नमस्कारैकविंशतिस्तोत्र · भाग 12
एकविंशतिस्तोत्र
नमस् तारे तुरे वीरे क्षणद्युतिनिभेक्षणे ।
त्रैलोक्यनाथवक्त्राब्जविकसत्केसरोद्भवे ॥ नेव्स्_1
नमस् शान्तसरच्चन्द्रसंपूर्णपटलानने ।
तारे सहस्रविकल्पप्रहसत्किरणोज्ज्वले ॥ नेव्स्_2
नमः कनकनीलाब्जपाणिपद्मविभूषिते ।
दानवीर्यतपःक्षान्तितितिक्षाध्यानगोचरे ॥ नेव्स्_3
नमस् तथागतोष्णीषविजयानन्तचारिणि ।
अशेषपारमिताप्राप्तजिनपुत्रनिषेविते ॥ नेव्स्_4
नमस् तुत्तारहूंकारपूरिताशादिगन्तरे ।
सप्तलोकक्रमाक्रान्ता अशेषाकर्षणक्षणे ॥ नेव्स्_5
नमः शक्रनरब्रह्ममरुद्विश्वेश्वरार्चिते ।
भूतवेतालगन्धर्वगणपुरस्कृते ॥ नेव्स्_6
नमस् त्रत्रित्रिफट्कारे परमन्त्रप्रमर्दनि ।
प्रत्यालीढपादन्यासे शिखिज्वालाकुलोज्ज्वले ॥ नेव्स्_7
नमस् तुरे महाघोरे मारवीरविनाशनि ।
भृकुटीकृतवक्त्राब्जसर्वदुष्टनिसूदनि ॥ नेव्स्_8
नमस् त्रिरत्नमुद्राङ्के हृद्याङ्गुलिविभूषिते ।
भूषिताशेषदिक्चक्रनिकरे सुकुलाकुले ॥ नेव्स्_9
नमः प्रमुदिताटोपमुकुटाक्षिप्तसारिणि ।
हसत्प्रहसत्तुत्तारे मारलोकभयंकरि ॥ नेव्स्_10
नमः समन्तभूपालापातालाकर्षणक्षणे ।
भृकुटिकृतहूंकारे सर्वापदविमोचनि ॥ नेव्स्_11
नमः शिखण्डखण्डेन्दुमुकुटाभरणोज्ज्वले ।
अमिताभतथाभारे भास्वरे किरणध्रुवे ॥ नेव्स्_12
नमः करतलाघातचरणाहतभूतले ।
भृकुटिकृतहूंकारसप्तपातालनाशिनि ॥ नेव्स्_13
नमः कल्पान्तहुतभुग्ज्वालामालान्तरे स्थिते ।
आलीढमुदिताबद्धरिपुचक्रविनाशिनि ॥ नेव्स्_14
नमः शिवे शुभे शान्ते शान्तनिर्वाणगोचरे ।
स्वाहा प्रणम्य संयुक्ते महापातकनाशिनि ॥ नेव्स्_15
नमः प्रमुदिताबद्धरिपुगात्रप्रभेदनि ।
दशाक्षरपादन्यासे विद्याहुंकारदीपिते ॥ नेव्स्_16
नमस् तुरे पादाघाते हुंकारकारजीविते ।
मेरुमण्डलकैलाशभूवनत्रयचारणि ॥ नेव्स्_17
नमः सुरासराकारहरिणीककरे स्थिते ।
हरद्विरुक्तफट्कार अशेषविशनाशिनि ॥ नेव्स्_18
नमः सुरगणयक्षासुरकिन्नरसेविते ।
आबद्धमुदिताभोगकरि दुःस्वप्ननाशिनि ॥ नेव्स्_19
नमश् चन्द्रार्कसंपूर्ण नयनद्युतिस्वभास्वरे ।
तार द्विरुक्तोत्तारे विषमज्वलनाशिनि ॥ नेव्स्_20
नमस् त्रितलविन्यासे शिवशक्तिसमन्विते ।
ग्रहवेतालयक्षाद्यनाशनि प्रवरे तुरे ॥ नेव्स्_21
मन्त्रमूलम् इदं स्तोत्रं नमस्कारैकविंशति ।
यः पठेत् प्रायशो धीमान् देव्या भक्तिसमन्वितः ॥ 1
सो ऽयं वा प्रातर् उत्थाय स्मरेत् सर्वाभयप्रदं ।
सर्वपापप्रशमनं सर्वदुर्गतिनाशनम् ॥ 2
अभिषिक्तोभय तूर्णं अस्मिन् महत्ताम् आसाद्य ।
विषं तस्य महाघोरं स्मरणात् प्रलयं यान्ति ॥ 3
ग्रहज्वलविषार्तानाम् अन्येषां चैव सत्वानाम् ।
पुत्रकामो लभेत् पुत्रं सर्वकामान् अवाप्नोति ॥ 4
सप्ताभिर् जिनकोटिभिः सो ऽन्ते बौद्धपदं व्रजेत् ।
स्थावरं वाथ जङ्गमं साड् इदं पीडम् एव च ॥ 5
परमार्तिविनाशनं द्वित्रिसप्ताभिवर्तिनाम् ।
धनकामो लभेद् धनं न विघ्नैः प्रतिहन्यते ॥ 6
इति श्रीसंयक्संबुद्धवैरोचनभाषितं भगवत्यार्यतारदेव्या नमस्कारैकविंशतिस्तोत्रं संपूर्णं समाप्तं ॥ शुभम् ॥
मूल पाठ: Namaskāraikaviṃśatistotra · Edition: Godefroy de Blonay: Matériaux pour servir à l'histoire de la déesse Tāra, · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0