भाषा

ENहिગુ
ग्रंथ पाठ

मृत्युवञ्चनोपदेशतारासाधन · श्लोक 1-16

1

मृत्युवञ्चनोपदेशतारासाधन
उत्थाय पूर्वसंध्यायां भूप्रदेशे मनोहरे ।
मृद्वासनोपविष्टः सन् स्वहृदि चन्द्रमण्डले

2

पञ्चमस्य प्रथमं तु द्वितीयस्वरयोजितम् ।
अर्धेन्दुबिन्दुसंयुक्तं सितरश्मिविभूषितम्

3

तस्य शुक्लमयूखैस् तु ताराम् आकृष्य व्योमनि ।
द्विभुजां सितदेहां तु वरदोत्पलधारिणीम्

4

पञ्चोपचारपूजाभिः पूजयित्वा तु भक्तितः ।
पापानां देशनां पश्चात् ततः पुण्यानुमोदनम्

5

तत्परिणामनां चैव त्रिशरणगमनं तथा ।
ओं शून्यताज्ञानवज्रस्वभावात्मको ऽहम् इति पठेत्

6

इति स्वपरशून्यं वै ध्यात्वा योगी विधानवित् ।
सितारविन्दमध्यस्थचन्द्रबिम्बासनोपरि

7

पूर्वोक्तबीजनिष्पन्नां तारादेवीं मनोरमाम् ।
आबद्धवज्रपर्यङ्कां वरदोत्पलधारिणीम्

8

शरच्चन्द्रकराकारां पृष्ठचन्द्रसमाश्रिताम् ।
सर्वालङ्कारसम्पूर्णां षोडशाब्दवपुष्मतीम्

9

सर्वसंबुद्धतत्पुत्रमातरं कामरूपधाम् ।
ध्यात्वार्यतारां हृदये तस्याश् चक्रं सितद्युति

10

अष्टकोष्ठकम् अष्टाभिर् अक्षरैः परिपूरितम् ।
ओंहाव्यञ्जनमध्यस्थसाध्यनामाद्यनाभिकम्

11

ध्यायाद् एकाग्रचित्तः सन् षण् मासान् दृढनिश्चयः ।
जपेद् अखिन्नचित्तः सन् मन्त्रम् एनं दशाक्षरम्

12

ओङ्कारम् आदितो दत्त्वा पश्चात् तारे प्रयोजयेत् ।
तुत्तारे स्यात् तुरे पश्चात् स्वाहान्तं सार्वकर्मिकः

13

ब्रह्मेन्द्रविष्णुचन्द्रार्करुद्रदिक्पालमन्मथैः ।
अप्य् अखण्डितरोमाग्रो मृत्युं जयति मुक्तवत्

14

वलीपलितदौर्भाग्यव्याधिदारिद्र्यसंक्षयः ।
सिंहाद्यष्टमहाभीतिदुःखसंदोहनाशनम्

15

अयाचितान्नपानादिहर्म्यवस्त्रादिसंगमः ।
खड्गाञ्जनपादलेपभद्रकुम्भादिसिद्धयः

16

कविता वक्तृता मेधा प्रज्ञा चैकान्तनिर्मला ।
अन्या च वाञ्छिता सिद्धिश् चक्राद् अस्मात् प्रजायते

मूल पाठ: Mṛtyuvañcanopadeśatārāsādhana · Edition: Johannes Schneider: Vāgīśvarakīrtis Mṛtyuvañcanopadeśa, eine buddhistische Lehrschrift zur Abwehr des Todes. Wien : Verlag der Österreichischen Akademie der Wissenschaften 2010. (Beiträge zur Kultur- und Geistesgeschichte Asiens ; 66) (Denkschriften der philosophisch-historischen Klasse ; 394) ISBN 978-3-7001-6722-8, p. 235 · Data entry Johannes Schneider · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc