मेघदूत · भाग 113
कश्चित् कान्ताविरहगुरुणा स्वाधिकारात् प्रमत्तः $
शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः &
यक्षश् चक्रे जनकतनयास्नानपुण्योदकेषु %
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ 1.1 ॥
तस्मिन्न् अद्रौ कतिचिद् अबलाविप्रयुक्तः स कामी $
नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः &
आषाढस्य प्रथमदिवसे मेघम् आश्लिष्टसानुं %
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ 1.2 ॥
तस्य स्थित्वा कथम् अपि पुरः कौतुकाधानहेतोर् $
अन्तर्बाष्पश् चिरम् अनुचरो राजराजस्य दध्यौ &
मेघालोके भवति सुखिनो ऽप्य् अन्यथावृत्ति चेतः %
कण्ठाश्लेषप्रणयिनि जने किं पुनर् दूरसंस्थे ॥ 1.3 ॥
प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी $
जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् &
स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै %
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ 1.4 ॥
धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः $
सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः &
इत्य् औत्सुक्याद् अपरिगणयन् गुह्यकस् तं ययाचे %
कामार्ता हि प्रकृतिकृपणाश् चेतनाचेतएषु ॥ 1.5 ॥
जातं वंशे भुवनविदिते पुष्करावर्तकानां $
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः &
तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर् गतो ऽहं %
याच्ञा मोघा वरम् अधिगुणे नाधमे लब्धकामा ॥ 1.6 ॥
संतप्तानां त्वमसि शरणं तत् पयोद प्रियायाः $
संदेशं मे हर धनपतिक्रोधविश्लेषितस्य &
गन्तव्या ते वसतिर् अलका नाम यक्षेश्वराणां %
बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥ 1.7 ॥
त्वाम् आरूढं पवनपदवीम् उद्गृहीतालकान्ताः $
प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययाद् आश्वसन्त्यः &
कः संनद्धे विरहविधुरां त्वय्य् उपेक्षेत जायां %
न स्याद् अन्यो ऽप्य् अहम् इव जनो यः पराधीनवृत्तिः ॥ 1.8 ॥
त्वां चावश्यं दिवसगणनातत्पराम् एकपत्नीम् $
अव्यापन्नाम् अविहतगतिर् द्रक्ष्यसि भ्रातृजायाम् &
आशाबन्धः कुसुमसदृशं प्रायशो ह्य् अङ्गनानां %
सद्यः पाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ 1.9 ॥
मन्दं मन्दं नुदति पवनश् चानुकूलो यथा त्वां $
वामश् चायं नदति मधुरं चातकस् ते सगन्धः &
गर्भाधानक्षणपरिचयान् नूनम् आबद्धमालाः %
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ 1.10 ॥
कर्तुं यच् च प्रभवति महीम् उच्छिलीन्ध्राम् अवन्ध्यां $
तच् छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः &
आ कैलासाद् बिसकिसलयच्छेदपाथेयवन्तः %
संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ 1.11 ॥
आपृच्छस्व प्रियसखम् अमुं तुङ्गम् आलिङ्ग्य शैलं $
वन्द्यैः पुंसां रघुपतिपदैर् अङ्कितं मेखलासु &
काले काले भवति भवतो यस्य संयोगम् एत्य %
स्नेहव्यक्तिश् चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥ 1.12 ॥
मर्गं तावच् छृणु कथयतस् त्वत्प्रयाणानुरूपं $
संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् &
खिन्नः खिन्नः शिहरिषु पदं न्यस्य गन्तासि यत्र %
क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ॥ 1.13 ॥
अद्रेः शृङ्गं हरति पवनः किं स्विद् इत्य् उन्मुखीभिर् $
दृष्टोत्साहश् चकितचकितं मुग्धसिद्धाङ्गनाभिः &
स्थानाद् अस्मात् सरसनिचुलाद् उत्पतोदङ्मुखः खं %
दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ 1.14 ॥
रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ताद् $
वल्मीकाग्रात् प्रभवति धनुःखण्डम् आखण्डलस्य &
येन श्यामं वपुर् अतितरां कान्तिम् आपत्स्यते ते %
बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ 1.15 ॥
त्वय्य् आयन्तं कृषिफलम् इति भ्रूविकारान् अभिज्ञैः $
