मञ्जुश्रीमूलकल्प · अध्याय 34
इति ॥
आर्यमञ्जुश्रीमूलकल्पात् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् एकत्रिंशतिमः कर्मक्रियाविधिनिमित्तज्ञाननिर्देशपटलबिसरः परिसमाप्तः ॥
अथ चतुस्त्रिंशः पटलविसरः ।
अथ खलु भगवां शाक्यमुनिः पुनरपि तं शुद्धावासभवनमवलोक्यः मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । शृणु मञ्जुश्रीः त्वदीयमुद्रातन्त्रं सरहस्यं परमगुह्यतमं अप्रकाश्यमश्राद्धसत्त्वतथागतशासने ऽनभिप्रसन्नं असमयानुज्ञानत्रिरत्नवंशानुच्छेदनकरे अकल्याणमित्रपरिगृहीते पुण्यकामे दुष्टजनसम्पर्कव्यतिमिश्रिते पापमित्रपरिगृहीते दूरीभूते बुद्धधर्माणां निःफलीभूते कल्पे ऽस्मिन्नाचार्यानुपदेशे अवभिषिक्त तव कुमार परमगुह्यतमे मण्डले अदृष्टसमये तथागतकुले असमन्ते जने अप्रकाश्य सर्वभूतानां त्वन्मन्त्रानुवर्त्तिनां ॥
अश्राद्धो बुद्धधर्माणां दूरीभूतो हि बोधये ।
न तस्या दापयेन्मुद्रां तन्त्रं चैव न दर्शयेत्
प्रमादान्मोहसम्मूढः लोभाद्या यदि दापयेत् ।
न सिद्ध्यन्ते तन्त्रमन्त्रा वै विपरीतस्य जापिनः
असान्निध्यं कल्पयेन्मुद्रां मन्त्राश्चैवमन्यथा ।
सिद्धिं न लभते क्षिप्रंश्च शरीरेणापि हीयते
सौम्यानां श्राद्धचित्तानां समये तत्त्वदर्शिनाम् ।
तन्त्रमन्त्रप्रवृत्तानां मुद्रातन्त्रं प्रकाशयेत्
त्रिरत्नपूजका ये च प्रसन्ना जिनशासने ।
विधिप्रयोगदृष्टानां तेषां मुद्रा प्रकाशयेत्
बोधिचित्तविधिज्ञानां बोधिचित्तविभूषिताम् ।
नित्यं बोधिमार्गस्थां तेषां मुद्रां प्रकाशयेत्
तन्त्रमन्त्रप्रयुक्तानां समये दृष्टपरापराम् ।
महाबोधो प्रतिच्छूनां तेषां मुद्रां प्रकाशयेत्
प्रसन्नानां जिनपुत्रेषु तेषु श्रावकखड्गिणाम् ।
दृष्टधर्मफलं येषां तेषां मुद्रां प्रकाशयेत्
अविकल्पितधर्माणां श्राद्धानां गतिमत्सराम् ।
शास्तुर्वचनयुक्तिज्ञां तेषां मुद्रां प्रकाशयेत्
मुद्रा मुद्रिता ह्येते प्रमाणस्था साष्टशतं तथा ।
न चातिरिक्ता न चोनाश्च साक्षाद् बुद्धैः प्रकाशिताः
मञ्जुश्रियस्य कल्पे वै मन्त्राश्चैव तत्समा ।
साष्टं शतमित्युक्तं मन्त्राणां तत्समोदिताम् ।
मुद्राश्चैव शताष्टं तु कथिता मुनिवरैः पुरा
एतत्प्रमाणं तु कल्पस्य मुद्रामन्त्रसमुद्भवे ।
कोशं सर्वबुद्धानां मन्त्रकोशमुदाहृतम्
मुद्रा मन्त्रसमोपेताः संयुक्तः क्षिप्रकर्मिकः ।
न चक्रेण विना स्पन्दं युक्तिमुत्पद्यते रथे
तथैव सर्वमन्त्राणां मुद्रावर्जं न कर्मकृत् ।
मन्त्रा मुद्रसमोपेता संयुक्ता क्षिप्रकर्मिका
सर्वमावर्त्तयं ह्येते त्रैलोक्यससुरासुरम् ।
किं पुनर्मानुषे लोके अन्यकर्मेषु संस्कृते
दृष्टधर्मफलो ह्येतां मुद्रामन्त्रेषु दृश्यते ।
संयुक्तः उभयतः शुद्धां विधियुक्तेन दर्शिता
आवर्तयन्ति भूतानां जिनाग्राणां तु ससूनुताम् ।
मन्त्रं मुद्रतपश्चैव त्रिधा कर्म करे स्थितम्
यथेष्टा सम्पदां कृत्स्नां प्राप्नुयाज्जपिनस्तथा ।
मन्त्राणां मुद्रिता मुद्रा मन्त्रैश्चापि मुद्रिता
न मन्त्रं मुद्रहीनं तु न मुद्रा मुद्रवर्जिता ।
मुद्रा मन्त्रसमोपेता संयुक्ता सर्वकर्मिका
अन्योन्यफला ह्येते अन्योन्यफलमुद्भवा ।
साधके युक्तिमायुञ्जे न सार्धं कर्म न विद्यते
सिध्यन्ते सर्वमन्त्रा वै मुद्रायुक्तास्तु रूपिनाम् ।
विधिदृष्टः प्रयुक्तस्तु मन्त्रं + + समुद्रितम्
न सौ विद्यति तत् स्थानं यत्राकृष्टो न सिद्ध्यति ।
भवाग्र्या वीचिपर्यन्तं लोकधात्वगतिं तरम्
यत्राविष्टो न चाकृष्टः असाध्यो यो न विद्यते ।
न सौ संविद्यते कश्चित् सत्त्वो यो निवर्तितुम्
महर्द्धिका बोधिसत्त्वापि आकृष्यन्ते विधिवादिता ।
असमर्त्था बोधिसत्त्वापि दशभूमिसमाश्रिता
रक्षाविधानभेतुं वा कर्मसिद्धि निवारितुम् ।
अधृष्यः सर्वभूतानां मन्त्रमुद्रसमासृताः
सर्वभूतानां यो हि मन्त्रे समाश्रितः ।
मुद्रा प्रयोगयुक्ता वै एते रक्षासमुद्भवा
उद्भूतिः सर्वमन्त्राणां सर्वमन्त्रेषु दृश्यते ।
मन्त्रातः सर्वमुद्राणां अन्योन्यसमासृताः
रूपजापविधिर्मार्गे होमकर्मे प्रयुज्यते ।
अतो जात तथासिद्धिः मुद्रा मन्त्रेषु दृश्यते
जापिनो नित्यमुद्युक्तः सदा तेषु प्रतिष्ठितः ।
सिद्ध्यन्ते सर्वमन्त्रा वै अवन्ध्यं मुनिनां वचः
वचनं सर्वबुद्धानां अन्यथाकारितं हितैः ।
+ + + + + + + + + + + + मन्त्रतन्त्रेषु युक्तितः
कारितं यैर्विधिर्मुक्ता अशेषं मन्त्रमुद्रया ।
एतत् कुमार मञ्जुश्रीः कथयामि पुनः पुनः
अशेषमन्त्रमुक्तिस्तु मुद्रा तत्र हितोदयम् ।
तां वन्दे कल्पराजे ऽस्मिं नैस्तारिकं फलसम्भवम्
हितं गुह्यतमं लोके मुद्रातन्त्रं समुद्धितम् ।
ततो ऽसौ युक्तिमां श्रीमां सहिष्णुर्बालरूपिणः
ईषस्मितमुखो भूत्वा कुमारो विश्वसम्भवः ।
बोधिसत्त्वो महावीर्यः दशभूमिसमा तः
प्रयच्छ मुनिना श्रेष्ठं बुद्धमादित्यबान्धवम् ।
यदेतत्कथितं लोके भगवन्मन्त्रकारणम्
पूर्वकैरपि सम्बुद्धैः कथितं तत्पुरा मम ।
अधुना शाक्यसिंहेन किमर्थं सम्प्रकाशितम्
एतन्मे संशयो जातः आचक्ष्व मुनिसत्तव ।
कलविङ्करुतो धीमां ब्राह्मगर्जितसम्भवः
अब्रवीद् बोधिसत्त्वं तु दशभूमिप्रतिष्ठितम् ।
पुराहं बहुकल्पानि संसारे सरता म य
लब्धो ऽयं कल्पराजेन्द्रः मुनेः सङ्कुसुमाह्वयात् ।
तत्र तत्र मया सत्त्वा उपकारकृतं बहु
करुणावशमागत्य प्रणिधिं च कृतं तदा ।
यदाहं बुद्धमग्रो वै सम्भवामि युगाधमे
शासनार्थं करित्वा वै धर्मचक्रानुवर्त्तिते ।
अपश्चिमे च काले वै निर्वास्ये ऽहं यदा भुवि ।
एतत्तु कल्पराजेन्द्रं निर्दिशे ऽहं तवान्तिके
मयापि निर्वृते लोके शून्ये जम्बुसमाह्वये ।
दूरीभूते तथा शास्तुः धर्मकोशे कलौ युगे ।
नाशनार्थं तु सत्त्वानां करिष्यत्येप कल्पराट्
तवैव सम्प्रदत्तो ऽयं कल्पराजा सविस्तरः ।
सत्त्वानामर्थमुद्युक्तः तस्मिं काले भविष्यति
अधर्मिष्ठास्तदा सत्त्वास्तस्मिं काले भयानके ।
अव्यवस्थस्थिता नित्यं राजानो दुष्टमानसाः
मानुषामानुषाश्चापि सर्वे शासनविद्विषाः ।
नाशयिष्यन्ति मे सर्वं धर्मकोशं मयोदितम्
तेष विनयार्थाय मन्त्रकोशमुदाहृतम् ।
तवैतत् कुमार प्रणिधानं पूर्वकल्पानचिन्तिताम्
यावन्ति केचिद् बुद्धा वै निर्वृता लोकबान्धवा ।
तेषां साशनार्थाय करिष्यामि युगे युगे
बालदारकरूपो ऽहं विचरिष्यामि सर्वत ।
मन्त्ररूपेण सत्त्वानां विनेष्यामि तदा तदा
एतत् कुमार तुभ्यं वै प्रणिधानं पुरा कृतम् ।
तत् प्राप्तमधुना बाल निर्देक्ष्यामि तेनैवे
शून्ये बुद्धक्षेत्रे अशरण्ये तदा जने ।
मन्त्ररूपेण सत्त्वानां बालिशस्त्वं समादिशेत्
विनेष्यसि बहुं सत्त्वां सर्वसम्पत्तिदायकः ।
वरदस्त्वं सर्वसत्त्वानां तस्मिं काले युगाधमे
निर्वृते हि मया लोके शून्यीभूते महीतले ।
त्वयैव बालरूपेण बुद्धकृत्यं करिष्यसि
महारण्ये तदा रम्ये हिमवत्कुक्षिसम्भवे ।
नद्या हिरण्यवतीतीरे निर्वाणं मे भविष्यतीति
मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0