नवश्लोकी · भाग 11
नवश्लोकी
आर्याष्टसाहश्रिकायाः प्रज्ञापारमितायाः पिण्डार्थः
प्रज्ञापारमिताम्बोधौ शुभरत्नाकरे स्वयम् ।
सर्वा पारमितास् तत्र तादात्म्येन व्यवस्थिताः ॥ न्श्_1 ॥
निष्प्रपञ्चा निराभासा निर्विकल्पा निरालया ।
निःस्वभावा परा सूक्ष्मा बिन्दुनादविवर्जिता ॥ न्श्_2 ॥
प्रज्ञापारमिता माता सर्वबुद्धोदया परा ।
त्रयानुपलब्धिरूपा सर्वज्ञज्ञानगोचरा ॥ न्श्_3 ॥
प्रज्ञापारमितां संयग् यो भावयितुम् इच्छति ।
तेनार्थतो नवश्लोकाश् चिन्तनीयाः समासतः ॥ न्श्_4 ॥
कर्मप्रभावसंभूतं षडायतनलक्षणम् ।
पुनर्भवम् इति ख्यातं प्रतिभासोपमं हि तत् ॥ न्श्_5_[1] ॥
निर्मितं नगरं यद्वद् विलोकयति निर्मितः ।
तद्वत् पश्यति रूपाणि कर्मभिर् नि र्मि तं जगत् ॥ न्श्_6_[2] ॥
धर्मं देशयतः शब्दा ये केचित् श्रुतिगोचराः ।
प्रतिश्रुत्कोपमाः सर्वे प्रोद्भूतश्रुतिनः श्रुताः ॥ न्श्_7_[3] ॥
आघ्रतं स्वादितं तथा स्प्रष्टं विषयलालासैः ।
स्वप्नतुल्यम् इदं सर्वम् उपलब्धं न विद्यते ॥ न्श्_8_[4] ॥
मायायन्त्रो नरो यद्वद् भिन्नां चेष्टां करोति वै ।
तद्वद् चेष्टां करोत्य् एव देहयन्त्रो निरात्मकः ॥ न्श्_9_[5] ॥
नानोपलब्धयो याश् च प्रतिक्षणसमुद्भवाः ।
मरीचिसदृशाश् चैते दृष्टनष्टाः विलक्षणाः ॥ न्श्_10_[6] ॥
प्रतिबिम्बनिभं ग्राह्यम् अनादिचित्तसंभवम् ।
तदाकारं च विज्ञानम् अन्योन्यप्रतिबिम्बवत् ॥ न्श्_11_[7] ॥
ध्यायिना ं स्वच्छसंताने यज् ज्ननेन्दुसमुद्भवम् ।
उदकचन्द्रोपमं तद् धि प्रत्यक्षं न विद्यते ॥ न्श्_12_[8] ॥
योगिनाम् अपि यज् ज्ञानं तद् अप्य् आकाशलक्षणम् ।
तस्माज् ज्ञानं च ज्ञेयं च सर्वम् आकाशलक्षणम् ॥ न्श्_13_[9] ॥
इति चिन्तयतः तत्त्वं सर्वभावेष्व् अनाश्रितम् ।
बोधिप्रणिधिचित्तेन ज्ञानं अग्रं भविष्यति ॥ न्श्_14 ॥
आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः पिण्डार्थः समाप्तः
कृतिर् इयं श्रीकम् ब् अलाम्बरपादनाम्
मूल पाठ: Navaślokī · Edition: G. Tucci. Minor Buddhist Texts, part I. Roma 1956 (Serie Orientale Roma, 9), pp. 216-217. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0