प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः &
सद्यःसीरोत्कषणसुरभि क्षेत्रम् आरुह्य मालं %
किंचित् पश्चाद् व्रज लघुगतिर् भूय एवोत्तरेण ॥ 1.16 ॥
त्वाम् आसारप्रशमितवनोपप्लवं साधु मूर्ध्ना $
वक्ष्यत्य् अध्वश्रमपरिगतं सानुमान् आम्रकूटः &
न क्षुद्रो ऽपि प्रथमसुकृतापेक्षया संश्रयाय %
प्राप्ते मित्रे भवति विमुखः किं पुनर् यस् तत्थोच्चैः ॥ 1.17 ॥
छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस् $
त्वय्य् आरूढे शिखरम् अचलः स्निग्धवेणीसवर्णे &
नूनं यास्यत्य् अमरमिथुनप्रेक्षणीयाम् अवस्थां %
मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ 1.18 ॥
स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं $
तोयोत्सर्गद्रुततरगतिस् तत्परं वर्त्म तीर्णः &
रेवां द्रक्ष्यस्य् उपलविषमे विन्ध्यपादे विशीर्णां %
भक्तिच्छेदैर् इव विरचितां भूतिम् अङ्गे गजस्य ॥ 1.19 ॥
{अध्वक्लान्तं प्रतिमुखगतं सानुमानाम्रकूटस् $
तुङ्गेन त्वां जलद शिरसा वक्ष्यति श्लाघमानः &
आसारेण त्वम् अपि शमयेस् तस्य नैदाघम् अग्निं %
सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु ॥ 1.19अ} ॥
तस्यास् तिक्तैर् वनगजमदैर् वासितं वान्तवृष्टिर् $
जम्बूकुञ्जप्रतिहतरयं तोयम् आदाय गच्छेः &
अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां %
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ 1.20 ॥
नीपं दृष्ट्वा हरितकपिशं केसरैर् अर्धरूढैर् $
आविर्भूतप्रथममुकुलाः कन्दलीश् चानुकच्छम् &
जग्ध्वारण्येष्व् अधिकसुरभिं गन्धम् आघ्राय चोर्व्याः %
सारङ्गास् ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ 1.21 ॥
अम्भोबिन्दुग्रहणचतुरांश् चातकान् वीक्षमाणाः $
श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः &
त्वाम् आसाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः %
सोत्कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥ 1.22 ॥
उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः $
कालक्षेपं ककुभसुरभौ पर्वते पर्वेते ते &
शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः %
प्रतुद्यातः कथम् अपि भवान् गन्तुम् आशु व्यवस्येत् ॥ 1.23 ॥
पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैर् $
नीडारम्भैर् गृहबलिभुजाम् आकुलग्रामचैत्याः &
त्वय्य् आसन्ने परिणतफलश्यामजम्बूवनान्ताः %
संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ 1.24 ॥
तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं $
गत्वा सद्यः फलम् अविकलं कामुकत्वस्य लब्धा &
तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात् %
सभ्रूभङ्गं मुखम् इव पयो वेत्रवत्याश् चलोर्मि ॥ 1.25 ॥
नीचैराख्यं गिरिम् अधिवसेस् तत्र विश्रामहेतोस् $
त्वत्सम्पर्कात् पुलकितम् इव प्रौढपुष्पैः कदम्बैः &
यः पुण्यस्त्रीरतिपरिमलोद्गारिभिर् नागराणाम् %
उद्दामानि प्रथयति शिलावेश्मभिर् यौवनानि ॥ 1.26 ॥
विश्रान्तः सन् व्रज वननदीतीरजानां निषिञ्चन्न् $
उद्यानानां नवजलकणैर् यूथिकाजाल्कानि &
गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां %
छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम् ॥ 1.27 ॥
वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां $
सौधोत्सङ्गप्रणयविमुखो मा स्म भूर् उज्जयिन्याः &
विद्युद्दामस्फुरितचक्रितैस् तत्र पौराङ्गनानां %
लोलापाङ्गैर् यदि न रमसे लोचनैर् वञ्चितो ऽसि ॥ 1.28 ॥
वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः $
संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभः &
निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य %
स्त्रीणाम् आद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ 1.29 ॥
वेणीभूतप्रतनुसलिला ताम् अतीतस्य सिन्धुः $
पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः &
सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती %
कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ 1.30 ॥
प्राप्यावन्तीन् उदयनकथाकोविदग्रामवृद्धान् $
पूर्वोद्दिष्टाम् उपसर पुरीं श्रीविशालां विशालाम् &
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां %
शेषैः पुण्यैर् हृतम् इव दिवः कान्तिमत् खण्डम् एकम् ॥ 1.31 ॥
दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां $
प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः &
यत्र स्त्रीणां हरति सुरतग्लानिम् अङ्गानुकूलः %
शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ 1.32 ॥
हारांस् तारांस् तरलगुटिकान् कोटिशः शङ्कशुक्तीः $
शष्पश्यामान् मरकतमणीन् उन्मयूखप्ररोहान् &
दृष्ट्वा यस्यां विपणिरचितान् विद्रुमाणां च भङ्गान् %
संलक्ष्यन्ते सलिलनिधयस् तोयमात्रावशेषाः ॥ 1.33 ॥
प्रद्योतस्य प्रियदुहितरं वत्सराजो ऽत्र जह्रे $
हैमं तालद्रुमवनम् अभूद् अत्र तस्यैव राज्ञः &
अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भम् उत्पाट्य दर्पाद् %
इत्य् आगन्तून् रमयति जनो यत्र बन्धून् अभिज्ञः ॥ 1.34 ॥
जालोद्गीर्णैर् उपचितवपुः केशसंस्कारधूपैर् $
बन्धुप्रीत्या भवनशिख्जिभिर् दत्तनृत्योपहारः &
हर्म्येष्व् अस्याः कुसुमसुरभिष्व् अधवखेदं नयेथा %
लक्ष्मीं पश्यंल् ललितवनितापादरागाङ्कितेषु ॥ 1.35 ॥
भर्तुः कण्ठच्छविर् इति गणैः सादरं वीक्ष्यमाणः $
पुण्यं यायास् त्रिभुवनगुरोर् धाम चण्डीश्वरस्य &
धूतोद्यानं कुवलयरजोगन्धिभिर् गन्धवत्यास् %
तोयक्रीडानिरतयुवतिस्नानतिक्तैर् मरुद्भिः ॥ 1.36 ॥
अप्य् अन्यस्मिञ् जलधर महाकालम् आसाद्य काले $
स्थातव्यं ते नयनविषयं यावद् अत्येति भानुः &
कुर्वन् सन्ध्यावलिपटहतां शूलिनः श्लाघनीयाम् %
आमन्द्राणां फलम् अविकलं लप्स्यसे गर्जितानाम् ॥ 1.37 ॥
पादन्यासैः क्वणितरशनास् तत्र लीलावधूतै $
रत्नच्छायाखचितवलिभिश् चामरैः क्लान्तहस्ताः &
वेश्यास् त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून् %
आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटक्षान् ॥ 1.38 ॥
पश्चाद् उच्चैर्भुजतरुवनं मण्डलेनाभ्लीनः $
सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः &
नृत्तारम्भे हर पशुपतेर् आर्द्रनागाजिनेच्छां %
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर् भवान्या ॥ 1.39 ॥
गच्छन्तीनां रमाणवसतिं योषितां तत्र नक्तं $
रुद्धालोके नरपतिपथे सूचिभेद्यैस् तमोभिः &
सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीं %
तोयोत्सर्गस्तनितमुहरो मा च भूर्विक्लवास्ताः ॥ 1.40 ॥
तां कस्यांचिद् भवनवलभौ सुप्तपारावतायां $
नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः &
दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशेषं %
मन्दायन्ते न खलु सुहृदामभ्युपतार्थकृत्याः ॥ 1.41 ॥
तस्मिन् काले नयनसलिअं योषितां खण्डितानां $
शान्तिं नेयं प्रणयिभिर् अतो वर्त्म भानोस् त्यजाशु &
प्रालेयास्त्रं कमलवदनात् सो.अपि हर्तुं नलिन्याः %
प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पभ्यसूयः ॥ 1.42 ॥
गम्भीरायाः पयसि सरितश् चेतसीव प्रसन्ने $
छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् &
तस्माद् अस्याः कुमुदविशदान्य् अर्हसि त्वं न धैर्यान् %
मोघीकर्तुं चटुलशफोरोद्वर्तनप्रेक्षितानि ॥ 1.43 ॥
तस्याः किंचित् करधृतम् इव प्राप्त्वाईरशाखं $
हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् &
प्रस्थानं ते कथम् अपि सखे लम्बमानस्य भावि %
ज्ञातास्वादो विवृतजघनां को विहातुं समर्था ॥ 1.44 ॥
त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः $
स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः &
नीचैर् वास्यत्य् उपजिगमिषोर् देवपूर्वं गिरिं ते %
शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ 1.45 ॥
तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा $
पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः &
रक्षाहेतोर् नवशशिभृता वासवीनां चमूनाम् %
अत्यादित्यं हुतवहमुखे संभृतं तद् धि तेयः ॥ 1.46 ॥
ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी $
पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति &
धौतापाङ्गं हरशशिरुचा पावकेस् तं मयूरं %
पश्चाद् अद्रिग्रहणगुरुभिर् गर्जितैर् नर्तयेथाः ॥ 1.47 ॥
आराद्यैनं शरवणभवं देवम् उल्लङ्घिताध्वा $
सिद्धद्वन्द्वैर् जलकणभयाद् वीणिभिर् मुक्तमार्गः &
व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् %
स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ 1.48 ॥
त्वय्य् आदातुं जलम् अवनते शार्ङ्गिणो वर्णचौरे $
तस्याः सिन्धोः पृथुम् अपि तनुं दूरभावात् प्रवाहम् &
प्रेक्षिष्यन्ते गगनगतयो नूनम् आवर्ज्य दृष्टिर् %
एकं भुक्तागुणम् इव भुवः स्थूलमध्येन्द्रनीलम् ॥ 1.49 ॥
ताम् उत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां $
पक्ष्मोत्क्षेपाद् उपरिविलसत्कृष्णशारप्रभाणाम् &
कुन्दक्षेपानुगमधुकरश्रीमुषाम् आत्मबिम्बं %
पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ॥ 1.50 ॥
ब्रह्मावर्तं जनपदम् अथ च्छायया गाहमानः $
क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः &
राजन्यानां शितशरशतैर् यत्र गाण्डीवधन्वा %
धारापातैस् त्वम् इव कमलान्य् अभ्यवर्षन् मुखानि ॥ 1.51 ॥
हित्वा हालाम् अभिमतरसां रेवतीलोचनाङ्कां $
बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे &
कृत्वा तासाम् अधिगमम् अपां सौम्य सारस्वतीनाम् %
अन्तः शुद्धस् त्वम् अपि भविता वर्णमात्रेण कृष्णः ॥ 1.52 ॥
तस्माद् गच्छेर् अनुकनखलं शैलराजावतीर्णां $
जाह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् &
गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः %
शम्भोः केशग्रहणम् अकरोद् इन्दुलग्नोर्मिहस्ता ॥ 1.53 ॥
तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी $
त्वं चेद् अच्छस्फटिकविशदं तर्कयेस् तिर्यग् अम्भः &
संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययासौ %
स्याद् अस्थानोपगतयमुनासंगमेवाभिरामा ॥ 1.54 ॥
आसीनानां सुरभितशिलं नाभिगन्धैर् मृगाणां $
तस्या एव प्रभवम् अचलं प्राप्य गौरं तुषारैः &
वक्ष्यस्य् अध्वश्रमविनयेन तस्य शृङ्गे निषण्णः %
शोभां शुभ्रां त्रिनयनवृषोत्खातपङ्कोपमेयम् ॥ 1.55 ॥
तं चेद् वायौ सरति सरलस्कन्धसंघट्टजन्मा $
बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः &
अर्हस्य् एनं शमयितुम् अलं वारिधारासहस्रैर् %
आपन्नार्तिप्रशमनफलाः संपदो ह्य् उत्तमानाम् ॥ 1.56 ॥
ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मिन् $
मुक्ताध्वानं सपदि शरभा लङ्घयेयुर् भवन्तम् &
तान् कुर्वीथास् तुमुलकरकावृष्टिपातावकीर्णन् %
के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ 1.57 ॥
तत्र व्यक्तं दृषदि चरणन्यासम् अर्धेन्दुमौलेः $
शश्वत् सिद्धैर् उपचितबलिं भक्तिनम्रः परीयाः &
यस्मिन् दृष्टे करणविगमाद् ऊर्ध्वम् उद्धूतपापाः %
कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ 1.58 ॥
शब्दायन्ते मधुरम् अनिलैः कीचकाः पूर्यमाणाः $
संरक्ताभिस् त्रिपुरविजयो गीयते किंनराभिः &
निर्ह्रादस् ते मुरज इव चेत् कन्दरेषु ध्वनिः स्यात् %
संगीतार्थो ननु पशुपतेस् तत्र भावी समग्रः ॥ 1.59 ॥
प्रालेयाद्रेर् उपतटम् अतिक्रम्य तांस् तान् विशेषान् $
हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् &
तेनोदीचीं दिशम् अनुसरेस् तिर्यग् आयामशोभी %
श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥ 1.60 ॥
गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः $
कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः &
शृङ्गोच्छ्रायैः कुमुदविशदैर् यो वितत्य स्थितः खं %
राशीभूतः प्रतिदिनम् इव त्र्यम्बकस्यट्टहासः ॥ 1.61 ॥
उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे $
सद्यः कृत्तद्विरददशनच्छेदगौरस्य तस्य &
शोभाम् अद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम् %
अंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ 1.62 ॥
हित्वा तस्मिन् भुजगवलयं शम्भुना दत्तहस्ता $
क्रीडाशैले यदि च विचरेत् पादचारेण गौरी &
भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः %
सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥ 1.63 ॥
तत्रावश्यं वलयकुलिशोद्धट्टनोद्गीर्णतोयं $
नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् &
ताभ्यो मोक्षस् तव यदि सखे घर्मलब्धस्य न स्यात् %
क्रीडालोलाः श्रवणपरुषैर् गर्जितैर् भाययेस् ताः ॥ 1.64 ॥
हेमाम्भोजप्रसवि सलिलं मानसस्याददानः $
कुर्वन् कामं क्षणमुखपटप्रीतिम् ऐरावतस्य &
धुन्वन् कल्पद्रुमकिसलयान् यंशुकानीव वातैर् %
नानाचेष्टैर् जलदललितैर् निर्विशेस् तं नगेन्द्रम् ॥ 1.65 ॥
तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां $
न त्वं दृष्ट्वा न पुनर् अलकां ज्ञास्यसे कामचारिन् &
या वः काले वहति सलिलोद्गारम् उच्चैर् विमाना %
मुक्ताजालग्रथितम् अलकं कामिनीवाभ्रवृन्दम् ॥ 1.66 ॥
{ऊत्तरमेघः}
विधुन्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः $
संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् &
अन्तस्तोयं मणिमयभुवस् तुङ्गम् अभ्रंलिहाग्राः %
प्रासादास् त्वां तुलयितुम् अलं यत्र तैस् तैर् विशेषैः ॥ 2.1 ॥
हस्ते लीलाकमलम् अलके बालकुन्दानुविद्धं $
नीता लोध्रप्रसवरजसा पाण्डुताम् आनने श्रीः &
चूडापाशे नवकुरवकं चारु कर्णे शिरीषं %
सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ 2.2 ॥
यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा $
हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः &
केकोत्कण्ठा भुवनशिखिनो नित्यभास्वत्कलापा %
नित्यज्योत्स्नाः प्रहिततमोवृत्तिरम्याः प्रदोषाः ॥ 2.3 ॥
आनन्दोत्थं नयनसलिलम्यत्र नान्यैर् निमित्तैर् $
नान्यस् तापं कुसुमशरजाद् इष्टसंयोगसाध्यात् &
नाप्य् अन्यस्मात् प्रणयकलहाद् विप्रयोगोपपत्तिर् %
वित्तेशानां न च खलु वयो यौवनाद् अन्यद् अस्ति ॥ 2.4 ॥
यस्यां यक्षाः सितमणिमयान्य् एत्य हर्म्यस्थलानि $
ज्योतिश्छायाकुसुमरचितान्य् उत्तमस्त्रीसहायाः &
आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं %
त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्व् आहतेषु ॥ 2.5 ॥
मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भिर् $
मन्दाराणाम् अनुतटरुहां छायया वारितोष्णाः &
अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः %
संक्रीडन्ते मणिभिरमरप्रार्थितया यत्र कन्याः ॥ 2.6 ॥
नीवीबन्धोच्छ्वासितशिथिलं यत्र बिम्बाधराणां $
क्षौमं रागादनिभृतकरेष्व् आक्षिपत्सु प्रियेषु &
अर्चिस्तुङ्गान् अभिमुखम् अपि प्राप्य रत्नप्रदीपान् %
ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ 2.7 ॥
नेत्रा नीताः सततगतिना यद्विमानाग्रभूमीर् $
आलेख्यानां सलिलकणिकादोषम् उत्पाद्य सद्यः &
शङ्कास्पृष्टा इव जलमुचस् त्वादृशा जालमार्गैर् %
धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ 2.8 ॥
यत्र स्त्रीणां प्रियतमभुजोच्छ्वासितालिङ्गितानाम् $
अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः &
त्वत्संरोधापगमविशदश् चन्द्रपादैर् निशीथे %
व्यालुम्पन्ति स्फुटजललवस्यन्दिनश् चन्द्रकान्ताः ॥ 2.9 ॥
अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठैर् $
उद्गायद्भिर् धनपतियशः किंनरैर् यत्र सार्धम् &
वैभ्राजाख्यं विबुधवनितावारमुख्यसहाया %
बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥ 2.10 ॥
गत्युत्कम्पाद् अलकपतितैर् यत्र मन्दारपुष्पैः $
पुत्रच्छेदैः कनककमलैः कर्णविस्रंशिभिश् च &
मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश् च हारैर् %
नैशो मार्गः सवितुर् उदये सूच्यते कामिनीनाम् ॥ 2.11 ॥
वासश् चित्रं मधु नयनयोर् विभ्रमादेशदक्षं $
पुष्पोद्भेदं सह किसलयैर् भूषणानां विकल्पम् &
लाक्षारागं चरणकमलन्यासयोग्यं च यस्याम् %
एकः सूते सकलम् अबलामण्डनं कल्पवृक्षः ॥ 2.12 ॥
पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः $
शैलोदग्रास् त्वम् इव करिणो वृष्टिमन्तः प्रभेदात् &
योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः %
प्रत्यादिष्टाभरणरुचयश् चन्द्रहासव्रणाङ्कैः ॥ 2.13 ॥
मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं $
प्रायश् चापं न वहति भयान् मन्मथः षट्पदज्यम् &
सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्व् अमोघैस् %
तस्यारम्भश् चतुरवनिताविभ्रमैर् एव सिद्धः ॥ 2.14 ॥
तत्रागारं धनपतिगृहान् उत्तरेणास्मदीयं $
दूराल् लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन &
यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे %
हस्तप्राप्यस्तवकनमितो बालमन्दारवृक्षः ॥ 2.15 ॥
वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा $
हैमैश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः &
यस्यास् तोये कृतवसतयो मानसं संनिकृष्टं %
नाध्यास्यन्ति व्यपगतशुचस् त्वाम् अपि प्रेक्ष्य हंसाः ॥ 2.16 ॥
तस्यास् तीरे रचितशिखरः पेशलैर् इन्द्रनीलैः $
क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः &
मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण %
प्रेक्ष्योपान्तस्फुरिततडितं त्वां तम् एव स्मरामि ॥ 2.17 ॥
रक्ताशोकश् चलकिसलयः केसरश् चात्र कान्तः $
प्रत्यासन्नौ कुरुवकवृतेर् माधवीमण्डपस्य &
एकः सख्यास् तव सह मया वामपादाभिलाषी %
काङ्क्षत्य् अन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥ 2.18 ॥
तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिर् $
मूले बद्धा मणिभिर् अनतिप्रौढवंशप्रकाशैः &
तालैः शिञ्जावलयसुभगैर् नर्तितः कान्तया मे %
याम् अध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः ॥ 2.19 ॥
एभिः साधो हृदयनिहितैर् लक्षणैर् लक्षयेथा $
द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा &
क्षामच्छायां भवनम् अधुना मद्वियोगेन नूनं %
सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ 2.20 ॥
गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः $
क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः &
अर्हस्य् अन्तर्भवनपतितां कर्तुम् अल्पाल्पभासं %
खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥ 2.21 ॥
तन्वी श्यामा शिखरीदशना पक्वबिम्बाधरौष्ठी $
मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः &
श्रोणीभाराद् अलसगमना स्तोकनम्रा स्तनाभ्यां %
या तत्र स्याद् युवतीविषये सृष्टिर् आद्यैव धातुः ॥ 2.22 ॥
तां जानीथाः परिमितकथां जीवितं मे द्वितीयं $
दूरीभूते मयि सहचरे चक्रवाकीम् इवैकाम् &
गाढोत्कण्ठां गुरुषु दिवसेष्व् एषु गच्छत्सु बालां %
जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥ 2.23 ॥
नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया $
निःश्वासानाम् अशिशिरतया भिन्नवर्णाधरोष्ठम् &
हस्तन्यस्तं मुखम् असकलव्यक्ति लम्बालकत्वाद् %
इन्दोर् दैन्यं त्वदनुसरणक्लिष्टकान्तेर् बिभर्ति ॥ 2.24 ॥
आलोके ते निपतति पुरा सा बलिव्याकुला वा $
मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती &
पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां %
कच्चिद् भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ 2.25 ॥
उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां $
मद्गोत्राङ्कं विरचितपदं गेयम् उद्गातुकामा &
तन्त्रीम् आर्द्रां नयनसलिलैः सारयित्वा कथंचिद् %
भूयो भूयः स्वयम् अपि कृतां मूर्च्छनां विस्मरन्ती ॥ 2.26 ॥
शेषान् मासान् विरहदिवासस्थापितस्यावधेर् वा $
विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः &
सम्भोगं वा हृदयनिहितारम्भम् आस्वादयन्ती %
प्रायेणैते रमणविरहेष्व् अङ्गनानां विनोदाः ॥ 2.27 ॥
सव्यापारम् अहनि न तथा पीडयेद् विप्रयोगः $
शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते &
मत्सन्देशः सुखयितुम् अलं पश्य साध्वीं निशीथे %
ताम् उन्निद्राम् अवनिशयनां सौधवातायनस्थः ॥ 2.28 ॥
आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां $
प्राचीमूले तनुम् इव कलामात्रशेषां हिमांशोः &
नीता रात्रिः क्षण इव मया सार्धम् इच्छारतैर् या %
ताम् एवोष्णैर् विरहमहतीम् अश्रुभिर् यापयन्तीम् ॥ 2.29 ॥
पादान् इन्दोरमृतशिशिराञ्जलमार्गप्रविष्टान् $
पूर्वप्रीत्या गतमभुमुखं संनिवृत्तं तथैव &
चक्षुः खेदात् सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं %
साभ्रे.अह्नीव स्थलकमलिनी न प्रभुद्धां न सुप्ताम् ॥ 2.30 ॥
निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं $
शुद्धस्नानात् परुषमलकं नूनमागण्ण्दलम्बम् &
मत्संभोगः कथमुपनमेत् स्वप्नजो.अपीति निद्राम् %
आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशम् ॥ 2.31 ॥
आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा $
शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् &
स्पर्शक्लिष्टाम् अयमितनखेनासकृत्सारयन्तीं %
गण्डाभोगात् कठिनविषमाम् एकवेणीं करेण ॥ 2.32 ॥
सा संन्यस्ताभरणम् अबला पेशलं धारयन्ती $
शय्योत्सङ्गे निहितम् असकृद् दुःखदुःखेन गात्रम् &
त्वाम् अप्य् अस्रं नवजलमयं मोचयिष्यत्य् अवश्यं %
प्रायः सर्वो भवति करुणावृत्तिर् आर्द्रान्तरात्मा ॥ 2.33 ॥
जाने सख्यास् तव मयि मनः संभृतस्नेहमस्माद् $
इत्थंभूतां प्रथमविरहे ताम् अहं तर्कयामि &
वाचालं मां न खलु सुभगंमन्यभावः करोति %
प्रत्यक्षं ते निखिलम् अचिराद् भ्रातर् उक्तं मया यत् ॥ 2.34 ॥
रुद्धापाङ्गप्रसरम् अलकैर् अञ्जनस्नेहशून्यं $
प्रत्यादेशाद् अपि च मधुनो विस्मृतभ्रूविलासम् &
त्वय्य् आसन्ने नयनम् उपरिस्पन्दि शङ्के मृगाक्ष्या %
मीनक्षोभाच् चलकुवलयश्रीतुलाम् एष्यतीति ॥ 2.35 ॥
वामश् चास्याः कररुहपदैर् मुच्यमानो मदीयैर् $
मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या &
संभोगान्ते मम समुचितो हस्तसंवाहमानां %
यास्यत्य् ऊरुः सरसकदलीस्तम्भगौरश् चलत्वम् ॥ 2.36 ॥
तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्याद् $
अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व &
मा भूद् अस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचित् %
सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ 2.37 ॥
ताम् उत्थाप्य स्वजलकणिकाशीतलेनानिलेन $
प्रत्याश्वस्तां समम् अभिनवैर् जालकैर् मालतीनाम् &
विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे %
वक्तुं धीरः स्तनितवचनैर् मानिनीं प्रक्रमेथाः ॥ 2.38 ॥
भर्तुर् मित्रं प्रियम् अविधवे विद्धि माम् अम्बुवाहं $
तत्संदेशैर् हृदयनिहितैर् आगतं त्वत्समीपम् &
यो वृन्दानि त्वरयति पथि श्रम्यतां प्रोषितानां %
मन्द्रस्निग्धैर् ध्वनिभिर् अबलावेणिमोक्षोत्सुकानि ॥ 2.39 ॥
इत्य् आख्याते पवनतनयं मैथिलीवोन्मुखी सा $
त्वाम् उत्कण्ठोच्छ्वसितहृदया वीक्ष्य सम्भाव्य चैव &
श्रोष्यत्य् अस्मात् परम् अवहिता सौम्य सीमन्तिनीनां %
कान्तोदन्तः सुहृदुपनतः संगमात् किंचिद् ऊनः ॥ 2.40 ॥
ताम् आयुष्मन् मम च वचनाद् आत्मनश् चोपकर्तुं $
ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः &
अव्यापन्नः कुशलम् अबले पृच्छति त्वां वियुक्तः %
पूर्वाभाष्यं सुलभविपदां प्राणिनाम् एतद् एव ॥ 2.41 ॥
अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं $
सास्रेणाश्रुद्रुतम् अविरतोत्कण्ठम् उत्कण्ठितेन &
उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती %
संकल्पैस् तैर् विशति विधिना वैरिणा रुद्धमार्गः ॥ 2.42 ॥
शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात् $
कर्णे लोलः कथयितुम् अभूद् आननस्पर्शलोभात् &
सो ऽतिक्रान्तः श्रवणविषयं लोचनाभ्याम् अदृष्टस् %
त्वाम् उत्कण्ठाविरचितपदं मन्मुखेनेदम् आह ॥ 2.43 ॥
श्यामास्व् अङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं $
वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् &
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् %
हन्तैकस्मिन् क्वचिद् अपि न ते चण्डि सादृश्यम् अस्ति ॥ 2.44 ॥
त्वाम् आलिख्य प्रणयकुपितां धातुरागैः शिलायाम् $
आत्मानं ते चरणपतितं यावद् इच्छामि कर्तुम् &
अस्रैस् तावन् मुहुर् उपचितैर् दृष्टिर् आलुप्यते मे %
क्रूरस् तस्मिन्न् अपि न सहते संगमं नौ कृतान्तः ॥ 2.45 ॥
धारासिक्तस्थलसुरभिणस् त्वन्मुखस्यास्य बाले $
दूरीभूतं प्रतनुम् अपि मां पञ्चबाणः क्षिणोति &
घर्मान्ते ऽस्मिन् विगणय कथं वासराणि व्रजेयुर् %
दिक्संसक्तप्रविततघनव्यस्तसूर्यातपानि ॥ 2.45अ ॥
माम् आकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर् $
लब्धायास् ते कथम् अपि मया स्वप्नसन्दर्शनेषु &
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां %
मुक्तास्थूलास् तरुकिसलयेष्व् अश्रुलेशाः पतन्ति ॥ 2.46 ॥
भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां $
ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः &
आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः %
पूर्वं स्पृष्टं यदि किल भवेद् अङ्गम् एभिस् तवेति ॥ 2.47 ॥
संक्षिप्यन्ते क्षन इव कथं दीर्घयामा त्रियामा $
सर्वावस्थास्व् अहर् अपि कथं मन्दमन्दातपं स्यात् &
इत्थं चेतश् चटुलनयने दुर्लभप्रार्थनं मे %
गाढोष्माभिः कृतम् अशरणं त्वद्वियोगव्यथाभिः ॥ 2.48 ॥
नन्व् आत्मानं बहु विगणयन्न् आत्मनैवावलम्बे $
तत्कल्याणि त्वम् अपि नितरां मा गमः कातरत्वम् &
कस्यात्यन्तं सुखम् उपनतं दुःखम् एकान्ततो वा %
नीचैर् गच्छत्य् उपरि च दशा चक्रनेमिक्रमेण ॥ 2.49 ॥
शापान्तो मे भुजगशयनाद् उत्थिते शार्ङ्गपाणौ $
शेषान् मासान् गमय चतुरो लोचने मीलयित्वा &
पश्चाद् आवां विरहगुणितं तं तम् आत्माभिलाषं %
निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ 2.50 ॥
भूयश्चाह त्वम् अपि शयने कण्ठलग्ना पुरा मे $
निद्रां गत्वा किम् अपि रुदती सस्वरं विप्रबुद्धा &
सान्तर्हासं कथितम् असकृत् पृच्छतश् च त्वया मे %
दृष्टः स्वप्ने कितव रमयन् काम् अपि त्वं मयेति ॥ 2.51 ॥
एतस्मान् मां कुशलिनम् अभिज्ञानदानाद् विदित्वा $
मा कौलीनाद् असितनयने मय्य् अविश्वासिनी भूः &
स्नेहान् आहुः किम् अपि विरहे ध्वंसिनस् ते त्व् अभोगाद् %
इष्टे वस्तुन्य् उपचितरसाः प्रेमराशीभवन्ति ॥ 2.52 ॥
आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते $
शैलाद् आशु त्रिनयनवृषोत्खातकूटान् निवृत्तः &
साभिज्ञानप्रहितकुशलैस् तद्वचोभिर् ममापि %
प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ 2.53 ॥
कच्चित् सौम्य व्यवसितम् इदं बन्धुकृत्यं त्वया मे $
प्रत्यादेशान् न खलु भवतो धीरतां कल्पयामि &
निःशब्दो ऽपि प्रदिशसि जलं याचितश् चातकेभ्यः %
प्रत्युक्तं हि प्रणयिषु सताम् ईप्सितार्थक्रियैव ॥ 2.54 ॥
मूल पाठ: Meghadūta · Edition: M.R. Kale · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0