भाषा

ENहिગુ
ग्रंथ पाठ

नैषधीयचरितम्‌ · अध्याय p18

p18.20.1

सौधाद्रिकुट्टिमानेकधातुकाधित्यकातटम् ।
स प्राप रथपाथोभृद्वातजातजवो दिवः

p18.20.2

ततः प्रत्युदगाद्भैमी कान्तमायान्तमन्तिकम् ।
प्रतीचीसिन्धुवीचीव दिनोंकारे सुधाकरम्

p18.20.3

स दूरमादरं तस्या वदने मदनैकदृक् ।
दृष्टमन्दाकिनीहेमारविन्दश्रीरविन्दत

p18.20.4

तेन स्वर्देशसंदेशमर्षितं सा करोदरे ।
बभ्राजे बिभ्रती पद्मं पद्मेवोन्निद्रपद्मदृक्

p18.20.5

प्रियेणाल्पमपि प्रत्तं बहु मेनेतरामसौ ।
एकलक्षतया दध्यौ यत्तमेकवराटकम्

p18.20.6

प्रेयसावादि सा तन्वि त्वदालिङ्गनविघ्नकृत् ।
समाप्यतां विधिः शेषः क्लेशश्चेतसि चेन्न ते

p18.20.7

क्वैतावान्नर्ममर्माविद्विद्यते विधिरद्य ते ।
इति तं मनसा रोषादवोचद्वचसा न सा

p18.20.8

क्षणविच्छेदकादेव विधेर्मुग्धे विरज्यसि ।
विच्छेत्ता न चिरं त्वेति हृदाह स्म तदा कलिः

p18.20.9

सावज्ञेवाथ सा राज्ञः सखीं पद्ममुखीमगात् ।
लक्ष्मीः कुमुदकेदारादारादम्भोजिनीमिव

p18.20.1

ममासावपि मा संभूत्कलिद्वापरवत्परः ।
इतीव नित्यसत्रेतां स त्रेतां पर्यतूतुषत्

p18.20.11

क्रियां प्राह्णेतनीं कृत्वा निषेधन्पाणिना सखीम् ।
कराभ्यां पृष्ठगस्तस्या न्यमिमीलदसौ दृशौ

p18.20.12

दमयन्त्या वयस्याभिः सहास्याभिः समीक्षितः ।
प्रसृतिभ्यामिवायामं मापयन्प्रेयसीदृशोः

p18.20.13

तर्कितालि त्वमित्यर्धवाणीका पाणिमोचनात् ।
ज्ञातस्पर्शान्तरा मौनमानशे मानसेविनी

p18.20.14

सावादि सुतनुस्तेन कोपस्ते नायमौचिती ।
त्वां प्रापं यत्प्रसादेन प्रिये तन्नाद्रिये तपः

p18.20.15

निशि दास्यं गतोऽपि त्वां स्नात्वा यन्नाभ्यवीवदम् ।
तं प्रवृत्तासि मन्तुं चेन्मन्तुं तद्वद वन्द्यसे

p18.20.16

इत्येतस्याः पदासत्त्यै पत्यैष प्रेरितौ करौ ।
रुद्ध्वा सकोपं सातङ्कं तं कटाक्षैरमूमुहत्

p18.20.17

अवोचत ततस्तन्वीं निषधानामधीश्वरः ।
तदपाङ्गचलत्तारझलत्कारवशीकृतः

p18.20.18

कटाक्षकपटारब्धदूरलङ्घनरंहसा ।
दृशा भीत्या निवृत्तं ते कर्णकूपं निरूप्य किम्

p18.20.19

सरोषापि सरोजाक्षि त्वमुदेषि मुदे मम ।
तप्तापि शतपत्रस्य सौरभायैव सौरभा

p18.20.2

छेत्तुमिन्दौ भवद्वक्त्रबिम्बविभ्रमविभ्रमम् ।
शङ्के शशाङ्कमानङ्के भिन्नभिन्नविधिर्विधिः

p18.20.21

ताम्रपर्णीतटोत्पन्नैर्मौक्तिकैरिन्दुकुक्षिजैः ।
बद्धस्पर्धतरा वर्णाः प्रसन्नाः स्वादवस्तव

p18.20.22

त्वद्गिरः क्षीरपाथोधेः सुधयैव सहोत्थिताः ।
अद्ययावदहो धावद्दुग्धलेपलवस्मिताः

p18.20.23

पूर्वपर्वतमाश्लिष्टचन्द्रिकश्चन्द्रमा इव ।
अलंचक्रे स पर्यङ्कमङ्कसंक्रमिताप्रियः

p18.20.24

प्रावृडारम्भणाम्भोदः स्निग्धां द्यामिव स प्रियाम् ।
परिरभ्य चिरायास विश्लेषायासमुक्तये

p18.20.25

चुचुम्बास्यमसौ तस्या रसमग्नः श्रितस्मितम् ।
नभोमणिरिवाम्भोजं मधुमध्यानुबिम्बितः

p18.20.26

अथाहूय कलां नाम पाणिना स प्रियासखीम् ।
पुरस्ताद्वेशितामूचे कर्तुं नर्मणि साक्षिणीम्

p18.20.27

कस्मादस्माकमब्जास्य वयस्या दयते न ते ।
आसक्ता भवतीष्वन्यं मन्ये न बहु मन्यते

p18.20.28

अन्वग्राहि मया प्रेयान्निशि स्वोपनयादिति ।
न विप्रलभते तावदालीरियमलीकवाक्

p18.20.29

आह स्मैषा नलादन्यं न जुषे मनसेति यत् ।
यौवनानुमितेनास्यास्तन्मृषाभून्मनोभुवा

p18.20.3

आस्यसौन्दर्यमेतस्याः शृणुमो यदि भाषसे ।
तद्धि लज्जानमन्मौलेः परोक्षमधुनापि नः

p18.20.31

पूर्णयैव द्विलोचन्या सैषालीरवलोकते ।
द्राग्दृगन्ताणुना मां तु मन्तुमन्तमिवेक्षते

p18.20.32

न लोकते यथेदानीं मामियं तेन कल्पये ।
योऽहं दूत्येऽनया दृष्टः सोऽपि व्यस्मारिषीडृशा

p18.20.33

रागं दर्शयते सैषा वयस्याः सूनृतामृतैः ।
मम त्वमिति वक्तुं मां मौनिनी मानिनी पुनः

p18.20.34

कां नामन्त्रयते नाम नामग्राहमियं सखीम् ।
कले नलेति नास्माकीं स्पृशत्याह्वां न जिह्वया

p18.20.35

अस्याः पीनस्तनव्याप्ते हृदयेऽस्मासु निर्दये ।
अवकाशलवोऽप्यस्ति नात्र कुत्र बिभर्तु नः

p18.20.36

अधिगत्येदृगेतस्या हृदयं मृदुतामुचोः ।
प्रतीम एव वैमुख्यं कुचयोर्युक्तवृत्तयोः

p18.20.37

इति मुद्रितकण्ठेऽस्मिन्सोल्लुण्ठमभिधाय ताम् ।
दमयन्तीमुखाधीतस्मितयाऽसौ तया जगे

p18.20.38

भावितेयं त्वया साधु नवरागा खलु त्वयि ।
चिरंतनानुरागार्हं वर्तते नः सखीः प्रति

p18.20.39

स्मरशास्त्रविदा सेयं नवोढा नस्त्वया सखी ।
कथं संभुज्यते बाला कथम्स्मासु भाषताम्

p18.20.4

नासत्यवदनं देव त्वां गायन्ति जगन्ति यम् ।
प्रिया तस्य सरूपा स्यादन्यथालपना न ते

p18.20.41

मनोभूरस्ति चित्तेऽस्याः किंतु देव त्वमेव सः ।
त्वदवस्थितिभूर्यस्मान्मनः सख्या दिवानिशम्

p18.20.42

सतस्तेऽथ सखीचित्ते प्रतिच्छाया स मन्मथह् ।
त्वयास्य समरूपत्वमतनोरन्यथा कथम्

p18.20.43

कः स्मरः कस्त्वमत्रेति संदेहे शोभयोभयोः ।
त्वय्येवार्थितया सेयं धत्ते चित्तेऽथवा युवाम्

p18.20.44

त्वयि न्यस्तस्य चित्तस्य दुराकर्षत्वदर्शनात् ।
शाङ्कया पङ्कजाक्षी त्वां दृगंशेन स्पृशत्यसौ

p18.20.45

विलोकनात्प्रभृत्यस्या लग्न एवासि चक्षुषोः ।
स्वेनालोकय शङ्का चेत्प्रत्ययः परवाचि कः

p18.20.46

परीरम्भेऽनयारभ्य कुचकुङ्कुमसंक्रमम् ।
त्वयि मे हृदयस्यैवं राग इत्युदितैव वाक्

p18.20.47

मनसायं भवन्नामकामसूक्तजपव्रती ।
अक्षसूत्रं सखीकण्ठश्चुम्बत्येकावलिच्छलात्

p18.20.48

अध्यासिते वयस्याया भवता महता हृदि ।
स्तनावन्तरसंमान्तौ निष्क्रान्तौ ब्रूमहे बहिः

p18.20.49

कुचौ दोषोज्झितावस्याः पीडितौ व्रणितौ त्वया ।
कथं दर्शयतामास्यं बृहन्तावावृतौ ह्रिया

p18.20.5

इत्यसौ कलया सूक्तैः सिक्तः पीयूषवर्षिभिः ।
ईदृगेवेति पप्रच्छ प्रियामुन्नमिताननाम्

p18.20.51

बभौ च प्रेयसीवक्त्रं पत्युरुन्नमयन्करः ।
चिरेण लब्धसंधानमरविन्दमिवेन्दुना

p18.20.52

ह्रीणा च स्मयमाना च नमयन्ती पुनर्मुखम् ।
दमयन्ती मुदे पत्युरुच्चैरप्यभवत्तदा

p18.20.53

भूयोऽपि भूपतिस्तस्याः सखीमाह स्म सस्मितम् ।
परिहासविलासाय स्पृहयालुः सहप्रियः

p18.20.54

क्षन्तुं मन्तुं दिनस्यास्य वयस्येयं व्यवस्यतात् ।
निशीव निशिधात्वर्थं यदाचरति नात्र नः

p18.20.55

दिनेनास्या नुखस्येन्दुः सखा यदि तिरस्कृतः ।
तत्कृता शतपत्त्राणां तन्मित्त्राणामपि श्रियः

p18.20.56

लज्जितानि जितान्येव मयि क्रीडितयाऽनया ।
प्रत्यावृत्तानि तत्तानि पृच्छ संप्रति कं प्रति

p18.20.57

निशि दष्टाधरायापि सैषा मह्यं न रुष्यतु ।
क्व फलं दशते बिम्बीलता कीराय कुप्यति

p18.20.58

सृणीपदसुचिह्ना श्रीश्चोरिता कुम्भिकुम्भयोः ।
पश्यैतस्याः कुचाभ्यां तन्नृपस्तौ पीडयानि न

p18.20.59

अधरामृतपानेन ममास्यमपराध्यतु ।
मूर्ध्ना किमपराद्धं यः पादौ नाप्नोति चुम्बितुम्

p18.20.6

अपराद्धं भवद्वाणीश्राविणा पृच्छ किं मया ।
वीणाह परुषं यन्मां कलकण्ठी च निष्ठुरम्

p18.20.61

सेयमालिजने स्वस्य त्वयि विश्वस्य भाषताम् ।
ममताऽनुमताऽस्मासु पुनः प्रस्मर्यते कुतः

p18.20.62

अथोपवदने भैम्याः स्वकर्णोपनयच्छलात् ।
संनिधाप्य श्रुतौ तस्या निजास्यं सा जगाद ताम्

p18.20.63

अहो मयि रहोवृत्तं धूर्ते किमपि नाभ्यधाः ।
आस्स्व सभ्यमिमं तत्ते भूपमेवाभिधापये

p18.20.64

स्मरशास्त्रमधीयाना शिक्षितासि मयैव यम् ।
अगोऽपि सोऽपि कृत्वा किं दाम्पत्यव्यत्ययस्त्वया

p18.20.65

मौनिन्यामेव सा तस्यां तदुक्तीरिव शृण्वती ।
वादं वादं मुहुश्चक्रे हुंहुमित्यन्तरान्तरा

p18.20.66

अथासावभिसृत्यास्था रतिप्रागल्भ्यशंसिनी ।
सख्या लीलाम्बुजाघातमनुभूयालपन्नृपम्

p18.20.67

दृष्टं दृष्टं महाराज त्वदर्थाभ्यर्थनकुधा ।
यत्ताडयति मामेवं यद्वा तर्जयति भ्रुवा

p18.20.68

वदत्यचिह्नि चिह्नेन त्वया केनैष नैषधः ।
शङ्के शक्रः स्वयं कृत्वा मायामायातवानियम्

p18.20.69

स्वर्णदीस्वर्णपद्मिन्याः पद्मदानं निदानताम् ।
नयतीयं त्वदिन्द्रत्वे दिवश्चागमनं च ते

p18.20.7

भाषते नैषधच्छायामायामायि मया हरेः ।
आह चाहमहल्यायां तस्याकर्णितदुर्नया

p18.20.71

संभावयति वैदर्भी दर्भाग्राभमतिस्तव ।
जम्भारित्वं कराम्भोजाद्दम्भोलिपरिरम्भिणः

p18.20.72

अनन्यसाक्षिकाः साक्षात्तदाख्याय रहःक्रियाः ।
शङ्कातङ्कं तुदैतस्या यदि त्वं तत्त्वनैषधः

p18.20.73

इति तत्सुप्रयुक्तत्वनिह्नुतीकृतकैतवाम् ।
वाचमाकर्ण्य तद्भावे संशयालुः शशंस सः

p18.20.74

स्मरसि छद्मनिद्रालुर्मया नाभौ शयार्पणात् ।
यदानन्दोल्लसल्लोमा पद्मनाभीभविष्यसि

p18.20.75

आनासि ह्रीभयव्यग्रा यन्नवे मन्मथोत्सवे ।
सामिभुक्तैव मुक्तासि मृद्वि खेदभयान्मया

p18.20.76

स्मर जित्वाजिमेतस्त्वां करे मत्पदधाविनि ।
अङ्गुलीयुगयोगेन यदाश्लिक्षं जने घने

p18.20.77

वेत्थ मानेपि मत्त्यागदूनां स्वं मां च यन्मिथः ।
मद्दृष्टालिख्य पश्यन्ती व्यबाधा रेखयाऽन्तरा

p18.20.78

प्रस्मृतं न त्वया तावद्यन्मोहनविमोहितः ।
अतृप्तोऽधरपानेषु रसनामपिबं तव

p18.20.79

त्वत्कुचार्द्रनखाङ्कस्य मुद्रामालिङ्गनोत्थिताम् ।
स्मरेः स्वहृदि यत्स्मेरसखीः शिल्पं तवाब्रवम्

p18.20.8

त्वयान्याः क्रीडयन्मध्येमधुगोष्ठि रुषेक्षितः ।
वेत्सि तासां पुरो मूर्ध्ना त्वत्पादे यत्किलास्खलम्

p18.20.81

वेत्थ मय्यागते प्रोष्य यत्त्वां पश्यति हार्दिनि ।
अचुम्बीरालिमालिङ्ग्य तस्यां केलिमुदा किल

p18.20.82

जागर्ति तत्र संस्कारः स्वमुखाद्भवदानने ।
विक्षिप्यायाचिषं यत्ता न्यायात्ताम्बूलफालिकाः

p18.20.83

चित्ते तदस्ति कच्चित्ते नखजं यत्क्रुधा क्षतम् ।
प्राग्भावाधिगमागस्स्थे त्वया शम्बाकृतं क्षतम्

p18.20.84

स्वदिग्विनिमयेनैव निशि पार्श्वविवर्तिनोः ।
स्वप्नेष्वप्यस्तवैमुख्ये सख्ये सौख्यं स्मरावयोः

p18.20.85

क्षणं प्राप्य सदस्येव नृणां विमनितेक्षणम् ।
दर्शिताधरमद्दंशा ध्याय यन्मामतर्जयः

p18.20.86

तथावलोक्य लीलाब्जनालभ्रमणविभ्रमात् ।
करौ योजयताध्ये(धी)हि यन्मयासि प्रसादिता

p18.20.87

ताम्बूलदानमन्यस्तकरजं करपङ्कजे ।
मम न स्मरसि प्रायस्तव नैव स्मरामि तत्

p18.20.88

तदध्ये (धी) हि मृषोद्यं मां हित्वा यत्त्वं गता सखीः ।
तत्रापि मे गतस्याग्रे लीलयैवाच्छिनस्तृणम्

p18.20.89

स्मरसि प्रेय्सि प्रायो यद्द्वितीयरतासहा ।
शुचिरात्रीत्युपालब्धा त्वं मयापिकनादिनी

p18.20.9

भुञ्जानस्य नवं निम्बं परिवेविषती मधौ ।
सपत्नीष्वपि मे रागं संभाव्य स्वरुषः स्मरेः

p18.20.91

स्मर शार्करमास्वाद्य त्वया राद्धमिति स्तुवन् ।
स्वनिन्दारोषरक्तात्तु यदभैषं तवाधरात्

p18.20.92

मुखादारभ्य नाभ्यन्तं चुम्बं चुम्बमतृप्तवान् ।
न प्रापं चुम्बितुं यत्ते धन्या तच्चुम्बतु स्मृतिः

p18.20.93

कमपि स्मरकेलिं तं स्मर यत्र भवन्निति ।
मया विहितसंबुद्धिर्वीडिता स्मितवत्यसि

p18.20.94

नीलदाचिबुकं यत्र मदाक्तेन श्रमाम्बुना ।
स्मर हारमणौ दृष्टं स्वमास्यं तत्क्षणोचितम्

p18.20.95

स्मर तन्नखमत्रोरौ कस्तेधा(दा)दिति ते मृषा ।
ह्रीदैवतमलुम्पं यद्व्रतं रतपरोक्षणम्

p18.20.96

वनकेलौ स्मराश्वत्थदलं भूपतितं प्रति ।
देहि मह्यमुदस्येति मद्गिरा व्रीडितासि यत्

p18.20.97

इति तस्या रहस्यानि प्रिये शंसति सान्तरा ।
पाणिभ्यां पिदधे सख्याः श्रवसी ह्रीवशीकृता

p18.20.98

कर्णौ पीडयती सख्या वीक्ष्य नेत्रासितोत्पले ।
अप्यपीडयतां भैमीकरकोकनदे तु (नु) तौ

p18.20.99

तत्प्रविष्टं सखीकर्णौ पत्युरालपितं ह्रिया ।
पिदधाविव वैदर्भी स्वरहस्याभिसंधिना

p18.20.1

तमालोक्य प्रियाकेलिं नले सोत्प्रासहासिनि ।
आरात्तत्त्वमबुद्ध्वापि सख्यः सिष्मियिरेऽपराः

p18.20.101

दम्पत्योरुपरि प्रीत्या ता धराप्सरसस्तयोः ।
ववृषुः स्मितपुष्पाणि सुरभीणि मुखानिलैः

p18.20.102

तदास्यहसिताज्जातं स्मितमासामभासत ।
आलोकादिव शीतांशोः कुमुदश्रेणिजृम्भणम्

p18.20.103

प्रत्यभिज्ञाय विज्ञाथ स्वरं हासविकस्वरम् ।
सख्यास्तासु स्वपक्षायाः कला जातबलाऽजनि

p18.20.104

साहूयोच्चैरथोचे तामेहि स्वर्गेण वञ्चिते ।
पिब वाणी सुधावेणीर्नृपचन्द्रस्य सुन्दरि

p18.20.105

साशृणोत्तस्य वाग्भागमनत्यासत्तिमत्यपि ।
कल्पग्रामाल्पनिर्घोषं बदरीव कृशोदरी

p18.20.106

अथ स्वपृष्ठनिष्ठायाः शृण्वत्या निषधाभिधाः ।
नलमौलिमणौ तस्या भावमाकलयत्कला

p18.20.107

प्रतिबिम्बेक्षितैः सख्या मुखाकूतैः कृतानुमा ।
तद्द्रीडाद्यनुकुर्वाणा शृण्वतीवान्वमायि सा

p18.20.108

कारं कारं तथाकारमूचे साऽशृणवंतमाम् ।
मिथ्या वेत्थ गिरश्चैतद्व्यर्थाः स्युर्मम देवताः

p18.20.109

मत्कर्णभूषणानां तु राजन्निबिडपीडनात् ।
व्यथिष्यमाणपाणिस्ते निषेद्धुमुचिता प्रिया

p18.20.11

इति सा मोचयांचक्रे कर्णौ सख्याः करग्रहात् ।
पत्युराश्रवतां यान्त्यामुधायासनिषेधिनः

p18.20.111

श्रुतिसंरोधजध्वानसंततिच्छेदतालताम् ।
जगाम झटिति त्यागस्वनस्तत्कर्णयोस्ततः

p18.20.112

सापसृत्य कियद्दूरं मुमुदे सिष्मिये ततः ।
इदं च तां सखीमेत्य ययाचे काकुभिः कला

p18.20.113

अभिधास्ये रहस्यं ते यदश्रावि मयानयोः ।
वर्णयाकर्णितं मह्यमेह्यालि विनिमीयताम्

p18.20.114

वयस्याभ्यर्थनेनास्याः प्राक्कूटश्रूतिनाटने ।
विस्मितौ कुरुतः स्मैतौ दम्पती कम्पितं शिरः

p18.20.115

तथालिमालपन्तीं तामभ्यधान्निषधाधिपः ।
आस्स्व तद्वञ्चितौ स्वश्चेन्मिथ्याशपथसाहसात्

p18.20.116

प्रत्यालापीत्कलापीमं कलङ्कः शङ्कितः कुतः ।
प्रियापरिजनोक्तस्य त्वयैवाद्य मृषोद्यता

p18.20.117

सत्यं खलु तदाश्रौषां परं गुमुगुमारवम् ।
शृणोमीत्येव चावोचं नतु त्वद्वाचमित्यपि

p18.20.118

आमन्त्र्य तेन देव त्वां तद्वैयर्थ्यं समर्थये ।
शपथः कर्कशोदर्कः सत्यं सत्योपि दैवतः

p18.20.119

असंभोगकथारम्भैर्वञ्चयेथे कथं नु माम् ।
हन्त सेयमनर्हन्ती यन्न विप्रलभे युवाम्

p18.20.12

कर्णे कर्णे ततः सख्यौ श्रुतमाचख्यतुर्मिथः ।
मुहुर्विस्मयमाने च स्मयमाने च ते बहु

p18.20.121

अथाख्यायि कलासख्या कुप्य मे दमयन्ति मा ।
कर्णाद्द्वितीयतोऽप्यस्याः संगोप्यैव यदब्रवम्

p18.20.122

प्रियः प्रियामथाचष्ट दृष्टं कपटपाटवम् ।
वयस्ययोरिदं तेऽस्मान्मा सखीष्वेव विश्वसीः

p18.20.123

आलापि कलयापीयं पतिर्नालपति क्वचित् ।
रहस्येऽसौ रहस्यं तत्सभ्ये विस्रभ्यमीदृशि

p18.20.124

इति व्युत्तिष्ठमानायां तस्यामूचे नलः प्रियाम् ।
भण भैमि बहिः कुर्वे दुर्विनीते गृहादमुम्

p18.20.125

शिरःकम्पानुमत्याथ सुदत्या प्रीणितः प्रियः ।
चुलुकं तुच्छमुत्सर्प्य सख्योः सलिलमक्षिपत्

p18.20.126

तच्चित्रदत्ताचित्ताभ्यामुच्चैः सिचयसेचनम् ।
ताभ्यामलिम्भि दूरेऽपि नलेच्छापूरिभिर्जलैः

p18.20.127

वरेण वरुणस्यायं सुलभैरम्भसां भरैः ।
एतयोः स्तिमितीचक्रे हृदयं विस्मयैरपि

p18.20.128

तेनापि नापसर्पन्त्यौ दमयन्तीमयं ततः ।
हर्षेणादर्शयत्पश्य नन्विमे तन्वि मे पुरः

p18.20.129

क्लिन्नीकृत्याम्भसा वस्त्रं जैनप्रव्रजितीकृते ।
सख्यौ सक्षौमभावेऽपि निर्विघ्नस्तनदर्शने

p18.20.13

अम्बुनः शम्बरत्वेन मायैवाविरभूदियम् ।
यत्पटावृतमप्यङ्गमनयोः कथयत्यदः

p18.20.131

वाससो वाम्बरत्वेन दृश्यतेयमुपागमत् ।
चारुहारमणिश्रेणितारवीक्षणलक्षणा

p18.20.132

ते निरीक्ष्य निजावस्थां ह्रीणे निर्ययतुस्ततः ।
तयोर्वीक्षारसात्सख्यः सर्वां निश्चक्रमुः क्रमात्

p18.20.133

ता बहिर्भूय वैदर्भीमूचुर्नीतावधीतिनि ।
उपेक्ष्ये ते पुनः सख्यौ मर्मज्ञे नाधुनाप्यमू

p18.20.134

उच्चैरूचेऽथ ता राजा सखीयमिदमाह वः ।
श्रुतं मर्म ममैताभ्यां दृष्टं तत्तु मयानयोः

p18.20.135

मद्विरोधितयोर्वाचि न श्रद्धातव्यमेतयोः ।
अभ्यषिञ्चदिमे मायामिथ्यासिंहासने विधिः

p18.20.136

घौतेऽपि कीर्तिधाराभिश्चरिते चारुणि द्विषः ।
मृषामषीलवैर्लक्ष्म लेखितुं के न शिल्पिनः

p18.20.137

ते सख्यावाचचक्षाते न किंचिद् ब्रूवहे बहु ।
वक्ष्यावस्तत्परं यस्मै सर्वा निर्वासिता वयम्

p18.20.138

स्थापत्यैर्न स्म वित्तस्ते वर्षीयस्त्वचलत्करैः ।
कृतामपि तथावाचि करकम्पेन वारणाम्

p18.20.139

अपयातमितो धृष्टे धिग्वामश्लीलशीलताम् ।
इत्युक्ते चोक्तवन्तश्च व्यतिद्राते स्म ते भिया

p18.20.14

आह स्म तद्गिरा ह्रीणां प्रियां नतमुखीं नलः ।
ईदृग्भण्डसखी कापि निस्त्रपा न मनागपि

p18.20.141

अहो नापत्रपाकं ते जातरूपमिदं मुखम् ।
नातितापार्जनेऽपि स्यादितो दुर्वर्णनिर्गमः

p18.20.142

तामथैष हृदि न्यस्य ददौ तल्पतले तनुम् ।
निमिष्य च तदीयाङ्गसौकुमार्यमसिस्वदत्

p18.20.143

न्यस्य तस्याः कुचद्वन्द्वे मध्येनीवि निवेश्य च ।
स पाणेः सफलं चक्रे तत्करग्रहणश्रमम्

p18.20.144

स्थापितामुपरि स्वस्य तां हृदा स मुदा वहन् ।
तदुद्वहनकर्तृत्वमाचष्ट स्पष्टमात्मनः

p18.20.145

स्विद्यत्कराङ्गुलीलुप्तकस्तूरीलेपमुद्रया ।
पूत्कार्यपीडनौ चक्रे स सखीषु प्रियास्तनौ

p18.20.146

तत्कुचे नखमारोप्य चमत्कुर्वंस्तयेक्षितः ।
सोऽवादीत्तां हृदिस्थं ते किं मामभिनदेष न

p18.20.147

अहो अनौचितीयं ते हृदि शुद्धेऽप्यशुद्धवत् ।
अङ्कः खलैरिवाकल्पि नखैस्तीक्ष्णमुखैर्मम

p18.20.148

यच्चुम्बति नितम्बोरु यदालिङ्गति च स्तनौ ।
भुङ्क्ते गुणमयं तत्ते वासः शुभदशोचितम्

p18.20.149

लीनचीनांशुकं स्वेदि दरालोक्यं विलोकयन् ।
तन्नितम्बं स निश्वस्य निनिन्द दिनदीर्घताम्

p18.20.15

देशमेव ददंशासौ प्रियादन्तच्छदान्तिकम् ।
चकाराधरपानस्य तत्रैवालीकचापलम्

p18.20.151

न क्षमे चपलापाङ्गि सोढुं स्मरशरव्यथाम् ।
तत्प्रसीद प्रसीदेति स तां प्रीतामकोपयत्

p18.20.152

नेत्रे निषधनाथस्य प्रियाया वदनाम्बुजम् ।
ततः स्तनतटौ ताभ्यां जघनं घनमीयतुः

p18.20.153

इत्यधीरतया तस्य हठवृत्तिविशङ्किनी ।
झटित्युत्थाय सोत्कण्ठमसावन्वसरत्सखीः

p18.20.154

न्यवारीव यथाशक्ति स्पन्दं मन्दं वितन्वता ।
भैमीकुचनितम्बेन नलसंभोगलोभिना

p18.20.155

अपि श्रोणिभरस्वैरां धर्तुं तामशकन्न सः ।
तदङ्गसङ्गजस्तम्भो गजस्तम्भोरुदोरपि

p18.20.156

आलिङ्ग्यालिङ्ग्य तन्वङ्गि मामित्यर्धगिरं प्रियम् ।
स्मित्वा निवृत्य पश्यन्ती द्वारपारमगादसौ

p18.20.157

प्रियस्याप्रियमारभ्य तमन्तर्दूनयाऽनया ।
शेके शालीनयालीभ्यो न गन्तुं न निवर्तितुम्

p18.20.158

अचकथदथ बन्दिसुन्दरी द्वाःसविधमुपेत्य नलाय मध्यमह्नः ।
जय नृप दिनयौवनोष्मतप्ताप्लवनजलानि पिपासति क्षितिस्ते

p18.20.159

उपहृतमधिगङ्गमम्बु कम्बुच्छवि तव वाञ्छति केशभङ्गिसङ्गात् ।
अनुभवितुमनन्तरं तरङ्गासमशमनस्वसृमिश्रभावशोभाम्

p18.20.16

तपति जगत एव मूर्ध्नि भूत्वा रविरधुना त्वमिवाद्भुतप्रतापः ।
पुरमथनमुपास्य पश्य पुण्यैरधरितमेनमनन्तरं त्वदीयैः

p18.20.161

आनन्दं हठमाहरन्निव हरध्यानार्चनादीक्षणस्यासत्तावपि भूपतिः प्रियतमाविच्छेदखेदालसः ।
पक्षद्वारदिशं प्रति प्रति मुहुर्द्राङ्गिर्गतप्रेयसीप्रत्यासत्तिधिया दिशन्दृशमसौ निर्गन्तुमुत्तस्थिवान्

p18.20.162

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
अन्याक्षुण्णरसप्रमेयभणितौ विंशस्तदीये महाकाव्येऽयं व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः

मूल पाठ: naiṣadhīyacaritam‌ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc