मार्कण्डेय पुराण · अध्याय 36
इति श्रीमार्कण्डेयपुराणे ऽलर्कानुशासने वर्ज्यावर्ज्यनामा पञ्चत्रिंशो ऽध्यायः
षट्त्रिंशो ऽध्यायः
जड उवाच
स एवमनुशिष्टः सन् मात्रा संप्राप्य यौवनम् ।
ऋतध्वजसुतश्चक्रे सम्यग्दारपरिग्रहम्
पुत्रांश्चोत्पादयामास यज्ञैश्चाप्ययजद्विभुः ।
पितुश्च सर्वकालेषु चकाराज्ञानुपालनम्
ततः कालेन महता संप्राप्य चरमं वयः ।
चक्रे ऽभिषेकं पुत्रस्य तस्य रज्ये ऋतध्वजः
भार्यया सह धर्मात्मा यियासुस्तपसे वनम् ।
अवतीर्णो महारक्षो महाभागो महीपतिः
मदालसा च तनयं प्राहेदं पश्चिमं वच ।
कामोपभोगसंसर्गप्रहाणाय सुतस्य वै
मदालसोवाच
यदा दुः खमसह्यं ते प्रियबन्धुवियोगजम् ।
शत्रुबाधोद्भवं वापि वित्तनाशात्मसम्भवम्
भवेत्तत् कुर्वतो राज्यं गृहधर्मावलम्बिनः ।
दुः खायतनभूतो हि ममत्वालम्बनो गृही
तदास्मात् पुत्र ! निष्कृष्य मद्दत्तादङ्गुलीयकात् ।
वाच्यं ते शासनं पट्टे सूक्ष्माक्षरनिवेशितम्
जड उवाच
इत्युक्त्वा प्रददौ तस्मै सौवर्णं साङ्गुलीयकम् ।
आशिषश्चापि या योग्याः परुषस्य गृहे सतः
ततः कुबलयाश्वो ऽसौ सा च देवी मदालसा ।
पुत्राय दत्त्वा तद्राज्यं तपसे काननं गतौ
मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0