भाषा

ENहिગુ
ग्रंथ पाठ

मार्कण्डेय पुराण · अध्याय 25

25.1

इति श्रीमार्कण्डेयपुराणे मदालसाप्राप्तिर्नाम चतुर्विशो ऽध्यायः
पञ्चविंशो ऽध्यायः
जड उवाच
आगम्य स्वपुरं सो ऽथ पित्रोः सर्वमशेषतः ।
कथयामास तन्वङ्गी यथा प्राप्ता पुनर्मृता

25.2

ननाम सा च चरणौ श्वश्रूश्वशुरयोः शुभा ।
स्वजनञ्च यथापूर्वं वन्दनाश्लेषणादिभिः

25.3

पूजयामास तन्वङ्गी यथान्यायं यथावयः ।
ततो महोत्सवो जज्ञे पौराणां तत्र वै पुरे

25.4

ऋतध्वजश्च सुचिरं तया रेमे सुमध्यया ।
निर्झरेषु च शैलानां निम्नगापुलिनेषु च

25.5

काननेषु च रम्येषु तथैवोपवनेषु च ।
पुण्यक्षयं वाञ्छमाना सापि कामोपबोगतः

25.6

सह तेनातिकान्तेन रेमे रम्यासु भूमिषु ।
ततः कालेन महता शत्रुजित् स नराधिपः

25.7

सम्यक् प्रशास्य वसुधां कालधर्ममुपेयिवान् ।
ततः पौरा महात्मानं पुत्रं तस्य ऋतध्वजम्

25.8

अभ्यषिञ्चन्त राजानमुदाराचारचेष्टितम् ।
सम्यक् पालयतस्तस्य प्रजाः पुत्रानिवौरसान्

25.9

मदालसायाः सञ्जज्ञे पुत्रः प्रथमजस्ततः ।
तस्य चक्रे पिता नाम विक्रान्त इति धीमतः

25.10

तुतुषुस्तेन वै भृत्या जहास च मदालसा ।
सा वै मदालसा पुत्रं बालमुत्तानशायिनम् ।
उल्लापनच्छलेनाह रुदमानमविस्वरम्

25.11

शुद्धो ऽसि रे तात ! न ते ऽस्ति नाम
कृतं हि ते कल्पनयाधुनैव ।
पञ्चात्मकं देहमिदं तवैतन्
नैवास्य त्वं रोदिषि कस्य हेतोः

25.12

न वा भवान् रोदिति वै स्वजन्मा
शब्दो ऽयमासाद्य महीशशूनुम् ।
विकल्प्यमाना विविधा गुणास्ते
ऽगुणाश्च भौताः सकलेन्द्रियेषु

25.13

भूतानि भूतैः परिदुर्बलानि
वृद्धिं समायान्ति यथेह पुंसः ।
अन्नाम्बुपानादिभिरेव कस्य
न ते ऽस्ति वृद्धिर्न च ते ऽस्ति हानिः

25.14

त्वं कञ्चुके शीर्यमाणे निजे ऽस्मिंस्
तस्मिंश्च देहे मूढतां मा व्रजेथाः ।
शुभाशुभैः कर्मभिर्देहमेतन्
मदादिमूढैः सञ्चुकस्ते ऽपिनद्धः

25.15

तातेति किञ्चित्तनयेति किञ्चिद्
अम्बेति किञ्चिद्दयितेति किञ्चित् ।
ममेति किञ्चिन्न ममेति किञ्चित्
त्वं भूतसङ्घं बहुमानयेथाः

25.16

दुः खानि दुः खोपगमाय भोगान्
सुखाय जानाति विमूढचेताः ।
तान्येव दुः खानि पुनः सुखानि
जानात्यविद्वान सुविमूढयेताः

25.17

हासो ऽस्थिसन्दर्शनमक्षियुग्मम्
अत्युज्ज्वलं तर्जनमङ्गनायाः ।
कुचादिपीनं पिशितं घनं तत्
स्थानं रतेः किं नरकं न योषित्

25.18

यानं क्षितौ यानगतञ्च देहं
देहे ऽपि चान्यः पुरुषो निविष्टः ।
ममत्वबुद्धिर्न तथा यथा स्वे
देहे ऽतिमात्रं बत मूढतैषा

मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc