भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 11.93

11.93.1

बन्धुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मा
सर्वं त्वक्त्वा चरेयं सकलमपि जगद् वीक्ष्य मायाविलासम् ।
नानात्वाद् भृआन्तिजन्यात् सति खलु गुणदोषावबोधे विधिर्वा
व्यासेधो वा कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धेः ॥

11.93.2

क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तघः सन्त्यनन्ता-
स्तेभ्यो विज्ञानवत्त्वात् पुरुष इह वरस्तज्जनिर्दुर्लभैव ।
तत्राप्यात्मात्मनः स्यात् सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेता-
स्तापोच्छित्तेरुपाथं स्मरति स हि सुहृत् स्वात्मवैरी ततोऽन्यः ॥

11.93.3

त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुर्लोकवृत्तेऽपि भूमन्!
सर्वाक्रान्तापि भूमिर्न हि चलति ततः सत्क्षमां शिक्षयेयम् ।
गृह्णीयामीश! तत्तद्विषयपरिचतेऽप्यप्रसक्तिं समीराद्
व्याप्तत्वं चात्मनो मे गगनगुरुवशाद् भातु निर्लेपता च ॥

11.93.4

स्वच्छः स्यां पावनोऽहं मधुर उदकवद् वह्निवन्मा स्म गृह्णां
सर्वान्नीनोऽपि दोषं तरुषु तमिव मां सर्वभूतेष्ववेयाम् ।
पुष्टिर्नष्टिः कलानांं शशिन इव तनोर्नात्मनोऽस्तीति विद्यां
तोयादिव्यस्तमार्तण्डवदपि च तनुष्वेकतां त्वत्प्रसादात् ॥

11.93.5

स्नेहाद् व्याधास्तपुत्रप्रणयमृतकपोतीयितो मा स्म भूवं
प्राप्तं प्राश्नन् सहेय क्षुधमपि शयुवत् सिन्धुवत् स्यामगाधः ।
मा पप्तं योषिदादौ शिखिनि शलभवद् भृङ्गवत् सारभागी
भूयासं किन्तु तद्वद् धनचयनवशान्माहमीश! प्रनेशम् ॥

11.93.6

मा बध्यासं तरुण्या गज इव वशया नार्जयेयं धनौघं
हर्तान्यस्तं हि माध्वीहर इव मृगवन्मा गुहं ग्राम्यगीतैः ।
नात्यासज्जेय भोज्ये झष इव बडिशे पिङ्गलावन्निराशः
सुप्यां भर्तव्ययोगात् कुरर इव विभो! सामिषोऽन्यैर्न हन्यै ॥

11.93.7

वर्तेय त्यक्तमानः सुखमतिशिशुवन्निस्सहायश्चरेयं
कन्याया एकशेषो वलय इव विभो! वर्जितान्योन्यघोषः ।
त्वच्चित्तो नावबुध्यै परमिषुकृदिव क्ष्माभृदायानघोषं
गेहेष्वन्यप्रणीतेष्वहिरिव निवसान्युन्दुरोर्मन्दिरेषु ॥

11.93.8

त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात् प्रतीयां
त्वच्चिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षेये पेशकारात् ।
विड्भस्मात्मा च देहि भवति गुरुवरो यो विवेकं विरक्तिं
धत्ते सञ्चिन्त्यमानो मम तु बहुरुजापीडितोऽयं विशेषात् ॥

11.93.9

ही ही मे देहमोहं त्यज पवनपुराधीश! यत्प्रेमहेतोर्-
गेहे चित्ते कलत्रादिषु च विवाशितास्त्वत्पदं विस्मरन्ति ।
सोऽयं वह्नेः शुनो वा परमिह परतः साम्प्रतः चाक्षिकर्ण-
त्वग्जिह्वाद्या विकर्षन्त्यवशमत इतः कोऽपि न त्वत्पदाब्जे ॥

11.93.10

दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान्
हृत्वा भक्तिं द्रधिष्ठां कुरु तव पदपङ्केरुहे पङ्कजाक्ष! ।
नूनः नानाभवान्ते समधिगतमिमं मुक्तिदं विप्रदेहं
क्षुद्रे हा हन्त मा मा क्षिप विषयरसे पाहि मां मारुतेश! ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc