भाषा

ENहिગુ
ग्रंथ पाठ

नर्मदाष्टकम् · अध्याय 1

1

श्रीमदाद्य-शंकराचार्य-विरचित-नर्मदाष्टकम् ।
सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं
द्विषत्सुपापजातजातकारिवारिसंयुतम्।
कृतान्तदूतकालभूतभीतिहारिवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे

2

त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं
कलौमलौघभारहारिसर्वतीर्थनायकम्।
सुमच्छकच्छनक्रचक्रचक्रवाकशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे

3

महागभीरनीरपूरपापधूतभूतलं
नमत्समस्तपातकारिदारितापदाचलम्।
जगल्लये महाभये मृकण्डुसूनुहर्म्यदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे

4

गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा
मृकण्डुसूनुशौनकासुरारिसेविसर्वदा।
पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे

5

अलक्षलक्षकिन्नरामरासुरादिपूजितं
सुलक्षनीरतीरधीरपक्षिलक्षकूजितम्।
वसिष्ठशिष्टपिप्पलादकर्दमादिशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे

6

सनत्कुमारनाचिकेतकश्यपात्रिषट्पदैः
धृतं स्वकीयमानसेषु नारदादिषट्पदैः।
रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे

7

अलक्षलक्षलक्षपापलक्षसारसायुधं
ततस्तु जीवजन्तुतन्तु भुक्तिमुक्तिदायकम्।
विरिञ्चिविष्णुशंकरस्वकीयधामवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे

8

अहोऽमृतं स्वनं श्रुतं महेशकेशजातटे
किरातसूतवाडबेषु पण्डिते शठे नटे।
दुरन्तपापतापहारिसर्वजन्तुशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे

9

इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा
पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा।
सुलभ्यदेहदुर्लभं महेशधामगौरवं
पुनर्भवा नरा न वै विलोकयन्ति रौरवम्

इति श्रीमद् आद्यशंकराचार्यविरचितं नर्मदाष्टकं सम्पूर्णम् ।नर्मदे हर । नर्मदे हर । नर्मदे हर ॥

मूल पाठ: narmadāṣṭakam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc