भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 9.35

9.35.1

नीतः सुग्रीवमैत्रीं तदनु दुन्दुभेः कायमुच्चैः
क्षिप्त्वाङ्गुष्ठेन भूयो लुलविथ युगपत् पत्रिणा सप्त सालान् ।
हत्वा सुग्रीवघातोद्यतमतुलबलं वालिनं व्याजवृत्त्या
वर्षावेलामनैषीर्विरहतरलैतस्त्वं मतङ्गाश्रमान्ते ॥

9.35.2

सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं ता-
मृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्राम् ।
सन्देशं चान्गुलीयं पवनसुतकरे प्रादिशो मोदशाली
मार्गे मार्गे ममार्गे कपिभिरपि तदी त्वत्प्रिया सप्रयासः ॥

9.35.3

त्वद्वार्ताकर्णनोद्यद्गरुदुरुजवसम्पातिसम्पातिवाक्य-
प्रोत्तीर्णार्णोधिरन्तर्नगरि जनकजां वीक्ष्य दत्त्वाङ्गुलीयम् ।
प्रक्षुद्योद्यानमक्षक्षपणचणरणः सोढबन्धो दशास्यं
दृष्ट्वा प्लुष्ट्वा च लङ्कां झटिति स हनुमान् मौलिरत्नं ददौ ते ॥

9.35.4

त्वं सुग्रीवाङ्गदादिप्रबलकपिचमूचक्रविक्रान्तभूमि-
चक्रोऽभिक्रम्य पारेजल्धि निशिचरेन्द्रानुजाश्रीयमाणः ।
तत्प्रोक्तां शत्रुवार्तां रहसि निशमयन् प्रार्थनापार्थ्यरोष-
प्रास्ताग्नेयास्त्रतेजस्त्रमदुदधिगिरा लब्धवान् मध्यमार्गम् ॥

9.35.5

कीशैराशान्तरोपाहृतगिरिनिकरैः सेतुमाधाप्य यातो
यातून्यामर्द्य दंष्ट्रानखशिखरिशिलासालशस्त्रैः स्वसैन्यैः ।
व्याकुर्वन् सनुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रा
वेगान्नागास्त्रबद्धः पतगपतिगरुन्मारुतैर्मोचितोऽभूः ॥

9.35.6

सौमित्रिस्त्वत्र शक्तिप्रहृतिगलदसुर्वातजानीतशैल-
घ्राणात् प्रणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादम् ।
मायाक्षोभेषु वैभीषणवचनहृतस्तम्भनः कुम्भकर्णं
सम्प्राप्तं कम्पितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वम् ॥

9.35.7

गृह्णन् जम्भारिसम्प्रेषितरथकवचौ रावणेनाभियुध्यन्
ब्रह्मास्त्रेणास्य भिन्दन् गलततिमबलामग्निशुद्धां प्रगृह्णन् ।
देव! श्रेणीवरोज्जीवितसमरमृतैरक्षतैरृक्षसङ्घैर्-
लङ्काभर्त्रा च साकं निजनगरमगाः सप्रियः पुष्पकेण ॥

9.35.8

प्रीतो दिव्याभिषेकैरयुतसमधिकान् वत्सरान् पर्यरंसीर्-
मैथिल्यां पापवाचा शिव शिव किल तां गर्भिणीमभ्यहासीः ।
शत्रुघ्नेनार्दयित्वा लवणनिशिचरं प्रार्दयः शूद्रपाशं
तावद् वाल्मीकिगेहे कृतवसतिरुपासूत सीत सुतौ ते ॥

9.35.9

वाल्मीकेस्त्वत्सुतोद्गापितमधुरकृतेराज्ञया यज्ञवाटे
सीतां त्वय्यासुकामे क्षितिमविशदसौ त्वं च कालार्थितोऽभूः ।
हेतोः सौमित्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यैः
साकं नाकं प्रयातो निजपदमगमो देव! वैकुण्ठमाद्यम् ॥

9.35.10

सोऽयं मर्त्यावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवं
विश्लेषार्तिर्निरागस्त्यजनमपि भवेत् कामधर्मातिसक्त्या ।
नो चेत् स्वात्मानुभूतेः क्वनु तव मनसो विक्रिया चक्रपाणे!
स त्वं सत्त्वैकमूर्ते! पवनपुरपते! व्याधुनु व्याधितापान् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc