मोक्षोपाय · अध्याय 1.25
वृत्ते ऽस्मिन्न् एव चैतेषां कालादीनां महामुने ।
संसारनाम्नि कैवास्था मादृशानां भवत्व् इह ॥
विक्रीता इव तिष्ठाम एतैर् दैवादिभिर् वयम् ।
धूर्तैः प्रपञ्चचतुरैर् मुग्धा वनमृगा इव ॥
एषो ऽनार्यसमाचारः कालः कवलनोन्मुखः ।
जगत्य् अविरतं लोकं पातयत्य् आपदर्णवे ॥
दहत्य् अन्ते दुराशाभिर् दैवो दारुणचेष्टया ।
लोकं पुष्पनिकाशाभिर् ज्वालाभिर् दहनो यथा ॥
धृतिं विधुरयत्य् एकामयदा रूपवल्लभा ।
स्त्रीत्वात् स्वभावचपला नियतिर् नियमोन्मुखी ॥
ग्रसते ऽविरतं भूतजालं सर्प इवानिलम् ।
कृतान्तः कर्कशाचारो जरां नीत्वा जगद्वपुः ॥
यमनिर्घृणराजेन्द्रो नार्तं नामानुकम्पते ।
सर्वभूतदयाचारो जनो दुर्लभतां गतः ॥
सर्वा एव मुने फल्गुविभवा भूतजातयः ।
दुःखायैव दुरन्ताय दारुणा लोभभूमयः ॥
आयुर् अत्यन्ततरलं मृत्युर् एकस् तु निष्ठुरः ।
तारुण्यं चातितरलं बाल्यं जडतया हृतम् ॥
कलाकलङ्कितो लोको बन्धवो भवबन्धनम् ।
भोगा भवमहारोगास् तृष्णा च मृगतृष्णिका ॥
शत्रवश् चेन्द्रियाण्य् एव सत्यं यातम् असत्यताम् ।
प्रहरत्य् आत्मनैवात्मा मन एव मनोरिपुः ॥
अहङ्कारः कलङ्काय बुद्धयः परिपेलवाः ।
क्रिया दुष्फलदायिन्यो लीलास् स्त्रीनिष्ठतां गताः ॥
वाञ्छाविषयशालिन्यस् सचमत्कृतयः कृताः ।
नार्यो दोषपताकिन्यो रसा नीरसतां गताः ॥
वस्त्व् अवस्तुतया चात्तं दत्तं चित्तम् अहङ्कृतौ ।
अभावरोधिता भावा भवान्तो नाधिगम्यते ॥
तप्यते केवलं साधो मतिर् आकुलितान्तरा ।
रागोरगो विलसति विरागं नोपगच्छति ॥
रजोगुणाहता दृष्टिस् तमस् सम्परिवर्धते ।
न चाधिगम्यते सत्त्वं तत्त्वम् अत्यन्तदूरतः ॥
स्थितिर् अस्थिरतां याता मृतिर् आगमनोन्मुखी ।
धृतिर् वैधुर्यम् आयाति रतिर् नित्यम् अवस्तुनि ॥
मतिर् मान्द्येन मलिना पातैकपरमं वपुः ।
ज्वलतीव जरा देहे प्रविस्फूर्जति दुष्कृतम् ॥
यत्नेन याति युवता दूरे सज्जनसङ्गतिः ।
गतिर् न विद्यते काचित् क्वचिन् नोदेति सत्यता ॥
मनो विमुह्यतीवान्तर् मुदिता दूरतो गता ।
नोज्ज्वला करुणोदेति दूराद् आयाति नीचता ॥
धीरताधीरताम् एति पातोत्पातपरो जनः ।
सुलभो दुर्जनाश्लेषो दुर्लभस् साधुसङ्गमः ॥
आगमापायिनो भावा भावना भवबन्धनी ।
नीयते केवलं क्वापि नित्यं भूतपरम्परा ॥
दिशो ऽपि हि न दृश्यन्ते देशो ऽप्य् अव्यपदेशभाक् ।
शैला अपि हि शीर्यन्ते कैवास्था मादृशे जने ॥
द्रवन्त्य् अपि समुद्राश् च शीर्यन्ते तारका अपि ।
सिद्धा अपि न सिध्यन्ति कैवास्था मादृशे जने ॥
अद्यते ऽसत्तयापि द्यौर् भुवनं चापि भज्यते ।
धरापि याति वैधुर्यं कैवास्था मादृशे जने ॥
दानवा अपि दीर्यन्ते ध्रुवो ऽप्य् अध्रुवजीवितः ।
अमरा अपि मार्यन्ते कैवास्था मादृशे जने ॥
शक्रो ऽप्य् आक्रम्यते शक्रैर् यमो ऽपि हि नियम्यते ।
वायोर् अप्य् अस्त्य् अवायुत्वं कैवास्था मादृशे जने ॥
सोमो ऽपि व्योमताम् एति मार्ताण्डो ऽप्य् एति खण्डनाम् ।
रुग्णताम् अग्निर् अप्य् एति कैवास्था मादृशे जने ॥
परमेष्ठ्य् अप्य् अनिष्ठावान् हरते हरिम् अप्य् अजः ।
भवो ऽप्य् अभवतां याति कैवास्था मादृशे जने ॥
कालश् शकलताम् एति नियतिश् चापि नीयते ।
खम् अप्य् आलीयते ऽनन्ते कैवास्था मादृशे जने ॥
अश्रव्यावाच्यदुर्दर्शतन्त्रेणाज्ञातमूर्तिना ।
भुवनानि विडम्ब्यन्ते केनचिद् भ्रमदायिना ॥
अहङ्कारकलाम् एत्य सर्वत्रान्तरवासिना ।
न सो ऽस्ति त्रिषु लोकेषु यस् तेनेह न बाध्यते ॥
शिलाशैलकटप्रेषु साश्वसूतो दिवाकरः ।
वनपाषाणवन् नित्यम् अवशः परिदोल्यते ॥
धरागोलकम् अन्तस्स्थसुरासुरगणास्पदम् ।
वेष्ट्यते धिष्ण्यचक्रेण पक्वाक्षोटम् इव त्वचा ॥
दिवि देवा भुवि नराः पाताले ऽसुरभोगिनः ।
कल्पिताः कल्पमात्रेण नीयन्ते जर्जरां दशाम् ॥
कामश् च जगतीशानरणलब्धपराक्रमः ।
अक्रमेणैव विक्रान्तो लोकम् आक्रम्य वल्गति ॥
वसन्तो मत्तमातङ्गो मदैः कुसुमवर्षणैः ।
आमोदितककुप्चक्रश् चेतो नयति वक्रताम् ॥
अनुरक्ताङ्गनालोकलोचनालोकिताकृति ।
स्पष्टीकर्तुं मनश् शक्तो न विवेको महान् अपि ॥
परोपकारकारिण्या परार्त्या परितप्तया ।
बुद्ध एव सुखी मन्ये स्वार्थशीतलया धिया ॥
उत्पन्नध्वंसिनः कालवडवानलपातिनः ।
सङ्ख्यातुं केन शक्यन्ते कल्लोला जीविताम्बुधेः ॥
सर्व एव नरा मोहाद् दुराशापाशपातिनः ।
दोषगुल्मकसारङ्गा निगीर्णा जन्मजङ्गले ॥
सङ्क्षीयते जगति जन्मपरम्परासु लोकस्य तैर् इह कुकर्मभिर् आयुर् एतत् ।
आकाशपादपलताकृतपाशकल्पं येषां फलं न हि विचारविदो ऽपि विद्मः ॥
अद्योत्सवो ऽयम् ऋतुर् एष तथेह यात्रा ते बन्धवस् सुखम् इदं स विशेषभोगः ।
इत्थं मुधैव कलयन् स्वविकल्पजालम् आलोलपेलवमतिर् गलतीह लोकः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0