नामलिङ्गानुशासन · अध्याय 1.10
समुद्रो ऽब्धिरकूपारः पारावारः सरित्पतिः
उदन्वानुदधिः सिन्धुः सरस्वान्सागरो ऽर्णवः
रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः
तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे
## wअतेर् (27), wअतेर्य् (2) ##
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलं
पयः कीलालममृतं जीवनं भुवनं वनम्
कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्
अम्भोर्णस्तोयपानीयनीरक्षीरो ऽम्बुशम्बरम्
मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम्
## wअवे (4), बिग् wअवे (2), wहिर्ल्पोओल् (1), द्रोप्लेत् (4) ##
भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु
महत्सूल्लोलकल्लोलौ स्यादावर्तो ऽम्भसां भ्रमः
पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्
## चिर्चुलर् मोतिओन् इन् अ wअतेर् द्रैन् (4), बन्क् ओर् स्होरे (5) ##
चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः
कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु
## त्wओ बन्क्स् लिस्तेद्, थे छन्नेल् ओर् बेद् ओf अ रिवेर् (1) ##(1.10.532) पारावारे परार्वाची तीरे पात्रं तदन्तरम्
## इस्लन्द् (2), इस्लेत् इन् थे रिवेर् बन्क् (1), सन्द्य् बेअछ् (2) ##
द्वीपो ऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्
तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्
## मुद् ओर् च्लय् (5), ओवेर्fलोw (2), दित्छेस् (fओर् wअतेर्) मदे इन् द्र्य् बेद्स् (2) ##
निषद्वरस्तु जम्बालः पङ्को ऽस्त्री शादकर्दमौ
जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः
## नविगब्ले (1), बोअत् (3), रfत् ओर् स्मल्ल् बोअत् (3), स्त्रेअम् ओf wअतेर् (1) ##
नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः
उडुपं तु प्लवः कोलः स्रोतो ऽम्बुसरणं स्वतः
## तोल्ल् (fओर् च्रोस्सिन्ग् रिवेर्) (2), wओओदेन् wअतेर् चर्रिएर् (1), मेर्छन्त्स् ओन् wअतेर्wअय्स् (2), हेल्म्स्मन् (2) ##
आतरस्तरपण्यं स्याद् द्रोणी काष्टाम्बुवाहिनी
सांयात्रिकः पोतवणिक् कर्णधारस्तु नाविकः
## स्तेएर्स्मन् ओर् रोwएर् (2), मस्त् (2), ओअर् (2), रुद्देर् (2) ##
नियामकाः पोतवाहाः कूपको गुणवृक्षकः
नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः
## स्च्रपेर् ओर् स्होवेल् (2), बुच्केत् (2), हल्f ओf अ बोअत् (1), अलित् (1) ##
अभ्रिः स्त्री काष्टकुद्दालः सेकपात्रं तु सेचनम्
क्लीबे ऽर्धनावं नावो ऽर्धे ऽतीतनौके ऽतिनु त्रिषु
## च्लेअर् ओर् त्रन्स्परेन्त् (2), तुर्बिद् (3), देएप् (3), स्हल्लोw (1) ##
त्रिष्वागाधात्प्रसन्नो ऽच्छः कलुषो ऽनच्छ आविलः
निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये
## बोत्तोम्लेस्स् ओर् वेर्य् देएप् (2), fइस्हेर्मन् (3), (fइस्हिन्ग्) नेत् (2), (हेम्प्) रोपे (2) ##
अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ
आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम्
## fइस्ह् स्तोरगे (2), fइस्हिन्ग् (2), fइस्ह् (8), स्पेचिfइच् (fलत्) fइस्ह् (2) ##
मत्स्याधानी कुवेणी स्याद् बडिशं मत्स्यवेधनम्
पृथुरोमा झषो मत्स्यो मीनो वैसारिणो ऽण्डजः
विसारः शकुली चाथ गडकः शकुलार्भकः
## पोर्पोइसे (2), स्पेचिfइच् स्मल्ल् fइस्ह् (2), त्य्पे ओf चर्प् (2), त्य्पे ओf wहिते fइस्ह् (2) ##
सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ
नलमीनश्चिलिचिमः प्रोष्ठी तु शफरी द्वयोः
## तिन्य् fइस्ह् (1), लिस्त् ओf स्पेचिfइच् सेवेन् fइस्हेस्, अqउअतिच् च्रेअतुरेस् (2) ##
क्षुद्राण्डमत्स्यसंघातः पोताधानमथो झषाः
रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः
तिमिङ्गलादयश्चाथ यादांसि जलजन्तवः
## लिस्त् ओf fओउर् अqउअतिच् च्रेअतुरेस्, च्रब् (2), तुर्त्ले ओर् तोर्तोइसे (3) ##
तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः
स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ
## स्हर्क् (2), च्रोचोदिले (2), wओर्म् (3), च्रोचोदिले इन् गन्गेस् (2) ##
ग्राहो ऽवहारो नक्रस्तु कुम्भीरो ऽथ महीलता
गण्डूपदः किञ्चुलको निहाका गोधिका समे
## लेएछ् (3), पेअर्ल् ओय्स्तेर् (2), चोन्छ् (2) ##
रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः
मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ
## स्मल्ल् स्हेल्ल् (2), बिवल्वे स्हेल्ल् (2), fरोग् (6) ##
क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः
भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः
## स्मल्ल् wओर्म् (2), fएमले fरोग् (2), fएमले तुर्त्ले (2) ##
शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः
## fएमले स्हेअत् fइस्ह् (1), चोच्ले (2), लके ओर् पोन्द् (2), देएप् लके (1) ##
मद्गुरस्य प्रिया शृङ्गी दुर्नामा दीर्घकोशिका
जलाशया जलाधारास्तत्रागाधजलो ह्रदः
## त्रोउघ् नेअर् अ wएल्ल् (2), wएल्ल् (4) ##
आहावस्तु निपानं स्यादुपकूपजलाशये
पुंस्येवान्धुः प्रहिः कूप उदपान्ं तु पुंसि वा
## wओओदेन् चोन्त्रप्तिओन् fओर् एxत्रच्तिन्ग् wअतेर् fरोम् wएल्ल् (1), fअचिन्ग् ओf wएल्ल् ##
नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत्
## स्qउअरे ओर् लर्गे पोन्द् (2), नतुरल् पोन्द् (2) ##
पुष्करिण्यां तु खातं स्यादखातं देवखातकम्
## देएप् पोन्द् ओर् तन्क् (5), बसिन् (2), लर्गे चिर्चुलर् रेसेर्वोइर् (2) ##
पद्माकरस्तडागो ऽस्त्री कासारः सरसी सरः
वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका
## मोअत् ओर् दित्छ् (2), दिके ओर् दम् (1), wअतेरिन्ग् बसिन् अरोउन्द् अ त्रेए (3), रिवेर् (16) ##
खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम्
स्यादालवालमावालमावापो ऽथ नदी सरित्
तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी
स्रोतस्विनी द्वीपवती स्रवन्ती निम्नगापगा
कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती
## रिवेर् गन्गेस् (8) ##
गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा
भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि
## रिवेर् यमुन (4), रिवेर् नर्मद (4) ##
कालिन्दी सूर्यतनया यमुना शमनस्वसा
रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका
## रिवेर् च्रेअतेद् अत् थे तिमे ओf गौरिऽस् मर्रिअगे (2), रिवेर् ब्रोउघ्त् दोwन् ब्य् ##कअर्तविइर्यअर्जुन##(2) ##
करतोया सदानीरा बाहुदा सैतवाहिनी
## रिवेर् स्हतर्दु (2), रिवेर् विपस्ह (2), रिवेर् स्होन (2), चनल् (1) ##
शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपाट् स्त्रियाम्
शोणो हिरण्यवाहः स्यात्कुल्याल्पा कृत्रिमा सरित्
## लिस्त् ओf fइवे रिवेर्स्, अद्दितिओनल् लिस्त् इन्च्लुदेस्:## कौस्हिकिइ, गन्दकिइ, छर्मन्वतिइ,गोदअ, वेनिइ ## एत्च्.##
## मोउथ् ओf अ रिवेर् (1), छन्नेल् ओर् wअतेर्-चोउर्से (1) ##
शरावती वेत्रवती चन्द्रभागा सरस्वती
कावेरी सरितो ऽन्याश्च सम्भेदः सिन्धुसङ्गमः
द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ
## थिन्ग्स् बोर्न् इन् अ रिवेर् ##देविकअ## ओर् ##सरयुउ##: सम्प्ले चोन्स्त्रुच्तिओन् ##
देविकायां सरय्वां च भवे दाविकसारवौ
## निघ्त्-ब्लोओमिन्ग् लोतुस्: wहिते (2), रेद् (2) ##
सौगन्धिकं तु कल्हारं हल्लकं रक्तसन्ध्यकम्
## wअतेर् लिल्य् (2), ब्लुए (2), wहिते (2), रोओत् (ओf) लिल्य् (1), पिस्तिअ स्त्रतिओतेस् (2) ##
स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च
इन्दीवरं च नीले ऽस्मिन्सिते कुमुदकैरवे
शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका
## अqउअतिच् प्लन्त्, मोस्स् (3), fउल्ल् ओf लिलिएस् (2), fउल्ल् ओf लोतुसेस् (3) ##
जलनीली तु शैवालं शैवलो ऽथ कुमुद्वती
कुमुदिन्यां नलिन्यां तु विसिनीपद्मिनीमुखाः
## लोतुस् (16) ##
वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम्
सहस्रपत्रं कमलं शतपत्रं कुशेशयम्
पङ्केरुहं तामरसं सारसं सरसीरुहम्
बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च
## लोतुस्: wहिते (2), रेद् (3), स्तल्क् ओf wअतेर् लिल्य् (3) ##
पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे
रक्तोत्पलं कोकनदं नालो नालमथास्त्रियाम्
## लोतुस् fइब्रे (2), चोल्लेच्तिओन् ओf wअतेर् लिलिएस् (1) ##
## थे wओर्द्स् ##खन्द## ओर् ##स्ह्हन्द## मेअन् अन् अस्सेम्ब्लगे इन् गेनेरल्. ##
मृणालं बिसमब्जादिकदम्बे खण्डमस्त्रियाम्
## पर्त्स् ओf wअतेर् लिल्य्: रोओत् (2), fइलमेन्त् (2), नेw लेअf (2), लोतुस् सेएद् (2) ##
करहाटः शिफाकन्दः किञ्जल्कः केसरो ऽस्त्रियाम्
संवर्तिका नवदलं बीजकोशो वराटकः
काण्डसमाप्तिः
## अल्ल् थे 10 सेच्तिओन्स् ओf थे fइर्स्त् पर्त् wइथ् मैन् अन्द् रेलतेद् wओर्द्स् अरे थुस् fइनिस्हेद्. ##
मूल पाठ: Nāmaliṅgānuśāsana = Amarakośa · Data entry Avinash Sathaye · GRETIL (Göttingen) · CC BY-NC-SA 4.0