भाषा

ENहिગુ
ग्रंथ पाठ

मेघदूत-अच्च्-वल्लभदेव · श्लोक 61-80

61

तत्रावश्यं जनितसलिलोद्गारम् अन्तःप्रवेशान् नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम्
ताभ्यो मोक्षस् तव यदि सखे घर्मलब्धस्य न स्यात् क्रीडालोलाः श्रवणपरुषैर् गर्जितैर् भाययेस् ताः ॥

62

हेमाम्भोजप्रसवि सलिलं मानसस्याददानः कुर्वन् कामात् क्षणमुखपटप्रीतिम् ऐरावणस्य
धुन्वन् वातैः सजलपृषतैः कल्पवृक्षांशुकानि च्छायाभिन्नः स्फटिकविशदं निर्विशेः परवतं तम् ॥

63

तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुगूलां न त्वं दृष्ट्वा न पुनर् अलकां ज्ञास्यसे कामचारिन्
या वः काले वहति सलिलोद्गारम् उच्चैर्विमाना मुक्ताजालग्रथितम् अलकं कामिनीवाभ्रवृन्दम् ॥

64

विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम्
अन्तस्तोयं मणिमयभुवस् तुङ्गम् अभ्रंलिहाग्राः प्रासादास् त्वां तुलयितुम् अलं यत्र तैस् तैर् विशेषैः ॥

65

हस्ते लीलाकमलम् अलकं बालकुन्दानुविद्धं नीता रोध्रप्रसवरजसा पाण्डुताम् आननश्रीः
चूडापाशे नवकुरवकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥

66

यस्यां यक्षाः सितमणिमयान्य् एत्य हर्म्यस्थलानि ज्योतिश्छायाकुसुमरचनान्य् उत्तमस्त्रीसहायाः
आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्व् आहतेषु ॥

67

यत्र स्त्रीणां प्रियतमभुजालिङ्गनोच्छ्वासितानाम् अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः
त्वत्संरोधापगमविशदैश् चोतिताश् चन्द्रपादैर् व्यालुम्पन्ति स्फुटजललवस्यन्दिनश् चन्द्रकान्ताः ॥

68

नेत्रा नीताः सततगतिना यद् विमानाग्रभूमीर् आलेख्यानां नवजलकणैर् दोषम् उत्पाद्य सद्यः
शङ्कास्पृष्टा इव जलमुचस् त्वादृशा यत्र जालैर् धूमोद्गारानुकृतिनिपुणं जर्जरा निष्पतन्ति ॥

69

नीवीबन्धोच्छ्वसनशिथिलं यत्र यक्षाङ्गनानां वासः कामाद् अनिभृतकरेष्व् आक्षिपत्सु प्रियेषु
अर्चिस्तुङ्गान् अभिमुखम् अपि प्राप्य रत्नप्रदीपान् ह्रीमूढानां भवति विफलप्रेरणश् चूर्णमुष्टिः ॥

70

गत्युत्कम्पाद् अलकपतितैर् यत्र मन्दारपुष्पैः कॢप्तच्छेद्यैः कनककमलैः कर्णविभ्रंशिभिश् च
मुक्तालग्नस्तनपरिमलैश् छिन्नसूत्रैश् च हारैर् नैशो मार्गः सवितुर् उदये सूच्यते कामिनीनाम् ॥

71

मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं प्रायश् चापं न वहति भयान् मन्मथः षट्पदज्यम्
सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्व् अमोघैस् तस्यारम्भश् चतुरवनिताविभ्रमैर् एव सिद्धः ॥

72

तत्रागारं धनपतिगृहान् उत्तरेणास्मदीयं दूराल् लक्ष्यं तद् अमरधनुश् चारुणा तोरणेन
यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे हस्तप्राप्यस्तवकनमितो बालमन्दारवृक्षः ॥

73

वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा हैमैः स्यूता कमलमुकुलैः स्निग्धवैडूर्यनालैः
यस्यास् तोये कृतवसतयो मानसं संनिकृष्टं न ध्यास्यन्ति व्यपगतशुचस् त्वाम् अपि प्रेक्ष्य हंसाः ॥

74

यस्यास् तीरे निचितशिखरः पेशलैर् इन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः
मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तम् एव स्मरामि ॥

75

रक्ताशोकश् चलकिसलयः केसरश् चात्र कान्तः प्रत्यासन्नौ कुरवकवृतेर् माधवीमण्डपस्य
एकः सख्यास् तव सह मया वामपादाभिलाषी काङ्क्षत्य् अन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥

76

तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिर् मूले नद्धा मणिभिर् अनतिप्रौढवंशप्रकाशैः
तालैः शिञ्जद्वलयसुभगैर् नर्तितः कान्तया मे याम् अध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः ॥

77

एभिः साधो हृदयनिहितैर् लक्षणैर् लक्षणीयं द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा
क्षामच्छायं भवनम् अधुना मद्वियोगेन नूनं सूर्यापाये न खलु कमलं पुष्यति स्वाम् अभिख्याम् ॥

78

गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः
अर्हस्य् अन्तर्भवनपतितां कर्तुम् अल्पाल्पभासं खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥

79

तन्वी श्यामा शिखरदशना पक्वबिम्बाधरौष्ठी मध्ये क्षामा चकितहरिणप्रेक्षणी निम्ननाभिः
श्रोणीभाराद् अलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र स्याद् युवतिविषये सृष्टिर् आद्येव धातुः ॥

80

तां जानीयाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीम् इवैकाम्
गाढोत्कण्ठागुरुषु दिवसेष्व् एषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥

मूल पाठ: Meghadūta-acc-Vallabhadeva · Edition: Eugen Hultzsch: Kalidasa's Meghaduta, ed. from Manuscripts with the commentary of Vallabhadeva. London: Royal Asiatic Society 1911 (Prize Publication Fund ; 4) · Data entry Asko Parpola · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc