नागानन्द · अध्याय 2
इति प्रथमो ऽङ्कः ।
द्वितीयो ऽङ्कः
कुणसि घणचन्दणलदापल्लवसंसग्गसीअलं पि इमं ।
णीसासेहिं तुमं एव्व कअलीदलमारुअं उण्हं
व्यावृत्यैव सितासितेक्षणरुचा तानाअश्रमे शाखिनः
कुर्वत्या विटपावसक्तविलसत्कृष्णाजिनौधानिव ।
यद् दृष्टोस्मि तया मुनेरपि पुरस्तेनैव मय्याहते
पुष्पेषो ! भवता मुधैव किमिति क्षिप्यन्त एते शराः?
नीताः किं न निशाः शशाङ्कधवला नाघ्रातमिन्दीवरं?
किं नोन्मीलितमालतीसुरभयः सोढाः प्रदोषानिलाः?
झङ्कारः कमलाकरे मधुलिहां किं वा मया न श्रुतो?
निर्व्याजं विधुरेष्वधीर इति मां येनाभिधत्ते भवान्?
स्त्रीहृदयेन न सोढाः क्षिप्ताः कुसुमेषवो ऽप्यनङ्गेन ।
येनाद्यैव पुरस्तव वदामि धीर इति स कथमहम्?
चन्दनलतागृहमिदं सचन्द्रमणिशिलमपि प्रियं न मम ।
चन्द्राननया रहितं चन्द्रिकया मुखमिव निशायाः
शशिमणिशिला सेयं यस्यां विपाण्डुरमाननं
करकिसलये कृत्वा वामे घनश्वसितोद्गमा ।
चिरयति मयि व्यक्ताकूता मनाक् स्फुरितैर्भ्रुवो-
र्विरमितमनोमन्युर्दृष्टा मया रुदती प्रिया
निष्यन्दत इवानेन मुखचन्द्रोदयेन ते ।
एतद् वाष्पाम्बुना सिक्तं चन्द्रकान्तशिलातलम्
अक्लिष्टबिम्बशोभाधरस्य नयनोत्सवस्य शशिन इव ।
दयितामुखस्य सुखयति रेखापि प्रथमदृष्टयेम्
प्रिया सन्निहितैवेयं सङ्कल्पस्थापिता पुरः ।
दृष्ट्वा दृष्ट्वा लिखाम्येनां यदि तत् को ऽत्र विस्मयः !
यद्धिद्याधरराजवंशतिलकः प्राज्ञः सतां सम्भतो
रूपेणाप्रतिमः पराक्रमधनो विद्धान् विनीतो युव ।
यच्चसूनपि सन्त्यजेत् करुणया सत्त्वार्थमभ्युद्यत-
स्तेनास्मै ददतः स्वसारमतुलां तुष्टिर्विषादश्च मे
न खलु न खलु मुग्धे ! साहसं कार्यमीदृक्
व्यपनय करमेतं पल्लवाभं लतायाः ।
कुसुममपि विचेतुं यो न मन्ये समर्थः
कलयति स कथं ते पाशमुद्बन्धनाय?
कण्ठे हारलतायोग्ये येन पाशस्त्वयार्पितः ।
गृहीतः सापराधो ऽयं कथं ते मुच्यते करः?
वृष्टया पिष्टातकस्य द्युतिमिह मलये मेयुतुल्यां दधानः
सद्यः सिन्दूरदूरीकृतदिवससमारम्भसन्ध्यातपश्रीः ।
उदूगितैरङ्गनानां चलचरणरणन्नूपुरह्रादहृद्यै-
रूद्वाहस्नानवेलां कथयति भवतः सिद्धये सिद्धलोकः
अन्योन्यदर्शनकृतः समानरूपानुरागकुलवयसाम् ।
केषाञ्चिदेव मन्ये समागमो भवति पुण्यवताम्
मूल पाठ: Nāgānanda · Edition: Sansarachandra, Motilal Banarsidas: Delhi 1997. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0