मिथ्याग्रहणम् · श्लोक 1-11
चैत्रमासस्य सायं समयः.
मोहमय्या माझगावनामनि स्थाने कस्यचिच् छ्रीलस्य गेहे कन्याया विवाहस्य मण्डपमण्डनादिप्राथमिकसंभारो ऽनुष्ठीयते स्म.
क्वचिन् मङ्गलपाठकानां पुरोहितानां मधुरवचनैः कठिनमणिकुट्टिमस्य निखननरचनेन क्वचित् कर्मकराणां कलकलेन संचरज्जनचरणविक्षेपणध्वनिना क्षुभितम् इव भवनम् एतद् अभवत्.
परेद्युर् हि केनचिद् धनाढ्येन सह वत्साया उद्वाहो निश्चित आसीत्.
सेयं विंशतिवर्षीया कृशाङ्गी ह्रस्वाकृतिः परिमितवागपि मधुरस्वरा गौरवर्णापि नातिरूपवैशिष्ट्यसंपन्ना अमीनाभिधापि मीनाक्षी सह सख्या सरलाभिधया सरलस्वभावया गगनतलचरमार्धवर्तिनि भगवति दिवसाधिनायके रसालादिवृक्षभूषितायां वाटिकायां स्वपितुर् मन्दिरपक्षद्वारसमीपस्थायां विजनकोणे बकुलतरोर् एकस्याधः संलापं कुर्वत्य् आसीत्.
पतत्रिणां किलकिलरवो ऽस्तं गतः.
आलोलमालतीपुष्पसमूहाद् उत्पत्यालिकदम्बकानि तूष्णीकां भेजिरे.
सरला: सखि विवाहमङ्गलविधिस् ते कस्मिन् मुहूर्ते निश्चितो ऽस्ति श्वः?
अमीना: अस्तङ्गमनसमये भगवतः सवितुः.
सरला: (सोपहासम्) अयि सखि वरम् अदृष्ट्वा तत्पाणिग्रहणं कथं नाम प्रतिपद्यते त्वया?
अमीना: तद्दर्शनेन किम्?
भारतवर्षे भूयिष्ठानां कन्यानां वरस्य दर्शनात् प्राग् एव विवाहो भवति.
अनतिक्रान्तशैशवापि मदीयाम्बा विवाहात् पूर्वं मे पितृपादानां दर्शनामन्दानन्दम् आ लब्ध्वापि सह तैर् वस्तुम् अगमत्.
अहं तु विंशतिवर्षीयास्मि.
मातापितराव् अवलम्बमाना तयोर् आज्ञां शिरसाङ्गीकृत्य निःशङ्कं निश्चितवरस्य पाणिग्रहणं मुदा करिष्ये.
सरला: परं यदि कुमारो विवाहात् प्राक् परिचितः स्यात् तदा निजभाविसुखाप्राप्तौ प्रतीता भवेत् कुमारी.
इत्थम् अभिधाय सरला किञ्चिन् नत्वा भूतले विस्तारितबकुलपुष्पनिकरात् कानिचिद् विचित्य तदामोदम् आस्वादयत्.
अमीना: हुम्! पाश्चात्यदेशीयानाम् एवानुकूला प्रीतिविवाहादिकल्पना.
कृतप्रणयविवाहानाम् अपि वधूवराणां व्यभिचारपरस्परस्वभावा सङ्गत्यादिकारणेभ्यः पाश्चात्यदेशेषु विवाहविश्लेषस्य वृत्तपरम्परा क्रियासमभिहारेण श्रूयते.
परम् अस्मदीयदेशे विरलः खलु व्यतिकरस् तादृशः.
इत्य् अमीना स्वपितुर् असकृद् उक्तं वाक्यम् उदीर्य कस्यचित् प्रफुल्लगुलमोहोराख्यद्रुमविशेषस्याधो मरकतोपलकल्पितासन्दीं प्रति सखीम् अनयत्.
अमीना: सरले! जानासि त्वं यच् छकुन्तलादुष्यन्तयोर् अनुरागबद्धयोर् गान्धर्वविधिना स्वैरं परिणीतयोर् अपि कतिपयकालोत्तरं विच्छिन्नप्रायो ऽभूद् विवाहः.
सरला: परं शापप्रभावात् कुपितस्य दुर्वास मुनेस् तत् संवृत्तं न तु तयोर् दोषात्.
कुमार्याव् इमे आशैशवात् प्रतिवेशिन्याव् आस्ताम्.
यद्य् अपि भिन्नभिन्नरीत्या संवार्धिते अध्यापिते भिन्नभिन्नश् च तयोर् नैकविषयेषु गृहसंस्कारो ऽभूद् भिन्नभिन्ने च धर्ममते अभूतां तयोस् तद् अपीमे परस्परं प्रतिबद्धदृढसख्ये चिरं स्थितवत्यौ.
अमीना हि कन्याशालायाम् अध्यापितापि स्वातन्त्र्यसुखं नान्वभवत्.
सेयं व्यक्तित्वविहीना भावनावर्जिता वैवाहिकविषये न कम् अपि पक्षम् अवालम्बत.
तस्या विवाहवाङ्निश्चयो हमिदनाम्ना केनचिद् धनाढ्येन शिल्पयन्त्रस्वामिना सह पितृभ्यां व्यधायि.
सो ऽयं तरुणो मोहमय्यां एव कृतवासो ऽभूत्.
वस्तुतः पितुर् आज्ञया कस्यापि कुमारस्य पाणिग्रहणं मुग्धेयम् अङ्ग्यकरिष्यत्.
अथ परेद्युः समाहितनानाविधसंस्कारम् अमीनायाः पितुर् मन्दिरं महोत्सवमयं सङ्गीतनृत्यादिध्वनिमयं दिव्यमन्दिरम् इव व्यभासिष्ट.
क्रमेण समुपतिष्ठद्भिः प्राघुणिकैः सदनम् एतद् व्यराजत.
आमध्यरात्रं च समुचितभोजनैः सत्कृतः प्राघुणिकसमूहो वाराङ्गनानृत्यसङ्गीतादिभिः प्रापितविनोदः श्रीलस्यालये सुखं कालम् अयापयत्.
निर्वर्तितविवाहा प्रातस्तरां च वधूर् मृगमदकर्पूरादिना सुरभिद्रव्येणानुलिप्तसर्वाङ्गी धौतदुकूलवसना धवलपुष्पमण्डितशिरा रत्नखचितकण्ठहारकुण्डलकङ्कणाभरणभूषिता पत्युर् गेहम् अयात्.
बालसखीं सरलां विस्रष्टुम् असहमाना नवोढेयं पितुर् गेहान् निगमनात् प्राग् यथा प्रतिश्रुतं प्रतिदिनं वाहकेन सार्धं प्रेमोद्रेकसंभृतं पत्रं प्राहिणोत्.
अवर्णयच् च लेखे समुद्रतटस्थं दीपमालाविहितबहुलचाकचक्यं हृदयहारि सौधं पत्युः समुद्भासमानं संख्यातिगामिना चतुरविशिष्टवेषधारिणा परिच्छदेन समन्वितं नानाविधपुष्पामोदसुरभितान्तःपुरं निजामूल्यरत्नखचिताभरणजातं पयोनिधेर् मधुरमर्मरोर्मिमाला यास् तस्या मार्तण्डतापक्लान्तिं मन्थरीकुर्वन्ति स्म दिवा नक्तं च वीजयन्त्यो मन्दानिलं समचारयन्.
यच् चासन् हामिदस्य भूयांसि यन्त्रवाहनानि मन्दुरा चानेकवाजिभिः संभृता.
इति सर्वम् एव सविस्तरम् अमीनया सगौरवं वर्णितं परं स्वभार्तारम् अधिकृत्य लेशमात्रम् अपि न कदापि शंसितम् इति सरलया लक्षितम्.
न तु तयापि हामिदम् उद्दिश्य किम् अप्य् अनुयुक्तम्.
नवोढेयं पितुर् गेहं बालसखीं चानवरतं स्मारं स्मारं पत्युर् अदृष्टपूर्वे ऽसमाने प्रासादे चलन्ती मातृविरहितां नष्टाध्वकां नवशुकीं महारण्ये द्रुमाद् द्रुमम् उड्डयमानम् इवात्मानम् अकलयद् अमीना.
निर्मितो ऽभूद् हि प्रासादो ऽयं नानामूल्यदुर्लभोपलजातेन.
अंतराङ्गणे सुगहनगृहाभ्यन्तर्मार्गपरम्परा मरकतस्तम्भावलम्बिता स्थिता.
सुखोपभाजां मोगलधराधिपानां कालाद् अवशिष्टाश् चित्रिताह् पटला विश्वकर्मसमशिल्पिकर्मकौशलभूषिता आसन्.
अन्तःपुरस्य भूतलं चोत्कृष्टपारसीकदेशीयकौशेयास्तरणैर् आच्छादितम् अभूत्.
भित्तयो ऽपि कार्मिकक्षौमपट्टैर् आवृत्ताः.
अन्तःपुरस्य विशालाङ्गणं परिलम्बमानरजतपञ्जरक्रीडाकुलं शुकसारिकाकुलं कलरवमनोहरम्.
पार्श्ववर्तिन्य् एकस्मिन् काष्ठजालालये ऽन्ये पतत्रिणो मयूरादयः कुजन्कलकलैः पक्षस्फुरणैः समञ्जीरशिञ्जननर्तनैश् चाक्रीडन्.
विवाहात् पूर्वं मातुगृहे भाविविवाहविषयं व्यचिन्तयद् अमीना:
अपि मद्विवाहः श्रीलेण सह हामिदेन सुखावहो भविता.
कथं नामैकाकिनी विशालसौधे ऽस्मिन् कालं यापयितुं प्रभवेयम् इति.“
अमीना ह्य् आदौ व्यवसायाभावाच् छून्यहृदयम् आत्मानम् अपश्यत्.
तद्भर्ता हि प्रातस्तरां नगरात् सार्धयोजनदूरस्थं शिल्पयन्त्रकार्यालयं प्रति गृहात् निर्गत्य सायं सूर्यास्तमनसमये न्यवर्तत.
अथाविच्छिन्नविविक्ततायां सौधस्य तरुणीयं ताम्बूलं चर्वन्ती दासीभिह् पादयोर् निपीड्यमाना विद्युद्व्यजनेन चक्राकारेण वीज्यमाना स्वभाग्योदयसोपानं मनसि प्रशंसन्ती अज्ञभृत्येतरजनसंपर्करहिता चतुरसखीविरहिता विविधभूषणविहितप्रबलचाकचक्या सुगन्धितैलप्रसाधितकेशकलापा अञ्जनरञ्जितलोचनाञ्चला हिरण्मयसूत्राङ्कितपट्टाम्बरधरा सागरोर्मिमालातुषारकणिकापहरणशीतस्य समीरस्य सुखस्पर्शम् अनुभवन्ती शुकसारिकादिपक्षिणां कलकलं शृण्वती अट्टालिकाया अट्टालिकाम् अङ्गनाद् अङ्गनं पौनःपुन्येन पर्यटन्ती कालम् अयापयद् अमीना यावत् प्रासूत यमलौ सुतौ.
अथ कतिपयवर्षोत्तरं तस्या बालसख्याः सरलायाः कश्चिद् विश्वसनीय ऋजुस्वभावस् तरुणः पाणिम् अगृःनात्.
तयोश् च विवाहो विनाडम्बरं निरवर्तत.
व्यवसाय प्रवासिनः सरलयाः पत्युर् नासीत् स्थिरो निवासः क्वापि.
परं स्वकार्यार्थं मोहमयीं गतागतं कुर्वन्न् एष नगरीम् इमाम् अधिवस्तुं मतिं कृत्वा सरलाया इच्छाम् अनुसरन्न् अमीनायाः प्रसादस्याधस्तात् द्वित्रप्रकोष्टात्मकं वसतिस्थानम् अल्पिष्ठम् उपलब्धवान्.
अतिविशालसौधे ऽस्मिन् नैकभाटकभवनयुक्ते बहुतिथं कालम् उषित्वापि तत्र निवासिनो ऽन्योन्यदृष्टिपथम् अपि प्रायो नेयुः.
अमीनाया अन्तःपुरवलभितुङ्गवातायनाद् अधो भूतलस्थस्य सरलाया गृहस्य सूक्ष्मकार्पासवस्त्राच्छादितवातायनान्तःप्रकोष्ठं स्फुटं बहिस्तो दृक्पथम् अगमत्.
यदा च सरलायाः पतिर् नगरान् निरयात् तदा सा मनसो द्वितीयनिबन्धनभूतयाः सदने ऽमीनाया भूयिष्ठम् अहो ऽनयत्.
इमे च सहचर्यौ पुनः सङ्गमेनामन्दानन्दम् अन्वभूताम्.
अथामिना स्वधर्मनियमम् अनुसृत्याऽवगुण्ठनपद्धतिं निभृतवासविशेषावस्थितिम् अङ्गीकृत्य क्वचिद् एव विहाराय गृहाद् बहिर् निरगात्.
अतो नागरिकाणां प्रतिवेशिनां वा वृत्तानभिज्ञापि क्रमेण संजातबहुप्रजा परं संतुष्टास्त.
यदा यदा तु सरला निजसुखातिशयः स्वभर्तुः साहचर्यं तद्विप्रयोगोत्तरप्रत्यागमनोत्कण्ठा चोभयोर् इत्य् आदिविशयम् अधिकृत्य समलपत् तदा तदामीनां विदूरबद्धदृष्टिम् अलक्षयत् सा.
अथ गच्छति कले दृष्ट्याम् अमीनयाः को ऽपि खेदद्योतको विकारो व्यलोकि.
तयोर् निवासयोः पुरःस्थस्य पयोनिधेस् तटे सप्रेम ग्रथितान्योन्यकरौ सरलां तत्पतिं च रजन्यां शतपदीं कुर्वाणा दर्शं दर्शम् अमीनायाः विषण्णता वृद्धिम् अगमत्.
सा च दीर्घं निःश्वसती दुर्मनायमानेव क्वचिद् आत्मानं सरोषम् अप्राक्षीत् कुतो निःश्वस्यते मूढेन त्वयेत्थम् इति.
तावन् निखिले ऽहनि भर्तुर् मुखदर्शनानन्दं क्षणिकम् एवोपलब्धवती सा.
सहनिवासिनाव् अपि ताव् अधिकाधिकम् असंबद्धौ स्थितौ.
सो ऽयं हि हमिदो द्युतप्रियो नैकक्रीडामण्डलेषु प्रत्यहं विनोदितात्मा गेहं निवर्तितुं दिने दिने ऽधिकाधिकं व्यलम्बत.
सा चाधीरतया पतिं प्रतिरात्रं प्रतीक्षमाणास्त.
परं क्रमेण यदा स्वपत्यागमसमय आप्रभातं विलम्बितः समभूत् तदा मा प्रतीक्षस्व मां भोजनं समाप्य यथाकालं स्वपिहि.
अहं हि सुहृद्भिः सग्धिं करिष्य इति हमिदस् ताम् अज्ञापयत्.
सा च तस्य विलम्बस्य कारणं नितरां ज्ञातुकामापि कुतस् त्वयाऽद्य चिरायितम् इति तं प्रष्टुम् अलं धैर्यं न वा दृढाग्रहं भेजे.
एवं तयोर् वैवाहिकसंबन्धे कथाशेषमात्रे संजाते हन्त स्वपतिं सा निजसन्ततेर् जनक इत्य् एवावलोकयमास.
प्रायेण भूयसीनां धीमतीनां परिस्थित्येदृक्शोचनीयया भाव्यम् इति मन्वाना पतिप्रेमानन्दरसे स्वप्ने ऽप्य् अनास्वादिते ऽपि निजावस्थां शोचनीयां नामन्यतामीना मनाग् अपि.
अथैकदेयं पयोधिफेनपाण्डुरे शयनीये कृतपदा प्रस्वापसुखम् अनुबभूव.
समयो ऽयं किल ग्रीष्मर्तोः.
अवसरे ऽस्मिन् सर्वतो निशानाथस्य संपूर्णकलाप्रायस्य द्युतिदुग्धा धवलधरा निचयेन धवलितम् आसीद् धरातलम्.
जलनिधेर् जलानि हीरकनिचय इव चाकचक्यं भेजिरे.
पिहितेषु भवनद्वारेषु स्वस्वप्रकोष्ठेषु परिजनाः प्रसुप्ता आसन्.
अमीनापि प्रस्वपती कमप्य् अतिमात्रारम्यं स्वप्नम् अद्राक्षीत्.
यत् तदीयबालसख्या सरलया तदीयसर्वस्वम् अपि विलुण्ठ्य सा हमिदस्य हर्म्यान् निष्कासितेति.
चण्डवात्यया सहसा प्रहतेव सरुतं प्रबुध्य शयनात् समुत्थाय नयने परिमृजती संभ्रमेण रुद्धकण्ठा चकितचकितेव विशिथिलाङ्गयष्टिः स्खलत्पादाभ्यां समीपवर्तिनः सौधस्याधो भूतलस्थं सरलाया निलयम् अवलोक्यन्ती वातायनसमीपं चिरम् अवतस्थे.
नितान्तविविक्ततया विषण्णमना अमीना जलाब्धेर् ऊर्मिमालाया मन्दमन्दमर्मरं श्रावं श्रावं परिमृदितमृणालिनीव म्लानाङ्गी प्रियजनस्य कस्यापि मृदुलस्पर्शजुषः सान्त्वनस्याभिलाषुकाभूत्.
तावत् सरलायाः शय्यागारं विद्युद्दीपकद्योतितं व्यलोकि तया.
वातायनस्य सूक्ष्मनेपथ्यस्य पृष्ठतः सरलायाः सुकुमारशरीरयष्टिर् इतस् ततश् चलन्ती दृग्गोचरताम् अगाद् अमीनयाः.
भर्तरि निर्यते नगरान् निशीथिन्यां किन्नाम कर्तुं प्रवृत्ता स्यात् सरलेति व्यचिन्तयत् सविस्मयम् अमीना.
अथ यावत् सखीं समाह्वयितुं प्रवर्तते सा तावत् तस्यैव सौधस्याधो गृहपृष्ठभागतो निर्गच्छन्तीं हमिदस्याकृतिम् इव कस्यापि पुरुषस्याकृतिं व्यलोकयद् अमीना.
तदनु च झटिति सरलायाः शय्यागृहस्य दिपिका निर्वापिताभुत्.
नीरवं निभृतं प्रचलन् पुरुषो ऽयं स्वपतिर् इति क्षणं सा न व्यश्वसीत् परं यदा स्वहर्म्यस्य बहिर् द्वारम् उद्घाट्यान्तः स प्राविशत् तदायं हमिदम् अन्तरा न को ऽप्य् अन्य इति प्रतीताऽभूत्.
पाण्डुवदना वेपमानविग्रहा किंकर्तव्यप्रतिपत्तिमूढा स्थितवती च.
प्रभातप्रायः समयो न चिराद् भविता.
कुत एतावान् विलम्बः प्रत्यागमस्य भर्तुः कुतश् च सरलायाः शयनगृहं मध्यरात्रे प्रकाशितं स्याद् इत्य् अनेकवितर्कजालेनाक्रान्ता वातायनात् परावृत्योन्निद्रनेत्र्याभानूदयं संभ्रान्ताऽन्तःपुरे गतागतम् अकरोद् अमीना.
परेद्युर् निशीथे पुनर् गवाक्षसविधे सा चिरं स्थित्वापि सरलाया निलयम् अन्धतमसावृतम् अपश्यत्.
बहिः सर्वत्र प्रशान्ततादेवी व्यराजत्.
यामिनीकामिनीवदनतिलकबिन्दुर् इन्दुश् चन्द्रिकाव्याजेनाम्बरतलात् सुधाधाराभिर् धरातलम् अधावत्.
अन्तरान्तरा वारिधिवीचिमालानां मन्दमन्दरवो ऽमीनायाः कर्णशष्कुलीम् अपूरयत्.
अथ यावत् परावर्तते सा वातायनात् तावत् पादचारध्वनिम् इव कस्याप्य् अश्रौषीत्.
ध्वनिनानेनाकृष्टेव गवाक्षसविधं पुनः सा ययौ.
न चिराच् च समीपवर्तिनः सौधस्याधस्तलभागान् निर्गछन्ती हमिदस्य शरीराकृतिः पुनस् तस्या दृक्पथे न्यपतत्.
हिमधवलवसनोपरि श्यामक्षौमप्रावारो रक्ततुर्कोष्णीषश् च निशाकरकरनिचये वैलक्षण्यं भेजाते.
ततश् च गवाक्षजालप्रसारितै रजतमार्जनीनिभैः कलानिधिकरनिकरैः संशोधितान्धकारे पयोधिफेनसंदोहेनेव निर्मिते शयनीय उपविश्य संदेहकोपोन्मथितहृदया मुखम् अधः कृत्वा निःश्वस्योष्णं च सा तूष्णीं तस्थौ.
एवं चतसृषु निशासु नैशान्वेषणम् उपाक्रमतामीना यावत् सा सरलायाः कपटस्य संजातप्रत्ययाभूत्.
सरलाहमिदयोर् मध्ये निभृतासक्तिसम्बन्धविषये न को ऽपि संदेहलेश इति निश्चितमतिः सा समभूत्.
प्रतिनक्तं व्यतिकरम् इमं प्रत्यक्षीकृत्य लोहितवदना कोपस्फुरदधरा जाज्वल्यमानलोचना शयने कृतपदा पर्श्वद्वये मुहुर्मुहुर् लुठन्ती नैराश्याद् अवातिष्ठत.
कुतर्कपरवशेयं क्रियासमभिहारेणोद्गच्छद्रोषबाष्पा क्रोधाग्निना लुलितलुलिताङ्गकैस् ताम्यति स्म प्रतिदिनम्.
अहो कथं नाद्यावधि सरलाया गूढकौटिल्यं न तर्कितं मन्दधिया मयेति मुहुर्मुहुर् विचिन्तयन्ती भृशम् अकुप्यद् आत्मने.
अथ पूर्ववद् यदा सह सख्या शूचीशिल्पं कर्तुं सरला तस्याः प्रासादं समायात् तदामीनाऽत्यन्तनिरुत्साहा कोपेनान्तरेव तातप्यमाना हास्यविवर्जिता समतिष्ठत.
कैश्चिद् अपि गृहकार्यव्यवस्थाक्लेशैर् उद्वेजिता स्यत् सहचरीति सरला ताम् उल्लासयितुं सविनोदं प्रायतत.
परम् अधिकाधिकम् औदासीन्यम् एवावलम्ब्य विमनायमाना स्थिथवत्य् अमीना.
उच्चैः पुस्तकपठनं चिकीर्षुं सरलां सपदि सपदि सहस्तविक्षेपं प्रत्याख्यात् सा.
प्रतिवारं यदा सरला विश्रम्भालापं कर्तुं प्रावर्तत तदा तद्वचोभिर् भूयो वितुष्टहृदयम् इवात्मानं सा प्रादर्शयत्.
तदनु सरला स्मारं स्मारं कवेर् उक्तिम् अतिपरिचयाद् अवज्ञा संततगमनाद् अनादरो भवतीति व्यरमद् गमनात् सख्या हर्म्यम्.
अमीनाया हृदि तावत् सहचरीं प्रति विद्वेषाग्निर् अधिकाधिकं समुद्ज्वलत्.
अनवरतं च व्यचिन्तयत् सा यदा बाल्याद् यस्यां पूर्णशो व्यश्वसं सेयम् अद्य कथम् ईदृगधर्मकर्मणि प्रवृत्ताभूत् तत्रापि निजसख्याः सह वल्लभेन.
मधुरमधुरवचांसि मत्पुरः समुदीर्य परोक्षं माम् कथं सा प्रतारितवती.
अहह! कथं कमलाम् इव विमलां शारदाम् इव विशारदां सतीम् इव सतीं स्वां प्रदर्षयन्ती मलिनहृदया स्थितवत्य् एतावत् कालम्.
अहं च तां विश्वसनीयां प्राणप्रियां च भगिनीम् इव समभावयम्.
अपि हामिदस्य वैभवेन मोहिता स्यात् सा यत् स्वपतेः पत्नीवत्सलस्य परोक्ष व्यभिचारकर्मणि प्रावर्ततेयम्.
कीदृशो ऽयं विश्वासघातः.
कीदृशीयं चञ्चलता चित्तस्य यन् मत्सहचर्यैव विश्वेषां नर्मपात्रं कृतास्मि.
अहह! कथं नाम तस्या विषयासक्तिं वत्सरेष्व् एतेषु नाविदम्.
कुतश् चेयं मत्गेहसविधे कृतावासाभूत.
अपि भर्तुः परोक्षे निभृतदुराचाराय व्यवसितम् इत्थं तया.
बाह्यतो मुग्धाननाया विनयसंपन्नायाश् च तस्या हृदि कौटिल्याहिः कथम् आश्रितः स्यात्.
सर्वा अपि सहचर्य आत्मानं निरागसं प्रदर्शयन्त्यो ऽविश्वसनीयाः स्युः.
इत्थं तर्कवितर्ककण्टकनिकरव्यथिता सा सरलां प्रस्तुतविषयम् उद्दिश्य विशकलय्य प्रष्टुकामापि स्वप्रतिष्ठाया अलीकदर्पाज् जोषं स्थितवती.
सरलायाश् चिरसख्यं तदीयमधुरवचश् च स्वप्न इवेन्द्रजालम् इव मायादर्शनम् इवामिनायाः प्रत्यभाद् इदानीम्.
आधिं चात्मनो रहसि सहमानावातिष्ठत सा.
अथ गच्छत्सु वर्षेषु शिशुर् एको ऽमीनायाः केनापि व्याधिना ग्रस्त इत्य् आकर्ण्य तस्य शुश्रूषायां सख्यै सहाय्यं प्रदित्सुः सरला सानुनयं पत्रद्वारा तस्यै न्यवेदयत् .
परं लेखम् इमं प्रावरणाद् अपसार्यैव यथागतं वाहकायाद् आपयद् अमीना.
अनेन परमोद्विग्नापि सरला सख्यै नाद्रुह्यन् मनाग् अपि.
रुग्णार्भकस्यामीनायाश् च वृत्तं स्वसेवकमुखाद् उपलभ्य जोषं स्थिता.
अथैकवत्सरोत्तरं हमिदो ऽकस्मात् केनापि निरुपायरोगेणाक्रान्तो मरणोन्मुखः स्थितः.
क्रमेण स च नष्टोल्लाघताशो नचिराद् विनष्टवाग् आसन्न प्रायोऽन्तकाल इति ज्ञात्वा सरलाया गृहस्य दिशम् अङ्गुल्या निर्दिश्य मुहुर्मुहुः कापि समाहूतयामीतीङ्गितेनैवासूचयज् जोषम्.
भर्तुर् आशयम् अवगत्यापि तस्य परयोषिदासक्तिम् अनभिनन्दमाना तत्सूचनम् अवामंस्तामीना.
सरलाया आकृतिर् हि हृदि तस्याः श्यामश्यामा मृत्युच्छायेव सन्ततम् अवस्थितासीत् .
अथ पञ्चषदिनोत्तरं भगवतो भास्करस्यास्तमनसमये हमिदः प्रति परलोकं प्रस्थितः.
तस्य निधनवृत्तं प्रतिवेशिनां सपदि श्रुतिपथे न्यपतद् अचिराच् च सर्वतो ऽपि नगरे प्रासरत्.
भर्तुर् मृत्युना शोकाकुलाभूद् अमीनेति न परं तस्याकस्मिकान्तेन स्तम्भिता निजशयनागरे निश्चलातिष्ठत्.
परिचराणां गमनागमनिनादेन वृद्धसेवकानाम् आक्रोशकल्लोलेन च जागरिता.
तस्या बालकाः संभ्रान्ताः संत्रस्ताश् चाभ्यधावन् मातुः शय्यालयम्.
सा च बालवत्सला गाढं तान् परिष्वज्य मृदुलवचोभिश् च समास्वास्य निजपर्यङ्के शायितवती.
सुप्तेषु तेषु हमिदस्य सेवको निःशब्दं ताम् उपेत्य न्यवेदयद् यथास्नापितो धूपितो गन्धादिरूषितो विग्रहः स्वामिनह्.
न चिराद् आयास्यन्ति नागरिका अनुकम्पिन इतो नेष्यन्त्य् अधः स्वामिनः पूतदेहम् उत्तरविधेर् अनुष्ठानार्थम्.
पुरोहिता हि समायाताः.
इत्य् उक्तया शीघ्रम् आयामि तावद् इति प्रत्युक्तस् तया परिचारको ऽपासरत्.
पत्युर् अन्तिमदर्शनस्येच्छया ऽमीनान्तःपुरान् निर्गत्य दीर्घदीर्घगृहाभ्यन्तरमार्गान् दीपमालाभिर् उद्भासितान् समुल्लङ्घ्य प्रासादस्य विशालसोपानसमीपस्थस्य हमिदस्य शय्यागृहस्य संनिधिं कथं कथम् अपि प्राप.
अथ यावत् प्रकोष्ठस्य द्वारम् उद्घाटयितुम् सा प्रवर्तते तावत् पश्यति सोपानपङ्क्तिम् आरोहन्तीं शनैः शनैः सरलाम्.
निशाम्यैनां शीतशीतसमीरेण कम्पमानाङ्गयष्टिर् इव तस्थौ विधवा.
अवनतमुखी सरला च यावत् सहानुभूतिं प्रदर्शयितुम् इच्छन्ती सखीं सप्रेम समालिङ्गितुं करपल्लवौ विस्तारयति तावद् अमीना तां सहस्तविक्षेपं निवार्य ब्रवीति कटुस्वरेण समायातासि निःसंशयं वल्लभस्यान्तिमदर्शनायेति.
नैवं नैवम्.
आयातास्मि खलु त्वत्कृत इति पश्चात् प्रचलिता विकम्पितशिराः प्रत्युवाच सरला.
अप्रदत्तप्रत्युत्तरा घनसंशयतमसावृतहृदया यावद् अमीना भर्तुर् आवासद्वारं समुद्घाटयति तावद् अन्तः काञ्चन काञ्चनाङ्गीम् अङ्गनां दृष्ट्वा साक्रोशं पृष्ठतः प्रचलिताऽमीना.
किम् इदम्? केयम्? कुत इयम्! अहह! इत्य् उदीरयन्ती खलितस्वरेण चकिता विस्फारितलोचना स्थम्बितेव सा स्थिता.
पुष्पमालाच्छादितस्य हमिदस्य हि शयनस्य सविधं विन्यस्तजानुः श्यामसूक्ष्मदुकूलाम्बरवेष्टिताङ्गयष्टिश् चारुवदना गौरवर्णा शिरीषसुकुमारतनुर् मृतस्य पादयोर् निहितशिराः शोकज्वालावलिढेव हरिद्राक्षालितवदनेव निःशब्दं विलपन्ती मुक्तकण्ठं काचित् तरुणी व्यलोकि.
अमीनया सानुयोगं निर्दिष्टाम् एनाम् आलोक्य सरला कर्णे ऽजपत्:
सखि सहज एवास्याः शोकोद्वेगजनितो विलापो विगतासोः प्राणेश्वरस्य कृते.
तयोर् दीर्घानुरागाभिज्ञया त्वया भाव्यम्.
विदितवृत्ताः सर्वे ऽपि प्रतिवेशिनो ऽत्रेति .
कथम्? कदा? त्वम् एवास्य प्रणेश्वरीति मयाकलितम् इति प्रालपद् अमीनाऽस्फुटम्.
विस्मिता स्तम्भितेव वचनम् अमीनाया नावगच्छन्तीव क्षणं विस्फारितनयनावातिष्ठत सरला.
ततश् च विवर्णवदनम् अमीनाया विलोक्य सा सवेगम् अभाणीत्.
अयि मूढमते! यथैहिकसम्पत्तिवैभवैश्वर्यादिभिः सनाथीकृतासि त्वं विधिना तथैव तेन पत्युः प्रेमोद्रेकसम्पत्त्यैकसुखभाक्कृतो ऽस्ति जनो ऽयम्.
प्राणेश्वरम् अन्तरेणेतरपुरुषा मे भ्रातृसमाना एव.
इति समुदीर्य विरतवचनास्ते सरला तावद् अमीना लज्जया नतमुखी निःशब्दा स्थितवती.
मुहूर्तोत्तरं लब्धप्रकृतिर् उवाच सरला पुनः.
अवगतम् इदानीं मया तव मां प्रति दुराग्रहहलाहलविकारस्य कारणम्.
बालसख्याम् अनिन्द्यायां कुतर्कजनितदुष्टसंशयपिशाचभारम् आरोप्य पञ्चसु वर्षेष्व् एतेषु तां हन्त दृक्पथाद् अकारणं निष्कास्य दुर्मनायमानम् आत्मानं पर्यतापयस् त्वं वृथा.
वाक्प्रतिष्ठानि देहिनां व्यवहारतन्त्राणि.
वाचि खलु सत्यासत्यहेतवो व्यवस्थिताः.
यदि सरलवचनेन माम् अप्रक्ष्यस् त्वं तर्हि याथार्थ्यम् अवेदिष्यः.
परं हृदि निभृतं वैमनस्यम् आश्रित्य वृथा संशयजनिताभिद्रोहाग्निसन्तप्ता मृगीव घोरसंदेहजनितकोपव्याघ्राघ्राता निभृतम् अश्रुप्रवाहैर् वृथा स्नाता क्रियासमभिहारेण मां हृदि शपन्ती च दीर्घकालं स्थितासि.
कामं तव भर्तुश् चेष्टितं नोचितम् आसीत् खलु.
परं यवनधर्मेण स्वदारेतरायाः परकीयायाः अङ्गीकारो यथान्यायम् इति प्रतिपद्यत इत्य् अपि विदितम् आसीत् ते.
आकर्ण्यैतन् निपत्यामीना सरलायाः पादयोर् विशिथिलवचनविन्यासाऽतिमन्दस्वरा लज्जयानन आविर्भूतविविधभावभङ्गा बद्धाञ्जलिर् अब्रवीत्.
सखि! क्षम्यतां क्षम्यतां जनो ऽयम्.
सनाथाप्य् अहं चिरात् पराङ्मुखीभूते नाथे ऽनाथीभूतेव कथं कथमपि कालम् अयापयम्.
नाथस्य निधनेनाद्य यथापूर्वं निर्विशेषम् अवस्थितास्मि खलु.
परं चिराद् आत्मनैव निःसारितबालसखी दैवयोगात् पुनर् मयोपलब्धेति मद्भाग्यभास्करो ऽयम् इति प्रमुदितान्तरङ्गास्मीति वचः पुनरुक्तिर् एव स्यात्.
हन्त! इतः परम् आजीवम् आवाम् उभे दृढबद्धसख्ये स्थास्याव
इत्य् उदीर्य सरलां गाढम् आश्लिष्य निजशयनागारम् एनाम् अनयद् अमीना.
मूल पाठ: Mithyāgrahaṇam · Edition: Kṣamā Rāva Kathāmuktāvalī. 15 laghukathānāṃ saṃgraḥaḥ Mumbāpurī Na. Mā. Tripāṭhī Beate Guttandin ‚Missverständnis‘ – eine Novelle aus Indien von Kṣamā Rāva: Aus dem Sanskrit mit Vorbemerkungen und Sprachanalyse Orientierungen. Zeitschrift zur Kultur Asiens 29 1-45 · Data entry Beate Guttandin · GRETIL (Göttingen) · CC BY-NC-SA 4.0