भाषा

ENहिગુ
ग्रंथ पाठ

मार्कण्डेय पुराण · अध्याय 93

93.1

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये देवीवाक्यं नाम द्विनवतितमो ऽध्यायः
त्रिनवतितमो ऽध्यायः- 93
ऋषिरुवाच
एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् ।
एवंप्रभावा सा देवी ययेदं धार्यते जगत्

93.2

विद्या तथैव क्रियते भगवद्विष्णुमायया ।
तथा त्वमेष वैश्यश्च तथैवान्ये विवेकिनः ।
मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे

93.3

तामुपैहि महाराज शरणं परमेश्वरीम् ।
आराधिता सैव नृणां भोगस्वर्गापवर्गदा

93.4

मार्कण्डेय उवाच
इति तस्य वचः श्रुत्वा सुरथः स नराधिपः ।
प्रणिपत्य महाभागं तमृषिं शंसितव्रतम्

93.5

निर्विण्णो ऽतिममत्वेन राज्यापहरणेन च ।
जगम सद्यस्तपसे स च वैश्यो महामुने

93.6

संदर्शनार्थमम्बाया नदीपुलिनसंस्थितः ।
स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन्

93.7

तौ तस्मिन् पिलिने देव्याः कृत्वा मूर्ति महीमयीम् ।
अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः

93.8

निराहारौ यतात्मानौ तन्मनस्कौ समाहितौ ।
ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम्

93.9

एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः ।
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका

93.10

श्रीदेव्युवाच
यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन ।
मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामि तत्

93.11

मार्कण्डेय उवाच
ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि ।
अत्रैव च निजं राज्यं हतशत्रुबलं बलात्

93.12

सो ऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः ।
ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम्

93.13

श्रीदेव्युवाच
स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान् ।
हत्वा रिपूनस्खलितं तव तत्र भविष्यति

93.14

मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः ।
सावर्णिको नाम मनुर्भवान् भुवि भविष्यति

93.15

वैश्यवर्य त्वया यश्च वरो ऽस्मत्तो ऽभिवाञ्छतः ।
तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति

93.16

मार्कण्डेय उवाच
इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् ।
बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता

93.17

एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः ।
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः

मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc