मुण्डमालातन्त्रम् · अध्याय 1
----
मुक्तबोध इन्दोलोगिचल् रेसेअर्छ् इन्स्तितुते
उसे ओf थिस् मतेरिअल् (ए-तेxत्स्) इस् चोवेरेद् ब्य् च्रेअतिवे चोम्मोन्स् लिचेन्से ब्य्-न्च् 4.0
चतलोग् नुम्बेर्: म्00537
उनिfओर्म् तित्ले: मुण्डमालातन्त्रम् 1
एदितोर् : रसिक मोहन चट्टोपाध्याय
देस्च्रिप्तिओन्:
थिस् तन्त्र इस् अ दिffएरेन्त् तेxत् fरोम् मुण्डमालातन्त्र इइ, थोउघ् थेय् चोइन्चिदे इन् थेइर् चोन्तेन्त्स् अन्द् चोन्चेर्न्स् अन्द् बेलोन्ग् तो थे समे पेरिओद्. अ fऐर्ल्य् लते तन्त्र.
नोतेस्:
दत-एन्तेरेद् ब्य् थे स्तff ओf मुक्तबोध उन्देर् थे सुपेर्विसिओन् ओf मर्क् स्.ग्. द्य्च्zकोwस्कि.
रेविसिओन् 0: सेप्त्. 19, 2021
पुब्लिस्हेर् :
पुब्लिचतिओन् येअर् :
पुब्लिचतिओन् चित्य् : चल्चुत्त
पुब्लिचतिओन् चोउन्त्र्य् : इन्दिअ
----
कैलासशिखरे रम्ये गन्धर्वगणसेविते ।
हरवक्षःस्थिता देवी पृच्छति स्म नगात्मजा
श्रीदेवी उवाच
देवदेव महादेव सृष्टिस्थित्यन्तकारक ।
नीलकण्ठ जगन्नाथ प्रभो शङ्कर भो हर
नमस्तुभ्यं जगन्नाथ मम नाथामरप्रभो ।
शरणाऽऽगत - दीनार्त्त - परित्राण - परायण
सर्वाधार निराधार साधार धरणीधर ।
वेदविद्याधराधार गङ्गाधर नमोऽस्तु ते
श्रुतं परमतन्त्रं वै सारात् सारं परात् परम् ।
यत् श्रुत्वा शीघ्रमायाति शिवलोकमनामयम्
कालीतन्त्रे कुब्जिकायां तथा कालीविलासके ।
डामरे यामले कालीसर्वस्वे योनितन्त्रके
सम्मोहने विक्रमे च तन्त्रे चैव कुलार्णवे ।
मातृकाभेदतन्त्रे च समयाचारतन्त्रके
वीरतन्त्रे तोडले च तथा भैरवतन्त्रके ।
ज्ञानतन्त्रे च निर्वाणे श्रुतं परममादरात्
इदानीं श्रोतुमिच्छामि गुह्याद् गुह्यतरं परम् ।
सारात् सारतरं देव पावनं सर्वदेहिनाम् ।
श्रुत्वा जीवः शिवत्वं च लभते नात्र संशयः
श्रीशिव उवाच
धन्यासि पतिभक्तासि प्राणतुल्यासि शङ्करि ।
योषिच्चपलभावत्वात् पुरा नोक्तं त्वयि प्रिये
इदानीं स्थिरतां ज्ञात्वा कथयामि त्वयि प्रिये ।
अस्ति चैकं मुण्डमालातन्त्रं परमसाधनम्
ज्ञात्वा जीवः शिवो भूत्वा विहरेत् क्षितिमण्डले ।
अतिगोप्यं महेशानि तन्त्रराजं मनोहरम्
मुण्डे मुण्डे च कथितं कथितं मुण्डमालया ।
शृणु गुह्यं वरारोहे किं पृच्छसि नगात्मजे
श्रीपार्वती उवाच
देवदेव महादेव विश्वनाथ महेश्वर ।
त्रयाणामेवमाचारं त्रयाणां भावशोधनम् ।
त्रयाणां समयाचारं येन दुर्गा प्रसीदति
श्रीशिव उवाच
यथा काली तथा तारा तथा त्रिपुरसनुदरी ।
भैरवी तु वना विद्या छिन्ना च बगलामुखी
धूमा भीमाऽन्नपूर्णा च दुर्गा च कमलात्मिका ।
मातङ्गी धनदा पर्णावती सर्वार्थसिद्धिदा
नानादेवी महाविद्या उपविद्यां पृथक् पृथक् ।
नानातन्त्रे महेशानि कथिता शिवसुन्दरि
आचारं विविधं दुर्गे दक्षिणं दक्षिणेतरम् ।
मुण्डमालामहातन्त्रं सर्वेषां ज्ञानसाधनम्
एका दुर्गा महेशानि एको देवः सदाशिवः ।
अहमेकः शिवो देवो नान्यो देवः कथञ्चन
सा वै भवानी मे पत्नी सर्वदा ज्ञानमालभेत् ।
तदैव जायते सिद्धिर्भक्तिरव्यभिचारिणी
ज्ञानं विना परं तत्त्वं न जानामि महीतले ।
अत एव परं ज्ञानं भावयेत् सर्वकोविदः
दुर्लभ्यं शृणु देवेशि मम साधनकारणम् ।
अतः परतरं देवि दुर्गमं परसाधनम्
सर्वशान्तिकरं चैव सर्वदुःखहरं परम् ।
सर्वरोगक्षयकरं सर्वसाधनशोधनम्
ब्रह्मादीनां च दुर्लभ्यं सर्वेषां शिवदुर्लभम् ।
यः शाक्तो धरणीमध्ये स शिवो नात्र संशयः
यासां विज्ञानमात्रेण जीवन्मुक्तः प्रजायते ।
भक्त्या भक्त्या जपेन्मन्त्रं साधको धरणीतले
जीवन्मुक्तः सदा मुक्तः सर्वकर्मसु कोविदः ।
योऽन्येभ्यो दर्शयेद् यश्च भुक्तिं मुक्तिं च काङ्क्षति
स्वप्नलब्धघनेनैव धनवान् स भवेद् यदि ।
शुक्तौ रजतविभ्रान्तिर्यथा जायेत पार्वति
तथान्यदर्शनेभ्यश्च भुक्तिं मुक्तिं च काङ्क्षति ।
विना दुर्गां न मे ज्ञानं विना दुर्गां न मे रतिः
विना दुर्गां न निर्वाणं सत्यं सत्यं वदाम्यहम् ।
न त्र्यक्षा भक्तिरमला प्रेयसी परमा क्रिया
शक्तिद्वयं समाश्रित्य शक्तेः परमपूजकः ।
आद्यं देवि सुदुर्ज्ञेयं मध्यं पञ्च विभूषितम्
शेषं कुलमयेनेशं नास्ति नास्ति वरानने ।
सत्यं वेद्मि हितं वेद्मि पुनर्वेद्मि वरानने
विना दुर्गापरिज्ञानात् को वा तरति कोविदः ।
को वेद परमं तत्त्वं को वेद निखिलं पदम्
को वेद भैरवाचारं यो वेद स च कोविदः ।
स कुलीनः स शूरश्च स पञ्चमविभूषितः
यो जानाति जगद्धात्रि जगदीशे जयावहे ।
मध्यस्थः पार्वतीतत्त्वं न पुनर्देहभाग्भवेत्
आदौ गुरुं समभ्यर्च्य अन्ते परमसाधनम् ।
क्रियाशक्तिरतो जन्तुः सर्वभाग् जायते खलु
निदानं नास्ति दुर्गाया ममैव जगदम्बिके ।
अन्येषामस्ति वै स्वर्गे धरणीतलकेतने
अतः सत्यं पुनः सत्यं पुनः सत्यं वदाम्यहम् ।
भावाभावसमायुक्ता यान्ति मोक्षं निरामयम्
या पृच्छा ते निगदिता सर्वं जानामि शङ्करि ।
विदिता परमा विद्या करालवदना शिवा
एतस्याश्चरितं यस्तु एतस्याः साधकस्य च ।
चरितं दुर्लभं लोके तेषां मध्ये वदाम्यहम्
गुरुरेकः शिवः साक्षाद् गुरुः सर्वार्थसाधकः ।
गुरुरेव परं तत्त्वं सर्वं गुरुमयं जगत्
विना गुरुप्रसादेन कोटिपुरश्चरणेन किम् ।
गुरुपूजां विना देवि नहि सिध्यति भूतले
गुरुपूजां विना देवि इष्टपूजां करोति यः ।
मन्त्रस्य तस्य तेजांसि हरते भैरवः स्वयम्
देवतागुरुमन्त्राणामैक्यं सम्भावयन् धिया ।
तदा सिद्धो भवेन्मन्त्रः प्रकटे हानिरेव च
श्रीपार्वती उवाच
ऐक्यज्ञानं महादेव कथमुत्पद्यते प्रभो ।
नराकृतिगुरुर्मन्त्रे देवता ध्यानरूपिणी ॥
मन्त्राश्चाक्षररूपेण कथमैक्यं भवेच्छिव
श्रीशिव उवाच
धन्यासि प्राणतुल्यासि पतिभक्तासि पार्वति ।
एकजातिस्वरूपेण स्वभावादेकजन्मतः
एतेषां भावयोगे तु एकसाधनमेव हि ।
गुरोर्जातश्च मन्त्रश्च मन्त्रा जाता तु सुन्दरि
अत एव वरारोहे देवतायाः पितामहः ।
पितुश्च भावनाद् देवि तथा चैव पितुः पितुः
तदुद्भवं तोषमेति विपरीते विपर्ययः ।
गुरुः कर्ता गुरुर्हर्ता गुरुः पाता महीतले
गुरोः सन्तोषमात्रेण तुष्टाः स्युः सर्वदेवताः ।
गुरौ तुष्ते शिवस्तुष्टो रुष्टे रुष्टस्त्रिलोचनः
गुरौ तुष्टे शिवा तुष्टा रुष्टे रुष्टा च सुन्दरी ।
अतो गुरुर्महेशानि संसारार्णवलङ्घने
कर्ता पाता च हर्ता च गुरुर्मोक्षप्रदायकः ।
जीवः शिवः शिवो देवः सजीवः केवलः शिवः
पाशबद्धो भवेज्जीवः पाशमुक्तः सदाशिवः ।
प्रणम्य गुरुपादाब्जं ध्यात्वा च गुरुपादुकाम्
ज्ञात्वा परमतत्त्वं वै यो भजेत् कुलचण्डिकाम् ।
स कृतार्थः स धन्यश्च स कृतज्ञः स पण्डितः
स्वभावज्ञो महादेवि जायते नात्र संशयः ।
ध्यातः स्मृतः पूजितो वा नमितो वापि यत्नतः
ज्ञानतोऽज्ञानतो वापि पूजाकालं विमुक्तिदः ।
चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः
उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना ।
सर्वदेवमयीं देवीं सर्वदेवमयीं पराम्
अज्ञानां चिन्तयेद् देवीं परंब्रह्मस्वरूपिणीम् ।
नित्या च निष्कलङ्का च निराधारा निराश्रया
सर्वधारा निराधारा विजया च जयावहा ।
सगुणा निर्गुणा चेति महामाया द्विधा मता
सगुणा मायया युक्ता तया हीना च निर्गुणा ।
सगुणा च यदा देवी सगुणोऽयं सदाशिवः
निर्गुणा त्वं महामाये निर्गुणोऽहं न संशयः ।
त्वमेव निर्गुणो शक्तिरहमेव च निर्गुणः
यो भजेत् सगुणो देवि चाचिरात् सोऽपि निर्गुणः ।
गुणातीतं परं ब्रह्म निरीहं वर्णवर्जितम्
तदेव परमा विद्या काल्यादिसगुणान्विता ।
साधकस्य हितार्थाय शाक्तस्यानुग्रहाय च ॥
उत्थिता परमा विद्या सगुणा नात्र संशयः
॥ इति मुण्डमालातन्त्रे पार्वतीश्वरसंवादे प्रथमः पटलः
अथ द्वितीयः पटलः
एकदा पार्वती देवी करालवदना शिवा ।
पप्रच्छ पार्वति देवी हसन्ती कालिका परा
श्रीपार्वती उवाच
महादेव महेशान महेश्वर सदाशिव ।
पृच्छाम्येकं महाभाग कृपया कथय प्रभो
विना व्यानं कुम्भकं च प्राणायामं च कुल्लुकाम् ।
जपं तपो धारणं च सेतुं चैव विना करम्
विना हंसं विना पिण्डं विना भावं विना पदम् ।
कथं वा जायते सिद्धिर्वद नाथ जगद्गुरो
श्रीशिव उवाच
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरेव च जातिभिः ।
वामराशिप्रभावेण कर्तव्यं जपपूजनम्
ये शाक्ता ब्राह्मणा देवि क्षत्रिया ब्राह्मणाः स्मृताः ।
वैश्याश्च ब्राह्मणाश्चण्डि सर्वे शूद्राश्च ब्राह्मणाः
ब्राह्मणाः शङ्कराश्चण्डि त्रिनेत्रश्चन्द्रशेखरः ।
रक्तपुष्पैर्जगद्धात्रीं पूजयेद्धरवल्लभाम्
वज्रपुष्पेण देवेशि देवीं त्रिभुवनेश्वरीम् ।
पूजयेद् भक्तिभावेन दुर्गां मोक्षविधायिनीम्
हरसम्पर्कहीनाया लतायाः काममन्दिरे ।
जातं कुसुममादाय महादेव्यै निवेदयेत्
स्वयम्भुकुसुमं देवि रक्तचन्दनसंज्ञकम् ।
यथा त्रिशूलपुष्पं च वज्रपुष्पं वरानने
अनुकल्पं लोहिताग्रं चन्दनं हरवल्लभम् ।
कदाचित् कस्य मुक्तिः स्यात् कदाचिद् भुक्तिरेव च
एतस्याः साधकस्याथ भुक्तिर्मुक्तिः करे स्थिता ।
योगी चेन्नहि भोगी स्याद् भोगी चेन्नहि योगवान्
योगभोगात्मकं कौलं तस्मात् कौलं समभ्यसेत् ।
नहि योगी न वा भोगी न योगी योगवानिति
योगी भोगी न वा भोगी भवेद् भोगी न संशयः ।
शिवभक्तिं विना देवि यो धावति च मूढधीः
न योगी स्यान्न भोगी स्यात् कल्पकोटिशतैरपि ।
रुद्रस्य चिन्तनाद् रुद्रो विष्णुः स्याद् विष्णुचिन्तनात्
दुर्गायाश्चिन्तनाद् दुर्गा भवत्येव न संशयः ।
यथा शिवस्तथा दुर्गा या दुर्गा शिव एव सा
तत्र यः कुरुते भेदं स एव मूढधीर्नरः ।
देवि विष्णुशिवादीनामेकत्वं परिचिन्तयेत्
भेदकृन्नरकं याति रौरवं पापपूरुषः ।
नहि दुर्गासमा पूजा नहि दुर्गासमं फलम्
नहि दुर्गासमं ज्ञानं नहि दुर्गासमं तपः ।
दुर्गायाश्चरितं यत्र तत्र कैलासमन्दिरम्
इदं सत्यमिदं सत्यमिदं सत्यं वरानने ।
स्वर्गे मर्त्ये च पाताले नास्ति शाक्तात् परःप्रियः
सौराणां गाणपत्यानां वैष्णवानां तथैव च ।
ततोऽन्ते चैव शाक्तानां क्रमशः क्रमशः प्रिये
शृणु देवि वरारोहे नास्ति शाक्तात् परो जनः ।
शाक्तोऽपि शङ्करः साक्षात् परंब्रह्मस्वरूपभाक्
आराधिता येन काली तार त्रिपुरसुन्दरी ।
षोडशी चैव मातङ्गी छिन्ना च बगलामुखी
आराधिता महेशानि स शिवो नात्र संशयः ।
अतिगोप्यं वरारोहे शाक्तानां परमं पदम्
यो जानाति महीमध्ये स शिवो नात्र संशयः ।
ब्रह्माद्यर्चितपादाब्जं यो भजेत् सततं मुदा
स यात्यचिरकालेन मुक्तिमन्दिरमेव हि ।
एका विद्या च प्रकृतिरेकस्तु पुरुषः शिवः
एकोऽहं वैष्णवत्वं च एकमेव प्रभाषते ।
एवं च मनसा दुर्गां यो भजेद्धरवल्लभाम्
पूजयेद् यन्त्रपुष्पैष्तु साधको भुवि मण्डले ।
काककञ्चुं विधायैवं प्राणायामं विशुद्धिदम्
कुम्भकं मातृकान्यासं प्राणायामं पुनः पुनः ।
प्राणायामत्रयं भद्रे अधमोत्तममध्यमम्
अधमाद् जायते स्वेदो मध्यमाद् गात्रचालनम् ।
उत्तमाच्च क्षितित्यागो जायते नात्र संशयः
प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ।
नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः
प्राणायामेन सर्वेषां विश्रामो जायते भृशम् ।
जवापुष्पैर्द्रोणपुष्पैः करवीरैर्मनोहरैः
कृष्णापराजितापुष्पैर्वज्रैश्च मुनिपुष्पकैः ।
पूजयेत् परया भक्त्या चण्डिकां परमेश्वरीम्
कालीं करालवदनां मुण्डमालाविभूषिताम् ।
प्रणमेद् भक्तिभावेन पूजयेद्धरवल्लभाम्
हिमदिग्विहितो जन्तुः सर्वालङ्कारभूषितः ।
रक्ताम्बरपरीधानो रक्तामाल्यानुलेपनः
क्रमेणैबं महेशानि सोऽहमित्येव चिन्तयन् ।
एवमीशासने दुर्गां स्थित्वा च साधकोत्तमः
श्मशानं शवमारुह्य मध्यस्थो नरसाधकः ।
जपत्वा महामनुं गुह्यं वसेत् कैलासमन्दिरे
शिवोऽहं च शिवेयं च सदा वै मध्यभावना ।
आद्या माद्यां समास्थाय ध्यायेत् कुण्डलिनीं मुदा
कदाचित् तारिणीं विद्यां दुर्गां तारकतारिणीम् ।
पूजयेत् क्रियया शक्त्या ब्रह्मविद्यां मनोरमाम्
सहस्रारे महादेवं नीलकण्ठं सदाशिवम् ।
ब्रह्मादिगोप्यं देवेशं ध्यायेत् शक्तिसमन्वितम्
इदं च दुर्लभं तन्त्रं मन्त्रं यन्त्रं महीतले ।
वाक्यं परमनिर्वाणं दाम्भिके पशुसङ्कटे
गोप्तव्यं वै वरारोहे स्वयोनिरिव पार्वति ।
दिवा रात्रौ महाभागे प्रजपेत् परमं मनुम्
जप्त्वा भवेन्महाज्ञानी गाणपत्यं लभेत् तु सः ।
अहमेव शिवं ब्रह्म शिवोऽहं भैरवो ह्यहम्
भैरवोऽहं भैरवोऽहं रमणी मम भैरवी ।
मनसा ज्ञानमासाद्य साधकेन्द्रो भवेद् भुवि
एवं ज्ञानं परं नित्यं निर्विकारं मनोरमम् ।
प्राप्यैवं सर्वदा जीवो विहरेत् क्षितिमण्डले
पाद्यार्घ्याचमनीयाद्यैः पूजयेत् परमेश्वरीम् ।
सदानन्दः स विज्ञेयः सर्वधर्मार्थसाधकः
भक्त्या च क्रियया चण्डि प्रणमेद् यस्तु कालिकाम् ।
जीवः शिवत्वं लभते सत्यं सत्यं न संशयः
क्व यमः क्व तपो विष्णुः क्व कलिः कर्महिंसकः ।
सर्वं च मानसं क्लेशं सदा सत्यं विभावयेत्
एवं विधानमासाद्य प्रजपेत् भावयेत् सुधीः ।
सोऽचिरेणैव कालेन शिवत्वं लभते जनः
सदा क्रिया प्रकर्तव्या क्रियया सिद्धिमुत्तमाम् ।
प्राप्नोति सर्वदा शुद्धिमत एवं न वा त्यजेत्
श्मशानसिद्धिर्वैराग्यं शवसिद्धिर्वरानने ।
दुर्गानुग्रहमात्रेण भविष्यति न संशयः
दिव्यस्तु देववत् प्रायो वीरश्चोद्धतमानसः ।
पशुभावस्तथा देवि शुद्धश्च धरणीतले
श्रुत्वा हसन्ती काली सा करालकमला कला ।
दिगम्बरा दिव्यदेहा प्राह देवं त्रिलोचनम्
गोप्यं यत् कथितं नाथ श्रुतं परममादरात् ।
अतिगोप्यं रहस्यं च श्रोतुमिच्छाम्यहं पुनः
दिव्यं च दुर्लभं नाथ वीरो जातिविहिंसकः ।
पशौ नाधिष्ठिता दुरा वीरतन्त्रे पुरा श्रुतम् ॥
इदानीं श्रोतुमिच्छामि ब्रह्मवाक्यं सदाशिवम्
श्रीशिव उवाच
श्रुतं भैरवतन्त्रं च योनितन्त्रं कुलार्णवम् ।
कुलाचारं तथा गुप्तसाधनं गुरुतन्त्रकम्
निर्वाणं समयाचारं वीरतन्त्रं श्रुतं पुरा ।
डामरं डमरं डीनं श्रुतं कालीविलासकम्
सप्तकोटिमहाग्रन्था मम वक्त्राद् विनिर्गताः ।
यामलं देवि ब्रह्मोद्यं यामलं विष्णुयामलम्
शिवयामलकं देवि यामलं मित्रयामलम् ।
शक्तियामलकं दुर्गे कथितं च श्रुतं त्वया
तथापि हृदयग्रन्थिरस्ति ते परमेश्वरि ।
पुरा सुकथितं तन्त्रं पुरा देवि त्वया श्रुतम्
सङ्केतं समयाचारं तन्त्रं सङ्केतकं तथा ।
कुलसङ्केतकं नाम सङ्केतं बहुविस्तरम्
श्मशानसाधनं भद्रे शवसाधनमेव च ।
एतत् ते कथितं देवि नानाभावं पृथग्विधम्
किन्त्वेकं शृणु चार्वङ्गि कथयामि समासतः ।
मत्स्यं मांसं च मद्यं च मुद्रा मैथुनमेव च
दिव्यानां चैव वीराणां साधनं भावसाधनम् ।
न मद्यं प्रपिबेद् विप्रो न मुद्रां भक्षयेद् सदा
न मैथुनमगम्यासु कर्तव्यं सिद्धिनाशनम् ।
अवधूतः शिवः साक्षादवधूतः सदाशिवः
अवधूती शिवा देवी अवधूताश्रमो महान् ।
अवधूतश्च द्विविधो गृहस्थश्च हितानुगः
सचेलश्चापि दिग्वासो विधियोनिविहारवान् ।
सदारः सर्वदावस्थो ह्यर्द्धहासो दिगम्बरः
गृहावधूतो देवेशि द्वितीयस्तु सदाशिवः ।
न कलौ साधनं मद्यं प्रत्यक्षं वरवर्णिनि
गृहावधूतः सर्वत्र कर्तव्यं च दिगम्बरि ।
अत एव वरारोहे मिश्राचारं प्रकल्पयेत्
एवमाचारमिश्रेण पूजयेद् यस्तु कालिकाम् ।
सन्तुष्टा सा जगद्धात्री मोक्षमार्गविधायिनी
स्वकरस्थश्च भोगश्च स्वकरस्थश्च मोक्षकः ।
देवीमन्त्रप्रसादेन किं न सिध्यति भूतले
सुराणां चाऽसुराणां च किन्नराणां च पार्वति ।
शरण्यं तारिणीपादपद्मं मोक्षप्रदायकम्
जवापराजिताद्रोणकरवीरैः सितेतरैः ।
गन्धैर्मालूरपत्रैश्च नैवेद्यैर्विविधैरपि
एवं विधिर्विधातव्यः क्रियासिद्धिकरात्मकः ।
तदैव जायते सिद्धो जीवन्मुक्तः सदाशिवः
नारिकेलोदकं चार्द्रं जलं सर्वार्थसाधनम् ।
कांस्ये गुडे सव्यकरे कृत्वा कारणकल्पनम्
तदा पूजा विधातव्या मद्येन नगनन्दिनि ।
ब्राह्मणी क्षत्रिया वैश्या शूद्राणी सर्वमङ्गला
शुक्लं रक्तं तथा पीतं कृष्णं च भद्रमीरितम् ।
शुक्लपुष्पं ब्राह्मणे तु रक्तपुष्पं च क्षत्रीये
वैश्ये च पीतपुष्पं च शूद्रे कृष्णं तदीरितम् ।
संविदासुरयोर्मध्ये संविदैव गरीयसी
अनुकल्पानि चान्यानि न दद्यात् केवलां सुराम् ।
संविदापानमात्रेण स वीरः स च मद्यपः
वाग्जालशास्त्रे कथितं निषिद्धं नगनन्दिनि ।
न ग्राह्यं तस्य वाक्यं च ग्राह्यं तन्त्रात्मकं वचः
शिवा कर्त्री शिवा हर्त्री शिवा शिवविधायिनी ।
शिवेयं रमणी देवी शिवोऽहं शिवकामिनी
सदाशिवशिवराध्या शिवानन्दविधायिनी ।
वामानन्दः शिवानन्दो भवेद् भवसमो जनः ॥
त्रयाणां भावतत्त्वज्ञो भवयेवं वरानने
॥ इति मुण्डमालातन्त्रे पार्वतीश्वरसंवादे द्वितीयः पटलः ॥
अथ तृतीयः पटलः
कैलासशिखरासीनमिन्दुखण्डविभूषितम् ।
पार्वती परया भक्त्या प्राह देवं त्रिलोचनम् ॥
श्रोतुमिच्छाम्यहं नाथ तन्त्रान् बहु परिप्लुतान्
श्रीपर्वती उवाच
देवदेव महादेव संसारार्णवतारक ।
नमस्ते देव देवेश नीलकण्ठ त्रिलोचन
नमस्ते पार्वतीनाथ दशविद्यापते नमः ।
गङ्गाधर जगत्स्वामिन् प्रभो शङ्कर भो हर
निःशेषजगदाधार निराधार निरीहक ।
निर्बीज निर्गुणाभाष सगुणान्तकर प्रभो
नमस्ते विजयाधार विजयेश जयात्मक ।
विजयानन्द सन्तोष विजयाप्राणवल्लभ
जगदीश जगद्बन्द्य जयेश जगदीश्वर ।
विश्वनाथ प्रसीद त्वं प्रसन्नो भव शङ्कर
श्रीशिव उवाच
सप्तकोटिमहाविद्या उपविद्या तथैव च ।
श्रीविष्णोः कोटिमन्त्रेषु कोटिमन्त्रे शिवस्य च
शूद्राणामधिकारोऽस्ति स्वाहाप्रणववर्जिते ।
सर्वेषां दुर्लभो मार्गो दुर्गामार्गो महेश्वरि
भक्तानां खलु शाक्तानां सुलभात् सुलभः प्रिये ।
नातः परतरो देवो नातः परतरं सुखम्
नातः परतरा विद्या नातः परतरं पदम् ।
शृणु देवि वरारोहे परात् परं प्रिये
केवलं दक्षिणं सव्यमाश्रित्य यदि साधकः ।
भावयेत् परमां विद्यामुमेशो नात्र संशयः
शृणु चण्डि वरारोहे करालास्ये दिगम्बरे ।
स्तौति त्वां सततं भक्त्या नमस्ते जगदम्बिके
श्रीशिव उवाच
घोरदंष्ट्रे करालास्ये सुरामांसबलिप्रिये ।
चण्डमुण्डक्षयकरे मुण्डमालाविभूषिते
नमस्तेऽस्तु महामाये दुर्गे महिषवाहिनि ।
नमस्ते जगदीशानदयिते सर्वमङ्गले
वक्ष्ये परमतत्त्वं वै सारात् सारं परात् परम् ।
शृणु देवि जगद्धात्रि सावधानाऽवधारय
योनिमुद्राप्रकरणं पूर्वं च गदितं मया ।
त्रिकोणं गुणसंयुक्तं योनिं परमकारणम्
संगच्छेत् तु शिवाबुद्ध्या शिवरूपी न संशयः ।
तुषेण बद्धो व्रीहिः स्यात् तुषाभावे तु तण्डुलः
कर्मबद्धो भवेज्जीवः कर्ममुक्तः सदाशिवः ।
जीवानां परमो रोगः कर्मभोगः सुदारुणः
तस्मात् तारां जगद्धात्रीं पूजयेद् भक्तिभावतः ।
जटा - भस्म - व्याघ्रचर्मधारी परमपावनः
निरन्तरं जपेद् यस्तु साधकेन्द्रो धरातले ।
स धन्यः स कविर्वीरो दिव्यस्तु परमः पशुः
भावशुद्धिर्ज्ञानशुद्धिः परशुद्धिस्तु सङ्गता ।
चिताशुद्धिः पीठशुद्धिर्ध्यानशुद्धिस्तु सच्छिवा
ज्ञात्वा परमतत्त्वं वै ज्ञानं मोक्षैकसाधनम् ।
भवेत् तु परया बुद्ध्या जीवः शिवत्वमालभेत्
विहारं जगदम्बायाः सहस्रारे मनोरमम् ।
सदाशिवेन संयोगं यः करोति स पण्डितः
ज्ञानिनां च मतं वक्ष्ये ज्ञानिनां च मतं मुदा ।
ज्ञानाऽज्ञानसमायुक्तः सर्वदा विहरेद् भुवि
इडा वामे स्थिता नाडी विधुस्तत्रापि तिष्ठति ।
दक्षेऽपि पिङ्गला नाडी सूर्यस्तत्रापि तिष्ठति
मध्ये सुषुम्ना तन्मध्ये ब्रह्मनाडी मनोहरा ।
मध्यमं खं विदध्याद् यो जनो मृत्युञ्जयो भवेत्
चित्रिणीमध्यगं वायुं पूरणं रेचनं यदा ।
करोति वामनासाग्रैरपि सत्यं सुरेश्वरि
दक्षे तु दक्षिणा वामा विरामा चाऽसितासिता ।
नाडी वामे कपाला च विजिह्वा शूलकारिणी
कङ्काला निष्कलङ्का च सव्यदक्षिणतः क्रमात् ।
भित्वा च क्रमशश्चक्रं योगिन्द्रैरप्यलभ्यगम्
नभोमध्यगतं चक्रं सहस्राब्जं मनोरमम् ।
कालीपुरं तत्र रम्यं सर्ववर्णात्मकं प्रिये
विधाय चैनां मनसा बुद्ध्या कायेन चण्डिकाम् ।
तत्रैव ध्यानमासाद्य प्रकरोति जपार्चनम्
यदि ध्यानं वरारोहे करोति सततं मुदा ।
तदैव जायते सिद्धिर्मुक्तिरव्यभिचारिणी
न च ध्यानं न वा पूजा न स्तुतिः परमार्थिका ।
पूजयेत् तां जगद्धात्रीं कुसुमैर्मानसोद्भवैः
कामरूपे द्विजागारे श्वपचस्य गृहेऽथवा ।
गङ्गाद्वारे प्रयागे च या मुक्तिः पावनी मुखे
यत्र कुत्र मृतो ज्ञानी तत्रैव मोक्षमाप्नुयात् ।
दुर्गास्मरणजं पुण्यं दुर्गास्मरणजं फलम्
दुर्गायाः स्मरणेनैव किं न सिध्यति भूतले ।
शैवो वा वैष्णवो वापि शाक्तो वा गिरिनन्दिनि
भजेद् दुर्गा स्मरेद्दुर्गां जयेद् दुर्गां शिवप्रियाम् ।
तत्क्षणाद् देवदेवेशि मुच्यते भवबन्धनात्
क्षीरोद्धृतं यद्व * * * तत्र क्षिप्तं न पूर्ववत् ।
पृथक् त्वया गुणेभ्यः स्यात् तद्वदात्मा इहोच्यते
क्षीरेण सहितं तोयं क्षीरमेव यथा भवेत् ।
अविशेषो भवेत् तद्वद् जीवात्मपरमात्मनोः
यथा चन्द्रार्कयोर्बिम्बो जलपूर्णघटेषु च ।
घटे भग्ने जलेष्वेव प्रलीनौ चन्द्रसूर्यकौ
न जायते न म्रियते आत्मा तु परमः शिवः ।
आत्मज्ञानं समासाद्य संसारार्णवलङ्घने
तरत्येवं सदा चण्डि जीवः शिवत्वमालभेत् ।
पार्वतीचरणद्वन्द्वभजनात् किन्नरो भवेत्
स्वर्गो भोगश्च मोक्षश्च शाक्तानां न भवेत् किमु ।
शाक्तानां चैव निन्दा वै ये कुर्वन्ति नराधमाः
तेषां लोहितपानं वै कुर्वन्ति भैरवा गणाः ।
भैरवाश्चैव भैरव्यः सदा हिंसन्ति पामरान्
तेषां क्षतजपानं वै कुर्वन्ति बहुरक्तपाः ।
शाक्तान् हिंसन्ति गर्जन्ति निन्दति बहुजल्पकाः
भिनत्ति तेषां देवेशि शिरांसि शिववल्लभा ।
शाक्तानामुत्तमो नास्ति स्वर्गे मर्त्ये रसातले
शाक्तस्तु शङ्करो ज्ञेयस्त्रिनेत्रश्चन्द्रशेखरः ।
स्वयं गङ्गाधरो भूत्वा विहरेत् क्षितिमण्डले
नास्ति तन्त्रसमं शास्त्रं न भक्तः केशवात् परः ।
न योगी शङ्करो ज्ञानी न दुर्गा देवता परा
दक्षिणांशे यद्विक्षीणा उरो बाह्यमधः क्षिपेत् ।
गतिर्मृत्युः पलाङ्कोऽर्द्धं खेदयुक्ता च मुक्तिदा
दुर्गाया मन्त्रनिकरं नानातन्त्रे त्वया श्रुतम् ।
नानामन्त्रं न कुत्रापि कथितं न श्रूतं त्वया
दुर्गा दुर्गेति दुर्गेति दुर्गानाम परं मनुम् ।
यो भजेत् सततं चण्डि जीवन्मुक्तः स मानवः
महोत्पाते महाघोरे महाविपदि सङ्कटे ।
महादुःखे महाशोके महाभयसमुत्थिते
यः सदा संस्मरेद् दुर्गां यो जपेत् परमं मनुम् ।
स जीवलोके देवेशि नीलकण्ठत्वमाप्नुयात्
जीवः शिवः शिवा वामाऽभिरामा शिवनन्दिनि ।
एवं भावं समाश्रित्य क्रियाभक्तिसमन्वितः
भवत्येवं क्व वा दुःखं क्व भयं नरकं क्व वा ।
क्व कलिश्च क्व कालश्च सर्वं सत्यमयं वपुः
काल्याश्चैव हि तारायास्त्रिपुरायाश्च सुन्दरि ।
भैरव्या भुवनायाश्च चरितं मुक्तिदायकम्
मुक्तिशययां ज्ञानमयीं सदा सन्तोषकारिणीम् ।
येनैव भावमासाद्य गच्छेद् दुःखविनाशिनीम्
जपनं पार्वतीदेव्याः पूजनं पार्वतीपदम् ।
शरणं पार्वतीदेव्याश्चरणं भवनाशनम्
कालस्य यन्त्रणात् काली करालारिविमर्दनात् ।
तस्मात् पदाङ्घ्रिभजनाद् देवीपुत्रो भवेद् ध्रुवम्
पुरा निगदितं चण्डि नानाचारं पृथग्विधम् ।
इदानीं यागवृत्तान्तं मनसः शृणु शङ्करि
हृत्पद्मे भावयेद् दुर्गां देवीं दुर्गतिनाशिनीम् ।
करालां घोरदंष्ट्रां च मुण्डमालाविभूषिताम्
शवारूढां श्मशानस्थां तारिणीं च दिगम्बराम् ।
अर्द्धहासां ललज्जिह्वां मेघश्यामां वरप्रदाम्
भवानीं यः स्मरेन्नित्यमन्ते स पार्वतीपतिः ।
सहस्रारे स्थितं लिङ्गं तप्तचामीकरप्रभम्
कदा शुक्लं कदा कृष्णं पीतं नीलं कदा कदा ।
कदा वर्णमयं लिङ्गं स्वरादिपरिभूषितम्
पद्ममध्यस्थितं लिङ्गं ज्योतिर्मयमचिन्तकम् ।
जीवादिभूषितं लिङ्गं कर्णिकोपरि संस्थितम्
सदाशिवं ततो भक्त्या प्रणमेद् भक्तिसंयुतः ।
तदा सिद्धिमवाप्नोति नान्यथा कल्पकोटिभिः ॥
किं बहूक्त्या महेशानि गुरुभक्त्या च सिध्यति
॥ इति मुण्डमालातन्त्रे पार्वतीश्वरसंवादे तृतीयः पटलः
अथ चतुर्थः पटलः
देवी उवाच
पृच्छाम्येकं महाभाग योगेन्द्र भक्तवत्सल ।
पृच्छामि परमं तत्त्वं देवदेव सदाशिव
श्रीशिव उवाच
कथयिष्ये जगद्धात्रि दुर्गायाश्चरितं शृणु ।
एका दुर्गा जगद्धात्री एको हि परमः शिवः
मदंशाश्चैव ये भूतास्ते शैवा नात्र संशयः ।
त्वदंशाश्चैव शाक्ताश्च सत्यं वै गिरिनन्दिनि
बहुवर्षसहस्रान्ते शैवाः शक्तिपरायणाः ।
शाक्ताश्च शाङ्करा देवि यस्य कस्य कुलोद्भवाः
चाण्डाला ब्राह्मणाः शूद्राः क्षत्रिया वैश्यसम्भवाः ।
एते शाक्ता जगद्धात्रि न मानुष्याः कदाचन
पश्यन्ति मानुषान् लोके केवलं चर्मचक्षुषा ।
श्रद्धयाऽश्रद्धया वापि यः कश्चिन्मानवः स्मरेत्
दुर्गां दुर्गशतोत्तीर्य स याति परमां गतिम् ।
यथेन्द्रश्च कुबेरश्च वरुणः साधको यथा
तथा च साधको लोके दुर्गाभक्तिपरायणः ।
अभक्त्यापि च भक्त्या वा यः स्मरेद् रुद्रगेहिनीम्
सुखं भुक्त्वेह लोके तु स यास्यति शिवालयम् ।
इहैव स्वर्गं नरकं मोक्षं वा गिरिनन्दिनि
इह लोके तु वासः स्यात् सर्वशक्तिमयं जगत् ।
दुर्गायाः शतनामानि शृणु त्वं भवगेहिनि
दुर्गा भवानी देवेशी विश्वनाथप्रिया शिवा ।
घोरदंष्ट्रा करालास्या मुण्डमालाविभूषिता
रुद्राणी तारिणी तारा माहेशी भववल्लभा ।
नारायणी जगद्धात्री महादेवप्रिया जया
विजया च जयाराध्या शर्वाणी हरवल्लभा ।
असिता चाणिमा देवी लघिमा गरिमा तथा
महेशशक्तिर्विश्वेशी गौरी पर्वतनन्दिनी ।
नित्या च निष्कलङ्का च निरीहा नित्यनूतना
रक्ता रक्तमुखी वाणी वसुयुक्ता वसुप्रदा ।
रामप्रिया रामरता रघुनाथवरप्रदा
बाह्येश्वरी बाह्यरता कृष्णा कृष्णवरप्रदा ।
यशोदा राधिका चण्डी द्रौपदी रुक्मिणी तथा
गुहप्रिया गुहरता गुहवंशविलालिनी ।
गणेशजननी माता विश्वरूपा च जाह्नवी
गङ्गा काली च काशी च भैरवी भुवनेश्वरी ।
निर्मला च सुगन्धा च देवकी देवपूजिता
दक्षजा दक्षिणा दक्षा दक्षयज्ञविनाशिनी ।
सुशीला सुन्दरी सौम्या मातङ्गी कमलात्मिका
निशुम्भनाशिनी शुम्भनाशिनी चण्डनाशिनी ।
धूम्रलोचनसंहर्त्रीं महिषासुरमर्दिनी
उमा गौरी कराला च कामिनी विश्वमोहनी ।
जगदीशप्रिया जन्मनाशिनी भवनाशिनी
घोरवक्त्रा ललज्जिह्वा अट्टहासा दिगम्बरा ।
भारती स्वर्गता देवि भोगदा मोक्षदायिनी
इत्येवं शतनामानि कथितानि वरानने ।
नामस्मरणमात्रेण जीवन्मुक्तो न संशयः
यः पठेत् प्रातरुत्थाय स्मृत्वा दुर्गापदद्वयम् ।
मुच्यते जन्मबन्धेभ्यो नात्र कार्या विचारणा
सिद्धिकाले दिवाभागे निशायां वा निशामुखे ।
पठित्वा शतनामानि मन्त्रसिद्धिं लभेद् ध्रुवम्
अज्ञात्वा स्तवराजं तु दशविद्यां लभेद् यदि ।
तथा नैव च सिद्धिः स्यात् सत्यं सत्यं महेश्वरि
कामरूपे कामभागे कामिनीकाममन्दिरे ।
कामिनीवल्लभो भूत्वा विहरेत् क्षितिमण्डले
वामभागे तु रमणीं संस्थाप्य वरवर्णिनि ।
ताम्बूलपूरितमुखः सर्वदा तारिणीं भजेत्
महानिशाभागमध्ये वामे तु वामलोचनाम् ।
कृत्वा जपति तन्मन्त्रं सिद्धिदं सर्वदेहिनाम्
विलोक्य मुखपद्मं च वामाया रमणीमुखः ।
प्रकरोत्यट्टहासं च ततो दुर्गा प्रसीदति
परं ब्रह्म परं धाम परमानन्दकारकम् ।
नित्यानन्दं निर्विकारं निरीहं तारिणीपदम्
ध्यात्वा मोक्षमवाप्नोति सत्यं परमसुन्दरि ।
यथा दुर्गा तथा वामा यथा वामा तथा शिवा
शिवभक्तिमयो भूत्वा विहरेत् सर्वदा शुचिः ।
विना कालीपदद्वन्द्वं कः शाक्तो धरणीतले
शक्तिहीनः शवः साक्षात् शक्तियुक्तः सदाशिवः ।
शक्तियुक्तो भवेद् विष्णुरथवा विष्णुरेव हि
राजमार्गं शक्तिमार्गं जानीहि जगदम्बिके ।
अन्यपूजा न कर्तव्या न स्तुतिर्न च भावना
न च ध्यानं योगसिद्धिर्नान्यमन्त्रं विचक्षणैः ।
केवलं कालिकापादपद्मं भवविघट्टनम्
नान्यो देवो न वा तीर्थं न ध्यानं न च जल्पना ।
न तीर्थभ्रमणं चण्डि न वात्र योगधारणा
स्तुतिर्दुर्गा मतिर्दुर्गा स्थितिर्दुर्गा सदाशिवः ।
क्षुधा निद्रा दयाभ्रान्तिः क्षान्तिर्दुर्गा यतो गतिः
शक्तिः शिवः शिवः शक्तिः शक्तिर्ब्रह्मा जनार्दनः ।
शक्तिः सूर्यश्च चन्द्रश्च कुबेरो वरुणश्च यः
शक्तिरूपं जगत् सर्वं यो न वेत्ति स पातकी ।
एवं शक्तिमयं विश्वं यो वेद धरणीतले
स वेद धरणीमध्ये कालिकां जगदम्बिकाम् ।
स एव सर्वशास्त्रेषु कोविदः सर्ववल्लभः
श्मशानसिद्धिं लभते नात्र कार्या विचारणा ।
शून्यागारं श्मशानं वा तुल्यं परमकोविदैः
यो वा गच्छति तत्रैव स विश्वेशो भवेद् ध्रुवम् ।
निशाभागे चतुर्दश्याममायां हरवल्लभे
जपेदयुतसंख्यं च स सिद्धः सर्वकर्मसु ।
स योगीन्द्रः स भावज्ञः स घीरः सर्वकर्मसु
नित्यानदः स विज्ञेयः सर्वकार्यविशारदः ।
प्रभातेऽश्वत्थमूले तु गत्वा परमकोबिदः
पूजयेत् परया भक्त्या सामिषैर्लोहितैरपि ।
बोल्वैर्बिल्वदलैर्वापि बिल्वपुष्पं वरानने
जपेल्लक्षं चतुर्दश्यामारभ्य नगनन्दिनि ।
पञ्चमेन यजेद् देवीं बिल्वमूले दिवानिशम्
तदा वाक्सिद्धिमाप्नोति क्षुद्रो वाचस्पतिर्भवेत् ।
आसनं द्वादशविधं सङ्केतासनमुत्तमम्
भद्रपीठासनं पद्मासनं सिद्धासनं तथा ।
सिद्धसिद्धासनं देव्यासनं च कुक्कुटासनम्
वीरासनं परं भद्रे चासनं वरदासनम् ।
सिंहासनं परं देवि श्मशानासनमुत्तमम्
शवासनं वरारोहे देवानामपि दुर्लभम् ।
यत्राश्रयेत् परं ब्रह्मासनं परमभूषितम्
वामभागे स्त्रियं स्थाप्य धूमामोदसुगन्धिभिः ।
ताम्बूलचर्वणाद्यैश्च पूजयेद् भवगेहिनीम्
भवानीं तारिणीं विद्यां ब्रह्मविद्यां मनोहराम् ।
स्तुत्वा मोक्षमवाप्नोति तत्क्षणादेव शाङ्करि
विश्वमातर्जयाधारे विश्वेश्वरि नमोऽस्तु ते ।
करालवदने घोरे चन्द्रशेखरवल्लभे
मां तारय महाभागे देहि सिद्धिमनुत्तमाम् ।
कामकल्पलतारूपे कामेश्वरि कलामते
कामरूपे च विजये निस्तारे यशवाहिनी ।
गृहीत्वा शवचाण्डालं धृत्वा भालं मुखं शिरः
नासां कर्णौ च हृत्पद्मं नाभिं लिङ्गं गुदं तथा ।
बाहू पृष्ठं च जठरं धृत्वा धृत्वा मुहुर्मुहुः
आदौ मायां पुनर्मायां पुनर्मायां नियोजयेत् ।
वधूबीजं तथा लज्जा सर्वाङ्गे निक्षिपेन्मनुम्
अष्टोत्तरमनुं जप्त्वा कृत्वा च वन्दनं शिवम् ।
पुनर्विहारबीजेन नीलद्रव्येण चक्षुषा
तत्क्षणाद् देवदेवेशि जायते नात्र संशयः ।
शून्यागारे महेशानि भवेद् धनददिङ्मुखः
शङ्खमाला गृहीतव्या स्फाटिकी वाऽथ राजती ।
चामीकरमयी माला प्रवालघटिताऽथवा
मूर्ध्नि देशे कुल्लुकां च जप्त्वा शतमनुत्तमम् ।
तदा मन्त्रं जपेन्मन्त्री महेशो नात्र संशयः
स शक्तः शिवभक्तश्च भैरवश्च सदाशिवः ।
कुलीनश्च कुलज्ञश्च यो जपेत् तारिणीमनुम्
हृत्पद्मगां जगद्धात्रीं मूर्ध्निं संस्थां सुरेश्वरीम् ।
भुजङ्गिनीं जागरिणीं भुजगादिविभूषिताम्
नारदाद्यैः साधकेन्द्रैः सेवितां सिद्धसेविताम् ।
अश्वत्थे बिल्वमूले वा स्वजायामन्दिरेऽथवा
देवीं वा कामिनीं वापि ध्यायेत् परमदेवताम् ।
आद्यां ज्योतिर्मयीं विद्यामभयां वरदां शिवाम्
प्रणमेत स्तुतिभिश्चण्डीं सर्वदोषनिकृन्तनीम् ।
श्मशानस्थः शिवस्थोऽपि पठेत् कवचमुत्तमम्
तदा श्मशाने देवेशि शवे वा वरवर्णिनि ।
सिद्धिर्भविष्यति तदा परपक्षा न भैरवाः
उन्मत्तः क्रोधनश्चैव भैरवो बटुकात्मकः ।
संहारो भीषणश्चैव तथा च कालभैरवः
महाकालभैरवश्च एते वै वसुसङ्ख्यकाः ।
दृष्ट्वा श्मशानं देवेशि शवसाधनमेव च
नृत्यन्ति भैरवाः सर्वे गर्जन्ति रक्तलोचनाः ।
अद्य मत्सदृशो वापि अद्यैव वातुलोऽपि वा
शवश्मशानयोर्मध्ये न जानामि कथञ्चन ।
मा भैषीर्भैरवाः सर्वे वदिष्यन्ति च बन्धनात्
सिंहव्याघ्रवराहाद्याः के वा गर्जन्ति सर्वतः ।
मा भैषीश्चैव मा भैषीर्मा भैषीश्चैव साधक
यो वा वदिष्यति पुरः स गुरुस्तत्त्वकोविदः ।
विना तन्त्रपरिज्ञानाद् विना गुरुनिषेवणात्
प्राणायामाद् विना ध्यानाद् विना मन्त्रविचालनात् ।
विना ज्ञानाद् विना न्यासाद् विना शवविबन्धनात्
विना भावाद् विना लाभाद् विना सत्सङ्गसेवनात् ।
विना जापाद् विना तापाद् विनापि काममन्दिरात्
नहि सिध्यति देवेशि प्रत्यक्षं हरवल्लभा ।
यदि भाग्यवशाद् देवि प्रत्यक्षं हरवल्लभा ॥
तदैव जायते सिद्धिर्महाविद्या प्रसीदति
॥ इति मुण्डमालातन्त्रे पार्वतीश्वरसंवादे चतुर्थः पटलः
अथ पञ्चमः पटलः
एकदा पार्वती देवी कैलासनिलयाश्रया ।
अट्टहासं प्रकुर्वन्ती प्राह गद्गदया गिरा
श्रीपार्वती उवाच
देवदेव महादेव विश्वनाथ सदाशिव ।
पृच्छामि जगदीशान मम मन्दिरघर्षणम्
किंविधं वापि भो नाथ कस्मिन् काले महेश्वर ।
शिवशक्तिमयं ब्रह्म नित्यानन्दमयं वपुः
नवकन्यापूजनं च श्रुतं विश्वेश्वर प्रभो ।
कुमारीपूजनं देव श्रुतं तव प्रसादतः
श्रीशिव उवाच
शृङ्गारं द्वादशविधं विपरीतं चतुर्विधम् ।
चतुर्विधं च शैवानां नवेषु च करेषु च
यो न जानाति विश्वेशि स पशुर्नात्र संशयः ।
पशोरग्रे न प्रकाश्यं न प्रकाश्यं कथञ्चन
पशुस्तु दारुणः शत्रुः सर्वभावविलोपकृत ।
कल्पकोटिशतेनापि वत्सरेणापि शाङ्करि
नहि सिध्यति विश्वेशि सत्यं सत्यं वदाम्यहम् ।
शृङ्गाररसलावण्यं यो न जानाति पण्डितः
स मूर्खः सर्वशास्त्रेषु शक्तिभ्रष्टो न संशयः ।
शृङ्गाररसलावण्ये शाक्तानन्दो यथा भवेत्
न शैवे वैष्णवे वापि सौरे वा गाणपत्यके ।
तथानन्दो महेशानि जायते न कथञ्चन
शिवो जातिः शिवो गात्रं शिवो धर्मः शिवो रतिः ।
शिवः कर्ता शिवः पाता शिवो हर्ता शिवात्मकः
शिवो बुद्धिः शिवः शान्तिः शिवो गतिः शिवो मतिः ।
शिवः क्रिया शिवः शक्तिः शिवो मुक्तिः शिवात्मिका
शिवोऽहं नात्र सन्देहो जीवोऽहं शिव एव हि ।
इत्येवं यस्य मनसि वर्तते गिरिनन्दिनि
तदैव जायते सिद्धिर्मुक्तिरव्यभिचारिणी ।
शक्तिमार्गे वारारोहेऽवधूतः शङ्करः स्वयम्
अवधूती यस्य वामाऽवधूतस्तु स्वयं भवेत् ।
यत्र कुत्र निवासश्च कैलासो नात्र संशयः
मन्दिरं तस्य कैलासं स्तम्भं मणिमयं स्मृतम् ।
वृक्षाश्च पर्वताश्चैव क्षुद्राः सर्वप्रिये शिवे
क्षुद्राश्च बान्धवा रुद्राः सुप्रधानाः सदाशिवाः ।
भैरवाः किङ्कराः सर्वे भैरव्यश्चेटिकादिकाः
एवं कैलासभवनं सर्वानन्दकरं परम् ।
मनोहरं सुखमयं सर्वशान्तिमयं तथा
सर्वप्रियं गुणमयं सर्वसौख्यादिसम्भवम् ।
एवं सर्वमयं सौख्यं यो वै द्रक्ष्यति हे प्रिये
सर्वशक्तियुतो भूत्वा विहरेत् क्षितिमण्डले ।
कृष्णाष्टम्यां नवम्यां वा प्रजपेदयुतं निशि
तदा सिद्धिमवाप्नोति मन्त्रकालपुरःसरः ।
एवं क्रिया प्रकर्तव्या गुप्ता गुप्ततरा स्मृता
गुप्ता गुप्तरा पूजा प्रकरात् सिद्धिनाशिनी ।
अन्तःशाक्ता बहिःशैवाः सभायां वैष्णवा मताः
नानारूपधराः कौला विचरन्ति महीतले ।
एवं विधानसम्भूतं श्रुतं तन्त्रं च मोहनम्
कुलज्ञानं कुलीनस्य योगिनीहृदयं श्रुतम् ।
सम्मोहनं वीरतन्त्रं श्रुतं श्रीतन्त्रमुत्तमम्
कुलार्णवस्तथा कालीतन्त्रं कालीविलासकम् ।
श्रीकालीकल्पलतिका श्रुता परममादरात्
मतभेदे च गुप्ता सा पूजा प्रकटनाशिनी ।
अन्तःशाक्ता बहिःशाक्ताः क्रियाशाक्ता वरानने
भक्तिशाक्ताः कामशाक्ता ध्यानशाक्ता महेश्वरि ।
रतिशाक्ताः शक्तिशाक्ताः सर्वकर्मसु नान्यथा
अन्तःशैवा बहिःशिवाः सभायां वा गृहेऽथवा ।
वैष्णवास्तादृशा एव सर्वकालेषु शङ्करि
इत्येवं परमो भावो गदितः सर्वयोनिषु ।
एवं भावं समाश्रित्य शाक्ताः परमपूजकाः
नित्यानन्दमयाः सर्वे त्रिनेत्राश्चन्द्रशेखराः ।
सदा शक्तिविहारं च सदानन्दपरिप्लुताः
सदानन्दः स विज्ञेयः सर्वकर्मसु कौशलः ।
कुलधर्मं समाश्रित्य ये वसन्ति महीतले
ते शिवास्ते शिवा जीवा भवन्ति कुलधर्मतः ।
कुलीनः शङ्करो देव कुलीनस्तु हरिः स्वयम्
कुलीनो वासवो देवः कुलीनस्तु पितामहः ।
कुलीना मुनयः सर्वे कुलीनाः पितरः स्मृताः
किन्नराश्च कुलीनाश्च नराश्च पशुजीविनः ।
असुराश्च कुलीनाश्च कुलजा न कुलीनकाः
अतो न भक्तिर्नो मुक्तिरसुराणां कदाचन ।
राक्षसाश्च कुलीनाश्च गन्धर्वाप्सरयक्षजाः
देवीभक्तिं समास्थाय कृतार्थश्च महीतले ।
विना दुर्गापरिज्ञानाद् विफलं पूजनं जपः
तपः क्रिया विशुद्धिः स्यादेतत् सर्वमनर्थकम् ।
मूर्खो वा पण्डितो वापि ब्राह्मणो वा वरानने
क्षत्रियो वैश्यजः शूद्रश्चाण्डालो वरवर्णिनि ।
सर्वे तुल्याश्च शाक्ताश्च ह्येतत् सर्वार्थसाधकम्
शृणु देवि वरारोहे मम वाक्यं सुनिश्चितम् ।
शृङ्गाररसलावण्यं कोविदः सर्वकर्मसु
शृङ्गाराज्जायते सृष्टिः शृङ्गाराज्जायते रतिः ।
शृङ्गाराच्छङ्करस्तुष्टः शृङ्गारादपि पार्वति
सन्तुष्टा त्वं च सन्तुष्टो ह्यहमेव वरानने ।
शृङ्गारशब्दं ललितं कर्कशं वा सुरेश्वरि
शृङ्गारशब्दमात्रेण जना यास्यन्ति सद्गतिम् ।
स्त्रियो देव्यः स्त्रियः प्राणाः स्त्रिय एव हि भूषणम्
स्त्रीद्वेषो नैव कर्तव्यस्तासु निन्दां प्रहारकम् ।
वर्जयेद् देवदेवेशि घृणालज्जाविवर्जितः
स्त्रीरूपं तारिणीरूपं यो वेत्ति धरणीतले ।
स स्त्रीपतिश्च विज्ञेयः स एव पार्वतीपतिः
कुजे शनैश्चरे वारे गुरौ वा भार्गवे तथा ।
तृतीयां वा द्वितीयां वा पूजयेद् भक्तिभावतः
प्रथमो भक्तिसम्पन्नो जनो वापि जनार्दनः ।
आद्यां ज्योतिर्मयीं देवीं चतुर्थी वापि शाङ्करि
पूजयेत् पञ्चमीं विद्यां पञ्चमेन विभूषिताम् ।
पञ्चाननप्रियां दुर्गां पूजयेद् भक्तिभावतः
एषा क्रिया वरारोहे सात्त्विकी राजसी तथा ।
तामसी चैव देवेशि श्रुता पूजा महेश्वरि
या या पूजा निगदिता सा सा पूजा त्वया श्रुता ।
इदानीं कुण्डपुष्पेण गोलपुष्पेण शाङ्करी
चक्रपुष्पेण शूलेन वज्रपुष्पेण पार्वति ।
कालपुष्पेण देवेशि पूजयेद्धरवल्लभाम्
तदा सिद्धिमवाप्नोति सत्यं सत्यं न संशयः ।
कुलमार्गे रतो जीवः शिव एव न संशयः
कुलधर्मार्थगो जन्तुर्विहरेत् कुलमार्गके ।
कुलपुष्पं समाश्रित्य कुलीनाश्रममाश्रयेत्
कलौ मत्स्यं कलौ मांसं मद्यं मुद्रां च मैथुनम् ।
यथा दिव्यस्तथा वीरो नास्ति भिन्नः शुचिस्मितेः
भक्षणात् पञ्चमस्यापि न दोषो जायते नृणाम् ।
अशक्तानामकर्तव्यं सर्वयोनिविवर्धनम्
मद्यपानमकर्तव्यमकर्तव्यं कलौ युगे ।
शाक्तानां चैव शाक्तानां कर्तव्यं सर्वसिद्धिदम्
महापीठाश्रयं वापि महापीठस्य दर्शनम् ।
महापीठे यजेद् देवीं भक्त्या परमया युतः
पूजयेद् रक्तपुष्पैश्च रक्तगन्धानुलेपनैः ।
बिल्वपत्रैस्तथा पुष्पैर्मणिपुष्पैश्च चम्पकैः
रक्ताम्बुजै रक्तमाल्यै रक्ताभरणबूषणैः ।
महिषैश्च यजेद् देवीं भेषजैः क्षतजैरपि
छागजैलोहितैर्देवीं गात्रजैर्ब्राह्मणैरपि ।
एवं विधिविधानेन पूजनं तव सुन्दरि
कर्तव्यं द्विजलोकेषु गृह्यं तव महेश्वरि ।
एवं तव विधातव्या पूजा त्रिभुवनेश्वरि
तदा सिधीश्वरो भूत्वा गाणपत्यं लभेत् तु सः ।
न प्रकाश्यं पशोरग्रे मम दिव्यं सुरेश्वरि
पशोर्दर्शनमात्रेण नश्यन्ति वीरशुद्धयः ।
महासिद्धिकरी पूजा मानसी मुक्तिदायिनी
अन्तर्यागात्मिका सर्वजीवत्वपरिनाशिनी ।
बाह्यपूजा राजसी च सर्वसौभाग्यदायिनी
भुक्तिमुक्तिप्रदा चैव सर्वापत्परिनाशिनी ।
सर्वदोषक्षयकरी सर्वशत्रुविनाशिनी
सर्वरोगक्षयकरी सर्वबन्धविमोचनी ।
न वीराणां पशूनां च बाह्यपूजाऽधमाधमा
केवलानां च दिव्यानां च बाह्यपूजाऽधमा इति ।
तोडले यामले देवि श्रुता पूजा च विस्तरात्
तथापि पूजा संक्षेपाद् मयोक्ता गिरिनन्दिनि ।
स्तुतिपाठाद् दृढज्ञानात् पूजनाच्छिवसुन्दरि
सुप्रसन्ना महाविद्या जपात् सिद्धिर्भविष्यति ।
जपाद् भक्तिर्जपाद् भुक्तिर्जपान्मुक्तिर्जपात् क्रिया
जपात् तन्त्रं जपान्मन्त्रं जपाद् यन्त्रं सुरेश्वरि ।
जपात् कान्तिर्जपात् शान्तिर्जपात् श्रद्धा जपाद् दया
जपात् तुष्टिर्जपात् पुष्टिर्जपाद् गतिर्जपान्मतिः ।
जपाद् बुद्धिर्जपाल्लक्ष्मीर्जपाज्जातिर्जपात् स्थितिः ॥
जपाच्छान्तिर्जपाच्छान्तिर्जपाच्छान्तिर्न संशयः
॥ इति मुण्डमालातन्त्रे पार्वतीश्वरसंवादे पञ्चमः पटलः
अथ षष्ठः पटलः
देवी उवाच
पुरा श्रुतं महादेव शवसाधनमेव च ।
श्मशानसाधनं नाथ श्रुतं परममादरात्
न स्तोत्रं कवचं नाथ श्रुतं न शवसाधने ।
कवचेन महादेव स्तोत्रेणैव च शङ्कर ॥
कथं सिद्धिर्भवेद् देव कवचं ब्रूहि साम्प्रतम्
श्रीशिव उवाच
शृणु देवि वरारोहे दुर्गे परमसुन्दरि ।
सिद्ध्यर्थे विनियोगश्च कवचस्य नियन्त्रणात्
सिद्धिं सिद्धेश्वरी पातु मस्तकं पातु कालिका ।
कपालं कामिनी भालं पातु नेत्रं नगेश्वरी
कर्णौ विश्वेश्वरी पातु हृदयं जगदम्बिके ।
काली सदा पातु मुखं जिह्वां नीलसरस्वती
करौ करालवदना पातु नित्यं सुरेश्वरी ।
दन्तं गुह्यं नखं नाभिं पातु नित्यं हिमात्मजा
नारायणी कपोलं च गण्डा गण्डं सदैव तु ।
केशं मे भद्रकाली च दुर्गा पातु सुरेश्वरी
पुमान् रक्षतु मे चण्डी धनं पातु धनेश्वरी ।
स्तनौ विश्वेवरी पातु सर्वाङ्गं जगदीश्वरी
उग्रतारा सदा पातु महानीलसरस्वती ।
पातु जिह्वां महामाया पृष्ठं मे जगदम्बिका
हरप्रिया पातु नित्यं श्मशाने जगदीश्वरी ।
शवे पातु च शर्वाणी सदा रक्षतु चण्डिका
कात्यायनी कुलं पातु सदा च शववाहिनी ।
घोरदंष्ट्रा करालास्या पार्वती पातु सर्वदा
कमला पातु राज्यं मे मन्त्रं मन्त्रेश्वरी तथा ।
इत्येवं कवचं देवि देवानामपि दुर्लभम्
यः पठेत् सततं देवि सिद्धिमाप्नोति निश्चितम् ।
सिद्धिकाले समुत्पन्ने कवचं प्रपठेद् यदि
अज्ञात्वा कवचं देवि यश्च सिद्धिमुपक्रमः ।
यश्च सिद्धिमवाप्नोति न मुक्तिर्न च सद्गतिः
अत एव महामाये कवचं सिद्धिकारकम् ।
देवानां च नराणां च किन्नराणां च दुर्लभम्
पठित्वा कवचं चण्डि शीघ्रं सिद्धिमवाप्नुयात् ।
महोत्पाते महादुःखे महाविपदि सङ्कटे
प्रपठेत् कवचं देवि पठित्वा मोक्षमाप्नुयात् ।
शून्यागारे श्मशाने वा कामरूपे महाघटे
स्ववामामन्दिरे कालेऽप्यथवा काममन्दिरे ।
मन्त्रं मन्त्री जपेद् बुद्ध्या भक्त्या परमया युतः
मूले दले फले वापि नले कालेऽनिले मले ।
जले पठेत् प्राणबुद्ध्या मनसा साधकोत्तमः
नाडीशुद्धिं ततः कृत्वा भाव शुद्धिं महेश्वरि ।
विहरेद्धरिमध्ये च सर्वशास्त्रार्थकोविदः
चितामारुह्य सिद्धेशो नीलकण्ठत्वमाप्नुयात् ।
वामे चलति का नाडी दक्षिणे खलु जाह्नवी
मध्ये कुलाचला नाडी दुर्लभा धरणीतले ।
चित्रिणी पद्मिनी शङ्खा विजृम्भा शोणदा तथा
कङ्काला कूटजा नाडी कपोला गोलजा खला ।
निजदेहे वसन्त्येता ब्रह्मनाडीं समाश्रिताः
सर्वासां धरणीमध्ये गौरी सूक्ष्मा च तारिणी ।
घण्टाकर्णा लोलजिह्वा विकटा चन्द्रवल्लभा
महानीला वीरभद्रा सुलज्जा नखदा शुभा ।
बलाका काकिनी राका कालघण्टा शिवा सिता
दर्दुरा च दुराराध्या विशोकवदनाऽनघा ।
जम्भिनी पुक्कसा शोणा यशोदा मखदा खदा
खगा खरवती नाडी कोला हेला हलाहला ।
इडा च पिङ्गला चैव सुषुम्ना प्रागरूपिणी
गान्धारी कोटराक्षी च कुलजा कुलपण्डिता ।
सव्ये कनखला नाडी दक्षिणे कामपालिका
विहारं नीलकण्ठस्य देवानामपि दुर्लभम् ।
क्रोडे विश्वम्भरा कामा कराला मेघवाहिनी
घनभा घनदा चण्डी सुशीला वरपण्डिता ।
विश्वारण्या विश्ववसनी बहुपादा कटाक्षजा
नन्दिनी शोणदा गङ्गा काशी कमलवासिनी ।
एवं यदि महामाये भावयेत् सुरपूजिताम्
तदैव जायते सिद्धिः सत्यं सत्यं न संशयः ।
बहुपादकटा घोरा निर्जिता घनभेदिनी
नाडीविहारसम्पर्काज्जीवन्मुक्तो न संशयः ।
शृणु देवेशि घोराभे करालभे दिगम्बरे
चिन्तामणिप्रसादेन किं न सिध्यति भूतले ।
मूले चतुर्दले पद्मे स्वाधिष्ठाने च षड्दले
मणिपूरेऽनाहते च आज्ञाचक्रे महेश्वरि ।
एवं चक्रे परिन्यस्तैर्दशद्वादशषोडशैः
दलैस्तु मङ्कुरं वर्णं न्यस्तं गावशतं मतम् ।
यत्र कालीपुरं देवि ब्रह्माद्यैरपि सेवितम्
नीलकण्ठं त्रिलोकेशं सहस्राब्जनिवासिनम् ।
कोटीशं कुलकोटीशं साधकेन्द्रैः सुशोभितम्
ध्यायेत् परमनिर्विण्णो देवः परमपावनः ।
जीवः शिवस्तु विज्ञेयो विश्वेशः सर्वदा रतिः
ब्रह्मतत्त्वं वरारोहे देवानामपि दुर्लभम् ।
स्वरादिनिष्ठितं लिङ्गं स्वरव्यञ्जनभूषितम्
वर्णमालापरिन्यस्तं लिङ्गं भुवनशोभितम् ।
महाबीजं महोत्साहैर्नादितं परमात्मकम्
नीलकण्ठं महादेवं सदा शक्तिसमन्वितम् ।
ध्यायेत् तु पूजयेद् देवं मनसा वचसा इति
तदैव साधको लोके चान्तर्यागपरायणः ।
अन्तर्यागं महामाये साधकानामगम्यकम्
ब्रह्माण्डं वै शरीरं तु सर्वेषां प्राणधारिणाम् ।
ब्रह्माण्डे ये गुणाः सन्ति ते तिष्ठन्ति कलेवरे
शरीरं तत्त्वघटितं नानारसपरिप्लुतम् ।
चन्द्रबिन्दुसमायुक्तं नादबिन्दुविभूषितम्
शरीरं शङ्करस्यापि दुर्लभं मुक्तिदायकम् ।
यावन्मुक्तिर्महामाये तावदेव हि साधकः
तावत् क्रिया च भुक्तिश्च मुक्तिरव्यभिचारिणी ।
महाघोरे समाक्लेशे शरीरं ब्रह्मणः पदम्
पावितं च प्रसूनं च देहजं सर्वमङ्गजम् ।
गृहीत्वा कालिकां देवीं मुण्डमालाविभूषिताम्
पूजयेत् परया भक्त्या शिव एव न संशयः ।
ब्रह्माण्डघटितां मूर्तिमङ्गदैश्च विभूषिताम्
चतुर्भूजां लोलजिह्वां नानाशक्तिसमन्विताम् ।
पूजयेत् परमानन्दो निजशक्तिसमन्वितः
वामे स्ववामां देवेशि नानालङ्कारभूषिताम् ।
कुलचक्रस्य देवेशि प्रजपेत् तु समः शिवः
निशि चक्रे करालास्यां मुक्तकेशो दिगम्बरः ।
सहस्रं वाऽयुतं वापि जपेन्मदनमन्दिरे
श्वेतं वा लोहितं वापि कुसुमं पञ्चमान्वितम् ।
एवं विधिविधानेन महाकाल्यै निवेदयेत्
दिवा पूजा विधातव्या निशि पूजा महेश्वरि ।
सन्ध्या पूजा प्रकर्तव्या तदा सिद्धिमवाप्नुयात्
न दिवा न निशाभागे न सन्ध्यायां कदाचन ।
पूजयेन्न जगद्धात्रीं हेलायां परिपूजयेत्
दिवा न पूजयेद् देवीं रात्रौ नैव च नैव च ।
सर्वदा पूजयेद् देवीं दिवा रत्रौ विवर्जयेत्
यथा इडा पिङ्गला च सुषुम्ना ब्रह्मभेदिनी ।
नाडीभ्रमणसम्पर्कान्मुक्तिं प्राप्नोति साधकः
विना नाडीपरिज्ञानं विना नाडीनिषेवणम् ।
विना विश्वकरं देवि नहि सिध्यति भूतले
सव्ये बिल्वं करे दक्षे मालां संगृह्य साधकः ।
प्रजपेत् पार्वतीमन्त्रं सर्वकार्याय भूतले
घोरदंष्ट्रां करालास्यामट्टहासां दिगम्बराम् ।
प्रणम्य भक्त्या देवेशीं जपेच्चिन्तामणिं मनुम्
चिन्तामणिप्रसादेन किं न सिध्यति भूतले ।
चिन्तामणिं कल्पलतां गृहीत्वा परमां शिवाम्
जप्त्वा महामनुं चण्डि देवदेवेश्वरो भवेत् ।
जीवः शिवत्वं लभते ज्ञानस्य वरवर्णिनि
गुरुपादाब्जकं देवि रहस्यं परमाद्भुतम् ।
विचित्रं चारुपादाब्जं पार्वत्याः शङ्करस्य च
भजेदैक्यं विधानेन जीवन्मुक्तः स एव हि ।
पिण्डे युक्ताः पदे युक्ता रूपे युक्ता वरानने ॥
गुणातीताश्च ये भक्तास्ते मुक्ता नात्र संशयः
श्रीपार्वती उवाच
न पिण्डं न पदं रूपं न जानामि सुरोत्तम ।
कथ्यतां मे दयासिन्धो निश्चितं मतमुत्तमम्
श्रीशिव उवाच
गुह्याद् गुह्यतरं देवि सारमेकं वदाम्यहम् ।
पिण्डं कुण्डलिनी शक्तिः पदो हंसः प्रकीर्तितः
रूपं चापि वरारोहे ध्यानमेव न संशयः ।
महाकुण्डलिनीं देवीं यो भजेत् तु भुजङ्गिनीम्
स कृतार्थः स धन्यश्च स देवो वीरसत्तमः ।
स गुणी साधकोज्ञानी स मानी स च पण्डितः
स कृतो सर्वब्रह्माण्डे देवत्वं लभते ध्रुवम् ।
ये दिव्याः साधकेन्द्राश्च ये वीराः साधकोत्तमाः
पशवः पश्वो ज्ञेयाः सर्वशास्त्रार्थकोविदाः ।
भावशुद्धिं समास्थाय सर्वकार्यार्थकोविदः
साधको मुक्तिमाप्नोति सत्यं सत्यं वरानने ।
शृणु देवि जगद्धात्रि सर्वमङ्गलमङ्गलम्
तन्त्रं शृणुयाद् देवेशि ब्रह्मनिर्वाणमाप्नुयात् ।
निशाभागे जपेन्मन्त्रं वामायुक्तो महेश्वरि
अयुतं भक्तिभावेन जीवन्मुक्तः स एव हि ।
सहस्रमयुतं वापि कुजवारे निशामुखे
जपेच्चिन्तामणिं मन्त्रं क्ष्मातले नात्र संशयः ।
चिन्तामणिप्रसादेन किं न सिध्यति भूतले
यथाविधि विधानं च कृत्वा च मन्मथालयम् ।
व्रजेत् तु भक्तिभावेन स गच्छेत् परमां गतिम्
नभोगतं महापद्मं सर्वदेवसुपूजितम् ।
तन्मध्यस्थं महादेवं नीलकण्ठं सदाशिवम्
यथा शक्तियुतं देवि सर्वानन्दमनोहरम् ।
शुक्लं रक्तं नीलवर्णं पीतादिवर्णशोभितम्
मनसा चिन्तितं देवि देवं परमकारणम् ।
ध्यानं च मनसा देवि मनसा परिपूजितम्
मनसा पूजयेल्लिङ्गं मनसा तर्पणादिकम् ।
मनसा कालिकां तारां मनसा तु भुजङ्गिनीम्
मनसा ब्रह्मनाडीं वै विदध्यात् सर्वकामदाम् ।
इत्येवं ध्यानयोगेन मनसा जगदम्बिकाम्
पूजयेत् परया बुद्ध्या स विश्वेशो भवेद् ध्रुवम् ।
सुषुम्नामध्यगां कालीं करालवदनां शिवाम्
प्रणमेत् पार्वतीं देवीं महानीलसरस्वतीम् ।
उग्रताराक्रमं वक्ष्ये देवानामपि दुर्लभम्
त्रिकोणवलयाम्भोजे महानीलसरस्वतीम् ।
मया बुधस्वरूपेण भावयेत् तामहर्निशम्
हृत्पद्मे भावयेत् चण्डीं हृत्पद्मे भावयेच्छिवम् ।
हृत्पद्मे भावमासाद्य पूजयेद् वरवर्णिनि
यावन्नानात्वभावं च तावदेवं पृथग्विधम् ।
तवात् क्रियाः पृथग्भावास्तावन्नानाविधा मताः
तावद् भिन्नाश्च देवाश्च ब्रह्मविष्णुमहेश्वराः ।
गणेशं च दिनेशं च वह्निं वरुणमेव च
कुबेरं चापि दिक्पालमेतत् सर्वं पृथक् पृथक् ।
तावन्नानाविधाश्चेष्टाः स्त्रीपुंनपुंसकात्मकम्
तावद् बिल्वदलं भिन्नं देवेशि तुलसीदलात् ।
तावज्जवा द्रोणकृष्णा करवीराणि भूतले
विभिन्नानि च देवेशि सत्यं वै तुलसीदलात् ।
तावद् दिव्यशरीरश्च तावत् तु पशुभावकः
तावत् तन्त्रे भेदबुद्धिस्तावदेव पृथक् क्रिया ।
हरौ हरे भेदबुद्धिर्जायते जगदम्बिके
करालवदना काली श्रीमदेकजटा शिवा ।
षोडशी भैरवी भिन्ना भिन्ना च भुवनेश्वरी
छिन्ना भिन्नाऽन्नपूर्णा च भिन्ना च बगलामुखी ।
मातङ्गी कमला भिन्ना भिन्ना वाणी च राधिका
भिन्ना चेष्टा क्रिया भिन्ना भिन्नो वाचारसंग्रहः ।
यावन्नैक्यं पादपद्मे भवान्या नैव जायते
अद्वैते तारिणीपादपद्मे परमपावने ।
ज्ञानपारे समुत्पन्ने हृत्पद्मनिलयं तथा
ऐक्यं भवति चार्वङ्गि सर्वं ब्रह्ममयात्मकम् ।
----------------------------------------जीवेषु शाङ्करि
न च पापं न वा पुण्यं न यमो नरकं न च ।
न सुखं नापि दुःखं च न रोगेभ्यो भयं तथा
न भयं नापि शोकं च सर्वं ब्रह्ममयात्मकम् ।
ब्राह्मणी क्षत्रीया वैश्या वैश्यजा शूद्रजाऽन्त्यजा
तथैव तारिणी विद्या यथा विद्या तथा तथा ।
एवं ज्ञानं महेशानि यथा वै जायते प्रिये
तथैव विद्या देवेशि विद्याऽविद्याविरोधिनी ।
जायते नात्र सन्देहो ब्रह्मानन्दमयो भवेत्
अद्वैतं च गुणातीतं निर्गुणं प्रकृतेः परम् ।
परमानन्दसंयुक्तो मुक्तिं यास्यति निश्चितम्
इति सत्यं पुनः सत्यं सत्यं चण्डि वरानने ।
तत्त्वज्ञानात् परं नास्ति नास्ति देवः सदाशिवात्
नास्ति भावस्तु मध्यस्थाद् नास्ति दुर्गासमं पदम् ।
सोऽहं सोऽहं पुनः सोऽहं सोऽहमित्येव जायते
तदेव चिरकालेन सोऽहं ज्ञानं प्रजायते ।
नानात्वबुद्धिं कृत्वा वै सात्त्विकीं परमात्मिकाम्
गृहीत्वा च वरारोहे जायते परमार्थवित् ।
ज्ञानात् परतरं नास्ति नास्ति नास्ति वरानने
लब्ध्वा हि तत्त्वं परमं मुच्यते देहबन्धनात् ।
कुलवारे कुलीनस्तु कुलधर्मं कुलव्रतः
आश्रयेत् परमानन्दः परमानन्दमेव च ।
न कुलीने परा बुद्धिर्न कुलीनपरा गतिः
न कुलीने परा भक्तिर्न कुलीने परा क्रिया ।
एवं वदति यो यस्तु स मुक्तिं न च याति वै
इहैव स्वर्गो देवेशि इह कैलासमन्दिरम् ।
इहैव भुक्तिर्भक्तिश्च मुक्तिरव्यभिचारिणी
भोगः स्वर्गश्च मोक्षश्च करस्थश्चैव शाङ्करि ।
शाक्तानां त्रिपुरेशानि सत्यं चण्डि न संशयः
श्रीपार्वती उवाच
नीलकण्ठ महादेव महेश्वर जगद्गुरो ।
पृच्छामि परमं तत्त्वं ब्रूहि नाथ जगत्प्रभो
कथं वा जायते मुक्तिर्भुक्तिर्भक्तिर्महेश्वरे ।
जीवः शिवत्वं लभते केन रूपेण शङ्कर
श्रीशिव उवाच
विश्वेश्वरि जगद्धात्रि महामाये महेश्वरि ।
गुह्याद् गुह्यतरं वाक्यं शृणुष्व नगनन्दिनि
शान्तं दान्तं कुलीनं च सर्वशास्त्रार्थकोविदम् ।
एवं गुह्यं महेशानि आश्रयेद् भक्तिभावतः
ततः प्रथमतो लब्ध्वा गुरुं परमकारणम् ।
गृह्णीयात् परमं मन्त्रं देव्याश्च वरवर्णिनि
सेतुं च कुल्लुकां ज्ञात्वा मन्त्रसङ्केतकं तथा ।
समयाचारसङ्केतं ज्ञानभावं समभ्यसेत्
पूजयेत् परया भक्त्या पार्वतीं पटलक्रमात् ।
यथा गुरुविधानेन पूजयेत् परदेवताम्
चतुर्भूजां दशभुजां सहस्रभुजसंयुताम् ।
लोलजिह्वां करालास्यां मुण्डमालाविभूषिताम्
प्रणमेत् प्रजपेद् ध्यायेद् देवीं द्रव्यैः प्रपूजयेत् ।
जवापराजिताद्रोणकरवीरैर्मनोहरैः
पूजयेद् रक्तकुसुमैः सुगन्धैश्चारुशोभनैः ।
नानापुष्पैश्च देवेशि पूजयेद् भक्तिभावतः
पाद्यार्घ्याचमनीयाद्यैर्नानाद्रव्यैर्मनोहरैः ।
गन्धैः पुष्पैश्च धूपैश्च दीपैरम्बरभूषणैः
नैवेद्यैर्विविधैर्द्रव्यैस्ताम्बूलैश्चर्वणोत्कटैः ।
पुनराचमनीयैश्च पूजयेज्जगदम्बिकाम्
एवं पूजा विधातव्या यथाशक्त्या वरानने ।
पूजयित्वा तु प्रणमेत् पार्वतीं तन्त्रजैः स्तवैः
स्तोत्रस्य कवचस्यापि पठनाज्जगदम्बिका ।
भुक्तिमुक्तिप्रदा चण्डी भक्तिदा सर्वमङ्गला
बाह्यपूजा प्रकर्तव्या गुरुवाक्यानुसारतः ।
अन्तर्यागात्मिका पूजा बाह्यपूजा महेश्वरि
सर्वपूजा विधातव्या यावज्ज्ञानं न जायते ।
एवं विप्रप्रणामेन जपेन तपसाऽपि वा
माहेशी सा प्रसन्नाऽभूत् स्तवेन कवचेन च ।
ततो देवि महेशानि सिद्धिविद्या यदा भवेत्
तदैव पूजया सिद्धिः क्रियया बुद्धियुक्तया ।
एवं देव्यनुग्रहतो ज्ञानमुत्पद्यते खलु
तदा कालात्यये चण्डि क्रियाभक्तिश्च निष्फला ।
केवला प्रेयसी मुक्तिर्महादेवस्य भाविनी
श्रीपार्वती उवाच
श्रुतं परमतन्त्रं वै सारात् सारं परात् परम् ।
यत् श्रुत्वा मोक्षमाप्नोति कर्मपाशनिकृन्तनात्
श्रीशिव उवाच
शृणु देवि वरारोहे ममैव निश्चितं तव ।
दुर्गा हि परमं मन्त्रं दुर्गा हि परमो जपः
दुर्गा हि परमं तीर्थं दुर्गा हि परमा क्रिया ।
दुर्गा हि परमा भुक्तिर्दुर्गा मुक्तिर्महीतले
बुद्धिर्निद्रा क्षुधा छाया शक्तिस्तृष्णा तथा क्षमा ।
क्रिया सर्ववरिष्ठा च वैदिकी तान्त्रिकी च या
एवं सर्वं हि दुर्गा हि दुर्गाभिन्नं न तज्जपः ।
भजेद् दुर्गापदद्वन्द्वं स्मरेद् दुर्गामहर्निशम्
प्रजपेद् देवि दुर्गेति मन्त्रं परमकारणम् ।
य एवं भक्तिमास्थाय प्रकरोति क्रियां शिवे
सर्वसिद्धियुतो भूत्वा विहरेत् क्षितिमण्डले ।
नानातन्त्रे पृथक् चेष्टा मयोक्ता गिरिनन्दिनि
ऐक्यं ज्ञानं यदा देवि तदा सिद्धिमवाप्नुयात् ।
स्थावरे जङ्गमे चैव यदा तुल्यमना भवेत्
किं न सिध्यति विश्वेशि परत्रेह च पार्वति ।
एवं भुक्तिश्च मुक्तिश्च भक्तिश्च जगदम्बिके
तव ज्ञानं तदैवान्ते ततो निर्वाणमाप्नुयात् ॥
एवं वै कथितं चण्डि किं भूयः श्रोतुमिच्छसि
श्रीपार्वती उवाच
श्रुतं परमतत्त्वं वै श्रुतं परममादरात् ।
श्रुतं काल्याश्च चरितं तारायाश्च श्रुतं मया
इदानीं श्रोतुमिच्छामि मन्त्रसिद्धिः कथं भवेत् ।
विद्यासिद्धिः कथं देव तद् वदस्व दयानिधे
श्रीशिव उवाच
इदानीं शृणु देवेशि मन्त्रसिद्धेस्तु कारणम् ।
मन्त्रार्थं मन्त्रचैतन्यं यामले कथितं मया
डामरे च श्रुतं चण्डि कुलोड्डीशे कुलार्णवे ।
संक्षेपेण वदिष्यामि मन्त्रसिद्धेस्तु कारणम्
किं बहूक्त्या महेशानि गुरुभक्त्या च सिध्यति ।
कुलवारे महेशानि सहस्रमयुतं जपेत्
शनैश्चरे चतुर्दश्याममायां कुजवासरे ।
स्थित्वा कुशासने ज्ञानी मन्त्रसिद्धिपरायणः
अयुतं भक्तिभावेन सहस्रं वा वरानने ।
अन्तर्यागं ततः कृत्वा सर्वसिद्धीश्वरो भवेत्
अश्वत्थे वटमूले वा निम्बबिल्वमूलेऽथवा ।
पूजयेत् परया बुद्ध्या मन्त्रसिद्धिं जनो लभेत्
विश्वेश्वरि महामाये सर्वविघ्नविनाशिनि ।
एवं मासत्रयं कुर्यादन्तर्यागेन शुध्यति
तदा सिद्धिमवाप्नोति सत्यं सत्यं न संशयः ।
सुषुम्नान्तः स्थितां देवीं पद्मकिञ्जल्कवासिनीम्
ध्यायेन्नाडीविशुद्धेन मन्त्रसिद्धिरनुत्तमा ।
अथवा शृणु चार्वङ्गि क्रियाहीनं मतं मम
केवलं ध्यानमास्थाय मन्त्रसिद्धिर्भवेद् ध्रुवम् ।
कालिकां हृदयाम्भोजे ध्यायेत् परमदेवताम्
योगसिद्धिं समास्थाय मन्त्रसिद्धिर्भवेन्नृणाम् ।
पुरा पृच्छामि गदिता दुर्लभा या महीतले
सा पृच्छा ते निगदिता किं न सिध्यति भूतले ।
शक्तियामलके सिद्धेश्वरतन्त्रे कुलाचले
विद्यासिद्धिर्निगदिता दुर्लभा धरणीतले ।
काली तारा महाविद्या षोडशी भुवनेश्वरी
भैरवी छिन्नमस्ता च विद्या धूमावती तथा ।
बगला सिद्धिविद्या च मातङ्गी कमलात्मिका
एता दश महाविद्याः सिद्धिविद्याः प्रकीर्तिताः ।
एषा विद्या प्रकथिता सर्वतन्त्रेषु गोपिता
सर्वसिद्धिप्रदा नित्या नित्यानन्दमयी शिवा ।
विद्यासिद्धिर्महेशानि भविष्यति यदा भवेत्
ऐन्द्रवं चन्द्रवदने चन्द्रतत्त्वं वरानने ।
कुबेरत्वं शिवत्वं वा विष्णुत्वं विश्वगेहिनी
तत्क्षणाद् देवदेवशि जायते नात्र संशयः ।
विद्यासिद्धेः प्रकरणं पूर्वोक्तं त्रिपुरेश्वरि
इदानीं कथयाम्यत्र विद्यासिद्धिमनुत्तमाम् ।
श्मशानेऽश्वत्थमूले वा शवे वा शून्यमन्दिरे
प्रजपेत् कालिकां तारां महाविद्या प्रसीदति ।
जपेन तपसा स्तोत्रैरन्तर्यागैर्मनोहरैः
पूजनैः कवचैर्देवि महाविद्या प्रसीदति ।
अनेनैव विधानेन पूजनं यः करोत्यहो
सुप्रसन्ना जगद्धात्री महामाया प्रसिध्यति ।
मन्त्रसिद्धेर्महाविद्या सिद्धेः कारणमग्रतः ॥
कथितं ते जगद्धात्रि किं भूयः श्रोतुमिच्छसि
श्रीपार्वती उवाच
श्रुतं सिद्धेः कारणं तु सर्वसिद्धिकरं परम् ।
यज्ज्ञात्वा मोक्षमाप्नोति जीवः परमकोविदः
नानातन्त्रं श्रुतं देवदेव विश्वेश्वर प्रभो ।
इदानीं श्रोतुमिच्छामि नीलकण्ठ सदाशिव
माहात्म्यं कालिकायाश्च तारायाश्च सुरेश्वर ।
श्रोतुमिच्छाम्यहं नाथ यतस्त्वं कालिकापतिः ॥
तारापतिस्त्वं देवेश वद शीघ्रं सदाशिव
श्रीशिव उवाच
धन्यासि पतिभक्तासि चार्वङ्गि शृणु मद्वचः ।
कालिकायाश्च ताराया माहात्म्यं सिद्धिदायकम्
यथा काली तथा तारा एकदैव हि भिन्नता ।
दक्षांशा चैव वामांशा यथानुक्रमसारतः
नहि कालिसमा पूजा नहि कालीसमं फलम् ।
नहि कालीसमं ज्ञानं नहि कालीसमं तपः
तस्यैव धन्या जननी धन्यस्तस्य पितामहः ।
धन्यं कुलं यशश्चण्डि येन काली समर्चिता
काली तारासमा विद्याचारे स्तुतिविचारणे ।
यन्त्रे मन्त्रे फलं तुल्यं न विशेषः कथञ्चन
इत्येवं भेदबुद्ध्या तु कथितं चरितं प्रिये ।
अभेदबुद्ध्या देवेशि सर्वास्तुल्या न संशयः
श्रीमदेकजटा देवी उग्रतारा सरस्वती ।
व्यालानां दमने कृष्णरक्षणे यमुनाजले
पपात तारिणी विद्या नीलवर्णा सरस्वती ।
देवैश्चैव हि देवेन्द्रैर्योगीन्द्रैः साधकोत्तमैः
साधकैर्मुनिभिः सर्वैर्गन्धर्वैः किन्नरैः खगैः ।
विद्याधरैर्नर्तकैश्च नाना-ऋषिगणैरपि
आराधिता महाकाली महानीलसरस्वती ।
वदन्ति साधकाः सर्वे कालीं कालविनाशिनीम्
नीलां सरस्वतीं विद्यामुग्रतारां मनोहराम् ।
कालिकायाश्च ताराया माहात्म्यं देवदुर्लभम्
कः शक्नोति महीमध्ये तस्य माहात्म्यकोविदः ।
दशविद्याऽष्टादशधा विद्यारूपां सुरेश्वरीम्
भजते यः साधकेन्द्रो भवत्येवं सुरेश्वरि ।
इत्येवं शृणु देवेशि माहात्म्यं भुवि दुर्लभम्
यासां विज्ञानमात्रेण जीवन्मुक्तः प्रजायते ।
यथा शिवस्तथा जीवो जीवस्तु शिव एव हि
जायते परमं ज्ञानं भावज्ञानाद् वरानने ।
अपरं शृणु चार्वङ्गि सावधानाऽवधारय
स्तोत्रं च कवचं देव्याः कालिकाया महेश्वरि ।
ताराया न श्रुतं चण्डि सर्वमोहनकारणम्
षट्कर्मसिद्धिदं मन्त्रं स्तोत्रं कवचमुत्तमम् ।
न प्रकाश्यं च कुत्रापि सर्वसम्पत्प्रदं प्रिये ।
इदानीं कथयाम्यत्र जीवमोहनकारणम्
श्रीपार्वती उवाच
वद नाथ जगत्स्वामिन् प्रभो श्रीकण्ठ शङ्कर ।
मोहनं कवचं नाथ स्तोत्रं कवचमेव हि
सर्वविघ्नह्वरं देवि सर्वशान्तिकरं तथा ।
देवानामपि दुर्ज्ञेयं वद नाथ जगद्गुरो
श्रीशङ्कर उवाच
नमस्ते जगदीशानदयिते हरवल्लभे ।
विश्वेश्वरि जगद्धात्रि त्रैलोक्यमोहनं कुरु
मन्त्रोद्धारं प्रवक्ष्यामि सावधाना सुरेश्वरि ।
लान्तं वान्तं मान्तयुक्तं स्वर ------------त्मकं प्रिये
कान्तं शक्तियुतं देवि जलयं चापि वाऽन्वितम् ।
ऋणग्रजं षाग्रजं कुकयुगाग्रजमेव हि
शक्तियुक्तं मन्त्रयज्ञशेषं समुदीरयेत् ।
इत्येवं मन्त्रराजं च यो जपेज्जगदम्बिके
त्रैलोक्यमोहनो भूत्वा सर्वसम्पल्लभेत् तु सः ।
धारणं युगलं फान्तं तान्तं बिन्दुद्वितीयकम्
वाक्वादिन्यमुकं मे वशमानय वै फकी ।
मन्त्रं चायुतमेवं च सहस्रं वाऽयुतं निशि
तदैव देवीं देवं वा नरं वा वशमानयेत् ।
इयं वशकरी विद्या सर्वतन्त्रेषु गोपिता
पूजयेद् भक्तिभावेन प्रणमेद् राजमोहिनीम् ।
स्मृत्वा तु मनसा देवीं जपेन्मन्त्रं कुजे दिने
शनैश्चरदिने देवि रात्रौ स्तोत्रं पठेद् यदि ।
अचिरेणैव कालेन स भवेद् राजवल्लभः
घोरदंष्ट्रे करालास्ये मत्स्यमांसबलिप्रिये ।
नमस्ते विश्वजननि नमस्ते विश्वभाविनि
नमस्ते जगदीशानदयिते भक्तवत्सले ।
नमस्ते परमानन्ददायिनि राजमोहिनि
नमस्तेऽस्तु सादानन्दे नमस्ते शङ्करप्रिये ।
नमस्ते मङ्गले तुभ्यं सर्वमङ्गलमङ्गले
विश्वमातर्जगद्धात्रि नमस्ते त्रिपुरेश्वरि ।
नमस्ते ब्रह्मनमिते नमस्ते वरदे शिवे
मेघश्यामे जगद्धात्रि कराले विकटे शुभे ।
हरभार्ये हराराध्ये नमस्ते हरपूजिते
हरीन्द्र - ब्रह्म - चन्द्रादि - पञ्चाननसुपूजिते ।
नमस्तेऽस्तु महारौद्रे महाघोरे महोत्सवे
महानन्दे महाकालि महाकालप्रपूजिते ।
विश्वेश्वरि नमस्तेऽस्तु नमस्ते भुवनेश्वरि
कामरूपे च कामाक्षे कामपुष्पविभूषिते ।
सर्वकामप्रदे देवि काममन्दिरवन्दिते
सर्वकामस्वरूपे च कामदेवप्रपूजिते ।
कामेश्वरि कलानाथवदने कामवल्लभे
क्रियामार्गरते कामे निष्ठाकामे कलात्मिके ।
नमस्ते चण्डिके चण्डे चण्डमुण्डविनाशिनि
राजेश्वरि रमे रामपूजिते राजवल्लभे ।
रामप्रिये रमरते बलरामप्रपूजिते
नभश्च्छिन्नकराले च कराले चण्डि पार्वति ।
नमस्ते सगुणे देवि निर्गुणे निर्गुणात्मिके
जगद्धात्रि जये देवि विजये हरवल्लभे ।
नमस्ते शङ्करानन्ददायिके शङ्करप्रिये
नमः कृष्णे पीतवर्णे शुक्लरक्तस्वरूपिणि ।
महानीले नीलवर्गे महानीलसरस्वति
वागीश्वरि नमस्तेऽस्तु पद्मे पद्मनिवासिनि ।
इति ते कथितं देवि स्तोत्रं वै जनमोहनम्
पठनात् स्तवराजस्य किं न सिध्यति भूतले ।
मन्दे चन्द्रात्मजे जीवे निशाभागे निशामुखे
प्रपठेत् स्तवराजं तु सर्वसिद्धीश्वरो भवेत् ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा वरवर्णिनि
स्तोत्रप्रपठनाद् देवि जगद्वशनयो भवेत् ।
वशीकरणमेतत् तु स्तवराजं मनोहरम्
यं यं मन्त्रेण देवेशि परमाकर्षयत्यहो ।
स एव वशतां याति देवराजसमो यदि ॥
इत्येवं कथितं स्तोत्रमधुना कवचं शृणु
श्रीशिव उवाच
शृणु देवि प्रवक्ष्यामि अप्रकाश्यं महीतले ।
श्रुत्वा पठित्वा कवचं शवसिद्धिमवाप्नुयात्
पार्वती मस्तकं पातु कपालं जगदम्बिका ।
कपालं चापि गण्डं च दुर्गा पातु महेश्वरी
विश्वेश्वरी सदा पातु वक्षोमूलं शिवप्रिया ।
नाभिदेशं जगद्धात्री जगदानन्दवल्लभा
हृदयं चण्डिका पातु बाहू परमदेवता ।
केशांश्च पञ्चमी विद्या सभायां पातु भैरवी
नित्यानन्दा यशः पातु लिङ्गं लिङ्गेश्वरी मुदा ।
भवानी पातु मे पुत्रं पत्नीं मे पातु दक्षजा
कामाख्या देहसकलं पातु नित्यं नभोगतम् ।
महाकुण्डलिनी नित्यं पातु मे जठरं शिवा
वह्निजाया सदा यज्ञे पातु कर्म स्वधा पुनः ।
अरण्ये विजने पातु दुर्गा देवी रणे वने
जले पातु जगन्माता देवी त्रिभुवनेश्वरी ।
इत्येवं कवचं देवि दुर्ज्ञेयं राजमोहने
कवचस्यापि पठनाद् राजराजेश्वरो भवेत् ।
यत्र कुत्र दिने स्तोत्रं कवचं वरवर्णिनि
पठित्वा सर्वसौभाग्यं लभते नात्र संशयः ।
एवं निरन्तरं स्तोत्रं कवचं राजमोहनम्
जपेन्मन्त्रं क्षितितले वश्यं याति महीपतिः ।
पूजायाः परया भक्त्या क्रियया च विना शिवे
केवलं जपमात्रेण सिध्यत्येवं न संशयः ।
या पृच्छा ते नितदिता कथिता वरवर्णिनि ॥
इदानीं देवदेवेशि किं भूयः श्रोतुमिच्छसि
॥ इति मुण्डमालातन्त्रे षष्ठः पटलः ॥
अथ सप्तमः पटलः
श्रीदेवी उवाच ।
कथ्यतां मे दयासिन्धो जगदीश जगद्गुरो ।
जगत्कर्ता जगत्पाता जगद्धाता त्वमेव हि
त्रिषु लोकेषु विश्वेश त्वत्तो भिन्नः कदाचन ।
नास्ति कर्ता महादेव किमेतत् कथयामि ते
गोलोके न च कैलासे न ब्रह्ममन्दिरे प्रभो ।
न वैकुण्ठे न वा सौरे नक्षत्रे न शशिपुरे
वक्ता कर्ता च पाता च हर्ता च त्रिपुरेश्वर ।
पृच्छामि परमं तत्त्वं योगिनीयोगसाधनम् ॥
योगिनीहृदयाम्भोजे योगिनीहृदये तथा
श्रीशिव उवाच
सेयं गोप्या च देवेशि ब्रह्मेति यां विदुः शिवे ।
परं ब्रह्म परं धाम सच्चिदानन्दमव्ययम्
योगीन्द्राणां ज्ञानगम्यमगम्यं मनसा अपि ।
अन्येषां च वरारोहे जगद्धात्रि शृणु प्रिये
सर्वेषां च मया ज्ञानं ज्ञातं त्वयाख्यमव्ययम् ।
नारीणां हृदयाम्भोजं न च वेद कथञ्चन
श्रीपार्वती उवाच
सत्यं च कथितं नाथ सत्यमेव वदाम्यहम् ।
अबलानां च हृदयं मन्त्रसाध्यं च कथ्यताम्
पुरुषा नैव नानन्ति स्वभावात् तु व्यतिक्रमम् ।
देवदेव महादेव संसारार्णवतारकम्
जानामि हृदयं पुंसां काठिन्यं लोलमानसम् ।
अत एव महादेव शीघ्रं वद सदाशिव
केन रूपेण सा दुर्गा सुप्रसन्ना महीतले ।
स्तवेन कवचेनाऽपि ज्ञानेन जगदीश्वरी ।
प्रसन्ना च महाविद्या भवेत् परमकारणे
श्रीशङ्कर उवाच
शृणु देवि महादेवि विश्वेश्वरि जगन्मयि ।
येन रूपेण सा काली तारा त्रिपुरसुन्दरी
भैरवी चैव कमला दुर्गा च भुवनेश्वरी ।
या या विद्या महेशानि कथिता भुवनेश्वरी
सा विद्या च प्रसन्नाऽभूत् केवलं ज्ञानमात्रतः ।
विना ज्ञानान्न वै ध्यानं न क्रिया न च सद्गतिः
न च भुक्तिर्न वा मुक्तिर्न भुक्तिर्बुद्धिरेव हि ।
श्मशानसिद्धिश्च न वा न च सिद्धिः शवात्मिका
न विज्ञानं महेशानि न वा सिद्धिः प्रजायते ।
ज्ञाने यदा समुत्पत्ने सर्वाः सिध्यन्ति सिद्धयः
ज्ञाने ज्ञाने महेशानि विकल्ं पूजनं जपः ।
तपो भक्तिः क्रिया स्तोत्रं कवचं विफलं प्रिये
अत एव परं तत्त्वं ज्ञानं परमसाधनम् ।
यो जानाति जगद्धात्रि स शिवो नात्र संशयः
कौलिकं कौलिकं देवि न त्यजेत् तु कथञ्चन् ।
परित्यागे वरारोहे सर्वं भवति निष्फलम्
एवं शक्तिविधानेन शाक्तः सर्वविचारणात् ।
जीवन्मुक्तः सर्वलोके जायते नात्र संशयः
मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः ।
न वेत्ति किञ्चिद् देवेशि सत्यं च वरवर्णिनि
सङ्केतं गुरुसङ्केतं जीवसङ्केतकं तथा ।
दिव्यानां चैव वीराणां पशूनां वरवर्णिनि
भावसङ्केतकं देवि ब्रह्मसङ्केतकं तथा ।
समयाचारसङ्केतं वीरसाधनमुत्तमम्
श्मशानसाधनं भद्रे शवसाधनमेव हि ।
एवं नानाविधानं च मयोक्तं यामले प्रिये
तदा सिद्धिमवाप्नोति यस्तन्त्रे खलु कोविदः ।
कथितं डामरे नाऽथ मुक्तिर्यामलके प्रिये
नानातन्त्रे महेशानि कथितं वरवर्णिनि ।
दुर्गासेवनमात्रेण विधिवाक्यानुसारतः
मुक्तिं याति नरः सत्यं लब्ध्वा तत्त्वं मनोहरम् ।
विना तत्त्वपरिज्ञानात् न सुखं न परां गतिम्
लभते मानवः सत्यं देवेशि जगदम्बिके ।
काली करालवदना मुण्डमालाविभूषिता
कामाख्या कामिनी काम्या करालास्या दिगम्बरा ।
अट्टहासा घोरनादा मेघश्यामा भयानका
सर्वबीजस्वरूपा सा महाबीजस्वरूपिणी ।
सार्द्धपञ्चाक्षरी विद्या वशिष्ठादिप्रपूजिता
सिद्धेन्द्रैश्चापि योगीन्द्रैर्मुनीन्द्रैरपि सेविता ।
देवेन्द्रैश्चापि वीरैन्द्रैः साधकेन्द्रैः प्रपूजिता
एवंभूता महामाया सर्वतत्त्वविभाविनी ।
सङ्केतं कालिकायाश्च तारायाश्च श्रुतं मया
कालीतन्त्रे भैरवे च श्रुतं तन्त्रे च यामेले ।
श्रुतं न भैरवीतन्त्रे भैरव्याश्चरितं प्रिये
भुवनायाश्च विद्यायाश्चरितं नैव सुन्दरि ।
इदानीं चापि संक्षेपाद् वदिष्यामि वरानने
पद्मा त्रिशक्तिर्धनदा वाणी पूर्णा महेश्वरि ।
दुर्गा भगवती देवी भुवनायाः प्रतिष्ठिताः
एका देवी जगद्धात्री नानारूपविधारिणी ।
तां भजेत् साधकेन्द्रश्च सर्वज्ञादिप्रपूजिताम्
महामायां जगद्धात्रीं सर्वालङ्कारभूषिताम् ।
वाणी माया पुनर्माया महामन्त्रस्वरूपिणी
ततश्च केवला माया साधकैरपि सेविता ।
पाशादित्र्यक्षरी विद्या यमभीतिविमर्दिनी
सर्वसम्पत्प्रदा मुक्तिदायिनी मुक्तिवल्लभा ।
महायोगमयी विद्या सर्वज्ञानमयी ततः
पूजिता साधकैः सर्वैः सर्वालङ्कारभूषिता ।
एवं ते कथिता देवि देवदेवैः प्रपूजिता
भुवनेशी महाविद्या देवानामपि दुर्लभा ।
यदि भाग्यवशाद् देवि चतुर्थीं लभते नरः ।
चतुर्वर्गमयो भूत्वा परं ब्रह्माऽधिगच्छति
श्रीदेवी उवाच
दीनबन्धो दयासिन्धो प्रभो शङ्कर भो हर ।
श्रोतुमिच्छामि देवेश ज्ञानदः शङ्करो यतः
देवदेव महादेव नमस्तुभ्यं सदाशिव ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर
विश्वेश्वर जगद्बन्धो नीलकण्ठ नमोऽस्तु ते ।
ज्ञानेश ज्ञानदानन्ददायक ज्ञानवर्द्धक
ज्ञानाधीश ज्ञानपते नमः कोचवधूपते ।
नमस्ते परमानन्द नमस्ते भक्तवत्सल
नमस्ते पार्वतीनाथ गङ्गाधर नमोऽस्तु ते ।
विश्वेश्वर जगद्बन्धो जगदीश सदाशिव
नमोऽस्तु ते महादेव त्रिलोकेश महेश्वर ।
नमस्ते योगतन्त्रज्ञ नमः कालीपते नमः
नमस्तारापते तुभ्यं नमस्ते भैरवीपते ।
वाणीपते जगन्नाथ नमस्ते चण्डिकापते
तव रूपतरोर्बीजफलरूपं फलप्रद ।
नमस्ते सर्वबीजज्ञ बीजाधार नमोऽस्तु ते
उमापते नमस्तुभ्यं नमस्तुभ्यं त्रिलोचन ।
पञ्चानन नमस्तुभ्यं नमस्ते शशिशेखर
शम्भो महेश्वर विभो विरूपाक्ष चतुर्भुज ।
नमस्ते पर्वता ---------चण्डीपते नमः
त्रिलोकेश दयासिन्धो करुणामय शङ्कर ।
भक्तवत्सल देवेश नीलकण्ठ सदाशिव
नमः काशीपते तुभ्यं नमस्ते चन्द्रशेखर ।
नमश्चण्डीपते तुभ्यं श्रीपते पार्वतीपते
नमस्ते जगदाधार चतुरानन वत्सल ।
नमः क्रियापते तुभ्यं नमस्ते मुक्तिद प्रभो
अहमेवाऽबला बाला कथं जानामि शङ्कर ।
निर्गुणा सगुणं ज्ञातुं न समर्था कथञ्चन
श्रीशिव उवाच
निर्गुणा प्रकृतिः सत्या अहमेव च निर्गुणः ।
सदैव सगुणा त्वं हि सगुणोऽहं सदाशिवः
सत्यं च निर्गुणा देवी सत्यं सत्यं हि निर्गुणः ।
उपासकानां सिद्ध्यर्थं सगुणा सगुणो मतः
नानातन्त्रमतं देवी नानायत्नात् प्रकाशितम् ।
ब्रह्मस्वरूपं विज्ञातुं कः समर्थो महीतले
नानामार्गे विधावन्ति पशवो हतबुद्धयः ।
श्रीदुर्गाचरणाम्भोजं हित्वा यान्ति रसातलम्
सत्यं वच्मि दृढं वच्मि हितं पथ्यं पुनः पुनः ।
न मुक्तिश्च न मुक्तिश्च विना दुर्गानिषेवणात्
देवि दुर्गा परं ब्रह्म श्रुतं काली श्रुतं त्वया ।
ताराश्रुतौ श्रुतं देवि श्रुतं ब्रह्मवरेण च
ब्रह्मा विष्णुश्च रुद्रश्च वामनश्च दिवौकसः ।
तत्पादसेवनाद् देवि वयं वै साधकोत्तमाः
न देवेशो गणपतिर्नो ब्रह्मा नो हरो हरिः ।
हरिर्हरिरहं देवि सर्वे पादाब्जभावुकाः
त्वत्प्रसादान्महेशानि ब्रह्मा सृष्टिं करोत्यसौ ।
त्वत्प्रसादात् हरिः पाता हरो हर्ता महीतले
वासवश्चाऽमराधीशो-----------------रूपाः स्मृताः ।
ते सर्वे निर्जरा देवि त्वत्प्रसादान्महीतले
त्वत्पादपद्मसम्पर्काद् देवदेवोऽपि शङ्करः ।
अतस्त्वं जगदीशानदयिते भक्तवत्सले
दृष्टिं कुरु महामाये नमस्तस्यै नमो नमः ।
त्वं च काली त्वं च तारा षोडशी त्वं वरानने
त्वं देवि भुवना बाला छिन्ना धूमा महेश्वरि ।
त्वं देवि बगला भीमा कमला त्वं महेश्वरि
मातङ्गी त्वन्नपूर्णा त्वं धनदा त्वं शिवप्रिये ।
दुर्गा त्वं विश्वजननी दशाऽष्टादशरूपिणी
सप्तकोटिमहाविद्या उपविद्यास्वरूपिणी ।
कुमारी रमणीरूपा सुरूपा नगनन्दिनी
शिवपूज्या शिवाराध्या ब्रह्मपूज्या सुरेश्वरी ।
शिवो भिन्नः शिवा भिन्ना न जीवे वामलोचना ।
इति जानामि विश्वेशि सत्यं सत्यं न संशयः
श्रीपार्वती उवाच
सत्यं मे कथितं नाथ सत्यरूपोऽसि शङ्कर ।
अहं च त्रिषु लोकेषु पार्वतीश्वर शङ्कर ॥
विशेषं देवदेवेश सर्वज्ञ कथयस्व मे
श्रीशिव उवाच
विशेषं न च जानामि कथयस्व वरानने ।
सर्वज्ञाऽसि महेशानि यतः सर्वज्ञवल्लभा
श्रीपार्वती उवाच
गोलोके चैव राधाऽहं वैकुण्ठे कमलात्मिका ।
ब्रह्मलोके च सावित्री भारती वाक्स्वरूपिणी
कैलासे पार्वती देवी मिथिलायां च जानकी ।
द्वारकायां रुक्मिणी च द्रौपदी च गजाह्वये
गायत्री वेदजननी सन्ध्याऽहं च द्विजन्मनाम् ।
योगमध्येऽप्युषाऽहं च पुष्पे कृष्णाऽपराजिता
पत्रे मालूरपत्राऽहं पीठे योनिस्वरूपिणी ।
हरिहरात्मिका विद्या ब्रह्मविष्णुशिवार्चिता
विशेषानुग्रहेणैव विज्ञेया शङ्कर प्रभो ।
यत्र कुत्र स्थले नाथ शाक्तस्तिष्ठति गच्छति
तत्रैवाऽहं महादेव निश्चितं मतमुत्तमम् ।
शक्तिमार्गं परित्यज्य योऽन्यमार्गं विधावति
करस्थं स मणिं त्यक्त्वा भूतिभावं विधावति ।
इत्येवं च महादेव मयोक्तं जगदीश्वर ॥
अतः परतरं नास्ति नास्ति नास्ति सदाशिव
॥ इति मुण्डमालातन्ते सप्तमः पटलः
अथ अष्टमः पटलः
श्रीदेवी उवाच
नमस्ते पार्वतीनाथ विश्वनाथ दयामय ।
ज्ञानात् परतरं नास्ति श्रुतं विश्वेश्वर प्रभो
दीननाथ दयासिन्धो विश्वेश्वर जगत्पते ।
इदानीं श्रोतुमिच्छामि गोप्यं परमकारणम् ।
रहस्यं कालिकायाश्च तारायाश्च सुरोत्तम
श्रीशिव उवाच
रहस्यं किं वदिष्यामि पञ्चवक्त्रैर्महेश्वरि ।
जिह्वाकोटिसहस्रैस्तु वक्त्रकोटिशतैरपि
तथापि तस्य माहात्म्यं न शक्नोमि कथञ्चन ।
तस्या रहस्यं गोप्यं च किं न जानामि शाङ्करि
स्वस्यैवं चरितं वक्तुं स्वयमेव क्षमो भवेत् ।
अन्यथा नैव देवेशि न जानाति कथञ्चन
कालिकायाः शतं नाम नानातन्त्रे त्वया श्रुतम् ।
रहस्यं गोपनीयं च तन्त्रेऽस्मिन् जगदम्बिके
करालवदना काली कामिनी कमला कला ।
क्रियावती कोटराक्षी कामाख्या कामसुन्दरी
कापाला च कराला च काशी कात्यायनी कुहूः ।
कङ्काला कालदमना करुणा कमलार्चिता
कादम्बरी कलहरा कौतुकी कारणप्रिया ।
कृष्णा कृष्णप्रिया कृष्णपूजिता कृष्णवल्लभा
कृष्णापराजिता कृष्णप्रिया च कृष्णरूपिणी ।
कालिका कालरात्रिश्च कुलजा कुलपण्डिता
कुलधर्मप्रिया कामा काम्यकर्मविभूषिता ।
कुलप्रिया कुलरता कुलीनपरिपूजिता
कुलज्ञा कमला पूज्या कैलासगणभूषिता ।
कटजा केशिनी कामा कामदा कामपण्डिता
करालास्या च कन्दर्पा कामिनीरूपशोभिता ।
कोलम्बका कोलरता केलिनी केशभूषिता
केशवस्य प्रिया काशा काश्मीरा केशवार्चिता ।
कामेश्वरी कामरूपा कामदानविभूषिता
कालहन्त्री कूर्ममांसप्रिया कूर्मादिपूजिता ।
केलिनी करका कारा करकर्मनिषेविणी
कटकेशवमध्यस्था कटकीटकरार्चिता ।
कटप्रिया कटरता कटकर्मनिषेविणी
कुमारीपूजनरता कुमारीगणसेविता ।
कुलजा च प्रिया कौलप्रिया कुलनिषेविणी
कुलीना कुलधर्मज्ञा कुलभीतिविमर्दिनी ।
कामधर्मप्रिया काम्या नित्यकर्मस्वरूपिणी
कामरूपा कामहरा काममन्दिरपूजिता ।
कामागारस्वरूपा च कालाख्या कालभूषिता
क्रियाभक्तिरता काल्या काञ्चनी कामादायिनी ।
कोलपुष्पाम्बरा कोला निकोला कोलहन्तका
कोषिकी केतकी कुम्भी कुन्तलादिविभूषिता ।
इत्येवं शृणु चार्वङ्गि रहस्यं सर्वमङ्गलम्
यः पठेत् परया भक्त्या स शिवो नात्र संशयः ।
शतनामप्रसादेन किं न सिध्यति भूतले
ब्रह्मा विष्णुश्च रुद्रश्च वासवाद्या दिवौकसः ।
रहस्यपठनाद् देवि सर्वे च विगतज्वराः
त्रिषु लोकेषु विश्वेशि सत्यं गोप्यमतः परम् ।
नास्ति नास्ति महामाये तन्त्रमध्ये कथञ्चन
क्रियया च विना देवि विना भक्त्या महेश्वरि ।
प्रसन्नास्या करालास्या स्तवपाठाद् दिगम्बरि
सत्यं वच्मि महेशानि अतः परतरं नहि ।
न गोकुले न वैकुण्ठे न च कैलासमन्दिरे
अतः परतरा विद्या स्तोत्रं कवचमेव च ।
त्रिलोकेषु जगद्धात्रि नास्ति नास्ति कदाचन
रात्रावपि दिवाभागे निशाभागे सुरेश्वरि ।
प्रजषेद् भक्तिभावेन रहस्यं स्तवमुत्तमम्
शतनामप्रसादेन मन्त्रसिद्धिः प्रजायते ।
कुजवारे चतुर्दश्यां निशाभागे जपेत् तु यः
स कृती सर्वशास्त्रज्ञः स कुलीनः सदा शुचिः ।
स कुलज्ञः स कालज्ञः स धर्मज्ञो महीतले
रहस्यपठनात् कोटिपुरश्चरणजं फलम् ।
प्राप्नोति देवदेवेशि सत्यं परमसुन्दरि
स्तवपाठाद् वरारोहे किं न सिध्यति भूतले ।
अणिमाद्यष्टसिद्धिः स्याद् भवत्येव न संशयः
रात्रौ बिल्वतलेऽश्वत्थमूलेऽपराजितातले ।
प्रपठेत् कालिकास्तोत्रं यथाशक्ति महेश्वरि
शतवारप्रपठनान्मन्त्रसिद्धिर्भवेद् ध्रुवम् ।
उपायो नास्ति देवेशि महामन्त्रस्य साधने
अतः परतरं देवि नासि ब्रह्माण्डमण्डले ।
नानातन्त्रं श्रुतं देवि मम वक्त्रात् सुरेश्वरि
मुण्डमालामहातन्त्रं महामन्त्रस्य साधनम् ।
भक्त्या भगवतीं दुर्गां दुःखदारिद्र्यनाशिनीम्
संस्मरेत् प्रजपेद् ध्यायेत् स मुक्तो नात्र संशयः ।
जीवन्मुक्तः स विज्ञेयस्तन्त्रभक्तिपरायणः
यः साधको महाज्ञानी यश्च दुर्गासदानुगः ।
न च भक्तिर्न वा मुक्तिर्न मुक्तिर्नगनन्दिनि
विना दुर्गां जगद्धात्रि निष्फलं जीवनं भवेत् ।
शक्तिमार्गरतो भूयो योऽन्यमार्गे प्रधावति
न च शाक्तास्तस्य वक्तुं पारं पश्यन्ति सुन्दरि ।
विना दुर्गां जगद्धात्रि वाग्जाले शास्त्रमोहिताः
अन्यदेवं भजन्त्येते चान्ये शास्त्रे विघूर्णिताः ।
विना तन्त्राद् विना मन्त्राद् विना यन्त्रान्महेश्वरि
न च भक्तिश्च मुक्तिश्च जायते वरवर्णिनि ।
तन्त्रवक्तागुरुः साक्षाद् यथा च ज्ञानदः शिवः
यथा गुरुर्महेशानि तथा च परमो गुरुः ।
यथा परापरगुरुः परमेष्ठिर्यथा गुरुः
तथा चैव हि तन्त्रज्ञस्तन्त्रवक्ता गुरुः स्वयम् ।
तन्त्रं च तन्त्रवक्तारं निन्दन्ति तान्त्रिकीं क्रियाम्
ये जना भैरवास्तेषां मांसास्थिचर्वणोद्यताः ।
अत एव हि तन्त्रज्ञं न निन्दन्ति कदाचन ॥
न हसन्ति न हिंसन्ति न वदन्ति कदाचन
श्रीपार्वती उवाच
शृणु देव जगद्वन्द्य मद्वाक्यं दृढनिश्चितम् ।
तव प्रसादाद् देवेश श्रुतं कालीरहस्यकम् ॥
इदानीं श्रोतुमिच्छामि ताराया वद साम्प्रतम्
श्रीशिव उवाच
धन्यासि देवदेवेशि दुर्गे दुर्गार्तिनाशिनि ।
यं श्रुत्वा मोक्षमाप्नोति पठित्वा नगनन्दिनि
तारिणी तरला तन्वी तारा तरणवल्लरी ।
तीररूपा तटश्यामा तनुक्षीणपयोधरा
तुवीरा तरला तीव्रा नयना नीलवाहिनी ।
उग्रतारा जया चण्डी श्रीमदेकजटा शिवा
तरुणा शाम्भवी च्छिन्ना भागा च भद्रतारिणी ।
उग्रतारा जया चण्डी श्रीमदेकजटा शिवा
तरुणा शाम्भवी च्छिन्ना भागा च भद्रतारिणी ।
उग्रा उग्रप्रभा नीला कृष्णा नीलसरस्वती
द्वितीया शोभिनी नित्या नवीना नित्यनूतना ।
चण्डिका विजयाऽऽराध्या देवी गगनवाहिनी
अट्टहास्या करालास्या चतुरास्यादिपूजिता ।
सगुणा सगुणाराध्या हरीन्द्रदेवपूजिता
रक्तप्रिया च रक्ताक्षी रुधिरा सर्वभूषिता ।
बालप्रिया बालरता दुर्गा बलवती बला
बलप्रिया बलरता बलरामप्रपूजिता ।
अर्द्धकेशेश्वरी केशा केशवेशविभूषिता
पद्ममाला च पद्माख्या कामाख्या गिरिनन्दिनि ।
दक्षिणा चैव दक्षा च दक्षजा दक्षिणे रता
वज्रपुष्पप्रिया रक्तप्रिया कुसुमभूषिता ।
माहेश्वरी महादेवप्रिया पञ्चविभुषिता
इडा च पिङ्गला चैव सुषुम्ना प्राणरूपिणी ।
गान्धारी पञ्चमी पञ्चाननादिपरिपूजिता
इत्येतत् कथितं देवि रहस्यं परमात्मकम् ।
श्रुत्वा मोक्षमवाप्नोति तारादेव्याः प्रसादः
य इदं प्रपठेत् स्तोत्रं तारायास्तु रहस्यकम् ।
सर्वसिद्धीश्वरो भूत्वा विहरेत् क्षितिमण्डले
तस्यैव मन्त्रः सिद्धः स्यामन्त्रसिद्धिरनुत्तमा ।
भवत्येवं महामाये सत्यं सत्यं न संशयः
मन्दे मङ्गलवारे च यः पठेन्निशि संयतः ।
तस्यैव मन्त्रसिद्धिः स्याद् गाणपत्यं लभेत् तु सः
श्रद्धयाऽश्रद्धया वापि पठेत् तारारहस्यकम् ।
सोऽचिरेणैव कालेन जीवन्मुक्तः शिवो भवेत्
सहस्रावर्तनाद् देवि पुरश्चर्याफलं लभेत् ।
एवं सततयुक्तास्ते ध्यायन्तस्तामुपासते
ते कृतार्था महेशानि मृत्युसंसारबन्धनात् ।
रहस्यं तारिणीदेव्याः कालिकायाः श्रुतं त्वया
सारं परमगोप्यं च शिवध्येयं शिवप्रदम् ।
इदानीं च वरारोहे भूयः किं श्रोतुमिच्छसि
इति मुण्डमालातन्त्रे कालीतारारहस्येष्टमः पटलः
अथ नवमः पटलः
रहस्यं पार्वतीनाथवक्त्रात् श्रुत्वा च पार्वती ।
महादेवं महेशानमीशमाह महेश्वरी
श्रीपार्वती उवाच
त्रिलोकेश जगन्नाथ देवदेव सदाशिव ।
त्वत्प्रसादान्महादेव श्रुतं तन्त्रं पृथग्विधम्
इदानीं वर्तते श्रद्धाऽऽगमशास्त्रे ममैव हि ।
यदि प्रसन्नो भगवान् ब्रूह्युपायं महोदयम्
नानातन्त्रे महादेव श्रुतं नानाविधं मतम् ।
कृतार्थास्मि कृतार्थास्मि कृतकार्थास्मि शङ्कर
प्रसन्ने शङ्करे नाथ किं भयं जगतीतले ।
विना शिवप्रसादेन न सिध्यति कदाचन ॥
इदानीं श्रोतुमिच्छामि भुवनाया रहस्यकम्
श्रीशङ्कर उवाच
शृणु देवि प्रवक्ष्यामि गुह्याद् गुह्यतरं परम् ।
षठित्वा परमेशानि मन्त्रसिद्धिमवाप्नुयात्
आद्या श्रीभुवना भव्या भवबन्धविमोचिनी ।
नारायणी जगद्धात्री शिवा विश्वेश्वरी परा
गान्धारी परमा विद्या जगन्मोहनकारिणी ।
सुरेश्वरी जगन्माता विश्वमोहनकारिणी
भुवनेशी महामाया देवेशी हरवल्लभा ।
कराला विकटाकारा महाबीजस्वरूपिणी
त्रिपुरेशी त्रिलोकेशी दुर्गा त्रिभुवनेश्वरी ।
नित्या च निर्मला देवी सर्वमङ्गलकारिणी
सदाशिवप्रिया गौरी सर्वमङ्गलशोभनी ।
शिवदा सर्वसौभाग्यदायिनी मङ्गलात्मिका
घोरदंष्ट्रा करालास्या मधुमांसबलिप्रिया ।
सर्वदुःखहरा चण्डी सर्वमङ्गलकारिणी
पार्वती तारिणी देवी भीमा भयविनाशिनी ।
त्रैलोक्यजननी तारा तारिणी तरुणाक्षमा
भुक्तिमुक्तिप्रदा भक्तिसदाशङ्करवल्लभा ।
उमा गौरी प्रिया साध्वी प्रिया च वारुणप्रिया
भैरवी भैरवानन्ददायिनी भैरवात्मिका ।
ब्रह्मपूज्या च ब्रह्माणी रुद्राणी रुद्रपूजिता
रुद्रेश्वरी रुद्ररूपा त्रिपुटा त्रिपुरा मता ।
भवानी च भवानन्ददायिनी भवगेहिनी
सुरपूज्येश्वरी चण्डी प्रचण्डा घोरनादिनी ।
घनश्यामा घनवती महाघननिनादिनी
घोरजिह्वा ललज्जिह्वा वैदेशी नगनन्दिनी ।
त्रैलोक्यमोहिनी विश्वमोहिनी विश्वरूपिणी
षोडशी त्रिपुरा ब्रह्मदायिनी ब्रह्मदाऽनघा ।
इत्येतत् परमं ब्रह्मस्तोत्रं परमकारणम्
यः पठेत् परया भक्त्या जीवन्मुक्तः स एव हि ।
ब्रह्माद्या देवताः सर्वा मुनयस्तन्त्रकोविदाः
पठित्वा परया भक्त्या ब्रह्मसिद्धिमवाप्नुयुः ।
मन्त्रसङ्केतमज्ञात्वा विद्यासङ्केतकं तथा
वीरसङ्केतकं देवि सङ्केतं बहुविस्तरम् ।
-----------------योनिमुद्रात्मकं प्रिये
सङ्केतं समयाचारं कुलसङ्केतकं तथा ।
ब्रह्मसङ्केतकं चण्डि कालसङ्केतकं तथा
यन्त्रसङ्केतकं सिद्धिसङ्केतकं बहुविस्तरम् ।
कुलार्णवे श्रुतं नाथ श्रुतं मे मोहने प्रभो
श्रीशङ्क्र उवाच
विद्यानामुत्तमा विद्या महाविद्या प्रकीर्तिता ।
यासां स्मरणमात्रेण मन्त्रसिद्धिः प्रजायते
मन्त्रसङ्केतमज्ञात्वा यो यजेद् विश्वमोहिनीम् ।
शतवर्षजपेनापि तस्य सिद्धिर्न जायते
विद्याद्या च द्वितीया षोडशी भुवनेश्वरी ।
भैरवीज्ञानमात्रेण सिद्धिविद्या भवन्ति हि
इडापिङ्गलयोर्मध्ये दुर्गमा विश्वमोहिनी ।
तस्याः प्रभेदसंस्कारं यो जानाति स पण्डितः
स धन्यः स कृती लोके स वीरः सर्वशः शुचिः ।
स भैरवश्च विज्ञेयः सदा सुखविवर्द्धकः
एवं करालवदनां मुण्डमालाविभूषिताम् ।
यो जानाति जगद्धात्रीं जीवन्मुक्तः स एव हि
विशेषं च प्रवक्ष्यामि कुलभक्त्या च सिध्यति ।
कुलभक्तिं विना देवि न भक्तिर्न च सद्गतिः
सत्ये तु सुन्दरी आद्या त्रेतायां भुवनेश्वरी ।
द्वापरे तारिणी विद्या कलौ काली प्रकीर्तिता
नामभेदं प्रवक्ष्यामि कल्पभेदं वरानने ।
न भेदः कालिकायाश्च ताराया जगदम्बिके
षोडश्या भुवनायाश्च भैरव्यास्त्रिपुरेश्वरि ।
छिन्नायाश्चैव धूमाया भीमायाः परमेश्वरि
ततश्च बगलामुख्या मातङ्ग्याश्च सुरेश्वरि ।
नच भेदो महेशानि विद्याया वरवर्णिनि
श्रीपार्वती उवाच
विश्वनाथ महादेव महेश्वर जगद्गुरो ।
पृच्छाम्येकं महाभाग योगेन्द्र वृषभध्वज
कृष्णायाः करवीरस्य द्रोणस्य तु सदाशिव ।
बिल्वपत्रस्य माहात्म्यम् जपाया वद शङ्कर
श्रीशिव उवाच
धन्याऽसि पतिभक्ताऽसि प्राणतुल्याऽसि शाङ्करि ।
अतिगोप्यं जगद्धात्रि देवानामतिदुर्लभम्
कृष्णाऽपराजिता साक्षात् भद्रकाली न संशयः ।
करवीरं च भुवना द्रोणं त्रिपुरसुन्दरी
जपा साक्षाद् भगवती सर्वविद्यास्वरूपिणी ।
ये साधका जगन्मातरर्चयन्ति शिवप्रियाम्
एतैश्च कुसुमैश्चण्डीं ते शिवा नात्र संशयः ।
किं जपैः किं तपोभिर्वा किं दानैः किं त्रिमध्वकैः
येनाऽर्चिता जगद्धात्री द्रोणकृष्णा जपादिभिः ।
राजसूयाश्च मेधाद्यैर्वाजपेयाऽग्निहोमकैः
फलं यज्जायते चण्डि तत् सर्वं कुसुमार्चनात् ।
जपां द्रोणं तथा कृष्णं मन्दरं करवीरजम्
साक्षाद् ब्रह्मस्वरूपं च महादेव्यै निवेदयेत् ।
श्वेतचन्दनसंयुक्तं रक्तचन्दनलेपितम्
यो दद्याद् भक्तिभावेन स विश्वेशो न संशयः ।
महाघोरे महोत्पाते महाविपदि सङ्कटे
महादुःखे महारोगे महाशोके महाभये ।
पूजयेत् कालिकां तारां भुवनां षोडशीं शिवाम्
बालां छिन्नां च बगलां धूमां भीमां करालिनीम् ।
कमलामन्नपूर्णां च दुर्गां दुःखविनाशिनीम्
सर्वविद्याजपाद्रोणकरवीरैर्मनोहरैः ।
मालूरपत्रैः कृष्णाभिः कृष्णं सम्पूज्य भूतले
साधकेन्द्रो महेशानि स भवेन्नात्र संशयः ।
लक्षाणां महिषैर्मेषैरजैर्दानैः खरैः शुभैः
पूजिता सा जगद्धात्री यद्येषा कुसुमार्चिता ।
माहात्म्यं चापि कृष्णायाः कृष्णा जानाति भूतले
तदर्द्धं चाऽप्यहं देवि तदर्द्धं श्रीपतिः सदा ।
तदर्द्धमब्जजन्मा वै तदर्द्धं वेदसाधकः
अस्य पुष्पस्य माहात्म्यं सङ्क्षेपाद् वच्मि शाङ्करि ।
पृथिव्यामतले स्वर्गे वैकुण्ठे कालिकापुरे
जपादिकरवीरैश्च दानैः किं किं फलं लभेत् ।
न जानामि जगद्धात्रि को वेद पार्वतीं विना
करवीरैः श्वेतरक्तै रक्तचन्दनमिश्रितैः ।
पूजयेत् क्ष्मातले यस्तु स विश्वेशो भवेद् ध्रुवम्
कृष्णापराजितापुष्पैर्यस्तु देवीं प्रपूजयेत् ।
सोऽश्वमेधसहस्राणां फलं प्राप्य शिवो यजेत्
बिल्वपत्रस्य माहात्म्यं देवानामपि दुर्लभम् ।
यो दद्याद् बिल्वपत्रं च शिवायै शङ्कराय च
सदाशिवसमो भूत्वा स गच्छेद् ब्रह्ममन्दिरम् ।
महाविपत्तौ देवेशि जपां कृष्णापराजिताम्
द्रोणं वा करवीरं वा स गच्छेत् कालिकापुरम् ।
किं च पाद्यैः किं च वाद्यैर्नैवेद्यैः किं च पूजनैः
मधुदानैर्मधुपर्कैः कुम्भकैः किं च रेचकैः ।
पूरकैः किं च वा ध्यानैः प्राणायामैश्च किं च वा
किं जपैः किं तपोभिर्वा मत्स्यैर्मांसैश्च पञ्चमैः ।
किमन्यमन्त्रैः किं तन्त्रैः किं यन्त्रैः किं च साधनैः
किं च वै वासवैः किं वा श्मशानैर्मन्त्रसाधनैः ।
किमध्वरैर्मन्त्रपूतैमन्त्रार्थैर्मन्त्रजीवनैः
किं योनिमुद्रया किं वा तीर्थैः किं ब्रह्मसाधनैः ।
किं मातृकान्यासवर्गैः किं कच्छैः किं घटैः पटैः
किं काकचञ्चुभिः षोढान्यासैः किं कर्मसाधनैः ।
येनार्चिता भगवती करवीरैर्जपादिभिः
कृष्णापराजितापुष्पैः करवीरैर्मनोहरैः ।
द्रोणैस्तु केतकीपुष्पैर्जपामालूरपत्रकैः
पूजिता यैर्भगवती तेषां किं कर्मसाधनैः ।
इत्येवं च श्रुतं देवि रहस्यं परमं शिवम्
श्रुत्वा यं मोक्षमाप्नोति साधको नात्र संशयः ।
तन्त्रराजं माहेशानि सारात् सारतरं प्रिये
श्रुत्वा ज्ञात्वा मोक्षमाशु लभते नात्र संशयः ।
महाभये बन्धने च विपत्तौ बहुसङ्कटे
पूजयित्वा जगद्धात्रीं मुच्यते भवबन्धनात् ।
श्रद्धयाऽश्रद्धया वापि यः कश्चित् तारिणीं यजेत्
स धन्यः स कविर्धीरः सर्वशास्त्रार्थकोविदः ।
स च मानी स च ज्ञानी पूजयेद् यस्तु कालिकाम् ॥
इत्येवं च श्रुतं देवि भूयः किं श्रोतुमिच्छस्ति
॥ इति श्रीमुण्डमालातन्त्रे नवमः पटलः
अथ दशमः पटलः
श्रीदेवी उवाच
देवदेव महादेव नीलकण्ठ सदाशिव ।
नमस्ते परमेशान विश्वनाथ नमोऽस्तु ते
नमस्ते परमेशान सदाशिव महेश्वर ।
नमस्ते परमानन्द ज्ञानमोक्षप्रदायक
नमस्ते पार्वतीनाथ नमस्ते भक्तवत्सल ।
प्रसीद मां जगद्बन्धो गोप्यं वद सदाशिव
श्रीशिव उवाच
शृणु देवि जगद्धात्रि सारात् सारतरं परम् ।
श्रुत्वा मोक्षमवाप्नोति साधकेन्द्रो महीतले
शृणुयाद् यो मुण्डमालातन्त्रं परमकारणम् ।
ज्ञानदं मोक्षदं भक्तिमुक्तिसौख्यप्रदं शिवे
इत्येवं परमं देवीं देवानामपि दुर्लभम् ।
यो वेद धरणीमध्ये स एव परमार्थवित्
शक्तिमार्गं विना जन्तोर्न भक्तिर्न च सद्गतिः ।
शक्तिमूलं जगत् सर्वं शक्तिमूलं परं तपः
शक्तिमूलं परं कर्म जन्म शर्म महीतले ।
विना शक्तिप्रसादेन न मुक्तिर्जायते प्रिये
श्रुतं देवि वरारोहे सर्वं गोप्यं महीतले ।
अन्यद् गोप्यं किं वदसि तत् सर्वं वद सुव्रते
श्रीपार्वती उवाच
शृणु देव महादेव कथयस्व जगद्गुरो ।
कथमुत्पद्यते ज्ञानं कथयस्व कृपानिधे
श्रीशिव उवाच
अहोभाग्यमहोभाग्यमहोभाग्यं सुरेश्वरि ।
कृतार्थोऽहं कृतार्थोऽहं कृतराज्यो महेश्वरि
ज्ञानकाण्डं महेशानि सारात् सारतरं शिवम् ।
ज्ञानं च द्विविधं ज्ञेयं दुर्ज्ञेयं मनसामपि
ज्ञानं परमतत्त्वाख्यं ज्ञानं ज्ञेयार्थसाधनम् ।
अन्य विभ्रान्तिविषयं ज्ञानं साधारणं मतम्
एवं च त्रिविधं शेषं मध्यमं तत्त्ववर्जितम् ।
तत्त्वज्ञानं वरारोहे योगीन्द्राणां च दुर्लभम्
विना तत्त्वपरिज्ञानाद् विफलं पूजनं तपः ।
एको देवश्च एकोऽहमात्मभिन्नशरीरतः
घटात् पटात् माहेशानि कालचक्रान्महीरुहात् ।
एवं ज्ञानं तत्त्वमयं तदा मुक्तोऽचिरेण तु
नानाकारणमेवास्य पूजनं ध्यानमेव च ।
सेवनं चैव तीर्थानां शरणं तारिणीपदम्
स्मरणं सहराजस्य भ्रमणं वै कुलावलम् ।
सत्सङ्गसेवनं विष्णोः शङ्करस्यापि पूजनम्
कालिकापादयुगलं भजनं ज्ञानकारणम् ।
यावन्मनास्त्वमेव स्यात् तावद् भिन्ना महीतले
तावज्जातिश्च गोत्रं च तावन्नाम पृथग्विधम् ।
तावल्लिङ्गं पृथक् सर्वं वर्णानां पृथगेव हि
तावन्मित्रौ विपक्षौ च तावत् कलत्रबान्धवौ ।
तावत् पृथग्विधा तन्त्रयन्त्रमन्त्रार्चनादिभिः
तावत् पुण्यं तावदेव पापपुण्यविवर्द्धकम् ।
तावत् त्वं चाप्ययमियं च जायते प्रिये
यावन्न जायते चण्डि विद्याऽविद्याविरोधिनी ।
अविद्यानाशिनी विद्या विद्याऽविद्याविमर्दिनी
या तारिणी महाविद्या विद्याऽविद्याविरूपिणी ।
अत एव वरारोहे विद्यामुत्पाद्य भूतले
निर्वाणमोक्षमाप्नोति सत्यं परमसुन्दरि ।
श्रीदुराचरणाम्भोजे भक्तिश्चाव्यभिचारिणी
तदैव जायते ब्रह्मज्ञानं ब्रह्मादिदुर्लभम् ।
ब्रह्मा विष्णुश्च रुद्रश्च वासवाद्या दिवौकसः
भैरवाश्चैव गन्धर्वा विद्याभ्याससमुत्सुकाः ।
ब्रह्मविद्यासमा विद्या ब्रह्मविद्यासमा क्रिया
ब्रह्मविद्यासमं ज्ञानं नास्ति नास्ति कदाचन ।
तत्त्वज्ञानं श्रुतं देवि किं भूयः श्रोतुमिच्छसि
श्रीपार्वती उवाच
नमस्तुभ्यं महादेव विश्वनाथ जगद्गुरो ।
श्रुतं ज्ञानं महादेव नानातन्त्रं तवाङनात्
इदानीं चण्डिकायास्तु गुह्यस्तोत्रं वद प्रभो ।
कवचं ब्रूहि मे नाथ मन्त्रचैतन्यकारणम्
मन्त्रसिद्धिकरं गुह्याद् गुह्यं मोक्षविधायकम् ।
श्रुत्वा मोक्षमवाप्नोति ज्ञात्वा विद्यां महेश्वरि
श्रीशिव उवाच
दुर्लभं तारिणीमार्गं दुर्लभं तारिणीपदम् ।
मन्त्रार्थं मन्त्रचैतन्यं दुर्लभं शवसाधनम्
श्मशानसाधनं योनिसाधनं ब्रह्मसाधनम् ।
क्रियासाधनकं भक्तिसाधनं मुक्तिसाधनम्
स्तवप्रसादाद् देवेशि सर्वाः सिध्यन्ति सिद्धयः ।
नमस्ते चण्डिके चण्डिअ चण्डमुण्डविनाशिनि
नमस्ते कालिके कालमहाभयविनाशिनि ।
शिवे रक्ष जगद्धात्रि प्रसीद हरवल्लभे
प्रणमामि जगद्धात्रीं जगत्पालनकारिणीम् ।
जगत्क्षोभकरीं विद्यां जगत्सृष्टिविधायिनीम्
करालां विकटां घोरां मुण्डमालाविभूषिताम् ।
हरार्चितां हराराध्यां नमामि हरवल्लभाम्
गौरीं गुरुप्रियां गौरवर्णालङ्कारभूषिताम् ।
हरिप्रियां महामायां नमामि ब्रह्मपूजिताम्
सिद्धां सिद्धेश्वरीं सिद्धविद्याधरगणैर्युताम् ।
मन्त्रसिद्धिप्रदां योनिसिद्धिदां लिङ्गशोभिताम्
प्रणमामि महामायां दुर्गां दुर्गतिनाशिनीम् ।
उमामुग्रमयीमुग्रां तारामुग्रगणैर्युताम्
नीलां नीलघनश्यामां नमामि नीलसुन्दरीम् ।
श्यामाङ्गी श्यामघटितां श्यामवर्णविभूषिताम्
प्रणमामि जगद्धात्रीं गौरीं सर्वार्थसाधिनीम् ।
विश्वेश्वरीं विश्वघोरां विकटां घोरनादिनीम्
आद्यामाद्यगुरोराद्यामाद्यनाथप्रपूजिताम् ।
श्रीदुर्गां धनदामन्नपूर्णां पद्मां सुरेश्वरीम्
प्रणमामि जगद्धात्रीं चन्द्रशेखरवल्लभाम् ।
त्रिपुरां सुन्दरीं बालामालागणविभूषिताम्
शिवदूतीं शिवाराध्यां शिवध्येयां सनातनीम् ।
सुन्दरीं तारिणीं सर्वशिवागणविधूषिताम्
नारायणीं विष्णुपूज्यां ब्रह्मविष्णुहरप्रियाम् ।
सर्वसिद्धिप्रदां नित्यामनित्यां गुणवर्जिताम्
सगुणां निर्गुणां ध्येयामर्चितां सर्वसिद्धिदाम् ।
विद्यासिद्धिप्रदां विद्यां महाविद्यां महेश्वरीम्
महेशभक्तां महेशीं महाजलप्रपूजिताम् ।
प्रणमामि जगद्धात्रीं शुम्भासुरविमर्दिनीम्
रक्तप्रियां रक्तवर्णां रक्तबीजविमर्दिनीम् ।
भैरवीं भुवनां देवीं लोलजिह्वां सुरेश्वरीम्
चतुर्भुजां दशभुजामष्टादशभुजां शुभाम् ।
त्रिपुरेशीं विश्वनाथप्रियां विश्वेश्वरीं शिवाम्
अट्टहासामट्टहासप्रियां धूम्रविनाशिनीम् ।
कमलां छिन्नभालां च मातङ्गी सुरसुन्दरीम्
षोडशीं त्रिपुरां भीमां धूमां च बगलामुखीम् ।
सर्वसिद्धिप्रदां सर्वविद्यामन्त्रविशोधिनीम्
प्रणमामि जगत्तारां सारां च मन्त्रसिद्धये ।
इत्येवं च वरारोहे स्तोत्रं सिद्धिकरं परम्
पठित्वा मोक्षमाप्नोति सत्यं वै गिरिनन्दिनि ।
कुजवारे चतुर्दश्याममायां जीववासरे
शुक्रे निशागते स्तोत्रं पठित्वा मोक्षमाप्नुयात् ।
त्रिपक्षे मन्त्रसिद्धिः स्यात् स्तोत्रपाठाद्धि शाङ्करि
चतुर्दश्यां निशाभागे शनिभौमदिने तथा ।
निशामुखे पठेत् स्तोत्रं मन्त्रसिद्धिमवाप्नुयात्
केवलं स्तोत्रपाठाद्धि मन्त्रसिद्धिमनुत्तमाम् ।
जागर्त्ति सततं चण्डि स्तवपाठाद् भुजङ्गिनी
इत्येवं च श्रुतं स्तोत्रं कवचं शृणु पार्वति ।
सदाशिव ऋषिर्देवि उष्णिक् छन्द उदाहृतम्
विनियोगश्च देवेशि ततश्च मन्त्रसिद्धये ।
मस्तकं पार्वती पातु पातु पञ्चाननप्रिया
केशं मुखं पातु चण्डी भारती रुधिरप्रिया ।
कण्ठं पातु स्तनं पातु कपालं गण्डमेव हि
काली करालवदना विचित्रा स्वरघट्टिनी ।
रक्षमूलं नाभिमूलं दुर्गा त्रिपुरसुन्दरी
दक्षहस्तं पातु तारा सर्वाणी सर्वमेव च ।
विश्वेश्वरी पृष्ठदेशं नेत्रं पातु महेश्वरी
हृत्पद्मं कालिका पातु उग्रतारा नभोगतम् ।
नारायणी गुह्यदेशं मेढ्रं मेढ्रेश्वरी तथा
पादयुग्मं जया पातु सुन्दरी चाङ्गुलीषु च ।
षट्पद्मवासिनी पातु सर्वपद्मं निरन्तरम्
इडा च पिङ्गला पातु सुषुम्ना पातु सर्वदा ।
धनं धनेश्वरी पातु अन्नपूर्णा सदाऽवतु
बाह्यं बाह्येश्वरी पातु नित्यं मां चण्डिकाऽवतु ।
जीवं मां पार्वती पातु मातङ्गी पातु सर्वदा
छिन्ना धूमा च भीमा च भये पातु जले वने ।
कौमारी चैव वाराही नारसिंही यशो मम
पातु नित्यं भद्रकाली श्मशानालयवासिनी ।
उदरे सर्वदा पातु सर्वाणी सर्वमङ्गला
जगन्माता जयं पातु नित्यं कैलासवासिनी ।
शिवप्रियासुतं पातु सुतां पर्वतनन्दिनी
त्रैलोक्यं पातु बगला भुवनं भुवनेश्वरी ।
सर्वाङ्गं सर्वनिलया पातु नित्यं च पार्वती
चामुण्डा पातु मे रोमकूपं सर्वार्थसाधिनी ।
ब्रह्माण्डं मे महाविद्या पातु नित्यं मनोहरा
लिङ्गं लिङ्गेश्वरी पातु महापीठं महेश्वरी ।
गौरी मे सन्धिदेशं च पातु वै त्रिपुरेश्वरी
सुरेश्वरी सदा पातु श्मशाने च शवेऽवतु ।
कुम्भके रेचके चैव पूरके काममन्दिरे
कामाख्या कामनिलयं पातु दुर्गा सुरेश्वरी ।
डाकिनी काकिनी पातु सत्यं मे शाकिनी तथा
हाकिनी राकिणी पातु राकिणी पातु सर्वदा ।
ज्वालामुखी सदा पातु मुखं मध्ये सदाऽवतु
तारिणी विभवे पातु भवानी च भबेऽवतु ।
त्रैलोक्यमोहिनी पातु सर्वाङ्गं विजनेऽवतु
राजकुले महाघाते सङ्ग्रामे शत्रुसङ्कटे ।
प्रचण्डा साधकं मां च पातु भैरवमोहिनी
श्रीराजमोहिनी पातु राजद्वारे विपत्तिषु ।
सम्पत्प्रदा भैरवी च पातु बाला बलं मम
नित्यं मां शम्भुवनिता पातु मां त्रिपुरान्तका ।
इत्येवं कथितं देवि रहस्यं सार्वकालिकम्
भुक्तिदं मुक्तिदं सौख्यं सर्वसम्पत्प्रदायकम् ।
यः पठेत् प्रातरुत्थाय साधकेन्द्रो भवेद् भुवि
कुजवारे चतुर्दश्याममायां मन्दवासरे ।
गुरौ गुरुं समभ्यर्च्य यः पठेत् साधकोत्तमः
स याति भवनं देव्याः सत्यं सत्यं न संशयः ।
एवं यदि वरारोहे पठेद् भक्तिपरायणः
मन्त्रसिद्धिर्भवेत् तस्य वाऽचिरान्नात्र संशयः ।
सत्यं लक्षपुरश्चर्याफलं प्राप्य शिवां यजेत्
राजमार्गं शिवामार्गं प्राप्य जीवः शिवो भवेत् ।
पठित्वा कवचं स्तोत्रं मुक्तिमाप्नोति निश्चितम्
पठित्वा कवचं स्तोत्रं दशविद्यां यजेद् यतिः ।
विद्यासिद्धिर्मन्त्रसिद्धिर्भवत्येव न संशयः
तदैव ताम्बूले सिद्धिर्जायते नात्र संशयः ।
शवसिद्धिश्चितासिद्धिर्दुर्लभा धरणीतले
अयत्नसुभगा सिद्धिस्ताम्बूलान्नात्र संशयः ।
निशामुखे निशायां च महाकाले निशान्तरे ॥
पठेद् भक्त्या महेशानि गाणपत्यं लभेत् तु सः
॥ इति मुण्डमालातन्त्रे मन्त्रसिद्धिस्तोत्रकवचं नाम दशमः
पटलः
॥ इति प्रथमं मुण्डमालातन्त्रं समाप्तम् ॥
स्रोतः
मूल पाठ: muṇḍamālātantram (prathamam) · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0