मोक्षोपाय · अध्याय 1.24
अत्रैव दुर्विलासानां चूडामणिर् इवापरः ।
करोत्य् अस्तीति लोकेन दैवं कालश् च कथ्यते ॥
क्रियामात्राद् ऋते यस्य स्वपरिस्पन्दरूपिणः ।
नान्यद् आलक्ष्यते रूपं कर्मणो न समीहितम् ॥
तेनेयम् अखिला भूतसन्ततिर् नित्यपेलवा ।
तापेन हिममालेव नीता विधुरतां भृशम् ॥
यद् इदं दृश्यते किञ्चिज् जगदाभोगिमण्डलम् ।
तत् तस्य नर्तनागारम् इहासाव् अभिनृत्यति ॥
तृतीयं च कृतान्तेति नाम बिभ्रत् सुदारुणम् ।
कापालिकवपुर् मत्तं दैवं जगति नृत्यति ॥
नृत्यतो हि कृतान्तस्य नितान्तम् अविरामिणः ।
नित्यं नियतिकान्ताया मुने परमकामिनः ॥
शेषश् शशिकलाशुभ्रो गङ्गावाहश् च तौ त्रिधा ।
उपवीते अवीताभे उभे संसारवक्षसि ॥
चन्द्रार्कमण्डले हेमकटके करमूलयोः ।
लीलासरसिजं हस्ते ब्राह्मं ब्रह्माण्डकर्णिकम् ॥
ताराबिन्दुचितं लोलपुष्करावर्तपल्लवम् ।
एकार्णवपयोधौतम् एकम् अम्बरम् अम्बरम् ॥
एवंरूपस्य तस्याग्रे नियतिर् नित्यकामिनी ।
अनस्तमितसंरम्भम् आरम्भैः परिनृत्यति ॥
तस्या नर्तनलोलाया जगन्मण्डपकोटरे ।
अरुद्धस्पन्दरूपाया आगमापायचञ्चुरे ॥
चारुभूषणम् अङ्गेषु देवलोकान्तरावली ।
आपातालं नभो लम्बं कवरीमण्डलं बृहत् ॥
नरकाली च मञ्जीरमाला कलकलाकुला ।
प्रोता दुष्कृतसूत्रेण पातालचरणे चला ॥
कस्तूरिकातिलककं क्रियासख्योपकल्पितम् ।
चित्रितं चित्रगुप्तेन यामे वदनपट्टके ॥
कालीरूपम् उपस्थाय कल्पान्तेषु क्रियाकुलम् ।
नृत्यत्य् एषा पुनर् देवी स्फुटच्छैलघनारवम् ॥
पश्चात्प्रलम्बविभ्रान्तकौमाररथबर्हिभिः ।
नेत्रत्रयबृहद्रन्ध्रभूरिभाङ्कारभीषणैः ॥
लम्बलोलशरच्चन्द्रवितीर्णहरमूर्धजैः ।
उच्चरच्चारुमन्दारगौरीकवरिचामरैः ॥
उत्ताण्डवाचलाकारभैरवोदरतुम्बकैः ।
रणत्सहस्ररन्ध्रेन्द्रदेहभिक्षाकपालकैः ॥
शुष्का शरीरखट्वाङ्गभङ्गैर् आपूरिताम्बरम् ।
भाययत्य् आत्मनात्मानम् अपि कृष्णैर् घनासितम् ॥
विश्वरूपशिरश्चक्रचारुपुष्करमालया ।
ताण्डवेषु विवल्गन्ती महाकल्पेषु राजते ॥
प्रमत्तपुष्करावर्तडमरूड्डामरारवैः ।
तस्याः किल पलायन्ते कल्पान्ते तुम्बुरादयः ॥
नृत्यतो ऽन्ते कृतान्तस्य चन्द्रमण्डलहासिनः ।
तारकाचन्द्रिकाचारुव्योमपिञ्छावचूलिनः ॥
एकस्मिञ् श्रवणे दीर्घा हिमवान् अस्ति मुद्रिका ।
अपरे ऽपि महामेरुः कान्ता काञ्चनकर्णिका ॥
अत्रैव कुण्डले लोले चन्द्रार्कौ गण्डमण्डले ।
लोकालोकाचलश्रेणी सर्वतः कटिमेखला ॥
इतश् चेतश् च गच्छन्ती विद्युद्वलयवर्णिका ।
अनिलान्दोलिता भाति नीरदांशुकपट्टिका ॥
मुसुलैः पट्टिसैश् शूलैः प्रासैस् तोमरमुद्गरैः ।
तीक्ष्णैः क्षीणजगद्व्रातकृतान्तैर् इव सम्भृतैः ॥
संसारबन्धनादीर्घे पाशे कालकरच्युते ।
शेषभोगमहासूत्रे प्रोतैर् मालास्य शोभते ॥
जीवोल्लसन्मकरिकारत्नतेजोभिर् उज्ज्वला ।
सप्ताब्धिकङ्कणश्रेणी भुजयोर् अस्य भूषणम् ॥
व्यवहारमहावर्ता सुखदुःखपरम्परा ।
रजःपूर्णा तमश्श्यामा रोमाली तस्य राजते ॥
एवम्प्रायां स कल्पान्ते कृतान्तस् ताण्डवोद्भटाम् ।
उपसंहृत्य नृत्तेहां सृष्ट्या सह महेश्वरः ॥
पुनर् हास्यमयीं नृत्तलीलां सर्वस्वरूपिणीम् ।
तनोतीमां जरादुःखशोकाभिनयभूषिताम् ॥
भूयः करोति भुवनानि वनान्तराणि लोकान्तराणि जनजालककल्पनां च ।
आचारचारुकलनां च चलाचलां च पङ्काद् यथार्भकजनो रचनाम् अखिन्नः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0