भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 10.53

10.53.1

अतीत्य बाल्यं जगतां पते! त्वमुपेत्य पौगण्डवयो मनोज्ञम् ।
उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् ॥

10.53.2

उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीष! तव प्रवृत्तिः ।
गोत्रापरित्राणकृतेऽवतीनस्तदेव देवारभथास्तदा यत् ॥ष्

10.53.3

कदापि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन् सुखेन ।
श्रीदामनाम्नः स्वसखस्य वाचा मोदादगा धेनुककाननं त्वम् ॥

10.53.4

उत्तालतालीनिवहे त्वदुक्त्या बलेन धूतेऽथ बलेन दोर्भ्याम् ।
मृदुः खरश्चाभ्यपतत् पुरस्तात् फलोत्करो धेनुकदानवोऽपि ॥

10.53.5

समुद्यतो धैनुकपालनेऽहं वधं कथं धैनुकमद्य कुर्वे ।
इतीव मत्वा ध्रुवमग्रजेन सुरौघरोद्धारमजीघतस्त्वम् ॥

10.53.6

तदीयभृत्यानपि जम्बुकत्वेनोपागतानग्रजसंयुतस्त्वम् ।
जम्बूफलानीव तदा निरास्थस्तालेषु खेलन् भगवन्! निरास्थः ॥

10.53.7

विनिघ्नति त्वय्यथ जम्बुकौघं सनामकत्वाद्वरुणस्तदानीम् ।
भयाकुलो जम्बुकनामधेयं श्रुतिप्रसिद्धं व्यधितेति मन्ये ॥

10.53.8

तवावतारस्य फलं मुरारे! सञ्जातमद्येति सुरैर्नुतस्त्वम् ।
सत्यं फलं जातमिहेति हासी बालैः समं तालफलान्यभुङ्क्थाः ॥

10.53.9

मधुद्रवस्रुन्ति बृहन्ति तानि फलानि मेदोभरभृन्ति भुक्त्वा ।
तृप्तैश्च दृप्तैर्भवनं फलौघं वहद्भिरागाः खलु बालकैस्त्वम् ॥

10.53.10

हतो हतो धेनुक इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकैः ।
जयेति जीवेति नुतो विभो! त्वं मरुत्पुराधीश्वर! पाहि रोगात् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc