भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 3.11

3.11.1

इदंरूपम् इदं दृश्यं जगन् नामास्ति भासुरम् ।
महाप्रलयसम्पत्तौ भो ब्रह्मन् क्व नु गच्छति ॥

3.11.2

कुत आयाति कीदृग् वा वन्ध्यापुत्रः क्व गच्छति ।
क्व याति कुत आयाति वद वा व्योमकाननम् ॥

3.11.3

वन्ध्यापुत्रो व्योमवनं नैवास्ति न भविष्यति ।
कीदृशी दृश्यता तस्य कीदृशी तस्य नास्तिता ॥

3.11.4

वन्ध्यापुत्रव्योमवने यथा न स्तः कदाचन ।
जगदाद्य् अखिलं दृश्यं तथा नास्ति कदाचन ॥

3.11.5

न चोत्पन्नं न च ध्वंसि यत् किलादौ न विद्यते ।
उत्पत्तिः °त्ति[ः] कीदृशी तस्य नाशशब्दस्य का कथा ॥

3.11.6

वन्ध्यापुत्रनभोवृक्षकल्पना तावद् अस्ति हि ।
सा यथा नाशजन्माढ्या तथैवेदं न किं भवेत् ॥

3.11.7

फुल्लस्यातुलभुः ⟨प्⟩[फ्]उल्ल° सम्यग् आलकैः कुरु कोलनम् ।
निरन्वया यथैवोक्तिर् जगत्सत्ता तथैव हि ॥

3.11.8

यथा सौवर्णकटके दृश्यमानम् अपि स्फुटम् ।
कटकत्वं तु नास्त्य् एव जगत्त्वं तु तथा परे ॥

3.11.9

आकाशे च यथा नास्ति शून्यत्वं व्यतिरेकवत् ।
जगत्त्वं ब्रह्मणि तथा नास्त्य् एवाप्य् उपलब्धिमत् ॥

3.11.10

कज्जलान् न यथा कार्ष्ण्यं श्वैत्यं च न यथा हिमात् ।
पृथग् एवं भवेद् बुद्धं जगन् नास्ति परे पदे ॥

3.11.11

यथा शैत्यं च शशिनो न हिमाद् व्यतिरिच्यते ।
ब्रह्मणो न तथा सर्गो विद्यते व्यतिरेकवान् ॥

3.11.12

मरुनद्यां यथा तोयं द्वितीयेन्दौ यथेन्दुता ।
नास्त्य् एवैवं जगन् नास्ति दृष्टम् अप्य् अमलात्मनि ॥

3.11.13

संविद्विलोचनालोको भात्य् अयं संविदम्बरे ।
जगदाख्ये ऽमले व्योम्नि दृष्टिमुक्तावली यथा ॥

3.11.14

चिदाकाशे चिदाकाशश् चित्त्वाद् यः य्⟨आ⟩[अ]ः कचति स्वयम् ।
तद् एव तेन रूपं स्वं जगद् इत्य् अवबुध्यते ॥

3.11.15

आदाव् एव हि यन् नास्ति कारणासम्भवात् स्वयम् ।
वर्तमाने ऽपि तन् नास्ति नाशः स्यात् तत्र कीदृशः ॥

3.11.16

क्वासम्भवद्भूतजाड्यं पृथ्व्यादेर् जडवस्तुनः ।
कारणं भवितुं शक्तं छायाया आतपो यथा ॥

3.11.17

कारणाभावतः °त*ः* कार्यं नेदं न्⟨ऐ⟩[ए]दं तत् किञ्चनोदितम् ।
यत् तत्कारणम् एवास्ति तद् एवेत्थम् अवस्थितम् ॥

3.11.18

अजातम् एव यद् भाति संविदो भानम् एव तत् ।
यज् जगद् दृश्यते स्वप्ने संवित्कचनम् एव तत् ॥

3.11.19

संवित्कचनम् एवान्तर् यथा स्वप्नजगद्भ्रमः ।
सर्गादौ ब्रह्मणि तथा जगत्कचनम् आततम् ॥

3.11.20

यद् इदं दृश्यते किञ्चित् तत् सद् एवात्मनि स्थितम् ।
नास्तम् एति न चोदेति जगत् किञ्चित् कदाचन ॥

3.11.21

यथा द्रवत्वं सलिलं स्पन्दत्वं पवनो यथा ।
यथा प्रकाश आभासो °काश⟨म्⟩ आ(का)*भा*⟨श्⟩[स्]ओ ब्रह्मैव त्रिजगत् तथा ॥

3.11.22

यथा पुरम् इवास्ते ऽन्तर् विद् एव स्वप्नसंविदि ।
तथा जगद् इवाभाति स्वात्मैव परमात्मनि ॥

3.11.23

एवं चेत् तत् कथं ब्रह्मन् सुघनप्रत्ययं वद ।
इदं दृश्यविषं जातम् असत्स्वप्नानुभूतिवत् ॥

3.11.24

सति दृश्ये किल द्रष्टा सति द्रष्टरि दृश्यता ।
एकसत्त्वे द्वयोर् बन्धो मुक्तिर् एकक्षये द्वयोः ॥

3.11.25

अत्यन्तासम्भवो यावद् बुद्धो दृश्यस्य नाक्षयः ।
तावद् द्रष्टुर् अद्रष्टृत्वं अद्⟨ऋ⟩[र]ष्टृ° न सम्भवति मोक्षदम् ॥

3.11.26

दृश्यं चेत् सम्भवत्य् आदौ पश्चात् क्षयम् उपागतम् ।
तद् दृश्यस्मरणानर्थरूपो °पो⟨ं⟩ बन्धो न नश्यति ॥

3.11.27

यत्र क्वचन संस्थस्य स्वादर्शस्येव चिद्गतेः ।
प्रतिबिम्बो लगत्य् एव सर्गस्मृतिमयो ह्य् अयम् ॥

3.11.28

आदाव् एव हि नोत्पन्नं दृश्यं नास्त्य् एव चेत् स्वयम् ।
द्रष्टृदृश्यभ्रमाभावात् द्⟨ऋ⟩[र]ष्टृ° तत् ⟨स्⟩[त्]अत् सम्भवति मुक्तता ॥

3.11.29

तस्माद् असम्भवन्मुक्तेर् मम प्रोत्साहयुक्तितः ।
अत्यन्तासम्भवं दृश्ये कथयात्मविदां वर ॥

3.11.30

असद् एव यथा भाति जगत् सर्वात्मकं तथा (कु)तथा ।
शृण्व् अहं कथया राम दीर्घया कथयामि ते ॥

3.11.31

व्यवसायकथावाक्यैर् यावत् तन् नानुवर्णितम् ।
न विश्राम्यति ते तावद् धृदि पांसुर् यथा ह्रदे ॥

3.11.32

अत्यन्ताभावम् अस्यास् त्वं जगत्सर्गभ्रमस्थितेः ।
बुद्ध्वैकध्याननिष्ठात्मा व्यवहारं करिष्यसि ॥

3.11.33

भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचलाचलाः ।
दृशस् त्वां वेधयिष्यन्ति न महाद्रिम् इवेषवः ॥

3.11.34

स एषो ऽस्त्य् एक एवात्मा न द्वितीयास्ति कल्पना ।
जगद् अत्र यथोत्पन्नं तत् ते वक्ष्यामि राघव ॥

3.11.35

तस्माद् इमानि सकलानि विजृम्भितानि यो हीदम् अङ्ग सकले सकलं महात्मा ।
रूपावलोकनमनोमननप्रकाश- कोशास्पदं °(हो)नो° स्वयम् उदेति च लीयते च ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc