर्मान् स्वयम् अभिज्ञ् आय साक्षीकृत्वा भिक्षूणाम् आरोचयामि । भिक्षूणीनाम् उपासकानाम् उपासिकानां नानातीर्थ्यश्रमण ब्राह्म णचरकपरिव्राजकानाम् आरोचयामि ।
निद्स 5.39 तत्र भिक्षुर् अपि सम्यक्प्रतिपद्यमान आराधिको भवति । आराधयति न्यायं धर्मं कुशलम् ।
भिक्षूण्य् अप्य् उपासको ऽप्य् उपासिकापि सम्यक्प्रतिपद्य मा ना आराधिका भवति । आराधयति न्यायं धर्मं कुशलम् ।
निद्स 5.40 एवम् इदं ब्रह्मचर्यं वैस्तारिकं भवति बहुजन्यं पृथुभूतं यावद् देवमनुष्येभ्यः सम्यक्सुप्रकाशितम् ॥
सूत्र 6: नडकलापिक (रोह्र्बुन्देल्)
निद्स 6.1 भगवान् रा जगृहे विह रति वेणुवने कलन्दकनिवापे ।
निद्स 6.2 तेन खलु समयेनायुष्माञ् छारिपुत्र आयुष्मांश् च महाकोष्ठिलो राजगृहे विहरतो गृध्रकूटे पर्वते ।
निद्स 6.3. अथायुष्माञ् छारिपुत्रः सायाह्ने प्रतिसं लयनाद् व्यु त्थ् आय ये नायु ष् म् आन् महा क् ओ ष्ठिलस् तेनोप जगाम । उपेत् य् आयु ष्म ता महाकोष्ठिलेन सार्धं संमुखं सम्मोदनीं संरञ्जनीं कथां विविधाम् उपसंहृत्यैकान्ते न्यषीदत् । एकान्तनिषण्ण आयुष्माञ् छारिपुत्र आयुष्मन्तं महाकोष्ठिलम् इदम् अवोचत् ।
निद्स 6.4 पृच्छाम आयुष्मन् महाकोष्ठिल कञ्चिद् एव प्रदेशम् । सचेद् अवकाशं कुर्याः प्रश्नस्य व्याकरण् आय ।

निद्स 6.5 पृच्छाय् उ ष्मञ् छारिपुत्र । श्रुत्वा ते वेदयि ष् य् आमि ।
निद्स 6.6अ कि न् न्व् आयुष्मन् महाको ष्ठिल अस्ति जरा । अस्त्य् एवायुष्मञ् छारिपुत्र जरा ।
निद्स 6.6ब् किन् न्व् आयुष्मन् महाकोष्थिल अस्ति मरणम् । अस्त्य् एवायुष्मञ् छारिपुत्र मरणम् ।
निद्स 6.7 किन् न्व् आयुष्मान् महाको ष्ठिल स्वयंकृतं जरामरणम् । अहो स्वित् परकृतम् । अहो स्वित् स्वयंकृतञ् च परकृ तञ् च । अहो स्विद् अस्वयंकारपरकारहेतुसमुत्पन्नं जरामरणम् ।
न ह्य् एवायुष्मञ् छारिपुत्र स्वयंकृतं ज र् आ म रणम् । न परकृतं । न स्वयंकृतञ् च परकृतञ् च । नाप्य् अस्वयंकारप रकारहेतुसमुत्पन्नं जरामरणम् । अपि तु जातिप्रत्ययं जरामरणम् ।
निद्स 6.8 एवं जातिर् भव उपादा न ं तृष्णा वेदना स्प र् शः ष डायतनं नामरूपं वाच्यम् ।
निद्स 6.9 किन् न्व् आयुष्म् अन् म हाकोष्ठिल स् वयंकृतं नामरूपम् । अहो स्वित् परकृतं । अहो स्वित् स्वयंकृतञ् च परकृतञ् च । अहो स्विद् अस्वयंकार परकारहेतुसम् उ त्पन्नं नामरूपम् ।
न ह्य् एवायुष्मञ् छारिपुर्त स् वय ं कृतं नामरूपम् । न परकृतं । न स्वयंकृतञ् च परकृतञ् च । नाप्य् अस्वयंकारपरकारहेतुसमुत्पन्नं नामरूपम् । अपि तु विज्ञानप्रत्यय ं नामरूपम् ।
निद्स 6.10 किन् न्व् आयुष्मन् म हाकोष्ठिल स्वयंकृतं विज्ञानम् । अहो स्वित् परकृतम् । अहो स्वित् स्वयंकृतञ् च परकृतञ् च । अहो स्विद् अस्वयंकारपरका रह् ए तुसमुत्पन्नं विज्ञानम् ।
न ह्य् एवायुष्मञ् छारिपुत्र स्वयंकृत ं विज्ञानम् । न परकृतं । न स्वयंकृतञ् च परकृतञ् च । नाप्य् अस्वयंकारपरकारहेतुसमुत्पन्नं विज्ञान म् । अपि तु नामरूपप्रत्ययं विज्ञानम् ।

निद्स 6.11 इदानीम् एवं वयम् आयुष्मतो म हाकोष्थिलस्य भाषितस्यार्थम् आजानीमः ।
न स्वयंकृतं नामरूपं । न परकृतं । न स्वयंकृ त ञ् च परक् ऋ तञ् च । नाप्य् अस्वयंकारपरकारहेतुसमुत्पन्नं नाम रूपम् । अपि तु विज्ञानप्रत्ययं नामरूपम् ।
इदानीं च पुनर् नामरूपप्रत्ययं विज्ञानम् इत्य् आजानीमः । को न्व् आयुष्मन् महाकोष्ठिल अ स्य भाषितस्यार्थो द्रष्टव्यः ।
निद्स 6.12 तेनास्याय् उष्म ञ् छारिपुत्र उपमां ते करिष्यामि । उपमया ह्य् अत्रैकत्या व्ज्ञपुरुषा भाषितस्यार्थम् आजानन्ति ।
निद्स 6.13 तद्य था द्वौ नडकलापाव् आका श् ए उच्छृतौ स्याताम् अन्योन्यं निशृतौ । अ ...... ए ताव् अन्योन्यं निशृत्य तिष्ठतः । यदुत विज्ञानप्रत्ययं नामरूपम् । न् आमरूपप्रत्ययं विज्ञानम् ।
निद्स 6.14 साधु साध्व् आयुष्मन् महाकोष्ठिल यथा श्रुतवतार्यश्रावकेण सम्यग् एव शास्तुः शासनम् आजानता सु विनीतेन विशारदेनामृतदृशा अमृतं धातुं कायेन साक्षीकृत्वो पसंपद्य विहरतायुष्मता महाकोष्ठिलेन इमा एवंरूपा गंभीरा गंभीरा प्रश्ना विमृश्य व् इमृश्य सम्यक्प्रज्ञया पृष्टेन व्याकृताः ।
निद्स 6.15 चैलोण्डुकम् इवायुष्मन्तं म् अहाकोष्ठिलं ये सब्रह्मचारिणो मूर्ध्ना परिहरन्त आयुष्मतो महाकोष्ठिलस्य लभेरञ् च दर्शनं लभेरञ् च पर्युपासनं ते षा ं स्युर् लाभाः सुलब् धाः ।
अस्माकम् अपि लाभाः सुलब्धा ये वयम् आ युष्मतो महाकोष्ठिलस्य लभामहे च दर्शनं लभामहे च पर्युपासनम् ।
निद्स 6.16 साध्व् अ त् रा युष्मता महाकोष्ठिलेन धर्मपर्यायो देशितः । इमम् अह म् उ त्सहामि त्रिंश् अत् ........
निद्स 6.17 जरामरणस्य आयुष्मन् महाकोष्ठि ल भिक्षुर् निर्वि द् ए व् इ राग् आय निरोधाय धर्म ं देशयति धर्मकथिको भिक्षुर् अ लम् अस्य वचनाय ।
जातिभवोपादानतृष्णावेदनास्पर्शषडायतननामरूपविज्ञा नस्य भ् इक्षुर् निर्विदे व् इ रागाय निरोधाय धर्मं देशयति धर्म कथिको भिक्षुर् अलम् अ स्य वचनाय ।
निद्स 6.18 जरामरणस्य भिक्षुर् निर्विदे विरागाय निरोधाय प्रतिपन्नो भवति धर्मकथिको भिक्ष् उर् अल म् अस्य वचनाय ।
यावद् विज्ञानस्य भिक्षु र् निर्वि दे विरागाय न् इरो धाय प्रतिपन्नो भवति धर्मकथिको भिक्षुर् अलम् अस्य वचनाय ।
निद्स 6.19 जरामरणस्य भिक्षुर् निर्विदे विरागाय निरोधा यानुपादायास्रवेभ्यः सम्यक्स् उ विमुक् त चित्तो भव ति धर् म क थि को भि क्षुर् अलम् अस्य वचनाय ।
यावद् विज्ञानस्य बिक्षुर् निर्विदे विरागाय निरोधायानुपादायास्रवेब्यः सम्यक्सु विमुक्तचित्तो भ वति धर्मकथि को भिक्षुर् अलम् अस्य वचन् आय ।
निद्स 6.20 स् आ धु साध्व् आ य् उ ष्म ञ् छ् आरिपुत् र् अ यथा श्रुतवतार्यश्रावकेण सम्यग् एव शास्तुः शासनम् आजानता सुविनी तेन विशार देनामृतदृशा
निद्स 6.21 पूर्ववद् यावत् पर्यु पा सनम् ।
निद्स 6.22 अथ किन् न्व् अस्योत्तरे करणीयम् इति तौ सत्पुरुषाव् अन्योन्यभाषितम् अ भिन न्द्यानुम् ओद्य उत्थायासाना त् प्रक्रान्तौ ॥
सूत्र 7: मर्कत (अffए)
निद्स 7.1 बा लो भिक्षवो ऽ श्रुतवान् पृथग्जनश् चतु र्म हाभौतिकात् काया न् न् इ र्विद् य् ए त वि रज् य् एत विमु च्ये त ।
निद्स 7.2 त त् कस्माद् धेतोः । दृश्यते भिक्षवो ऽस्य चतुर्म हा भौति कस्य कायस्य आ च यो ऽप्य् अपच यो ऽप् य् आदानम् अ पि निक्षेपणम् अपि ।
निद्स 7.3 यत् पुनर् इदम् उच्यते चित्त म् इ ति वा मम इति व् आ विज् ञानम् इ त् इ वा तत् ओ ना लं बालेना श्रुतवता पृथग्जने न नि र्वेत्त् उ ं वा व् इरक्तुं वा विमोक्तुं वा ।
निद्स 7.4 त त् कस्माद् धेतोः । दीर्घ रात् र् अ म् एत द् बालेनाश्रुतवता पृथग्ज ने न केलायितं गो प् आयितं ममायितम् उपगतम् उपादत्तम् एतन् म म । ए ष् ओ ऽहम् अस्मि । एष मे आत्मेति ।
त स्मात् ततो नालं बा लेन् आश्रुतवता पृथग्ज न् ए न निर्वेत्तुं वा विरक्तुं वा विमोक्तुं वा ।
निद्स 7.5 वरं भिक्षवो बालेनाश्रु त वता पृथग्जनेनायम् एव चतुर्महाभौ त् इ कः का यः आत्मत उ पग तो न त्व् एव विज्ञानम् ।
निद्स 7.6 तत् कस्मा द् ध् एत् ओः । दृश्यते चत् उर्म ह् आ भौतिकः कायो दशापि वर्षाणि तिष्ठ मानो विंश ति त्रि ं शच् चत्वारिंशत् पञ्चाशद् वर्षशतम् किञ्चिद् वा भू यो ऽपि तिष्ठमा नः परिह्रियमाणः ।
निद्स 7.7 यत् पुन् अर् इदम् उच्य ते च् इत्तम् इ ति वा मम इति वा विज्ञानम् इति वा तत् तेषां तेषां रात्रिदिवसानाम् अत्यया त् क्षणलवमुहूर्ताना म् अ त्ययात् प्रवर्तते बहुनानाप्रकारम् ।
अन्यद् एवोत्पद्यमा न म् उ त्प द्य् अते अ न्यद् ए व निरुध्यमानं नि रुध्यते ।
निद्स 7.8 तद्यथा मर्कटो वृक्षस्य शाखाम् आलंबेत । त् आम् उत्सृज्यान्याम् आलंबेत । एवम् एव यत् पुनर् इदम् उच्यते चित्तम् इ ति व् आ मन इति वा विज्ञानम् इति वा तत् तेषां तेषां रात्रिदिवसानाम् अत्यया त् पूर्ववद् याव न् निरुध्यमा न ं निरुध्यते ।
निद्स 7.9 तत्र श्रुतवान् आर्याश् रावकः प्रती त्यसमु त्प् आदम् एव साधु च सु ष्ठु च यो निश ः प्रत्य् अवेक्षते ।
निद्स 7.10 यद् उत सुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते सुखा वेदना । स सुखं वेदयान ः सुखा ं वेदना ं वेदयामीति य थाभूतं प्रजा नात् इ ।
अ स्यैव सु खवेद नीयस्य स्पर्शस्य निर् ओ धाद् या तज्जा सुखवेदनीयं स्प र्शं प्रतीत्योत्पन्ना सुख् आ व् ए द ना सा निरुद्धा सा व्युपशा न्त् आ सा शीतीभूत् आ सा अस्तं गता ।
निद्स 7.11 एवम् एव दुःखवेदनीयं सौमनस्यवेदनीयं दौर्मनस्यवेद नीयम् ।
निद्स 7.12 उपेक् ष् आ वेदनीयं स् प र्शं प्रतीत्योत्पद्यते उप् एक् षा । स उपेक्षकः स मानो उ पेक्षां वेदया म् ई ति यथाभूतं प् र् अजाना ति ।
अ स्यैव उपेक्षावेदनीयस्य स्पर्शस्य निरोधाद् या तज्जा उ पेक्षा वेद नीयं स्पर्श ं प्रतीत्योत्पन्ना उपेक्षा सा निरुद्धा सा व्युपशान्ता सा शीतीभूता सा अ स्तंगता ।
निद्स 7.13 तस्यैवं भव ति । इ तीमा वेद नाः स्प र् श जाः स्पर् शसमुदयाः स्पर्शजातीयाः स्प र्शप्रभवाः । तस्य तस्य स्पर्शस्य समुदयात् तास् ता वेदनाः समुदयन्ति ।
तस्य तस्य स्प र्शस्य निरोधात् तास् ता वेदना निरुध्यन्ते व्युपशमन्त् इ शीतीभ् अवन्त्य् अस्तंगच्छन्ति ।
निद्स 7.14. एवं पश्यन् श्रु तवान् आर्यश्रावको रूपाद् अपि निर्विद्यते वेदनायाः संज्ञायाः संस्कारेभ्यो विज्ञनाद् अ पि निर्वि द्यते । निर्विण्णो विरज्यते । विरक्तो विमुच्यते । विमुक्तस्य व् इ मु क् त् ओ ऽस्मीति ज्ञानदर्श नं भवति । क्षीणा मे जातिर् उषितं ब्रह्म च र्यं कृतं करणीयं नापरम् अस्माद् भवं प्रज् आ न् आ मि ॥
सूत्र 8: द्वयं काष्ठे (zwएइ ह्öल्zएर्)
निद्स 8.1 एतद् एव सूत्रं तावद् वक्तव्यं यावन् निरु ध् यन्ते व्युपशमन् ति शी तीभवन् त्य् अ स्तंगच्छन्ति ।

निद्स 8.2 तद्यथा द्वयोः काष्ठयोः सं घटना त् सन्निपातात् समवायाद् अग्नि र् जायते तेज ः प्रादुर्भ व ति ।
अथ तयोर् एव द्वयोः काष्ठयोः नानाभावाद् विनाभावाद् य उष्मा सो ऽन् त र्हीय् एत शीतीभवेतां काष्ठे ।
निद्स 8.3 एवम् एव तस्यैवं भवति । इतीमे वेदनाः स्पर्शजाः स्पर्शसमुदयाः स्पर्शजातीयाः स्पर्शप्रभवाः ।
तस्य तस्य स्पर्शस्य सम् उ दयात् ता स् ता वेद नाः समुदयन्ति ।
त स्य त स्य स्पर्शस्य निरोधात् तास् ता वेदना निरुध्यन्ते व्युपशमन्ति शीतीभवन्त्य् अस्तंगच्छन्ति ।
निद्स 8.4 एवं पश्यन् श्रुतवान् आर्यश्रावकः स्पर्शाद् अपि परिमुच् य त् ए । वेदनायाः संज्ञा याः संस्क् आरेभ्यो विज्ञानाद् अ पि परिमुच्यते । परिमुच्यते जातिजराव्याधिमरणशो क परिदेव दु ःखदौर्मनस् य् ओपा य् आ सेभ्यः । प र् इमुच्यते दुःखाद् इति वदामि ॥
सूत्र 9: कांसी (मेस्सिन्ग्स्छले)
निद्स 9.1 तत्र भगवान् भिक्षून् आ मन्त्रय ति स्म ।
निद्स 9.2 संमृशथ यू यं मया देशितम् अन्तःसंमर्शम् ।
निद्स 9.3 अथान्यतरो भिक्ष् उर् उ त्था यास ना द् ए काम्सम् उत्त रा संगं कृत्वा येन भगवां स् त् एनाञ्जलि ं प्रणम्य भगवन्तम् इदम् अवोचत् ।
निद्स 9.4 अहं त्व् एवं संमृश् आमि भग वता देशितम् अन्तःसंमर्शम् ।
निद्स 9.5 .................... इ व ............................................ ना राधयति तेन प्रश्नव्याकरणेन।
निद्स 9.6 तेन खलु सम ये न ......
निद्स 9.w अतीते ऽप्य् अध्वनि ये केचिच् छ्रमणा व् आ ब् राह्मणा वा यल् लोके प्रियरूपं सा तरूप ं त न् नित्यतः स म न्वद्राक्षुः । ध्रुवतः क्षेमत आरोग्यत आत्मत आत्मीयतः समन्वद्राक्षुस् ते तृष्णां प्रावर्धयिषुः । ये तृष्णां प्रावर्धयि षुस् ते उपधिं प्रावर्धयिषुः । ये उपधिं प् रावर्धयिषुस् ते दुःखा ं प् र् आवर्ध यिषु ः । ये दुःखं प्रावर्धयिषुस् ते न परि मुच्य न्ते स्म ज् आ त् इजराव् य् आधिमर ण शोकपरिदेवदुः ख दौर्म नस्योपाया सेभ्यः । न परिमुच्यन्ते स्म दुःखाद् इति वदामि ।
निद्स 9.x ये तु केचिच् छ्र मणा वा ब्राह्मणा वा य ल् लोके प्रि यर् ऊ पं सा त रू पं त द् रोगतः समन्वद् र् आ क्षुः । गण्ड तः शल्यतो ऽघतो ऽनि त्यतो दुःखतः शून्यतो ऽनात्मतः सम् अन्वद्रा क्षुस् ते तृ ष्णां प्रजहुः । ये तृष्णां प्रज हुस् ते उ पध् इ ं प्रजहुः । ये उपधिं प्रजहु स् ते दुःखं प्रजहु स् त् ए परिमु च्यन् ते स्म जा ति जराव्याधि मरणशोक परि द् एवदुःख दौर्मनस्यो पाया सेभ्यः । परिमुच्यन्ते स्म दुःखाद् इ ति व दामि ।{ह्स्.: गण्ड तः शल्यतो ऽगतो ऽनि त्यतो }
निद्स 9.य् अनागतेऽ; प्य् अध्वनि ये क् ए चिच् छ्रमणा वा ब्रह्मणा वा यल् लोके प्र् इयरूप ं सातरू प ं तन् नित्यतः स मनुद्रक्ष्यन्ति । ध्रुवतः क्षेमत आरोग्यत आत्मत आत्मीयतः समनुद्रक् ष् यन्ति ते तृष्ण् आं प्र वर्धयिष्यन्ति । ये तृष्णा ं प्रवर्धयिष्यन्ति ते उपधिं प्रवर्धयिष्यन् ति । य् ए उपधिं प्रवर्धयिष्यन्त् इ ते दुःख ं प्रवर्धयि ष्यन्ति । ये दुःखं प्रवर्धयि ष्य न् ति ते न परिमोक्ष्यन्ते जातिजरा व्याधि मरणशोकपरिदेवदुःखदौर्मन स् य् ओ पाया स् एभ्यः । न परिमोक् ष्य न्त् ए दुःखाद् इति वदामि ।
निद्स 9.z ये तु केचि च् छ्र मण् आ वा ब्राह्मणा वा यल् लोके प्रिय रूपं सातरूपं तद् रोगतः सम नुद्र क्ष्यन्ति । गण् ड त ः शल्य तो ऽघतो ऽन् इ त्यतो दु ःखतः शून्यतो ऽना त्म तः समनु द् रक्ष्यन्ति ते त् ऋ ष्णा ं प्रहास्यन्ति । ये तृष्णां प्रहास्यन्ति ते उपधिं प्रहास्यन्ति । ये उपधि ं प्रहास् य न् ति ते दुःखं प्रहा स्य न् ति । ये दुःखं प्रहास्य न्ति ते परिमोक्ष्यन्ते जातिज रा व्य् आ धिमरणशोक परि देव दुः ख दौर्मनस्योपायासेभ्यः । परिमोक्ष्यन्ते दुःखाद् इति वदामि ॥ {ह्स्.: गण् ड त ः शल्य तो ऽगतो ऽन् इ त्यतो}
सूत्र 10: कुम्भ (तोप्f)
निद्स 10.1 किय् अता भिक्षवो भिक्षुः प रिम् ईमा ं स मा नः परिमीमांसेत सम्यग्दुःखक्षयाय दुःखस्य् आ न्त क् र् इयायै ।
निद्स 10.2 भ ग व न्मूलका भदन्त धर्माः पूर्ववद् यावद् भाषिष्ये ।
निद्स 10.3अ भिक्षु ः परिमीमांसमा नः परिमी मा ं स ते स म्यग्दु ःखक्षयाय दुःखस्यान्तक्रियायै ।
अत्र च् ए त् सत्व् आनां दुःखं उत्पद्यमानम् उत्पद्य् एत बहु ना नाप्रकारम् ।
इद ं दुःखं किन्निदानं किंसमुदय ं क् इं जातीय ं किंप्र भवम् ।
निद्स 10.3ब् स एवं परिमी म् आंसमानो जान् आति । इ दं दुःखम् उपधिनिदानम् उपधिसम् उ दयम् उप धिजातीयम् उपधिप्रभव म् । उपधिश् चेत् सर्वेण सर्वं सर्वथा सर्व म् अपरिशेषं निरुध्ये ता परि शे ष म् अध् यस्तं प रिक्ष यं पर्यादान ं ग च्छेद् दुःखम् अप्य् अस्य निरुध्येत ।
निद्स 10.3च् स या च दुःख निरोधगामिनी प्रतिपत् तां य थाभूतं प्रजानाति । तथा प्रति पन्नश् च भवत्य् अनुधर्मचारी । अयम् उच्यते भिक्षु ः सम् यग्दु ःखक्षया य दुःखस्यान्तक्रियायै प्रतिपन्नो यद् उतोप धिनिरोधाय ।
निद्स 10.4अ पुनर् अपरं भिक्षुः परिमीमा ं समानः पर् इ मीमांस ते सम्यग्दुःखक्षयाय दुःखस्यान्तक्रि या यै । उपधिः पुनः किन्निदान ः किंसमुदयः किं जात् ईयः कि ं प्रभव ः ।
निद्स 10.4ब् स एवं प रिमीमांसमानो जानाति । उपधिस् तृ ष्णा निदानस् तृष्णासमुदयस् तृष्णाजा ती यस् तृष्णाप्रभवः । तृष्णा चेत् स र् वेण सर्वं सर्वथा सर्वम् अपरिशेषं निरुध्येतापर् इशेषम् अध्यस्तं प रिक्षयं पर्यादानं गच्छे द् उपधिर् अप्य् अस्य निरुध्येत ।
निद्स 10.4च् स या चोपधिनिरोधगामिनी प्रति पत् तां यथाभूतं प् र जानाति । तथा प्रतिपन्नश् च भवत्य् अनुध र्मचारी । अयम् उ च्यते भिक्षुः सम्यग्दुःख क्षयाय दुःखस्यान्तक्रिया यै प्रतिपन्नो य द् उत तृष्णान् इ रोध् आय ।
निद्स 10.5अ पुनर् अपरं भिक्षुः परिमीमांसमा नः परिमीमांस ते सम्यग्दुःखक्षयाय दुः खस्यान्तक्रिया यै । तृष्णा पुनः किन्निदाना किं समुदया किं जातीया किंप्रभवा ।
निद्स 10.5ब् स एवं परिमीमांसमानो जानाति । तृष्णा वेदना नि दा ना वेदनासमुदया वेदनाजाती या वेदनाप्रभ वा । वेदना चेत् सर्वेण सर्वं सर्वथा सर्वम् अपरिशेषं निरुध्येतापरिशेषम् अध्यस्तं परिक्षयं पर्यादानं गच्छेत् तृष्णाप् य् अस्य न् इ रुध्येत ।
निद्स 10.5च् स या च तृष्णानिरोधगामिनी प्रतिपत् तां य थाभूतं प्रजानाति । तथा प्रतिपन्नश् च भवत्य् अनुधर्मचारी । अयम् उच्यते भिक्षुः सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै प्रतिपन्नो यद् उत वेदनानिरोधाय ।
निद्स 10.6अ पुनर् अपरं भिक्षुः परि मीम् आं स मानः परिमीमांसते सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै । वेदना पुनः किन्निदाना किंसमुदया किंजा तीया क् इंप्र भवा ।

निद्स 10.6ब् स एवं परि मीमांसमानो जानाति । वेद ना स्पर्श निदाना स्पर्शसमुदया स्पर्शजातीया स्पर्शप्रभवा । स्पर्शश् चेत् सर्वेण सर्वं सर्वथा सर्वम् अपरिशेषं निरुध्ये तापरिशेषम् अध्यस्तं परिक्ष यं प र्यादानं गच्छेद् वे द ना प्य् अस्य निरुध्य् ए त ।
निद्स 10.6च् स या च वेदनानिरोधगामिनी प्रतिपत् तां यथाभूतं प्रजानाति । तथा प्रतिपन्नश् च भवत्य् अनु धर्मचारी । अयम् उच्यते भिक्षुः सम् यग्दुःखक्षया य दुःखस्यान्तक्रियायै प्र ति पन्नो यद् उत स् पर्शनिरोधाय ।
निद्स 10.7अ पुनर् अ परं भिक्षुः परिमीमांसमानः प रिमीमांसते स म्यग्दु ःखक्षयाय दुःखस्यान्तक्रियायै । स्प र्श ः किन्नि दानः किंसमुदयः किंजातीयः किंप्रभ वः ।
निद्स 10.7ब् स ए वं परिम् ई मांसमानो जानाति । स्प र् शः षडाय तननिदानः षडायत नसमुदयः षडाय त न जातीयः षडायतनप्रभव ः । षडायतनं चेत् स र्वेण सर्वं सर्वथा स र्वम् अ परिशेषं निरुध्येता परिशेषम् अ ध्यस्तं परिक्षय ं पर्या दानं ग च् छ् एत् स् प र्शो ऽप्य् अस्य न् इ रुध्येत ।
निद्स 10.7च् स या च स्पर्शनिरोधगामिनी प्रतिपत् तां यथाभूतं प्रज् आना ति । तथा प्रतिपन्नश् च भव त्य् अ नुधर् मचारी । अयम् उच्य ते भि क्षुः स म्यग्दुःखक्षयाय दु ः खस्यान्तक्रियायै प्रतिपन्नो यद् उत षडा यतननिरोधाय ।
निद्स 10.8अ पुनर् अ परं भिक्षुः परिमी मांसमा न् अः परिमीमांसते सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै । षड् आ यतन ं पुनः किन्निदानं किंसमुदयं किंजातीयं किंप्रभवम् ।
निद्स 10.8ब् स एवं परिमी मा ं समानो जानाति । षडायतन ं नामरूपनिदानं नामरूप स मुदयं नामरूपजातीय ं न् आम् अरूप प्रभवम् । नामरूपं चे त् सर्वेण सर्वं सर्व था स र् व म् अपरिशे ष ं निरुध्येतापरिशेषम् अध्यस्तं परिक्षयं प र्यादानं गच्छेत् षडायतन म् अप्य् अस्य निरुध्येत ।
निद्स 10.8च् स या च षडायतन निरो धगामिनी प्रतिपत् तां यथाभूतं प्रजान् आति । तथा प्रतिपन्नश् च भवत्य् अनुधर्मचारी । अयम् उ च्यते भिक्षुः सम्यग्दुःखक् षयाय दुःखस्यान्तक्रियायै प्रतिपन्नो यद् उत नामरूपनिरोधाय ।

निद्स 10.9अ पुनर् अ पर ं भिक्षुः परिमीमांसमानः परिमीमां सते सम्यग्दुःखक्षय् आ य दुःखस्यान्त क्रिया य् ऐ । नामरूपं पुनः किन्निदानं किंसमुदयं किंजातीयं किंप्रभवम् ।
निद्स 10.9ब् स एवं परिमीमांसमानो जानाति । नामरूपं विज्ञाननिदानं विज्ञानसमुदयं विज्ञानजा तीय ं विज्ञानप्रभवम् । विज्ञानं चेत् सर्वेण सर्वं सर्वथा सर्व म् अपरिशेषं निरुध्येतापरिशेषम् अध्यस्तं परिक्षयं पर्यादा नं गच्छेन् नामरूपम् अप्य् अस्य निरुध्येत ।
निद्स 10.9च् स या च नामरूप निरोधगामिनी प्रतिपत् तां यथाभूतं प्रजानाति । तथा प्रति पन्नश् च भवत्य् अनुधर्मचारी । अयम् उच्यते भिक्षुः सम्यग्दु ःखक्षयाय दुःखस्यान्तक्रियायै प्रतिपन्नो यद् उत विज्ञाननिरोधाय ।
निद्स 10.10अ पुनर् अपरं भिक्षुः परिमीमांसमान ः परिमीमांसते सम्यग्दुःखक्षयाय दुःखस्यान्त क् रि यायै । विज्ञानं पुनः किन्निदानं किं जातीयं किं प्रभव ं किंसमुदयम्
निद्स 10.10ब् स एवं परिमीमांसमानो जानाति । विज्ञानं संस्कारसमुदयं संस्कारजातीयं सं स्कार प्रभवम् ।
स पुण्यान् अभिसं स्कारान् अभि संस्कर् ओति । पुण्योपगम् अप्य् अस्य भवति विज्ञानम् । अपुण्यान् अभिस ं स्कारान् अभिसं स्क रोति । अपुण्योपगम् अप्य् अस्य भवति विज्ञानम् । आनिज्यान् अभिसंस्कारान् अभिसंस्करोति । आनिज्योपगम् अप्य् अ स्य भवति विज्ञानम् ।
तद् अने नैव पर्या य् ए ण वेदितव्यं यद् विज्ञानम् अ प् इ स ंस्कारनिदानं संस्का रसमु दयं संस्कारजातीयं सं स्कार प्रभवम् । संस्काराश् चे त् सर्व् एण सर्वं सर्वथा सर्वम् अपरिशेषं नि रुध्ये तापरिशेष म् अध्यस्तं परिक्ष यं पर्यादानं गच्छेद् विज्ञा नम् अप्य् अस्य निरुध्येत ।
निद्स 10.10च् स या च विज्ञाननिरोधग् आमि नी प्रतिपत् तां य था भूत ं प्रजाना ति । तथा प्र तिप न्नश् च भवत्य् अनुधर्मचारी । अयम् उच्यते भिक्षुः स म्यग्दुःख क्षयाय दुःखस्यान्तक्रियायै प्र त् इपन्नो यद् उत संस्कार निरोधाय ।
निद्स 10.11अ पुनर् अपरं भिक्षुः परिमीमांसमानः परिमीमांसते सम्यग्दुःखक्षयाय दुःख स्यान्तक्रिया यै । संस्का राः पु नः किन्नि दानाः किंसमुदयाः किंजातीयाः किंप्रभवाः ।
निद्स 10.11ब् स एवं परिमीमांसमानो जानाति । संस्का रा अविद्या निदाना अ विद्यासमुद या अवि द्याजातिया अ विद्याप्रभवाः । स पुण्यान् अभिसंस्कारान् अभिसंस्करोत्य् अविद्या प्रत्ययान् । अपुण्यान् अप्य् आनिज्यान् अप्य् अभिसंस्कारान् अभिसंस्क रोत्य् अविद्याप्रत्ययान् ।
तद् अनेनैव पर्याये ण वे दितव्यं यत् संस्का रा अप्य् अविद्या निदाना अविद्यासमुदया अविद्याजातीया अविद्या प्रभवाः । अविद्या चेत् सर्वेण सर्वं सर्वथा सर्वम् अपरि शेषं निरुध्येतापारिशेषम् अध्यस्तं परिक्षयं पर्यादानं गच्छे त् संस्कारा अप्य् अस्य निरुध्येरन् ।
निद्स 10.11च् स या च संस्कारनिरोधगामिनी प्रतिपत् तां यथा भू तं प्रजा नाति । तथा प्रतिपन्नश् च भवत्य् अनुधर्मचारी । अयम् उच्यते भिक्षुः सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै प्रतिपन्नो यद् उत अ व् इद्यानिरोधाय ।
निद्स 10.12 किं म न् य् अध् वे भिक्ष वो य स्य भि क्षोर् अविद्या विरक्ता भवति विद्योत्पन्ना
अपि तु स पुनर् अपि पुण्यान् अभिसंस्का र् आन् अभ् इ संस्कुर्याद् अविद्याप्र त्य या न् । अ पुण्यान् अप्य् आनिज्यान् अभिस ंस्का रान् अभि सं स्कु र्याद् अव् इ द्या प्रत्ययान् ।
निद्स 10.13 नो भदन्त । तत् कस्माद् धेतोः । यतश् च श्रुतवत आर्यश्रावकस्याविद्या व् इ रक्ता विद्योत्पन्ना तस्याविद्य् आनिरो धात् संस्कारनिरोधः । संस् क् आरन् इर् ओधा द् वि ज् ञ् आ न नि र् ओ धः पूर्वव द् याव न् निरोधो भवतीति ।
निद्स 10.14 साधु साधु भिक्षवः । अहं चैवं वदामि यूयं चैवं प्रजानीध्वम् । यथा तेषां तेषां ध र्माणाम् उत्पादा त् ते ते धर्मा उत्पद्यन्त् ए । ते षां तेषां धर्मा णां निरोधा त् ते ते धर्मा निरुध्यन्ते व्युपशमन्ति शीतीभवन्त्य् अस्तंगच्छन्ति ।
निद्स 10.15 यतश् च श्रुतवत आर्य श्र् आवकस्याविद्या विर क्त् आ भवति विद्योत्पन्ना । स कायप र्यन्तिकां वे दना ं वेदयानः कायपर्यन्तिकां वेदना ं वेदयामीति यथाभूतं प्रजाना ति । जी वित पर्यन्तिकां वे दना ं वेदयानो ज् ईवितपर्यन्तिका ं व् एद नां वे दयामीति यथाभूतं प्रजानाति । भेदाच् च कायस्योर्ध्वं जीवितपर्यादानाद् इहैवास्य सर्वाणि वेदयितव्यान्य् अपरिशेषं निरुध्यन्ते । अपरिशेषम् अध्यस्तं परिक्षयं पर्यादानं गच्छन्ति ।
निद्स 10.16 तद् यथा बलवान् पुरुषः सोष्मात् कुम्भकारपाकात् सोष्मं कुम्भं गृहीत्वा समे पृथि वी प्रदेशे उपनिक्षिपेत तस्य य उष्मा सो ऽन्तर्हीयेत शीतीभवेय् उ ः क पालानि ।
एवम् एव यतश् च भिक्षोर् अ व् इद्या विरक्ता भवति विद्योत्पन्ना स कायपर्यन्तिका ं वेदना ं वेदयानः कायपर्यन्तिकां वेदन् आ ं वेदयामीति यथ् आभूतं प्रजानाति पूर्ववद् यावत् परिक्षयं पर्यादानं गच्छन्ति ॥
सूत्र 11: यो वदेत् (wएन्न् एइनेर् सग्त्)
निद्स 11.1 वदेत भि क् षुस् तीर्णा म् ए कांक्षा विगता मे कथंक था । अत्रोच्छि न्नो मे दृष्टिशल्यः । {सो एद्.: नमेत्य् उतावर्तते; च्f. स्wत्f स्.व्. प्रत्युदावृत्} न मे प्रत्युदावर्तते मानसं परितस्यम् उपादाय । कथ ं स्याद् धि मे आत्मा ।
निद्स 11.2 तस्य भिक्षोर् धार्म्या ं कथ् आयां क थ् यमानायाम् आर्या यां लोक् ओ त्तरायां
यद् उतास्म् इ न् सतीदं भ व त्य् अस्योत्पादाद् इदम् उत्पद्यते ।
यद् उताविद्याप्रत्ययाः संस्काराः पूर्ववद् यावत् सम् उद यो निरोधश् च भवति ।
निद्स 11.3 इत्य् एवंरूपायां कथायां कथ्यमानायां भवति कांक्षा भवति विच् इ कित्सा अप्रप्ते प्राप्तसंज्ञ्य् अनधिगते ऽधिगतसंज्ञ्य् असाक्षाकृते साक्षाकृतसंज्ञी दुःखी दुर्मना विप्रतिसारी विहन्यते विगतम् आपद्यते ।
निद्स 11.4 तत् कस्माद् धेतोः । गंभीरम् इदं स्थ् आ न ं यद् उत इदंप्रत्ययता प्रतीत्यसमुत्पा दः । इदम् अपि सुदुर्दर्शतरं पदं यद् उत सर्वोपधिप्रतिनिःसर्गस् तृष्णाक्षयो विरागो निरोधो निर्वाणम् ।
निद्स 11.5 द्वयम् इदं संस्कृतञ् चासंस्कृतञ् च । तत् र् अ संस्कृतस्योत्पादो ऽपि प्रज्ञायते व्ययो ऽपि स्थित्यन्यथात्वम् अपि । असंस्कृतस्य नैवोत्पादः प्रज्ञायते न व्ययो न स्थित्यन्यथात्वम् ।
निद्स 11.6 इति हि भिक्षवो दुःखाः संस्काराः । शा न्त ं निर्वाणम् । ह् ए तुसमुदयाद् दुःखसमुदयः । हेतुनिरोधा द् दुःखनिरोधः । छिन्नं वर्त्म न प्रवर्तते । अप्रतिसन्धि निरुध्यते । एष एवान्तो दुःखस्य ।
निद्स 11.7 तत्र भिक्षवः कः परिनि र् वृतः अन्यत्र यद् दुःखं तन् निरुद्धं तद् व्युपशान्तं तच् छीतीभूतं तद् अस्तंगतम् । शान्तम् इदं पदं यद् उत सर्वोपधिप्रति निः सर्गस् तृष्णाक्षयो विरागो निरोधो निर्वाणम् ॥
सूत्र 12: निवृत (गेहेम्म्त्)
निद्स 12.1 अविद्यया निवृतस्य बालस्य तृष्णया संयुक्तस्यैवम् अयम् बाल् अ स्या श्रुतव तः पृथग्जनस्य सविज्ञानकः काय ः समुदागतः । इत्य् अयञ् चास्य सविज्ञानकः कायो बहिर्धा च नामरूपम् । एवं द्वयम् ।

निद्स 12.2 द्वयं खलु प्रतीत्य स्प र् शः । षड् इमा नि स्पर्शायतन् आनि यैः स्पृष्टः स्पृष्टो बालो ऽश्रुतवान् पृ थग्जनः सुखदुःखं प्रतिसंवेदयति । अतो वा पुनर् उपादायैतेषां वान्यतमेन ।
निद्स 12.3 कतमानि षट् । च क्षुः स्पर्शायत न म् । श्रो त्रं घ्रा णं जिह्वा कायो मनः स्पर्शायतनम् ।
निद्स 12.4 अविद्यया निवृतस्य पण्डितस्य तृष्णया संयुक्तस्यैवम् अयम् पण्ड् इतस्य सविज्ञानकः कायः समुदागतः । इत्य् अयञ् चास्य सविज्ञानकः कायो ब हिर्धा च नामरूपम् । एवं द्वयम् ।
निद्स 12.5 द्वयं खलु प्रतीत्य स्पर्शः । षड् इमानि स्प र्शायत नानि यै ः स्पृष्टः स्पृष्टः पण्डि तः सुखदुःखं प्रतिसं व् एद य ति । अतो वा पुनर् उपा दायै तेषां वान्यतमेन ।
निद्स 12.6 कतमानि षट् । चक्षुः स्पर्शायतनं श्रोत्रं घ्राणं जिह्वा कायो मनः ।
निद्स 12.7 इ ति भिक्षवो को विशेसः को ऽभिप्रायः क् इन् न् आना करणं बालपण्डितयोर् ममान्तिके ब्रह्मचर्यवासाय ।
निद्स 12.8 भगवन्मूलका भदन्त धर्माः पूर्ववद् यावद् भाषिष्ये ।
निद्स 12.9 ययाविद्यया निवृतस्य बालस्याश्रुतवतः पृथग्जनस्य यया च तृष्णया संयुक्तस्यायं सविज्ञानकः कायः समुदागतस् तस्य सा च अविद्या अप्रहीणा सा च तृष्णा अपरिक्षीणा ।
स तस्या अविद्याया अप्रहाणात् तस्याश् च तृष्णाया अपरिक्षयात् कायस्य भेदात् परंमरणात् कायोपगो भवति ।

स कायोपगः सन् न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः । न परिमुच्यते दुःखाद् इति वदामि ।
निद्स 12.10 तत् कस्माद् धेतोः । नाचार्षीद् बालः पूर्वे ब्रह्मचर्येषणां सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै ।
तस्मात् स कायस्य भेदात् परंमरणात् कायोपगो भवति ।
स कायोपगः सन् न परिमुच्यते पूर्ववद् यावद् दुःखाद् इति वदामि ।
निद्स 12.11 यया न्व् अविद्यया निवृतस्य पण्डितस्य यया च तृष्णया सम्युक्तस्य सविज्ञानकः कायः समुदागतस् तस्य सा च अविद्या प्रहीणा सा च तृष्णा परिक्षीणा ।
स तस्या अविद्यायाः प्रहाणात् तस्याश् च तृष्णायाः परिक्षयात् कायस्य भेदात् परंमरणान् न कायोपगो भवति ।
स न कायोपगः सन् परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः । परिमुच्यते दुःखाद् इति वदामि ।
निद्स 12.12 तत् कस्माद् धेतोः । अचार्षीत् पण्डितः पूर्वे ब्रह्मचर्येषणां सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै ।
तस्मात् स कायस्य भेदात् परंमरणान् न कायोपगो भवति ।
स न कायोपगः सन् परिमुच्यते पूर्ववद् यावद् दुःखाद् इति वदामि ।
निद्स 12.13 अयं भिक्षवो विशेषो ऽयम् अभिप्राय इदन् नानाकरणं बालपण्डित यो र् ममान्तिके ब्रह्मचर्यवासाय ॥
सूत्र 13: न युष्माकम् (निछ्त् एउछ्)
निद्स 13.1 नायं भिक्षवः कायो युष्माकं नाप्य् अन्येषाम् । षड् इमानि स्पर्शायतनानि पूर्वम् अभिसंस्कृतान्य् अभिसञ्चेतितानि । पौराणं कर्म वेदितव्यम् इति वदामि ।
निद्स 13.2 कतमानि षट् । चक्षुः स्पर्शायतनम् । श्रोत्रं घ्राणं जि ह् व् आ कायो मनः स्पर्शायतनम् ।
निद्स 13.3 तत्र श्रुतवान् आर्यश्रावकः प्रतीत्यसमुत्पादम् एव साधु च सुष्ठु च योनिशः प्रत्यवेक्षते ।
निद्स 13.4 यदुतास्मिन् सति षड् विज्ञानकाया भवन्ति । षट् स्पर्शकायाः षड् वेदनाकायाः षट् संज्ञाकायाः षट् चेतनाकाया भवन्ति । यदुतास्मिन् सत्य् एवम् आयत्यां जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति ।
निद्स 13.5 एवं हि सहेतुः सप्रत्ययो लोकः समुदेति । एवं हि सहेतोः सप्रत्ययस्य लोकस्य समुदयो भवति ।
निद्स 13.6 यदुतास्मिन्न् असति षड् विज्ञानकाया न भवन्ति । षट् स्पर्शकायाः षड् वेदनाकायाः षट् संज्ञाकायाः षट् चेतनाकाया न भवन्ति । यदुतास्मिन्न् असत्य् एवम् आयत्याम् जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति ।
निद्स 13.7 यतश् च श्रुतवतार्यश्रावकेण लोकसमुदयश् च लोकनिरोधश् च यथाभूतं सम्यक्प्रज्ञया सुदृष्टो भवति सुविदितः सुजुष्टः सुप्रतिविद्धः । अयम् उच्यते आर्याश्रावकः । आगत इमं सद्धर्मम् उपगत इमं सद्धर्मम् अवैति सद्धर्मम् इत्य् उच्यते ऽवगाढप्राप्तः पर्यवगाढप्राप्तः शैक्षेण ज्ञानेन शैक्षेण दर्शनेन लोकस्योदयास्तंगामिन्या प्रज्ञया समन्वागत आर्यया नैर्याणिकया नैर्वेधिकया निर्याति तत्करः सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै ।
निद्स 13.8 तत् कस्माद् धेतोः । तथा हि श्रुतवतार्यश्रावकेण लोकसमुदयश् च लोकनिरोधश् च यथाभूतं सम्यक्प्रज्ञया सुदृष्टः सुविदितः सुप्रतिविद्धः ॥
सूत्र 14: (प्रतीत्य)
निद्स 14.1 प्रतीत्यसमुत्पादं वो भिक्षवो देशयिष्ये प्रतीत्यसमुत्पन्नांश् च धर्मान् । ताञ् छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये ।
निद्स 14.2 प्रतीत्यसमुत्पादः कतमः । यदुतास्मिन् सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते । यदुताविद्याप्रत्ययाः संस्कारा यावत् समुदयो भवति ।
निद्स 14.3 अविद्याप्रत्ययाः संस्कारा इत्य् उत्पादाद् वा तथागतानाम् अनुत्पादाद् व् आ स्थ् इता एवेयं धर्मता धर्मस्थितये धातुः ।
तं तथागतः स्वयम् अभिज्ञायाभिसंबुद्ध्याख्याति प्रज्ञपयति प्रस्थापयति विभजत् इ विवरत्य् उत्तानीकरोति देशय् अति स ं प्रकाशयति यदुताविद्याप्रत्ययाः संस्काराः ।
निद्स 14.4 यावज्
निद्स 14.5 जातिप्रत्ययं जरामरणम् इत्य् उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा स्थिता एवेयं धर्मता धर्मस्थितये धातुः ।
तं तथागतः स्वयम् अभिज्ञायाभिसंबुद्ध्याख्याति प्रज्ञपयति प्रस्थापयति विभजति विवरत्य् उत्तानीकरोति देशयति संप्रकाशयति यदुत जातिप्रत्ययं जरामरणम् ।
निद्स 14.6 इ त् इ यात्र धर्मता धर्मस्थितिता धर्मनियामता धर्मयथातथा अवितथता अनन्यथा भूतं सत्यता तत्त्वता याथातथा अविपरीतता अविपर्यस्तता इदंप्रत्ययता प्रतीत्यसमुत्पादानुलोमता
अयम् उच्यते प्रतीत्यसमुत्पादः ।
निद्स 14.7 प्रतीत्यसमुत्पन्ना धर्माः कतमे । अविद्या संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णा उपादानं भवो जातिर् जरामरणं । इम उच्यन्ते प्रतीत्यसमुत्पन्ना धर्माः ।
निद्स 14.8 यतश् च श्रुतवतार्यश्रावकेण प्रतीत्यसमुत्पादश् च प्रतीत्यसमुत्पन्नाश् च धर्मा यथाभूतं सम्यक्प्रज्ञया सुदृष्टा भवन्ति ।
निद्स 14.9 स न पूर्वान्तं प्रतिसरति । किन् न्व् अहम् अभूवम् अतीते ऽध्वनि । अहो स्विन् नाहम् अतीते ऽध्वनि । को न्व् अहम् अभूवम् अतीते ऽध्वनि । कथं न्व् अहम् अभूवम् अतीते ऽध्वनि ।
निद्स 14.10 अपरान्तं वा न प्रतिसरति । किन् नु भविष्याम्य् अनागते ऽध्वनि । अहो स्विन् न भविष्याम्य् अनागते ऽध्वनि । को नु भविष्याम्य् अनागते ऽध्वनि । कथं नु भविष्याम्य् अनागते ऽध्वनि ।
निद्स 14.11 अध्यात्मं वाकथंकथीभवति । किं स्विद् इदम् । कथं स्विद् इदम् । के सन्तः के भविष्यामः । अयं सत्वः कुत आगतः । स इतश् च्युतः कुत्रगामी भविष्यति ।
निद्स 14.12 यानि तान्य् एकत्यानां श्रमणब्राह्मणानां पृथल्लोके दृष्टिगतानि तद्यथा आत्मवादप्रतिसंयुक्तानि सत्ववादप्रतिसंयुक्तानि जीववादप्रतिसंयुक्तानि को तू हलमङ्गलवादप्रतिसंयुक्तनि तान्य् अस्य तस्मिन् समये प्रहीणानि भवन्ति परिज्ञातान्य् उच्छिन्नमूलानि तालमस्तकवद् अनाभवगतिकान्य् आयत्याम् अनुत्पादधर्माणि ।
निद्स 14.13 तत् कस्माद् धेतोः । तथा हि श्रुतवतार्यश्रावकेण प्रत् ई त्यसमुत्पादश् च प्रतीत्यसमुत्पन्नाश् च धर्मा यथाभूतं सम्यक्प्रज्ञया सुदृष्टाः सुजुष्टाः सुविदिताः सुप्रतिविद्धाः ॥
सूत्र 15: शून्यता (दिए लेएरे)
निद्स 15.1 कुरुषु निदानम् ।
निद्स 15.2 तत्र भगवान् भिक्षून् आमन्त्रयति ।

निद्स 15.3 धर्मं वो देशयिष्ये आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं यावत् प्रकाशयिष्ये । यद् उत महाशून्यतानाम धर्मपर्यायस् तच् छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये ।
निद्स 15.4 महाशून्यताधर्मपर्यायाः कतमाः । यद् उतास्मिन् सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते । यद् उताविद्याप्रत्ययाः संस्कारा यावत् समुदयो भवति ।
निद्स 15.5अ जातिप्रत्ययं जरामरणम् इति । तत्र को जरामरणं कस्य वा जरामरणम् इति हि स्युः प्रष्टार
इति य एवं वदेद् अयं जरामरणम् अस्य वा जरामरणम् । यश् चैवं वदेत् तज् जीवं तच् छरीरम् अन्यज् जीवम् अन्यच् छरीरम् । उभयम् एतद् एकम् । व्यञ्जनम् अत्र नाना ।
निद्स 15.5ब् तज् जीवं तच् छरीरम् इति दृष्टौ सत्यां ब्रह्मचर्यवासो न भवति । अन्यज् जीवम् अन्यच् छरीरम् इति भिक्षवो दृष्टौ सत्यां ब्रह्मचर्यवासो न भवति ।
इत्य् एताव् उभाव् अन्ताव् अनुपगम्यास्ति मध्यमा प्रतिपद् आर्या लोकोत्तरा यथाभूता अविपरीता सम्यग्दृष्टिः । यद् उत जातिप्रत्ययं जरामरणम् ।
निद्स 15.6 एवं जातिर् भव उपादानं तृष्णा वेदना स्पर्शः षडायतनं नामरूपं विज्ञानम् ।
निद्स 15.7अ अविद्याप्रत्ययाः संस्कारा इति । तत्र कः संस्काराः कस्य वा संस्कारा इति हि स्युः प्रष्टार
इति य एवं वदेद् अयं संस्कारा अस्य वा संस्काराः । यश् चैवं वदेत् तज् जीवं तच् छरीरम् अन्यज् जीवम् अन्यच् छरीरम् ।
उभयम् एतद् एकम् । व्यञ्जनम् अत्र नाना ।
निद्स 15.7ब् तज् जीवं तच् छरीरम् इति भिक्ष वो दृ ष्टौ स त्यां ब्रह्मचर्यवा सो न भवति ।
अन्यज् जीवम् अन्यच् छरीरम् इति दृष्टौ सत्यां ब्रह्मचर्यवासो न भवति ।
इत्य् एताव् उभाव् अन्ताव् अनुपगम्यास्ति मध्यमा प्रतिपद् आर्या लोकोत्तरा यथाभूता अविपरीता सम्यग्दृष्टिः । यद् उताविद्याप्रत्ययाः संस्काराः ।
निद्स 15.8अ यतश् च भिक्षोर् अविद्या विरक्ता भवति विद्योत्पन्ना
निद्स 15.8ब् तस्य को जरामरणं कस्य वा जर् आमरणम् ।
निद्स 15.8च् अविद्याविरागाद् विद्योत्पादाद् एवम् अस्य तज् जरामरणं प्रहीणं भवति परिज्ञातम् उच्छिन्नमूलं तालमस्तकवद् अनाभवगतिकम् आयत्याम् अनुत्पाद धर्म ।
निद्स 15.9अ यतश् च भिक्षोर् अविद्या विरक्ता भवति विद्योत्पन्ना
निद्स 15.9ब् तस्य को जातिर् भव उपादानं तृष्णा वेदना स्पर्शः षडायतनं नामरूपं विज्ञानम् ।
निद्स 15.10ब् तस्य कः संस्काराः कस्य वा सं स्काराः ।
निद्स 15.10च् अविद्याविरागाद् विद्योत्पादाद् एवम् अस्य ते संस्काराः प्रहिणा भवन्ति परिज्ञाता उच्छिन्नमूलास् तालमस्तकवद् अनाभव ग तिकम् आयत्याम् अनुत्पादधर्माणः ।
निद्स 15.11अ य तश् च भिक्षोर् अविद्या विरक्ता भवति विद्योत्पन्ना
निद्स 15.11ब् तस्याविद्यानिरोधा त् संस्कारनिरोधो यावन् महतो दुःखस्कन्धस्य निरोधो भवति ।
निद्स 15.12 अयम् उच्यते महाशून्यतानाम धर्मपर्यायः ।
निद्स 15.13 धर्मं वो देशयिष्ये आदौ कल्याणं मध्ये पूर्ववद् इति मे यद् उक्तम् इदं तत् प्रत्युक्तम् ॥
सूत्र 16: आदिसूत्र
निद्स 16.1 प्रतीत्यसमुत्पादस्य वो भिक्षव आदिञ् च देशयिष्ये विभङ्गञ् च । तच् छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये ।
निद्स 16.2 प्रतीत्यसमुत्पादस्यादिः कतमः । यद् उतास्मिन् सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते ।
यद् उताविद्याप्रत्ययाः संस्काराः पूर्ववद् यावत् समुदयो भवति । अयम् उच्यते प्रतीत्यसमुत्पादस्यादिः ।
निद्स 16.3 विभङ्गः कतमः ।
निद्स 16.4 अविद्याप्रत्ययाः संस्कारा इत्य् अविद्या कतमा ।
यत् तत् पूर्वान्ते अज्ञानम् अपरान्ते अज्ञानं पूर्वान्तापरान्ते अज्ञानम् अध्यात्मे अज्ञानं बहिर्धा अज्ञानम् अध्यात्मबहिर्धा अज्ञानं कर्मण्य् अज्ञानं विपाके अज्ञानं बुद्धे अज्ञानं धर्मे अज्ञानं संघे अज्ञानं दुःखे अज्ञानं समुदये निरोधे मार्गे अज्ञानं हेताव् अज्ञानं हेतुसमुत्पन्नेषु धर्मेष्व् अज्ञानं कुशलाकुशलेषु सावद्यानवद्येषु सेवितव्यासे वि तव्येषु हीनप्रणीतेषु कृष्णशुक्लेषु प्रतिभागप्रतीत्यसमुत्पन्नेषु धर्मेष्व् अज्ञानम् ।
षट्सु वा पुनः स्पर्शायतनेषु यथाभूतम् असंप्रतिवेध इति ।
यत्र तत्राज्ञानम् अदर्शनम् अनभि स मयस् तमः संमोहो अविद्यानु शयः । अयम् उच्यते अविद्या ।
निद्स 16.5 अविद्याप्रत्ययाः संस्कारा इति संस्काराः कतमे ।
त्रयः संस्काराः । कायसंस्कारो वाक्संस्कारो मनःसंस्कारः ।
निद्स 16.6 संस्कारप्रत्य यं विज्ञानम् इति वि ज्ञ् आ न ं कतरत् ।
षड् विज्ञानकायाः । चक्षुर् विज्ञानं श्रोत्रघ्राणजिह्वाकायमनो विज्ञानम् ।
निद्स 16.7 विज्ञानप्रत्ययं नामरूपम् इति नामरूपं कतरत् ।
चत्वारो ऽरूपिणः स्कन्धाः । वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्धः ।
रूपस्कन्धः कतरत् । यत् किञ्चिद् रूपं सर्वं तच् चत्वारि महाभूतानि । चत्वारि च महाभूतान्य् उपादाय इतीदं च रूपं । पूर्वकं च नाम । तद् उभयं नामरूपम् । इत्य् उच्यते नामरूपम् ।

निद्स 16.8 नामरूपप्रत्ययं षडायतनम् इति षडायतनं कतरत् ।
षड् आध्यात्मिकान्य् आयतनानि । चक्षुर् आध्यात्मिकम् आयतनं श्रोत्रघ्राणजिह्वाकायमन आध्यात्मिकम् आयतनम् ।
निद्स 16.9 षडायतनप्रत्ययः स्पर्श इति स्पर्शः कतमः ।
षट् स्पर्शकायाः । चक्षुः संस्पर्शः । श्रोत्रघ्राणजिह्वाकायमनः सं स्पर्शः ।
निद्स 16.10 स्पर्शप्रत्यया वेदनेति वेदना कतमा ।
तिस्रो वेदनाः । सुखा वेदना दुःखा अदुःखासुखा च ।
निद्स 16.11 वेदनाप्रत्यया तृष्णेति तृष्णा कतमा ।
तिस्रस् तृष्णाः । कामतृष्णा रूपतृष्णा आरूप्यतृष्णा ।
निद्स 16.12 तृष्णाप्रत्ययम् उपादानम् इति उपादानं कतरत् ।
चत्वार्य् उपादानानि । कामोपादानं दृष्ट्युपादानं शीलव्रतोपादानम् आत्मोपादानं च ।
निद्स 16.13 उपादानप्रत्ययो भव इति भवः कतमः ।
त्रयो भवाः । कामभवो रूपभव आरूप्यभवः ।
निद्स 16.14 भवप्रत्यया जातिर् इति जातिः कतमा ।
या तेषां तेषां सत्वानां तस्मिन् तस्मिन् सत्वनिकाये जातिः सञ्जातिर् अवक्रान्तिर् अभिनिर्वृत्तिः प्रादुर्भावः स्कन्धप्रतिलाभो धातुप्रतिलाभ आयतनप्रतिलाभो जीवितेन्द्रियस्य प्रादुर्भावः । इयम् उच्यते जातिः ।
निद्स 16.15 जातिप्रत्ययं जरामरणम् इति जरा कतमा ।
यत् तत् खालित्यं पालित्यं वलिप्रचुरता जीर्णता भग्नता कुब्जगोपानसीवङ्कता खुरुखुरुप्रश्वासकायता पुरतः प्राग्भारकायता दण्डविष्टंभनता तिलकाडरचितगात्रता धन्धत्वं हानिः परिहाणिर् इन्द्रियाणां परिपाकः परिभेदः संस्काराणां पुराणीभावो जर्जरीभावः । इयम् उच्यते जरा ।
निद्स 16.16 मरणं कतरत् । यत् तेषां तेषां सत्वानां तस्मात् तस्मात् सत्वनिकायाच् च्युतिश् च्यवनं भेदो ऽन्तर्हाणिर् आयुषो हानिर् उष्मणो हानिर् जीवितस्य निरोधः स्कन्धानां निक्षेपणं मरणं कालक्रिया । इदम् उच्यते मरणम् ।
इतीदञ् च मरणम् । पूर्विका च जरा । तद् उभयं जरामरणम् इत्य् उच्यते ।
निद्स 16.17 अयम् उच्यते प्रतीत्यसमुत्पादविभङ्गः ।
निद्स 16.18 प्रतीत्यसमुत्पादस्य वो आदिञ् च देशयिष्ये विभङ्गञ् च इति मे यद् उक्तम् इदं तत् प्रत्युक्तम् ॥
सूत्र 17: भिक्षु (म्öन्छ्)
निद्स 17.1 अन्यतरो भिक्षुर् येन भगवांस् तेनोपज गाम । उप् ए त्य भगवत्पादौ शिरसा वन्दित्वैकान्ते ऽस्थात् । एकान्तस्थितः स भिक्षुर् भगवन्तम् इदम् अवोचत् ।
निद्स 17.2 किन् नु भगवता प्रतीत्यसमुत्पादः कृत अहो स्विद् अन्यैः ।
निद्स 17.3 न भ् इ क्ष् ओ मया प्रतीत्यसमुत्पादः कृतो नाप्य् अन्यैः ।
निद्स 17.4 अपि तूत्पादाद् वा तथागतानाम् अनुत्पादाद् वा स्थिता एवेयं धर्मता धर्मस्थितये धातुः ।
तं तथागतः स्वयम् अभिज्ञायाभिसंबुद्ध्याख्याति प्रज्ञपयति प्रस्थापयति विभजति विवरत्य् उत्तानीकरोति देशयति संप्रकाशयति ।
निद्स 17.5 यदुतास्मिन् सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते ।
यदुताविद्याप्रत्ययाः संस्कारा यावत् समुदयो निरोधश् च भवति ॥
सूत्र 18: ब्राह्मण
निद्स 18.1 अन्यतरो ब्राह्मणो येन भगवांस् तेनोपजगाम । उपेत्य भगवता सार्धं सम्मोदनीं संरञ्जनी ं कथा ं विविधां उपसंहृत्यैकान्ते न्यषीदत् । एकान्तनिषण्णः स ब्राह्मणो भगवन्तम् इदम् अवोचत् ।
निद्स 18.2 किन् नु भो गौतम स करोति स प्रतिसंवेदयति ।
अव्याकृतम् इदं ब्राह्मण मया स करोति स प्रतिसंवेदयति ।
निद्स 18.3 किन् नु भो गौतम अन्यः करोत्य् अन्यः प्रतिसंवेदयति ।
एतद् अपि ब्राह्मण अव्याकृतं मया अन्यः करोत्य् अन्यः प्रतिसंवेदयति ।
निद्स 18.4 किन् नु भो गौतम स करोति स प्र तिसंवेदयतीति पृष्टो अव्याकृतम् इति वदसि । अन्यः करोत्य् अन्यः प्रतिसंवेदयतीति पृष्टो अव्याकृतम् इति वदसि ।
को नु भो गौतम अस्य भाषितस्यार्थो द्रष्टव्यः ।
निद्स 18.5 स करोति स प्रतिसंवेदयतीति ब्राह्मण शाश्वतत्वे परैति ।
अन्यः करोत्य् अन्यः प्रतिसंवेदयतीत्य् उच्छेदे परैति ।
निद्स 18.6 इत्य् एताव् उभाव् अन्ताव् अन् उ पगम्य मध्यमया प्रति प दा तथागत् ओ धर्मं देशयति ।
निद्स 18.7 यदुतास्मिन् सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते ।

यदुताविद्याप्रत्ययाः संस्कारा इति यावत् समुदयो नि रो धश् च भवति ।
सूत्र 19: कात्यायनः
निद्स 19.1 भगवान् नादिकायां विहरति गुञ्जकावसथे ।
निद्स 19.2 अथायुष्मान् सन्धाकात्यायनो येन भगवांस् तेनोपजगाम । उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते ऽस्थात् ।
एकान्तस्थित आयुष्मान् सन्धाकात्यायनो भगवन्तम् इदम् अवोचत् ।
निद्स 19.3 सम्यग्दृष्टिः सम्यग्दृष्टिर् इति भदन्त उच्यते । कियता सम्यग्दृष्टिर् भवति । कियता तथागतः सम्यग्दृष्तिं प्रज्ञपयमानः प्रज्ञपयति ।
निद्स 19.4 एवम् उक्तो भगवान् आयुष्मन्तं सन्धाकात्यायनम् इदम् अवोचत् ।
निद्स 19.5अ द्वयं निश्रितो ऽयं कात्यायन लोको यद् भूयसास्तिताञ् च निश्रितो नास्तिताञ् च ।
उपध्युपादानविनिबद्धो ऽयं कात्यायन लोको यद् उतास्तिताञ् च निश्रितो नास्तिताञ् च ।
एतानि चेद् उपध्युपादानानि चेतसो ऽधिष्ठानाभिनिवेशानुशयान् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशत्य् आत्मा मेति ।
निद्स 19.5ब् दुःखम् इदम् उत्पद्यमानम् उत्पद्यते । दुःखं निरुध्यमानं निरुध्यते ।
अत्र चेन् न काङ्क्षति न विचिकित्सति । अपरप्रत्ययं ज्ञानम् एवास्य भवति ।
निद्स 19.6 इयता कात्यायन सम्यग्दृष्टिर् भवति । इयता तथागतः सम्यग्दृष्टिं प्रज्ञपय्मानः प्रज्ञपयति ।
निद्स 19.7 तत् कस्माद् धेतोः । लोकसमुदयं कात्यायन यथाभूतं सम्यक्प्रज्ञया पश्यतो या लोके नास्तिता सा न भवति । लो क निरोधं यथाभूतं सम्यक्प्रज्ञया पश्यतो या लोके ऽस्तिता सा न भवति ।
निद्स 19.8 इत्य् एताव् उभाव् अन्ताव् अनुपगम्य मध्यमया प्रतिपदा तथागतो धर्मं देशयति ।
निद्स 19.9 यद् उतास्मिन् सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते । यद् उताविद्याप्रत्ययाः संस्कारा इति पूर्ववद् यावत् समुदयो निरोधश् च भवति ।
निद्स 19.10 अस्मिन् खलु धर्मपर्याये भाष्यमाण आयुष्मतः सन्धाकात्या य नस्यानुपादायास्रवेभ्यश् च् इ त्तं विमुक्तम् ।
सूत्र 20: अचेल (नच्क्त्ग्äन्गेर्)
निद्स 20.1 भगवान् राजगृहे विहरति गृध्रकूटे पर्वते ।
निद्स 20.2 अथ भगवान् पूर्वाह्णे निवस्य पात्रचीवरम् आदाय गृध्रकूटपर्वताद् अवतीर्णो राजगृहं पिण्डाय प्राविशत् ।
निद्स 20.3 तेन खलु समयेनाचेलका श्य पो राजगृहं गोचराय प्रसृतो ऽभूत् केनचिद् एव करणीयेन । अद्राक्षीद् अचेलकाश्यपो भगवन्तं दूरत एव । दृष्ट्वा च पुनर् येन भग वां स् तेनोपजगाम । उपेत्य भग व न् तम् इदम् अवोचत् ।
निद्स 20.4 पृच्छाम भो गौतम कञ्चिद् एव प्रदेशम् । सचेद् अवकाशं कुर्यात् प्रश्नस्य व्याकरणाय ।
निद्स 20.5 अकालस् तावत् तव काश्यप प्रश्नस्य व्य् आ करणाय । राजग् ऋ हं ताव त् पिण्डाय चरितव्यम् । बहिर् आरामं गच्छ । तत्र ते कालो भविष्यति प्रश्नस्य व्याकरणाय ।
निद्स 20.6 द्विर् अप्य् एवम् एव व् आ च्यम् ।
निद्स 20.7 त्रिर् अप्य् अचेलकाश्यपो भगव न् तम् इदम् अवोचत् ।
स्याद् भो गौतमास्माकं वान्तरायो भवति गौतमस्यान्यथात्वम् । इहैव वयं भवन्तं गौतमं पृच्छामः । सचेद् अवकाशं क् उ र्या ः प्रश्नस्य व्याकरणाय ।
निद्स 20.8 पृच्छ काश्यप यद् यद् एवाकाङ्क्षसे ।
निद्स 20.9अ किन् नु भो गौतम स्वयंकृतं दुःखम् ।
अव्याकृतम् इदं मया काश्यप स्वयंकृतं दुःखम् ।
निद्स 20.9ब् किन् नु भो गौतम परकृतं दुःखम् ।
एतद् अपि काश्यप अव्याकृतं मया परकृतं दुःखम् ।
निद्स 20.9च् किन् नु भो गौतम स्वयंकृतञ् च परकृतञ् च दुःखम् ।
एतद् अपि काश्यप अव्याकृतं मया स्वयंकृतञ् च परकृतञ् च दुःखम् ।
निद्स 20.9द् किन् नु भो गौतम अस्वयंकारपरकारहेतुसमुत्पन्नं दुःखम् ।
एतद् अपि काश्यप अव्याकृतं मया अस्वयंकारपरकारहेतुसमुत्पन्नं दुःखम् ।
निद्स 20.10 क् इ न् नु भो गौतम स्वयंकृतं दुःखम् इति पृष्टो ऽव्याकृतम् इति वदसि
परकृतं स्वयंकृतञ् च परकृतञ् च अस्वयंकारपरकारहेतुसमुत्पन्नं दुःखम् इति पृष्टो ऽव्याकृतम् इति वदसि ।
किन् नु भो गौतम नास्त्य् एव दुःखम् ।
निद्स 20.11 न काश्यप नास्त्य् एव दुःखम् इति त्व् अस्त्य् एव दुःखम् ।
निद्स 20.12 साधु मे भवान् गौतमस् तथा धर्मं देशयतु यथाहं दुःखं जानेयं दुःखं पश्येयम् ।

निद्स 20.13अ सा एव काश्यप वेदना स वेत्तीति यस्यैवं स्यात् स्वयंकृतं दुःखम्
एवम् अहं न वदामि ।
निद्स 20.13ब् अन्या वेदना अन्यो वेत्तीति यस्यैवं स्यात् परकृतं दुःखम्
एवम् अहं न वदामि ।
निद्स 20.13च् वेदनाभिभूतस्यैवा सतः परे दुःखं समवदधतीति यस्यैवं स्यात् स्वयंकृतञ् च परकृतञ् च दुःखम्
एवम् अप्य् अहं न वदामि ।
निद्स 20.13द् दसत्सु च प्रत्ययेषु दुःखा नि स न्त् ई ति य स्यैवं स्याद् अस्वयंकारपरकारहेतुसमुत्पन्नं दुःखम्
एवम् अहं न वदामि ।
निद्स 20.14 इत्य् एताव् उभाव् अन्ताव् अनुपगम्य मध्यमया प्रतिपदा तथागतो धर्मं द् ए शय ति ।
य द् उतास्मिन् सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते पूर्ववद् यावत् समुदयो निरोधश् च भवति ।
निद्स 20.15 अस्मिन् खलु धर्मपर्याये भाष्यमाणे ऽचेलकाश्यपस्य विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम् ।
निद्स 20.16 अथाचेलकाश्यपो दृष्टधर्मा प्राप्तधर्मा विदितधर्मा पर्यवगाढधर्मा तीर्णकाङ्क्षस् तीर्णविचिकित्सो ऽपर प्र त्ययो ऽनन्यनेयः शास्तुः शासने धर्मेषु वैशारद्यप्राप्तो येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत् ।
निद्स 20.17 अभिक्क्रान्तो ऽहं भदन्त अभिक्क्रान्तः । एषो ऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च । उपासाकं च मां धारयाद्याग्रेण यावज्जीवं प्राणोपेतं शरणगतम् अभिप्रसन्नम् ।
निद्स 20.18 अथाचेलकाश्यपो भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवत्पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः ।
निद्स 20.19 अथाचेलकाश्यपो ऽचिरप्रक्रान्तो भगवतो ऽन्तिकाद् गवा तरुणवत्सया जीविताद् व्यपरोपितः । तस्य मरणसमये वि प्रस न्नानीन्द्रियाणि परिशुद्धो मुखवर्णः पर्यवदातस् त्वग्वर्णः ।
निद्स 20.20 अथ संबहुला भिक्षवः पूर्वाह्णे निवस्य पात्रच् ई वर म् आदाय राजगृहं पिण्डाय प्राविशन् । अश्रौषुः संबहुला भिक्षवो राजगृहं पिण्डाय चरन्तः । यो ऽसाव् अचेलकाश्यपो भगवन्तं राज गृहे प्रश्नं पृष्टवान् सो ऽचिरप्रक्रान्तो भग व तो ऽन्ति का द् गवा तरुणवत्सया जीविताद् व्यपरोपितः । तस्य मरणसमये वि प्र सन्नानीन्द्रियाणि परिशुद्धो मुखवर्णः पर्यवदातस् त्वग्वर्णः ।
निद्स 20.21 श्रुत्वा च पुना राजगृहं पिण्डाय चरित्वा कृ त भ क् तकृत्याः पश्चाद्भक्तपिण्डपातं प्रतिक्रान्ताः । पात्रचीवरं प्रतिशम्य पादौ प्रक्षाल्य येन भगवांस् तेनोपजग्मुः । उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदन् । एकान्तनिषण्णाः संबहुला भिक्षवो भगवन्तम् इदम् अवोचन् ।
निद्स 20.22 इह वयं भदन्त संबहुला भिक्षवः पूर्वाह्णे निवस्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविशाम । अश्रौष्म वयं संब हु ला भिक्षवो राजगृहं पिण्डा य चरन्तः पूर्ववद् यावत् पर्यवदातस् त्व ग्व र्णः ।
तस्य भदन्त का गतिः कोपपत्तिः को ऽभिसंपरायः ।
निद्स 20.23 द्रव्यजातीयः स भिक्षवः कुलपुत्रः । प्रत्यभिज्ञासीच् च मे धर्मेष्व् अनुधर्मम् । न च म् ए विहेठितवान् धर्माधिकारिकी ं कथां व् य् आक् ऋता ं स कुलपुत्रः । कुरुत तस्य शरीरे शरीरपूजाम् इति ।
निद्स 20.24 तत्र भगवान् अचेलकाश्यपं प रमं व्याकरणम् अकार्षीत् ॥
सूत्र 21: तिम्बुरुक
निद्स 21.1 एतद् एव सूत्रं ति म्बुरु कपरिव्राजकम् ।
निद्स 21.2 सुखदुःख ं पृच्छतीति विशेषणम् ।
सूत्र 22: भूमिक
निद्स 22.1 भग व् आन् राजगृहे विहरति वेणुवने कलन्दकनिवापे ।
निद्स 22.2 तेन खलु समयेनायुष्मान् भूमिको राजगृहे विहरति गृध्रकूटे पर्वते ।
निद्स 22.3 अथ स ं बहुला अन्यतीर्थिकपरिव्राजका येनायुष्मान् भूमिकस् तेनोपजग्मुः । उपेत्यायुष्मता भूम् इ केन सार्धं संमुखं संमोदनीं संरञ्जनीं कथां विविधाम् उपसंहृत्यैकान्ते न्यष् ई द न् । ए क् आन्तनिसण्णाः संबहुला अन्यतीर्थिकपरिव्राजका आयुष्मन्तं भूमिकम् इदम् अवोचन् ।
निद्स 22.4 पृच्छाम भो भूमिक कञ्चिद् एव प्रदेशम् । सचेद् अवकाशं कुर्याः प्रश्नस्य व्याकरणा य ।
निद्स 22.5 पृच्छ त भवन्तः । श्रुत्वा ते वेदयिष्यामि ।
निद्स 22.6अ किन् नु भो भूमिक स्वयंकृतं सुख दुःख म् ।
अव्याकृतम् इद ं भद न् त भग व ता स्वयंकृतं सुखदुःखम् ।
निद्स 22.6ब् किन् नु भो भूमिक परक् ऋ तं स्वयंकृतञ् च परकृतञ् च अस् वयंकारपरकारहेतुसमुत्पन्नं सुखदुःखम् ।
एतद् अपि भदन्त अव्याकृतं भगवता परकृतं स्वयंकृतञ् च परकृतञ् च अस्वयंकारपरकारहेतुसमुत्पन्नं सु खदुःख म् ।
निद्स 22.7 किन् नु भो भूमिक स्वयंकृतं सुखदुःखम् इति पृष्टो ऽव्याकृतम् इति वदसि ।
परकृतं स्वयंकृतञ् च परकृतञ् च अस्वयंकारपरकारहेतुसमुत्पन्नं सुखदु ःखम् इति पृष्टो ऽव्याकृतम् इति वदसि ।
कथं समुत्पन्नं भ ग वता गौतमेन सुखदुःखं प्रज्ञप्तम् ।
निद्स 22.8 प्रतीत्यसमुत्पन्नं भव न् तो भगवता सुखदुःखं प्रज्ञप्तम् ।
निद्स 22.9 अथ स ं ब हु ला अन्यतीर्थिकपरिव्राजका आयुष्मतो भूमिकस्य भाषितं नाभिनन्दन्ति न प्रतिक्रोशन्ति । अनभिनन्द्याप्रक्रोशाश् चोत्थायासनात् प्रक्रान्ताः ।
निद्स 22.10 तेन खलु समयेनायुष्माञ् छारिपुत्र आयुष्मतो भूमिकस् य ना त् इ दूर् ए न् इ षण्ण् ओ ऽभूद् अन्यतरं वृक्षमूलं निश्रित्य ।

निद्स 22.11 अथाय् उ ष्मान् भूमिको ऽचिरप्रक्रान्तान् संबहुलान् अन्यतीर्थिकपरिव्राजकान् विदित्वा येनायुष्माञ् छारिपुत्रस् तेन् ओप ज गाम । उपे त्य यावद् एवास्याभूत् स ं बहुलैर् अन्यती र्थिकप र् इ व्राजकैः सार्धम् अन्तराकथासमुदाहारस् तत् सर्वम् आयुष्मतः शार् इपु त् र् अस्य विस्तरेणारोचयति । एवं चाह ।
निद्स 22.12 कश्चिद् अहम् एवम् आयुष्मञ् छारिपुत्र व्याकुर्वाणो नो च भगवन्तम् अभ्याचक्षे । नातिसरामि । उक्तवादी चाहं भगवतो धर्मवादी च । धर्मस्य चानुधर् मं व्याकरोमि । न च मे कश्चिद् आगच्छेत् परतः सहधर्मेण वादानुवादं गर्हस्थानीयो धर्मः ।
निद्स 22.13 तत्थ्यं त्वम् आयुष्मन् भूमीक व्याकुर्वाणो नो च भगवन्तम् अभ्याख्यासी ः । ना त् इस रसि । उक्तवादी च त्वं भगवतो धर्मवादी च । धर्मस्य चानुधर्मं व्याकरोषि । न च ते कश्चिद् आगच्छेत् परतः सहधर्मेण वादानुवादं गर्हस्थानीयो धर्मः ।
निद्स 22.14 तत् कस्माद् धेतोः । प्रतीत्यसमु त्पन्न म् आयुष्मन् भूमिक भगवता सुखदुःखं प्रज्ञप्तम् ।
निद्स 22.15अ तत्रायुष्मन् भूमिक ये ते श्रमणब्राह्मणाः स्वयंकृतं सुखदुःखं प्रज्ञपयन्ति तद् अपि प्रतीत्यसमुत्पन्नम् । तद् ब त प्र तीत्यसमुत्पन्नं भविष्यति । नेदं स्था न ं विद्यते ।
निद्स 22.15ब् परकृतं
स्वयंकृतञ् च परकृतञ् च अस्वयंकारपरकारहेतुसमुत्पन्नं सुखदुःखं प्रज्ञपयन्ति त द् अ पि प्रतीत्य समुत्पन्नम् । त द् बत प्रतीत्यसमुत्पन्नं भविष्येति । नेदं स्थानं विद्यते ।
निद्स 22.16अ तत्रायुष्मन् भ् ऊमिक ये ते श्रमणब्राह्मणाः स्वयंकृतं सुखदुःखं प्रज्ञपयन्ति तद् अपि स्प र् शप्रत्ययम् । तद् बत अ न्यत्रस्पर्शात् प्रतिसंवेदयिष्यन् त् इ । न् ए द ं स्थानं विद्यते ।
निद्स 22.16ब् पर कृतं
स्वयंकृतञ् च परकृ तञ् च अस्वय ं कारपरकारहेतुसमुत्पन्नं सुखदुःखं प्रज्ञापयन्ति तद् अपि स्पर्श प्रत् य् अयम् । त द् बत अन्यत्रस्पर्शात् प् र ति संवेदयि ष्यन् ति । नेदं स्थानं वि द्य ते ।
निद्स 22.17 त् ए न खलु समयेनायुष्मान् आनन्द आयुष्मतः शारिपुत्रस्य नातिदूरे निषण्णो ऽभूद् अन्यतरं वृक्षमूलं निश्रि त् य ।
निद्स 22.18 अ थाय् उ ष् म् आन् आनन्दो यावद् एवाभ् ऊद् आयु ष्मतो भूमिकस्यायुष्मता शारिपुत्रेण सार्धम् अन्तराकथासमुदाहारस् तत् सर्वम् उद्गृह्य पर्यवाप्य येन भगवांस् तेनोपजगाम । उपे त्य भगवत्पा दौ शिरसा वन्दि त्व् ऐ क् आन् ते ऽस्थात् । एकान्तस्थित आयु ष्मा न् आनन्दो या वद् एवाभूद् आयुष्मतो भूमिकस्यायुष्मता शारिपुत्रेणा सार्धम् अन्तराकथासमुदाहारस् तत् स र्वं भगवतो वि स्तरेणा र् ओ च यति ।
निद्स 22.19 ए वम् उ क्तो भगवान् आयुष्मन्तम् आ नन् दम् इदम् अ व् ओ चत् । साधु साध्व् आनन्द पण्डितः शारिपुत्रो भिक्षुः । कालगतेन प्रश्नः सम्यक्प्रज्ञया पृष्टेन व्याकृतः । इच्छ् आमि क् अ श् च श्रा व कः क् आ ल ग ते न प् र् अश् न् अं पृष्टो व्याकुर्या त् तद्यथा शारिपुत्र् ए ण भ् इ क्षुणा व्याकृतः ।
निद्स 22.20 एको ऽयं समयः । राजगृहे विहरामि गिरिव्रजे ।
तत्र ममान्यतीर्थिकाः परिव्राज का एतद् ए वार्थम् एभिः पदैर् एभ् इ र् व्य ञ्जनैः प्रश्नं पृष्टवन्तः । तेषां मया एष एवार्थो एभिः पदैर् एभिर् व्यञ्जनैः प्रश्नः पृष्टेन व्याकृतस् तद्यथा शारिपुत्रेण भिक्षुणा ।
निद्स 22.21 त त् र् अ ये केचिच् छ्रमण ब्र् आ ह्मणाः स्वयंकृतं सुखदुःखं प्रज्ञपयन्ति तान् अहम् उपसंक्रमामि । उपसंक्रम् य् ऐवं वदामि ।
सत्यं किल भवन्तः स्वयंकृतं सुखदुःखं प् रज्ञपयन्ति । ते मय् आ पृष्टा एवम् इति प्रति जानन्ति । तान् अ हम् ए वं वदामि ।
अस्त्य् एतद् भदन्त एवम् उच्यते । यत् पुनर् अ त् र् अ भ वन्तः स्थामशः परामृश्याभिनिविश्यानुव्यवहरन्ति । इदम् एव सत्यं मोहम् अन्यत् । इदम् अत्रा हं नानुजाना मि ।
निद्स 22.22 तत् कस्माद् धेतोः । अन्यथास म् उत्पन्नं मया भवन्तः सुखदुःखं प्रज्ञप्तम् ।
ते मम पृच्छ न् त् इ । कथं समुत्पन्नं भगवता गौतमेन सुखदुःखम् प्रज्ञप्तम् । तान् अहम् ए वं व दामि । प्रतीत्यसमु त्पन्नं मया सुखदुःअं प्रज्ञप्तम् ।
निद्स 22.23 एवं परकृतं स्वयंकृतञ् च परकृतञ् च
अस्वयंकारप रक् आरहेतुसमुत्पन्नं सुखदुखं प्रज्ञपयन्ति तान् अहम् उपसंक्रमामि पूर्ववद् यावत् ।
निद्स 22.24 यथा खल्व् अहं भदन्त भगवतो भाषितस्यार्थम् आजानामि जात्यां सत्यां जरामरणं भवति । न् आ न्यत्रजातिप्रत्ययं जरामरणम् । यावद् अविद्यायां सत्यां संस्कारा भवन् ति । नान्यत्राविद्याप्रत्ययाः संस्काराः ।
निद्स 22.25 एवं निरोधो वाच्यः ।
निद्स 22.26 एतद् एव भगवान् आयुष्मत आनन्दस्य प्रत्याचारयति ।
सूत्र 23: दृष्टिसम्पन्न (देर् रेछ्तेन् अन्सिछ्त् तेइल्हfत्)
निद्स 23.1 राजगृहे निदानम् ।
निद्स 23.2 तेन खलु समयेना यु ष्माञ् छारिपुत्र आयुष्मांश् च महाकोष्ठिलो राजगृहे विहरतो गृध्रकूटे पर्वते ।
निद्स 23.3 अथायुष्मान् महाकोष्ठिलः सायाह्ने प्रतिसंलयनाद् व्युत्थाय येनायुष्माञ् छारिपुत्रस् तेनोपजगाम । उपेत्यायुष्मता शारिपुत्रेण सार्धं संमुखं सम्मोदनीं संरंजनीं कथां विविधाम् उपसंहृत्यैकान्ते न्यषीदत् । एकान्तनिषण्ण आयुष्मान् महाकोष्ठिल आयुष्मन्तं शारिपुत्रम् इदम् अवोचत् ।
निद्स 23.4 पृच्छाम आयुष्मञ् छारिपुत्र कञ्चिद् एव प्रदेशम् । सचे द् अ वका श ं कुर्याः प्रश्नस्य व्याकरणाय ।
निद्स 23.5 पृच्छा यु ष्मन् महा क् ओ स्ठ् इल । श्रुत्वा ते वेदयिष्यामि ।
निद्स 23.6 कियतायुष्मञ् छारिपुत्र आर्यश्रावको ऽस्मिन् धर्मविनये दृष्टिसंपन्नश् च भवति । ऋज्व् य् आ च दृष्ट्या समन्वागतो भवति । बुद्धे चा व् एत्यप्रसादेन समन्वागतो भवति । आगत इमं सद्धर्मम् उपगत इमं सद्धर्मम् अवैति सद्धर्मम् इत्य् उच्यते ।
निद्स 23.7अ यतश् चायं महाकोष्ठिल आर्यश्रावको ऽकुशलं यथाभूतं प्रजानाति । अकुशलमूलं यथाभूतं प्रजानाति । कुशलं यथाभूतं प्रजानाति । कुशलमूलं यथाभूतं प्रजानाति ।
निद्स 23.7ब् किम् अकुशलं यथाभूतं प्रजानाति । अकुशलं कायकर्म वाक्कर्म मनःकर्म । इदम् अकुशलम् । एवम् अकुशलं यथाभूतं प्रजानाति ।
निद्स 23.7च् किम् अकुशलमूलं यथाभूतं प्रजानाति । त्रीण्य् अकुशलमूलानि । लोभो ऽकुशलमूलम् । द्वेषो मोहो ऽकुशलमूलम् । इदम् अकुशल मूलम् । एवम् अकुशलमूलं यथाभूतं प्रजानाति ।
निद्स 23.7द् कुशलं काय क र्म वाक्कर्म मनःकर्म । इदं कुशलम् । एवं कुशलं यथाभूतं प्रजानाति ।
निद्स 23.7ए किं कुशलमूलं यथाभूतं प्रजानाति । त्रीणि कु शलमूलानि । अलोभः कुशलमूलम् । अद्वेषो ऽमोहः कुशलमूलम् । इदं कु श लमूलम् । ए वं कुशलमूलं यथाभूतं प्रजानाति ।
निद्स 23.7f यतश् चायुष्मन् महाकोष्ठिल आर्याश्रावक एवम् अकुशलं यथाभूतं प्रजानाति । अकुशलमूलं यथाभ् ऊ तं प्रजा नाति । कुशल ं यथाभूतं प्रजानाति । कुशलमूलं यथाभूतं प्रजानाति ।

निद्स 23.7ग् इयतार्यश्राव को ऽ स्मिन् ध र् मव् इ नये दृष्टिसंपन्नश् च भवति । ऋज्व्या च दृष्ट्या समन्वागतो भवत् इ । बुद्धे चावेत् य् अ प्र सादेन सम न्वा गतो भवति । आगत इमं सद्धर्मम् उपगत इमं स द्धर्मम् अवैति स द्ध र्मम् इत्य् उच्यते ।
निद्स 23.8 किन् न्व् आयुष्मञ् छारिपुत्र एष एव पर्यायः । अहो स्विद् अ न् यो ऽपि । स्याद् आयुष्मन् महाकोष्ठिल अ न्यो ऽपि ।

निद्स 23.9अ यतश् चार्यश्रावक आहारान् यथाभूतं प्रजानाति । आहारसमुदयम् आहारनिरोधम् आहारनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति ।
निद्स 23.9ब् किम् आहारान् यथा भूतं प्रजानाति । चत्वार आहाराः । कबडिंकार आहार औ द् आ र् इकः सूक्ष्मश् च । स्पर्शो द्वितीयः । मनःस ञ् चेतना तृतीयः । विज्ञानं चतुर्थः । इम आहाराः । एवम् आ हारान् यथाभू तं प्रजानाति ।
निद्स 23.9च् किम् आहारसमुदयं यथाभूतं प्रजान् आति । तृष्णा प् औ न र्भविकी नन्दिरागसहगता तत्रतत्राभिनन्दिनी । अयम् आहारसमुदयः । एव म् आहारस मुदयं यथाभूतं प्र ज् आनाति ।
निद्स 23.9द् क् इम् आ हारनिरोधं यथाभ् ऊतं प्र जा नाति । यद् अस्या एव तृष्णायाः पौनर्भविक्या नन्दिरागसहगतायास् तत्रतत्राभिनन्दि न्या यद् अशेषं प् राहाणं प्रतिनिःसर्गो व्यन्तिभावः क्षयो विरागो निरोधो व्युपश मो ऽस्तंगमः । अयम् आहारनिरोधः । एवम् आहारनिरोधं यथाभूतं प्रजानाति ।
निद्स 23.9ए किम् आहारनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति । यदुतार्या ष् टाङ्गो मार्गः । तद्यथा सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाक् सम् य क्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः । एष मार्गः । इय म् आहा र निरोधगामिनी प्रतिपत् । एवम् आहारनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति ।
निद्स 23.9f य तश् चार्यश्रावक एवम् आहारान् यथाभूतं प्रजानाति । आह् आरसमुद यम् आहारनिरोधम् आहा रनिरोधगामिनी ं प्रतिपदं यथाभूतं प्रजानाति ।
निद्स 23.9ग् इयतार्यश्रावको ऽस्मिन् धर्म वि नये दृष्टिसम्पन्नश् च भवति पूर्ववत् ।
निद्स 23.10 किन् न्व् आयुष्मञ् छारिपुत्र एष एव पर्यायः । अहो स्विद् अ न्योऽपि ।
स्याद् आयुष्मन् महाकोष्ठिल अन्योऽपि ।
निद्स 23.11अ यतश् चार्यश्रावक आस्रवान् यथाभूत ं प्रजानाति । आस्रवसमुदयम् आस्रवनिरोधम् आस्रव न् इ रोधगामिनीं प्रतिपदं य थाभूतं प्रजानाति ।
निद्स 23.11ब् किम् आस्रवान् यथाभूतं प्रजानाति । त्रय आस्रवाः । कामास्रवो भवास्र वो ऽ विद्यास्रवः । इम आस्रवाः । एवम् आस्रवान् यथाभूतं प्रज् आनाति ।
निद्स 23.11च् क् इम् आस् र् अव समुदयं यथाभूतं प्रजानाति । अविद्यासमुदयाद् आस्रवसमुदयः । अयम् आस्रवसमु द यः । एवम् आस्रवसमुदयं यथाभूतं प्रजानाति ।
निद्स 23.11द् किम् आस्रव नि रोधं यथाभूतं प्रजानाति । अविद्यानिरोधाद् आस्र व निरोधः । एवम् आस्रवनिरोधं यथाभूतं प्रजा ना ति ।
निद्स 23.11ए किम् आस्रवन् इ रोधगामिनी ं प्रतिपदं यथाभूत ं प्रजानाति । आर्याष्टाङ्गो मार्गः पूर्व व त् ।
निद्स 23.11f यतश् चार्यश्रावक एवम् आस्रवान् यथाभूतं प्रजानाति । आस्रवसमुदयम् आस्रवनिरोधम् आस्र व निरोध गा मिनी ं प्रतिपदं यथाभूतं प्रजानाति ।
निद्स 23.11ग् इयतार्यश्रावको ऽस्मिन् धर्मविनये दृष्टिसम्पन्नश् च भवति पूर्ववत् ।
निद्स 23.12 किन् न्व् आ यु ष्मञ् छारिपु त्र एष एव पर्यायः । अहो स्विद् अन्योऽपि । स्याद् आयुष्मन् महाकोष्ठिल अन्योऽपि ।
निद्स 23.13अ यतश् चार्यश्रावको दुःखं यथा भू तं प्रजानाति । दुःखसमुदयं दुःखनिरोधं दुःख निरो धगामि नीं प्र तिपदं यथाभूतं प्रजानाति ।
निद्स 23.13ब् किं दुःखं यथाभूतं प्रजानाति । जातिर् दुः खम् । जरा दुःखम् । व्याधिर् दुःखम् । मर णं दुःखम् । प्रियविप्रयोगो दुःखम् । अप्रियस ंप्र योगो दुः खम् । यद् अपीच्छते पर्येषमाणो न लभते तद् अपि दु ः ख म् । संक्षिप्तेन पञ्चोपादानस्कन्धा दुःखम् । इदं दुःख म् । एवं द् उ ः खं यथाभूतं प्रजानाति ।
निद्स 23.13च् किं दुःखसमुदयं य थाभूतं प्रज् आ नाति । तृष्णा पौनर्भविकी पूर्ववत् । अयं द् उ ःखसमुदयः । एवं दुःखसमु द यं यथाभूतं प्रजानाति ।
निद्स 23.13द् किं दु ः खनिरोधं यथाभूतं प्रजानाति । यद् अस्या ए व तृष्णायाः पौनर्भविक्याः पूर्ववत् । अयं दुःखनिरोधः । एवं दुःखन् इ रोधं यथाभूतं प्रजानाति ।
निद्स 23.13ए किं दुःखनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति । आर्या ष्ट् आ ङ्ग् ओ म् आर्गः पूर्ववत् । इय ं दुःखनिरोधगामिनी प्रतिपत् । एवं दुःखनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति ।
निद्स 23.13f
निद्स 23.13ग् इयतार्यश्रावको ऽस्मिन् धर्मविनये दृष्टिसम्पन्नश् च भव ति पूर्ववत् ।
निद्स 23.14 किन् न्व् आयुष्मञ् छारिपुत्र एष एव पर्यायः । अहो स्विद् अन्यो ऽपि । स् य् आ द् आ युष्मन् महाकोष्ठिल अन्यो ऽपि ।
निद्स 23.15अ यतश् चार्यश्रावको जरामरणं य था भूतं प्रजानाति । जरामरण समु दयं जरामरणनिरोधं जरामरणनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति ।
निद्स 23.15ब् किं जरामरणं यथाभूतं प् र् अज् आ नाति । पूर्ववद् यथा आ द् इ सूत्रे ।
निद्स 23.15च् किं जरामर ण स मु दयं यथाभूतं प्रजानाति । जाति स मु द याज् जरामरणसमुद यः ।
निद्स 23.15द् एवं जातिनिरोधाज् जरामरणनिरोधः ।
निद्स 23.15ए आर्याष्टाङ्गो म् आर्गः पू र्ववत् ।
निद्स 23.15f यतश् चार्यश्रावक एव ं जरामरणं यथाभूतं प्रजानाति । जरामरणसमुदयं जरामरणनिरोधं जराम रण निरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति ।
निद्स 23.15ग् इय ता र्यश्रावको ऽस्मिन् धर्मविनये दृष्टिसम्पन्नश् च भवति पूर्ववत् ।
निद्स 23.16 एवं जातिर् भव उपादानं तृ ष् णा व् ए दना स्पर्शः षदाय त नं नामरूपं विज्ञानं संस्काराः ।
निद्स 23.17अ यतश् चार्यश्रावकः संस्कारान् यथा भूतं प्रजाना ति । स ंस्का रसमुदयं संस्कारनिरोधं संस्कारनिरोधगामिनीं प्रतिपदं य थाभूतं प्रजानाति ।
निद्स 23.17ब् क् इं संस्कारान् यथाभूतं प्रजानाति । त्रयः संस्काराः । कायसंस्कारो वाक्सं स्कारो मनःसंस्कारः ।
निद्स 23.17च् किं संस् कारस मुदयं यथाभूतं प्रजानाति । अविद्यायाः स मुद यात् संस्कारसमुदयः । अयं संस्कारसमु द यः । एवं संस्कारसमुदयं यथाभूतं प्रजानाति ।
निद्स 23.17द् किं संस्कारनिरोधं यथाभूतं प्रजानाति । अविद्याया निरोधात् संस्कारनिरोधः । अ य ं संस्कारनिरोधः ।
निद्स 23.17ए किं संस्कारनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति । आर्याष्टाङ्गो मा र्गः पूर्ववत् ।
निद्स 23.17f यतश् चायुष् म् अन् महाकोष्ठिल आर्यश्रावक एवं संस्कार् आन् यथाभूतं प्रजानाति संस् कारसमुदयं संस्कार नि रोधं संस्कारनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति ।
निद्स 23.17ग् इयता र्यश्रावको ऽ स्म् इ न् धर्मविनये दृष्टिस ं प न्नश् च भवति । ऋज् व्य् आ च दृष्ट् य् आ समन्वाग तो भवति । बुद्धे चावेत्यप्रसादेन समन्वागतो भवति । आगत इमं सद्धर्मम् उपगत इमं सद्धर्मम् अवैत् इ सद्धर्मम् इत् य् उ च्यते ।

निद्स 23.18 क् इ न् न्व् आ य् उ ष्मञ् छारिपुत्र ए ष एव पर्या यः । अहो स्विद् अन्यो ऽपि ।
निद्स 23.19 अति सर स्य् अतिसरस्य् आयुष् म् अन् महाको ष्ठिल । न शक्ष्यसे प्रश्नान् आपर्यन्तम् उद्गृहीतुं यतश् च् अ र्य श् र् आवक स्याविद्या वि र क्ता भवति विद्योत्पन्ना ।
निद्स 23.20 अथ कि न् न् व् अ स्योत्तरे कर णीय म् इति तौ सत्पुरुषाव् अन्योन्य भा षितम् अभिनन् द् यान् उम् ओद्य उत्था यासनात् प्रक्रान्तौ ।।
सूत्र 24: भूतम् इदम्
निद्स 24.1 तत्र भगवान् आयुष्मन्तं शारि प् उ त् र म् आमन् त्रयति ।
निद्स 24.2अ उक्तम् इदं शारिपु त्र मया परायणेष्व् अजितप्रश्नेष् उ ।
ये च सङ्ख्यातधर्माणि
ये च शैक्षा ः पृथग्व् इ ध् आः ।
तेषा ं मे निपकस्येर्यां
पृष्टः प्रब्रूहि मारिष ॥ ॥
निद्स 24.2ब् के शारिपुत्र शैक्षाः के च सङ् ख्यातधर्माणि ।
निद्स 24.3 एवम् उक्त आयुष्मा ञ् छारिपुत्रस् तूष्णी ।
निद्स 24.4 द्विर् अपि त्रिर् अपि भगवान् आयुष्मन्तं शार् इ पु त् रम् इदम् अवोचत् ।
निद्स 24.5 उक्तम् इदं शारिपुत्र म या परायणेस्व् अजितप्र श्न् ए ष् उ ।
ये च सङ्ख्यातधर्माः पूर्ववत् ।
निद्स 24.6 द्विर् अपि त्रिर् अप्य् आयु ष्माञ् छारिपु त्रस् तूष्णीम् अभूत् ।
निद्स 24.7 तत्र भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयति ।
निद्स 24.8 भूतम् इदं शारि पुत्र ।
निद्स 24.9 एवम् एतद् भू त ं भदन्त । भूत स्य भदन् त भिक्षुर् निर्विदे विरागाय निरोधाय प्र तिपन्नो भ वति ।
निद्स 24.10 तदाहारसंभवः । तदाहारसंभवस्य भिक्ष् उ र् निर्विदे व् इरागाय निरोधाय प्रतिपन्नो भवति ।
निद्स 24.11 त दाहारनि रोध इति । य द् भ् ऊत ं तन् निरोधधर्मम् इति विदित्वा निरोधधर्मस्य भिक्षुर् निर्वि दे विर् आगाय निरोधाय प्रतिपन्नो भवति ।
निद्स 24.12 इम् अ उ च्यन्ते शै क्षाः ।
निद्स 24.13 भूतम् इदं शारिपु त्र ।
निद्स 24.14 एवम् एतद् भूतं भदन्त । भूतस्य भदन्त भिक्ष् उ र् निर्विदे विर् आ गाय निरोधायानुपादायास्रवेभ्यः सम्यक्सु विमु क्तचित्तो भव ति ।
निद्स 24.15 तदाहारसंभवः । तदाहारसंभवस्य भिक् षु र् निर्विदे विरागाय निरोधायानु पादायास्रवेभ् यः स म् यक्सु विमुक्तचित्तो भवति ।
निद्स 24.16 तदा हा रनिरोध इति । यद् भूतं तन् निरोधधर्मम् इ ति विदित्वा निरोधधर्मस्य भिक्षुर् निर्विदे विरा गा य निरोधायानुपादायास्रवेभ्यः स म्यक्सुविमुक्तचि त्तो भवति ।
निद्स 24.17 इम उच्यन्ते स ङ् ख्यातधर्माणः ।
निद्स 24.18 एवम् एतच् च्छारिपुत्र भूतम् । ए वम् ए तच् च्छारिपुत्र भूतस्य भिक्षुर् निर्विदे विर् आ गाय पूर्ववद् याव त् सङ्ख् य् आतधर्माणः ।
निद्स 24.19 अथ भ गवान् उत्थायासना द् वि हारं प्राविशत् प्रतिसंलयनाय ।
निद्स 24.20 अथायु ष्माञ् छारिपुत्रो ऽचिरप्रक्रान्तं भगवन्तं विद् इ त्वा भिक्षून् आमन्त्रयति ।
निद्स 24.21 अप्र तिसंविदितं माम् आयुष्मन् तो भ गवान् ए त ं प्रथ म् अं प्रश्नं पृष्टवा न् । तस्य मे ऽ भ् ऊद् अपू र्वं धन्धा यितत्वम् ।
निद्स 24.22 यतश् च मे भगवांस् तत् प्र थ मं प्रश्नव्याकरणम् अभ्यनुमोदितवान् तस्य मे ए तद् अभवत् ।
निद्स 24.23 सचेत् केवलिकां रात्रिं भगव् आ न् ए तम् एवार्थम् अन्यैः पदैर् अन्यै र् व्य ञ् जनैः प्रश्न ं पृ च्छेत् केवलिकाम् अप्य् अहं रात्रिं भगव् अत एत म् एवार्थम् अन्यैः पदैर् अन्यैर् व्यञ्जनैः प्र श्नं पृ ष् ट् ओ व्याकुर्याम् ।
निद्स 24.24 सचेद् एकम् दिवसम् । एकं र् आत्रिदिवसम् । सप्तापि रात्रिदिवसानि भगवान् माम् एतम् एवार्थम् अन्यैः पद् ऐर् अन्यैर् व्यञ् जनैः प्र् अ श्न ं पृच्छेत् । सप्ताप्य् अहं रात्रिदिवसानि भगवत ए तम् एवार्थम् अन्यैः पदैर् अन्यैर् व्यञ्जनैः प्रश्नं पृष्टो व्याकुर्याम् ।
निद्स 24.25 अथान्यतरो भिक्षुर् येन भगवांस् त् एनोपजगाम् अ । उपे त्य भगवत् पादौ शिरसा वन्दित्वैकान्ते ऽस्थात् । एकान्तस्थितः स भिक्षुर् भ गवन्तम् इदम् अवोचत् ।
निद्स 24.26 आयु ष्मता भदन्त शारिपुत्रे ण उदारार्षही वा ग् भा ष् इ तैकांश उ द्गृहीतः परि षदि सम्यक्सिंहनादो नादितः ।
निद्स 24.27 अप्रतिसंविदि तं माम् आयुष्मन्तो भग वान् एतं पूर्ववत् ।
निद्स 24.28 सचेत् केवलिकाम् अप्य् अहं र् आत्रिम् आयुष्मन्तं शारिपुत्र म् एतम् एवार्थम् अन्यैः पद् ऐ र् अन्यैर् व्यञ्ज नैः प्रश्नं पृच्छेयं यावत् सप्तापि रात्रिदिवसानि शारिपुत्र एतम् एवार्थम् अन्य् ऐ ः पदैर् अन्यैर् व्य ञ्जनैः प्रश्नं पृष्टो व्याकुर्यात् ।
निद्स 24.29 तथा हि शारिपुत्रस्य भि क्ष् ओ र् धर्मधातु ः सुप्रतिविद्धः ।
सूत्र 25: अभव्य (उन्fäहिग्)

निद्स 25.1 मगधेषु निदानम् ।
निद्स 25.2 त् र य इमे भिक्षवो धर्म् आः संविद्यन्ते अनिष्टा अकान्ता अमना पा ल् ओ क स्य । कतमे त्रयः । तद्यथा व्याधिर् जरा मरणम् ।
इमे चेत् त्रयो धर्मा अनिष्टा अक् आन्ता अमनापा लोकस्य नाभ विष् य् अन् तथागता अर्हन्तः सम्यक्संबुद्धा लोके न उत्पत्स्य न्ते + + + + सु प्रवेदितस्य ध र्मविनयस्य प्रकाशनाय ।
निद्स 25.3 यस्मात् तु व्याधिर् जरा मरणम् इमे त्रयो धर्मा अनिष्टा अकान्ता अमनापा लोकस्य भवन्ति तस्मा त् तथ् आगता अर्हन् तः सम्यक्संबुद्धा लो के उत्पद्यन्ते सुप्रवेदितस्य धर्मविनयस्य प्रकासनाय ।
निद्स 25.4 त्रीन् धर्मान् अप्रहाय अभव्यो व्याधिं जरां मरणं प्रहातुम् । कत मां स् त्र् ईन् ।
तद्यथा रा गद्वेषमोहम् । इमांस् त्रीन् धर्मान् अप्रहाय अभव्योव्याधिं जरां मरणं प्रहातुम् ।
निद्स 25.5 त्रीन् धर्मान् अप्रहाय अभव्यो रागद्वेषमोहं प्रहातुम् । क तमांस् त्री न् ।
तद्य था सत्का यदृष्ट् इं शीलव्रतप् अ राम् अ र्शं विचिकित्सा म् । इमांस् त् री न् धर्मान् अप्रहाय अभव्यो रागद्वेषमोहं प्रहातुम् ।
निद्स 25.6 त्रीन् धर्मान् अप्रहाय अभव्यो सत्कायदृष्टिं शीलव्रतपराम र्शं विचिकित्सां च प् र् अहा त् उ म् । कतमांस् त्रीन् ।
अयोनिश् ओ मन स् इ कारं कुमार्गसेवनां लीनचित्ततां च । इमांस् त्रीन् धर्मान् अप्रहाय अभव्यो सत्कायदृष्टिं शिलव्रतपरामर्शं विचिकि त्स् आं च प्रहातुम् ।
निद्स 25.7 त्री न् धर्मान् अप्रहा य अभ् अव्यो अ यो निशो म् अनसि कार ं कुमार्गसेवनां लीचचित्ततां च प्रहातुम् । कतमांस् त्रीन् ।
मुष्टस्मृतिताम् असंप्रजन्यं विक्षेपं च । इमांस् त्रीन् धर्मा नप्रहाय अभव्य् ओ अयोनिशो म नसि कारं कुमार् ग् असेव ना ं लीनचित्त तां च प्रहातुम् ।
निद्स 25.8 त्रीन् धर्मान् अप्रहाय अभव्यो मुष्टस्मृतिताम् असंप्रजन्यं विक्षेपं च प्रहातुम् । कतमां स् त्री न् ।
औद्धत्यम् असं वरं दुःशीलं च । इमांस् त्रीन् ध र्मान् अप्रहाय अभव्यो मुष्टस्मृतित् आ म् अ संप्र जन्यं विक्षेपं च प्रहातुम् ।
निद्स 25.9 त्रीन् धर्मान् अप्रहाय अभव्यो औद्धत्यम् असंवरं दुःशीलं च प्रहातुम् । कतमांस् त्री न् ।
आश्र् अ द्ध्यम् अवदान्यतां कौसीद्य म् । इमांस् त्री न् धर्मान् अप्रहाय अभव्यो औद्धत्यम् असं वरं दुःशीलं च प्रहातुम् ।
निद्स 25.10 त्रीन् धर्मान् अप्रहाय अभव्यो आश्रद्ध्यम् अवदान्यतां कौसीद्यं प्रहातुम् । कतमांस् त्रीन् ।
आर्या णाम् अदर्शन् अकामताम् आर्यस्य धर्मस्य अश्रव णकाम ताम् उ पालंभचित्ततां च । इमांस् त्री न् ध र् मान् अ प् र् अहाय अभव्यो आश्रद्ध्यम् अवदान्यतां कौसीद्यं प्रहातुम् ।
निद्स 25.11 त्रीन् धर्मान् अप्रहाय अभव्यो आर्याणाम् अदर्शनकामताम् आर्यस्य धर्मस्य अश्र वण् अकामताम् उ पालंभचित्ततां च प्रहातुम् । क तमांस् त्रीन् ।
अनादर्यं दौर्वचस्यं पापमित्रतां च । इमांस् त्रीन् धर्मान् अप्रहाय अभव्यो आर्याणाम् अदर्शनकामताम् आर्य स्य धर्मस्य अ श् र् अ व णकामताम् उपालंभचित्ततां च प्रहातुम् ।
निद्स 25.12 त्रीन् धर्मान् अप्रहाय अभव्यो अनादर्यं दौर्वचस्यं पाप म् इ त्रत् आं च प्रहातुम् । कतमांस् त्रीन् ।
आह्री क्यम् अनप त्राप्यं प्रमाद म् । इमांस् त्री न् ध र्मा न् अप्रहाय अभव्यो अनादर्यं दौर्वचस्यं पापमित्रतां च प्रहातुम् ।
निद्स 25.13 तत् कस्माद् धेत् ओः ।
अह्रीमा न् अनपत्रापी प्रम त्तो भवति । स प्रमत्तः सन्न् अनादरो भ् अ व् अति । स अनादरः समानः पापमित्रो भवति । स पापमित्रः समानः + + + + + + + + + + .ओ भवत्य् उ पालंभचित्तो भवति । स उपालंभचित्तः समानो ऽ श्र द्धो भ वति । सो ऽश्रद्धः समानो + + + भवति । स + + + + समानः + + + + + + + + + + दुःशीलो भवति । स औद्धत्य काम ः । स मुष्टस्मृति ताम् अ संप् रज न्यं व् इ क्षेपं + + + + + + + + + + + + + लीनचित्तो भवति । स लीनचित्तः समानो विचिकित्सां सत्कायदृष्टिं च निविशति । शी ल व्रतं पर् आ मृशत् इ । अतीर्णक् आङ्क् ष् अः समानः सरागद्वेषमोहो भवति । अवीतरागद्वेषमोहो अभव्यो व्याधिम् जरां मरणम् अप क्रामितुम् ।
निद्स 25.14 त्रींस् तु धर्म् आ न् प्रहाय भव्यो व्याधिं ज रां म रणं प्र हातुम् । कतमांस् त्रीन् ।
रागद्वेषमोहान् । इमांस् त्रीन् धर्मान् प्रहाय भव्यो व्याधिं जरां मरणं प्रहातुम् ।
निद्स 25.15 त्रींस् तु धर्मान् प्रहाय भव्यो रागद्वेष मोहान् प्रहातुम् । कत् अमां स् त्र् ई न् ।
स त्कायदृष्टि ं शीलव्रतपराम र् शं विचिक् इत्सा म् । इमांस् त्रीन् धर्मान् प्रहाय भव्योरागद्वेषमोहान् प्रहातुम् ।
निद्स 25.16 त्रींस् तु धर्मान् प्रहाय भव्यः सत्कायदृष्टिं शीलव्रतपरा मर्शं विचिकित्स् आं च प्रहातुम् । कतमांस् त्रीन् ।
अयोनि शो मनसिकार ं कु मार्गसेवनां लीनचित्ततां च । इमांस् त्रीन् धर्मान् प्रहाय भव्यः सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां च प्र हातुम् ।
निद्स 25.17 त्री ं स् त् उ धर्मान् प्रहाय भव्यो अयोनिशो म नसिकारं कुमा र् ग् असेवनां लीनचित्ततां च प्रहातुम् । कतमांस् त्रीन् ।
मुष्टस्मृतिताम् असंप्रजन्यं विक्षेपं च । इमांस् त्रीन् धर्मान् प्रहाय भव्यो अयोनिशो मनसि कार ं कुमा र्गसेवनां ल् ई न् अ चित्ततां च प् र् अहातुम् ।

मूल पाठ: Nidānasaṃyukta · Edition: C. Tripāṭhī: Fünfundzwanzig Sūtras des Nidānasaṃyukta. Berlin 1962 (Sanskrittexte aus den Turfanfunden, VIII). · Data entry Seishi Karashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc