नारदस्मृति · अध्याय v3
वणिक्प्रभृतयो यत्र कर्म संभूय कुर्वते ।
तत् संभूयसमुत्थानं व्यवहारपदं स्मृतम् ॥
फलहेतोर् उपायेन कर्म संभूय कुर्वताम् ।
आधारभूतः प्रक्षेपस् तेनोत्तिष्ठेयुर् अंशतः ॥
समो ऽतिरिक्तो हीनो वा यत्रांशो यस्य यादृशः ।
क्षयव्ययौ तथा वृद्धिस् तस्य तत्र तथाविधाः ॥
भाण्डपिण्डव्ययोद्धार भारसारान्ववेक्षणम् ।
कुर्युस् ते ऽव्यभिचारेण समये स्वे व्यवस्थिताः ॥
प्रमादान् नाशितं दाप्यः प्रतिषिद्धकृतं च यत् ।
असंदिष्टश् च यत् कुर्यात् सर्वैः संभूयकारिभिः ॥
दैवतस्करराजोत्थे व्यसने समुपस्थिते ।
यस् तत् स्वशक्त्या संरक्षेत् तस्यांशो दशमः स्मृतः ॥
एकस्य चेत् स्याद् व्यसनं दायादो ऽस्य तद् आप्नुयात् ।
अन्यो वासति दायादे शक्ताश् चेत् सर्व एव वा ॥
ऋत्विजां व्यसने ऽप्य् एवम् अन्यस् तत् कर्म निस्तरेत् ।
लभेत दक्षिणाभागं स तस्मात् संप्रकल्पितम् ॥
ऋत्विग् याज्यम् अदुष्टं यस् त्यजेद् अनपकारिणम् ।
अदुष्टं व र्त्विजं याज्यो विनेयौ ताव् उभाव् अपि ॥
ऋत्विक् तु त्रिविधो दृष्टः पूर्वजुष्टः स्वयंकृतः ।
यदृच्छया च यः कुर्याद् आर्त्विज्यं प्रीतिपूर्वकम् ॥
क्रमागतेष्व् एष धर्मो वृतेष्व् ऋत्विक्षु च स्वयम् ।
यादृच्छिके तु संयाज्ये तत्त्यागे नास्ति किल्बिषम् ॥
शुल्कस्थानं वणिक् प्राप्तः शुल्कं दद्याद् यथोपगम् ।
न तद् व्यतिहरेद् राज्ञां बलिर् एष प्रकल्पितः ॥
शुल्कस्थानं परिहरन् न काले क्रयविक्रयी ।
मिथ्योक्त्वा च परीमाणं दाप्यो ऽष्टगुणम् अत्ययम् ॥
कश्चिच् चेत् संचरन् देशात् प्रेयाद् अभ्यागतो वणिक् ।
राजास्य भाण्डं तद् रक्षेत् यावद् दायाददर्शनम् ॥
दायादे ऽसति बन्धुभ्यो ज्ञातिभ्यो वा तद् अर्पयेत् ।
तदभावे सुगुप्तं तद् धारयेद् दशतीः समाः ॥
अस्वामिकम् अदायादं दशवर्षस्थितं ततः ।
राजा तद् आत्मसात् कुर्याद् एवं धर्मो न हीयते ॥
मूल पाठ: Nāradasmṛti · Edition: Richard W. Lariviere The Nāradasmṛti. Critically edited with an introduction, annotated translation, and appendices Philadelphia Dep. of South Asia Regional Studies University of Pennsylvania studies on South Asia 4-5 · Data entry Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0