नामलिङ्गानुशासन · अध्याय 1.8
अधोभुवनपातालं बलिसद्म रसातलम्
नागलोको ऽथ कुहरं सुषिरं विवरं बिलम्
छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा सुषिः
## होले इन् थे ग्रोउन्द् (2), दर्क्नेस्स् (5), चोम्प्लेते दर्क्नेस्स् (1), पर्तिअल् दर्क्नेस्स् (1) ##
गर्तावटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु
अन्धकारो ऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः
ध्वान्ते गाढे ऽन्धतमसं क्षीणे ऽवतमसं तमः
## उनिवेर्सल् दर्क्नेस्स् (1), स्नके (2), किन्ग् ओf स्नकेस् (2), अ त्य्पे ओf स्नके (2), प्य्थोन् ओर् लर्गे स्नके (3) ##
विष्वक्संतमसं नागाः काद्रवेयास्तदीश्वरे
शेषो ऽनन्तो वासुकिस्तु सर्पराजो ऽथ गोनसे
तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ
## wअतेर् स्नके (2), अ त्य्पे ओf नोन्पोइसोनोउस् स्नके (2), अ वरिएगतेद् स्नके (2), स्हेद्देद् स्नके (2) ##
अलगर्दो जलव्यालः समौ राजिलडुण्डुमौ
मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः
## स्नके ओर् सेर्पेन्त् (33) ##
सर्पः पृदाकुर्भुजगो भुजङ्गो ऽहिर्भुजङ्गमः
आशीविषो विषधरश्चक्री व्यालः सरीसृपः
कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी
दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः
उरगः पन्नगो भोगी जिह्मगः पवनाशनः
लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा
कुम्भीनसः फणधरो हरिर्भोगधरस्तथा
## बोद्य् ओf अ स्नके (1), fअन्ग् (2), पेर्तैनिन्ग् तो अ स्नके (1), होओद् ओf अ स्नके(2) ##
अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका
त्रिष्वाहेयं विषास्थ्यादि स्फटायां तु फणा द्वयोः
## स्नकेऽस् वेनोम् (3), लिस्त् ओf निने स्पेचिfइच् वेनोम्स् ##
समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम्
पुंसि क्लीबे च काकोलकालकूटहलाहलाः
सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः
दारदो वत्सनाभश्च विषभेदा अमी नव
## पोइसोन् एxपेर्त् (2), स्नके चत्छेर् (2) ##
विषवैद्यो जाङ्गुलिको व्यालग्राह्यहितुण्डिकः
नरकवर्गः}
## हेल्ल् (4), सिx स्पेचिfइच् हेल्ल्स् लिस्तेद्, (हेल्ल्-बोउन्द्) सोउल्स् (1), रिवेर् इन् हेल्ल् (1), मिसेर्य् (इन् हेल्ल्) (1) ##
मूल पाठ: Nāmaliṅgānuśāsana = Amarakośa · Data entry Avinash Sathaye · GRETIL (Göttingen) · CC BY-NC-SA 4.0