भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 10.82

10.82.1

प्रद्युम्नो रौक्मिणेयः स खलु तव कला शम्बरेणाहृतस्तं
हत्वा रत्या सहाप्तो निजपूरमहरद् रुक्मिकन्यां च धन्याम् ।
तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद् रोचनां रुक्मिपौत्रीं
तत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् ॥

10.82.2

बाणस्य सा बलिसुतस्य सहस्रबाहोर्-
माहेश्वरस्य महिता दुहिता किलोषा ।
त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वं
स्वप्नेऽनुभूय भगवन्! विरहातुराभूत् ॥

10.82.3

योगिन्यतीव कुशला खलु चित्रलेखा
तस्याः सखी विलिखती तरुणानशेषान् ।
तत्रानिरुद्धमुष्या विदितं निशाया-
मानेष्ट योगबलतो भवतो निकेतात् ॥

10.82.4

कन्यापुरे दयितया सुखमारमन्तं
चैनं कथञ्चन बबन्धुषि शर्वबन्धौ ।
श्रीनारदोक्ततदुदन्तदुरन्तरोषैस्-
त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धाः ॥

10.82.5

पुरीपालः शैलप्रियदुहितृनाथोऽस्य भगवान्
समं भूतव्रातैर्यदुबलमशङ्कं निरुरुधे ।
महाप्राणो बाणो जटिति युयुधानेन युयुधे
गुहः प्रद्युम्नेन त्वमपि पुरहन्त्रा जघटिषे ॥

10.82.6

निरुद्धाशेषास्त्रे मुमुहुषि तवास्त्रेण गिरिशे
द्रुता भूता भीताः प्रमथकुलवीराः प्रमथिताः ।
परास्कन्दत् स्कन्दः कुसुमशरबाणैश्च सचिवः
स कुम्भाण्डो भाण्डं नवमिव बलेनाशु बिभिदे ॥

10.82.7

चापानां पञ्चशत्या प्रसभमुपगते छिन्नचापेऽथ बाणे
व्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण ।
ज्ञानी स्तुत्वाथ दत्त्वा तव चरितजुषां विज्वरं स ज्वरोऽगात्
प्रायोऽन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः ॥

10.82.8

बाणं नानायुधोग्रं पुनरभिपतितं दुर्पदोषाद् वितन्वन्
निर्लूनाशेषदोषं सपदि बुबुधुषा शङ्करेणोपगीतः ।
तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्प्रियं तं
मुक्त्वा तद्दत्तमानो निजपुरमगमः सानिरुद्धः सहोषः ॥

10.82.9

मुहुस्तावच्छक्रं वरुणमजयो नन्दहरणे
यमं बालानीतौ दवदहनपानेऽनिलसखम् ।
विधिं वत्सस्तेये गिरिशामिह बाणस्य समरे
विभो! विश्वोत्कर्षी तदयमवतारो जयति ते ॥

10.82.10

द्विजरुषा कृकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् ।
निजजने द्विजभक्तिमनुत्तमामुपदिशन् पवनेश्वर! पाहि माम् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc