भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 10.71

10.71.1

यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबन्धुः ।
त्वं सिन्धुजावाप्य इतीव मत्वा संप्राप्तवान् सिन्धुजवाजिरूपः ॥

10.71.2

गन्धर्वतामेष गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः ।
भवद्विलोकावधि गोपवाटीं प्रमर्द्य पापः पुनरा पतत् त्वाम् ॥

10.71.3

तार्क्ष्यार्पिताङ्घ्रेस्तव तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादम् ।
भृगोः पदाघातकथं निशम्य स्वेनापि शक्यं तदितीव मोहात् ॥

10.71.4

प्रवञ्चयन्नस्य खुराञ्चलं द्रागमुं च विक्षेपिथ दूरदूरम् ।
संमूर्छितोऽपि हतिमूर्छितेन क्रोधोष्मणा खादितुमाद्रुतस्त्वाम् ॥

10.71.5

त्वं वाहदण्डे कृतधीश्च बाहादण्डं न्यधास्तस्य मुखे तदानीम् ।
तद्वृद्धिरुद्धश्वसनो गतासुः सप्तीभवन्नप्ययमैक्यमागात् ॥

10.71.6

आलम्भमात्रेण पशोः सुराणां प्रसादके नूत्न इवाश्वमेधे ।
कृते त्वया हर्षवशात् सुरेन्द्रास्त्वां तुष्टुषुः केशवनामधेयम् ॥

10.71.7

कंसाय ते शौरिसुतत्वमुक्त्वा तं तद्वधोत्कं प्रतिरुध्य वाचा ।
प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतोऽभूः ॥

10.71.8

कदापि गोपैः सह काननान्ते निलायनक्रीडनलोलुपं त्वाम् ।
मयात्मजः प्राप दुरन्तमायो व्योमाभिधो व्योमचरोपरोधी ॥

10.71.9

स चोरपालायितवल्लवेषु चोरायितो गोपशिशून् पशूंश्च ।
गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् ॥

10.71.10

एवंविधैश्चाद्भुतकेलिभेदैरानन्दमूर्छामतुलां व्रजस्य ।
पदे पदे नूतनयन्नसीमं परात्मरूपिन्! पवनेश!पायाः ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc