भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 10.78

10.78.1

त्रिदिववर्धकिवर्धितकौशलं त्रिदश्दत्तसमस्तविभूतिमत् ।
जलधिमध्यगतः त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ॥

10.78.2

ददुषि रेवतभुभृति रेवतीं हलभृते तनयां विधिशासनात् ।
महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥

10.78.3

अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिणीं त्वयि देव! सहोदरः ।
स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ॥

10.78.4

चिरधृतप्रणया त्वयि बालिका सपदि काङ्क्षितभङ्गसमाकुला ।
तव निवेदयितुं द्विजमादिशत् स्वकदनं कदनङ्गविनिर्मितम् ॥

10.78.5

द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् ।
मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयम् ॥

10.78.6

स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी ।
त्वयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहम् ॥

10.78.7

तव हृतास्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना ।
अयि कृपालय! पालय मामिति प्रजगदे जगदेकपते! तया ॥

10.78.8

अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जाहाम्यहम् ।
इति गिरा सुतनोरतनोद् भृशं सुहृदयं हृदयं तव कातरम् ॥

10.78.9

अकथयस्त्वमथैनमये सखे! तदधिका मम मन्मथवेदना ।
नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥

10.78.10

प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिनमेयिवान् ।
गुरुमरुत्पुरनायक! मे भवान् वितनुतां तनुतां निखिलापदाम् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc